न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४५
चन्दनमित्यादयो व्याख्याताः । तथाचाभावविप्रषेऽपोन्द्रियसामर्थ्यस्य दुरपह्नवत्वा-
दलमसद्ग्रहहेतेरिति ॥ २१ ॥
स्यादेतत्, नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् । न च
विशिष्टसामर्थ्ये केवलविशेषणेऽपि सामर्थ्यं, केवलसौरभेऽपि चक्षुषो वृत्तिप्रस-
ङ्गात् । अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः ।
अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येत ? । न च मानान्तरस्या-
प्येषा रीतिः । अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् । अप्राप्तेश्च । न
ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति । न च विशेषणत्वं, सम्बन्धन्तरपूर्वक-
बोधिनी ।
दनेन तेऽपि प्रत्यया गन्धज्ञानसहकृतया त्वचा वा चक्षुषा वा जायन्ते न त्विन्द्रियसमाहारेणेति
व्याख्यात इति । एवमुक्तप्रकारेण विशिष्टज्ञान इवेन्द्रियस्याभावेऽपि सामर्थ्यमवर्जनीयमित्युपसंहरति
तथा च इति ॥ २१ ॥
अथानुपपत्तितुष्टयेनाभावप्रत्यक्षत्वं पूर्वपक्षी प्रतिक्षिपति स्यादेतत् इति । अघटं भूतलमिवि
विशिष्टबुद्धेः पूर्वमेव विशेषणस्याभावस्य ग्रहणं वक्तव्यं विशेषणग्रहणकार्यत्वात् विशिष्टबुद्धेर्न च
विशिष्टे सामर्थ्यमस्तीति विशेषणेऽपीन्द्रियस्य सामर्थ्यमतिप्रसङ्गात् , तस्मादभावात्मनो विशेषणस्य
ग्रहणाय षष्ठं प्रमाणमास्थेयम् । यदि वा भाव ऐन्द्रियकः सविकल्पको ग्राह्यः, ततो निर्विकल्पकेनासौ
पूर्वं ग्रहीतव्यः निर्विकल्पपूर्वकत्वात् विकल्पस्य । न चाभावे निर्विकल्पकसंभवः प्रतियोग्यवच्छेदेनैव
तस्य स्फुरणात् । न च षष्ठप्रमाणवादिनोऽप्ययं प्रसङ्गः ऐन्द्रियकविकल्पस्यैव तत्पूर्वकत्वनियमात् ।
न चाभावस्येन्द्रियेण प्राप्तिः संभवति संयोगादीनां भावधर्मत्वात् , विशेषणविशेष्यभावलक्षणस्य च
संबन्धस्य संयोगसमवायादिसम्बन्धान्तरपूर्वकत्वेनैव दण्डिनीलोत्पलादिषु दृष्टत्वात् । किंच
अभावप्रत्यक्षत्ववादिनापि प्रतियोगिनोऽनुपलब्धिरवश्यमिन्द्रियसहकारित्वेनाप्यङ्गीकर्त्तव्या, तथा
चोभयसिद्धा सैवाभावज्ञानहेतुरस्त्विति ।
प्रकाशः ।
चन्दनविशेष्यकं जन्यते, चन्दनसौरभमिति ज्ञानं चक्षुरुपनीतचन्दनविशेषणकं सौरभविशेष्यकं
घ्राणेन जन्यते, यदिन्द्रियजन्यं यज्ज्ञानं तत्तदिन्द्रिययोग्यविशेष्यकमिति व्याप्तेरित्यर्थः ॥ २१ ॥
ननु घटाभाववद्भूतलमित्यपि धीरनुपलब्ध्युपनीताभावविशिष्टबुद्धिरिन्द्रियेण जन्यते, तथाच
विशिष्टज्ञानस्यैन्द्रियकत्वेऽपि विशेषणज्ञानायानुपलब्धिर्मानान्तरं सौरभज्ञानाय घ्राणमिवेत्याह-
नागृहीतेति । प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वेन व्याप्तेर्नाभावे सविकल्पकैकवेद्ये
तदस्तीति नाभावज्ञानं प्रत्यक्षमित्याह अपि चेति । अनुपलब्धिजन्याभावज्ञाने तु न तज्जन्यत्व-
