सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 600, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 600

५६८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां
लौकिक एव वाक्ये अयं प्रकारः कदाचिद्बुद्धिमधिरोहति न तु वैदिकेषु, तेषु
पुरुषस्य निरस्तत्वात् इति चेत् । न । निरासहेतोरभावात् । तदस्तित्वेऽपि प्रमाणं
नास्तीति चेत् । मा भूदन्यत्, विधिरेव तावदूर्द्धं इव पुंयोगे प्रमाणं श्रुतिकुमार्याः
किमत्र क्रियताम् । लिङो वा लौकिकार्थातिक्रमे य एव लौकिकास्त एव वैदिकास्त-
एव चैषामर्था इति विप्लवेत । तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति
भव सुस्थः।
स्यादेतत् । तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं
स्वतन्त्रेण वक्तृा परमेश्वरेणेति चेत् । न, तेषामनुवक्तृतयाऽभ्यासाभिप्रायमात्रेण
प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायस्याभावात् । भावे वा न राजशासनानुवादिनोऽ-
भिप्राय आज्ञा, किं नाम राज्ञ एवेति लौकिकोऽनुभवः॥ १५ ॥
श्रुतेः खल्वपि—
कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः ।
स्वार्थद्वारैव तात्पर्यात् तस्य स्वर्गादिवद्विधौ ॥ १६ ॥
प्रकाशः ।
ष्टसाधनम् । न कलञ्जं भक्षयेदित्यस्य कलञ्जभक्षणं मम बलवदनिष्टसाधनं मदिष्टसाधनत्वे सत्यपि
मदाप्तेन मत्प्रयत्नविषयतयाऽनिषिध्यमानत्वात् । यथा मत्पित्रा मत्प्रयत्नविषयतयाऽनिषिध्यमानं मधुवि-
षसम्पृक्तान्नभोजनं ममानिष्टसाधनम् ।
लिङादीनां साक्षात् प्रवर्त्तकज्ञानजनकत्वे बाधकाभावान्न परम्पराजनकत्वमिति न वाच्यम् ।
अनन्यलभ्यस्य शब्दार्थत्वनियमे कर्त्रादेरिवान्यलभ्यत्वस्य हेतुत्वादित्यादेश्च बाधकत्वात् ।
त्वयाऽपि स्वकृतिसाध्येष्टसाधनतामन्तराऽनुमापयता शब्दस्य साक्षात् प्रवर्त्तकत्वानङ्गीकारा-
च्चेति भावः।
विधिरेवेति । नन्वेवमन्योन्याश्रयः, न वा लाघवं तात्पर्यगौरवात्, ईश्वरायनन्तकल्पना-
पत्तेश्च । मैवम् । लोके आज्ञाभिप्राये लिङः शक्तिग्रहाद्वेदे परिशेषादीश्वराभिप्राये पर्यवसानात् । न तु
तत्रैव शक्तिः । यथा तवैव कार्यशक्तस्य लिङादेरपूर्वे पर्यवसानम् । फलमुखञ्च गौरवं न दोषाय ।
शक्तिग्रहकाले सिद्धधसिद्धिपराहतत्वात्, ईश्वरे मानान्तरोपदर्शनाच्चेति भावः ।
एतदेवाभिप्रेत्याह य एवेति । लोकदृष्टा एव पदार्था वेदे प्रत्यभिज्ञायमानाः कथमन्य इत्यर्थः ।
अनर्थकत्वेति । गृहीतसङ्केतैर्लोकिकपदादन्यत्वेनागृहीतसङ्गतिकत्वादित्यर्थः । तेषामिति । उपाध्याय-
वंशानामतीन्द्रियार्थज्ञानाभावात्तत्रेच्छा न सम्भवतीति शुकादीनामिव तावत्पदज्ञानात् विवक्षात्थोच्चा-
रयितृत्वमात्रमित्यर्थः ।
स्वार्थद्वारैवेति । मुख्यार्थाबाधात्तत्रैव श्रुतेस्तात्पर्यमिति नान्यपरत्वमित्यर्थः ।
प्रकाशिका ।
चेति भावः । हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादिकारिकोक्तौ इत्यर्थः । त्वयापीति ।
स्वांशस्याशक्यत्वात्तद्घटितस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः । तात्पर्यगौरवादिति ।
मकरन्दः ।
हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादेश्चेत्यर्थः ।
टिप्पणी ।
प्रथमश्लोकोक्तश्रुतेरित्यस्य व्याख्यान्तरमाह श्रुतेः खल्वपीति । स्वर्गादिवदिति । यन्न
दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्याद्यर्थवादो
यथा स्वर्गाद्यर्थप्रतिपादनद्वारा स्वर्गकामो यजेतेत्यादिविधिवाक्येन सहैकवाक्यतां प्रतिपद्यमानः