मसाक्षात्कारित्वाच्छब्दादाविवैत्याह न चेति । अप्राप्तेश्चेति । इन्द्रियाणां प्राप्यार्थग्राहकत्वाद्वि-
त्यर्थः । न च तत एव संयोगादिवाधेनैहैव विशेषणताप्राप्तिः कल्प्येत्याह न चेति । विशेषण-
तायाः समवायादिसम्बन्धान्तरव्याप्तत्वात्तद्वाधे विशेषणत्वस्यापि बाधादित्यर्थः । सम्बन्धस्य
सम्बन्धिभिन्नत्वनियमेण ग्राह्यस्वरूपस्यासम्बन्धत्वनिश्चयात् समवायानानभ्युपगमेनान्यत्र तदकल्प-
नाच्च । न चाभावस्येन्द्रियग्राह्यत्वसिद्धाविहैव तत्कल्पनम् । विशेषणताकल्पने सत्यभावः प्रत्यक्षः,
तत्सिद्धौ च तत्कल्पनमित्यन्योन्याश्रयादिति भावः । एवमभावबुद्धौ इन्द्रियाणां करणत्वं निरस्या-
प्रकाशिका ।
तत्रापि प्रमाणसमाहार इति भावः । यदिन्द्रियेति । बहिरिन्द्रियजन्ये चायं नियम इत्यवधेयम् ॥
ननु समवायस्थल एव विशेषणता कॢप्तेत्यत आह समवायेति । समवायस्य तत्तत्प्रत्य-
४४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्याया-
त्वात् तस्य । अवश्यमभ्युपगन्तव्यत्वाच्चानुपलब्धेः, न हि तदुपलब्धौ तस्याभा-
वोपलम्भ इति चेत् । उच्यते—
अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात् ॥
प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः ॥ २२ ॥
स ह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेद् यस्यावच्छेदकज्ञानं न व्यञ्ज-
बोधनी ।
समाधत्ते उच्यते इति । अवच्छिद्यतेऽनेनेति अवच्छेदः प्रतियोगी, तद्ग्रहणस्याभाव-
निरूपणोऽवश्यंभावः । प्रतियोगिनिरूपणाधीननिरूपणोऽभाव इति यावत् । तस्माद्विशेषणत्वे-
ऽपि न केवलस्याभावस्य पूर्वग्रहणं, नापि विकल्पवेद्यत्वेऽपि पूर्वमालोचनमास्थेयम् । एतदुक्तं
भवति—न हि पूर्वग्रहणे विशेषणत्वं प्रयोजकं, नाप्यालोचनीयत्वेन विकल्पवेद्यत्वं किन्तु प्रतियोगि-
निरपेक्षनिरूपणीयत्वं ज्ञानसमवायादौ तथावसायात् । अथाभावज्ञानस्यावच्छेदग्रहो ध्रुवो नाङ्गीक्रियेत
तर्हि केवलस्याभावस्य पूर्वग्रहणमालोचनं च को नाम नाङ्गीकुर्यात् । विशेषणविशेष्यरूपस्य
संबन्धस्य संबन्धान्तरपूर्वकत्वनियमाभ्युपगमे च संबन्धान्तरस्यापि सम्बन्धपूर्वकत्वप्रसङ्गेऽनवस्था-
प्रसङ्गः । न चेदयमस्मदुक्तप्रकारोऽङ्गीक्रियेत ततः प्रमाणान्तरपक्षोऽपि दुर्घटः स्यादिति । तत्राद्यचो-
द्योत्तरतयाद्यं पदं व्याचष्टे स हि इति । एषां हि दण्डकुण्डलादीनामर्थानाम् अर्थान्तरज्ञाननिरपेक्षैः
स्वविषयैरेव ज्ञानैरितरेतरव्यवच्छेदः सिद्ध्यति, त एव विशेषणीभवन्तः केवला अपि स्फुरेयुः ।
येषां तु ज्ञानसमवायाभावादीनां स्वस्वगोचरं ज्ञानव्यञ्जकमात्रं न तु व्यवच्छेदकं, न हि ते प्रतियो-
गिज्ञाननिरपेक्षैरेव स्वविषयज्ञानैः स्वेतरव्यवच्छिन्नाः प्रतीयन्ते तेषां केवलस्फुरणमन्तरेणैव
प्रकाशः ।
नुपलब्धेः करणत्वमनन्यगतिकतयोपपादयति अवश्येति । शुक्तौ रजतानुपलब्धेरभावादिनिन्द्रियसंब-
द्धस्यापि रजताभावस्याग्रहेणावश्यकत्वादित्यर्थः ॥
विशिष्टज्ञानमात्रस्य न विशेषणज्ञानजन्यत्वनियमः, अवच्छेदग्रहानियतज्ञानविषयत्व-
स्योपाधित्वादित्याह अवच्छेदेति । ध्रौव्यं नियमः । अभावत्वेन अभावज्ञानस्य प्रतियोग्या-
दिज्ञानजन्यतया विशिष्टज्ञानसामग्र्यस्त्येवेति न केवलमभावो भासते, अतो न निर्विकल्पकविषय
इत्यर्थः । अथाभावज्ञानं प्रतियोग्यादिज्ञानानपेक्षं, तर्ह्यभावोऽपि निर्विकल्पकविषय एवेति सिद्धसाध-
नमित्याह अध्रौव्ये इति । अभावंश्च सम्बन्धन्तरं विनाऽपि स्वरूपेणैव विशेषणं, सम्बन्धन्तर-
सत्त्वे तत्रापि तत्कल्पनादनवस्थापत्तेः । यदि च नैवं, तदा त्वन्मतेऽपि वक्ष्यमाणो दोष इत्याह
प्राप्त्यन्तरे इति ॥
स हीति । अवच्छेदकस्य प्रतियोग्यादेर्विशेषणस्य जन्यज्ञानं विना यत्र विशिष्टज्ञानसामग्री
प्रथमतोन भवति, स एवार्थोऽग्रे विशिष्टज्ञानविषयः पूर्वं निर्विकल्पकविषय इति विपयमुखी व्याप्ति-
प्रकाशिका ।
क्षत्वस्य चानभ्युपगमनेत्यर्थः । विशिष्टज्ञानमात्रस्येति । विशिष्टप्रत्यक्षमात्रस्य न विशे-
षणनिर्विकल्पजन्यत्वनियम इत्यर्थः । अवच्छेदग्रहेति । अवच्छेदग्रहनियतं ज्ञानं यस्य तन्मात्र-
विषयकत्वस्येत्यर्थः । अभावत्वेनेति । सामान्याप्रकारकाभावज्ञानस्येत्यर्थः । तेन प्रकृतसंगतत्वम् ।
अवच्छेदकस्येति । विशेषणज्ञानाभावेन विशिष्टज्ञानसामग्रीविरहेऽपि यत्र ज्ञानसामान्यसामग्री
तत्रैव निर्विकल्पकमित्यर्थः । पौनरुक्त्यं परिहरति विपयमुखीति । विशेष्येति । ययोक्त-
मकरन्दः ।
विशिष्टज्ञानमात्रस्येति । विशिष्टप्रत्यक्षमात्रस्य न विशेषणनिर्विकल्पकजन्यत्वनियम इत्यर्थः ।
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ५४७
कम् । स च विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञा-
प्यते । यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव
सामर्थ्यान्नायं विधिः । स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपा-
दावभ्युपगता, इह त्वनवस्थादुःस्थतया न तदभ्युपगमो, न तु स्वभावप्रत्यासत्ति-
रेतावत्तैव विफलायते । न चेदेवं, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात् । तथाहि—
बोधनी ।
विशिष्टज्ञानगोचरत्वमिति द्वितीयस्यापि चोद्यस्य तमेवोत्तरतया व्याचष्टे स च विकल्पयितव्य
इति । तैरेव विकल्पवेद्यैः भवद्भिः पूर्वमालोचनविषयैर्भवितव्यं ये प्रतियोगिनिरपेक्षैरेवेन्द्रियैः
ज्ञाप्यन्ते यथा घटादयः, ये तु प्रतियोगिज्ञानपुरःसरमेव जायन्ते यथा ज्ञानादयः तेषां निर्विकल्पक-
वेद्यत्वासंभवात् न तत्पूर्वकत्वमिति ।
अथ पाठक्रममनादृत्यार्थक्रमेण द्वितीयं पादमवसरे व्याख्यास्यंस्तृतीयचोद्योत्तरतया
तृतीयं व्याचष्टे स्वभावेति ॥ स्वाभाविके हि विशेषणविशेष्ये सम्बन्धे सत्यपि रूपा-
दिष्वधिकः समवायादिसम्बन्धो दृष्टत्वादेव स्वीक्रियते, तद्धेतुकत्वेनाभावे तु स्वभावतः
प्राप्तिरस्ति न च सम्बन्धान्तरं दृश्यत इति भावः । तथापि तदभ्युपगमोऽनवस्थादुस्थ
इत्याह इह तु इति ॥ एतावता संबन्धान्तराभावमात्रेणेति तुरीयं पादं व्याचष्टे न चेदेवम्
इति । दौर्घट्यमेवाह तथाहि इति । प्रत्यक्षं साक्षादनुमानादीनि तु परम्परया निर्विकल्पकपूर्वकाणि
प्रकाशः ।
रित्यर्थः । स चेति । जन्यविशेषणज्ञानासत्कृतेन्द्रियजन्यज्ञानगोचरत्वं निर्विकल्पकप्रयोजकमिति
प्रमाणमुखी व्याप्तिरित्यर्थः । अभावस्तु प्रतियोग्यादिविशेषणज्ञाननियतज्ञानविषयत्वेन विशिष्टज्ञाने-
कविषयत्वान्न तथेत्याह यस्त्विति । प्राप्त्यन्तरे इति व्याचष्टे स्वभावेति । यद्यपि घटे रूप-
समवाय इति नानुभवः, तथापि रूपादेः प्रत्यक्षत्वेनेन्द्रियसन्निकर्षाश्रयत्वात् संयोगावाधेनेन्द्रियसम्ब-
न्धघटकतया संयुक्तसमवायादिकल्पनादित्यर्थः । ननु ज्ञानघटयोरिव द्रव्येण रूपादिभिः स्वरूपस-
म्बन्धे नार्थान्तरम् , इन्द्रियसंयुक्तविशेषणतयैव रूपादिभानोपपत्तेः । मैवम् । सम्बन्धानुमितौ हि न
स्वरूपसम्बन्धो विषयः, तत्स्वरूपाणामनन्तत्वेन गौरवात् , किन्तु पक्षधर्मतावलादेक एव सम्ब-
न्धस्तद्विषयो लाघवादिति भावः । इह त्विति । यद्यपि सम्बन्धद्वयसिद्धौ नानवस्था, तथात्वे वा
समवायोऽपि न स्यादनवस्थाऽऽपादकत्वात् , तथाप्याभावो यद्यतिरिक्तसम्बन्धवान् स्यात् सत्तावान्
स्यादित्यव्यवस्थैवानवस्थेत्यर्थः । इन्द्रियञ्च नाप्राप्तग्राहकमिति संयोगादिवाधेनैहैव तत्प्राप्तिर्विशेष-
णता कल्प्येति भावः ॥ प्रमाणान्तरेऽपीति । अनुपलब्ध्याख्यमानान्तरस्वीकारेऽपीत्यर्थः । निर्वि-
प्रकाशिका ।
ज्ञानगोचरमात्रगोचरत्वनिर्विकल्पकजन्यत्वं प्रयोजकमित्यर्थः । घटे रूपसमवाय इति । सर्वसिद्ध
इति शेषः । सम्बन्धघटकतयेति । सम्बन्ध्ररूपतयेत्यर्थः । तथात्व इति । अनवस्थामूलत्वेन
द्वितीयसमवायत्याग इत्यर्थः । सत्तावानिति भावः स्यादित्यर्थः । तेन न सामान्यविशेषाभ्यां व्यभि-
चारः, तदुभयभिन्नत्वेनापादकविशेषणाद्वा संयोगादिवाधेनेति । अद्रव्यत्वेन संयोगावाधात् ध्वंसस्य
समवायिकारणनाशान्नाशप्रसङ्गेन च समवायवाधादित्यर्थः । निर्विकल्पकविश्रान्तत्वं यदि साक्षात्कारप-
मकरन्दः ।
सम्बन्धघटकतयेति । सम्बन्ध्रूपतयेत्यर्थः । सत्तावानिति । न च सामान्यविशेषाभ्यां
व्यभिचारः, तद्भिन्नतवे सतीत्यापादकविशेषणात् । वस्तुतो भावः स्यादित्यर्थः, तेन नोक्तदोषः । ननु
साक्षात्कारत्वावच्छिन्नमालोचनपूर्वकंऽनुमानादिवदभावज्ञानेऽप्यस्त्येव, तद्धेतुप्रतियोग्यादिज्ञानस्य
४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्या-
सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् । न ह्यनुमानादिकमप्य-
नालोचनपूर्वकम् । ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत । न च
तया तदालोचनमेव जन्यते, प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात्,
शक्यत्वे वा किमपराद्धमिन्द्रियेण । तथा सम्बन्धन्तरगर्भत्वनियमेन विशेषण-
त्वस्य, मानान्तरेऽपि कः प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् । परस्य
तादात्म्यमस्तीति चेत् । ननु यद्यसावस्ति, अस्त्येव, न चेन्नैव । न ह्यभ्युपगमेनार्थाः
क्रियन्ते, अनभ्युपगमेन वा निवर्त्तन्ते इति । अवश्यमभ्युपगन्तव्यत्वे कारणत्वं
सिद्धयेद्, न तु मानान्तरत्वम् । अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं
स्याद्, नेन्द्रियम् । अभावोपलम्भे भावानुपलम्भवद् भावोपलम्भे अभावानुपलम्भ-
स्यापि वज्रलेपायमानत्वादिति ॥ २२ ॥
बोधनी ।
तेषां प्रत्यक्षपूर्वकत्वात् तस्य च निर्विकल्पकपूर्वकत्वादिति ॥ यतः सर्वस्यापि प्रमाणस्यायं स्वभावः
तस्मादनुपलब्ध्या प्रमाणान्तरभूतयाप्यालोचितपूर्व एवाभावो विकल्पनीय इत्याह तत इति । अस्तु
तर्ह्यनुपलब्ध्यैवालोचनमित्याह न च इति । आलोचनविषयत्वसंभवे चाभावस्यास्माकमपीन्द्रियेण
तदालोचनं भविष्यतीत्याह शक्यत्वे वा इति । एतेन द्वितीयः पादो व्याख्यातः । परेणापि
प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन वा ग्राह्यः, ततश्च सम्बन्धन्तरपूर्वकत्वनियमे विशेषणविशेष्यभा-
वस्यानवस्थाप्रसङ्गत्वपि तुल्य इत्याह तदभावस्य इति । ननु संयोगाद्यभावेऽपि तादात्म्यात्मक-
सम्बन्धन्तरमभ्युपगम्यते भाट्टैस्ततो न तुल्यत्वमित्याह परस्य इति । यदि हि तादात्म्यं प्रमाण-
तोऽस्ति ततोऽस्तीति स्यात् न चैवं प्रमाणाभावादित्याशयेनाह ननु इति । नन्वस्माभिस्तथाचेदेतद-
भ्युपगम्यत इत्यत्राह न हि इति । न ह्यभ्युपगमसदभावमात्राभ्यां वस्तुनः सदसत्त्वसिद्धिरिति ।
यत्त्ववश्याभ्युपगन्तव्यत्वादनुपलब्धेः सैव प्रमाणमस्त्विति तत्राह अवश्येति । यदावश्याभ्युप-
गम्यत्वमात्रेणानुपलब्धेः प्रमाणान्तरत्वमपि सिद्धयेत् तर्हि भावोपलम्भेऽपि तदभावानुपलब्धिरेव
प्रमाणं भवेत् भावोपलम्भसमयेऽभावानुपलब्धेरवर्जनीयत्वादित्याह अन्यथा इति ॥ २२ ॥
प्रकाशः ।
कल्पकेति । प्रमाणविषयत्वं निर्कल्पकविषयत्वव्याप्यमित्यर्थः । तदभावस्य सम्बन्धन्तराभावस्य ।
तदानीमपि मानान्तरस्वीकारेऽपि । परस्येति । भट्टानामधिकरणे विशेषणत्वं नाभावस्य, किन्तु
तादात्म्यमित्यर्थः । भावाभावयोर्विरोधान्न तादात्म्यं, तथात्वे वा संयोगादिनेवाभावग्रहः स्यादित्या-
शयेनाह नन्विति । यद्यभावोऽस्ति तदा विशेषणत्वमस्त्येवेत्यर्थः । अवश्यमभ्युपगन्तव्यत्वादि-
त्यत्राह अवश्येति । अन्यथेति । अभावज्ञाने यथा भावोपलम्भः प्रतिबन्धकस्तथा भावज्ञानेऽप्य-
प्रकाशिका ।
रम्परासाधारणनिर्विकल्पकप्रयोज्यत्वमुच्यते तदभावज्ञाने(१)ऽस्त्येवेति प्रत्यक्षविषय इत्यपीति
भावः । लिङ्गासङ्गतेराह यद्यभावोस्तीति । अभावत्वे च संयोगादिनेव ग्रहापत्तेरुक्तत्वादिति भावः ।
अभावोपलम्भः प्रतिबन्धक इत्यनन्तरमिति तदभाव एव प्रमाणमिति शेषः । इयञ्च युक्तिरसमी-
मकरन्दः ।
तत्पूर्वकत्वनियमादिति परस्य नानिष्टमित्यत आह प्रमाणविषयत्वमिति । तथा चाप्रयोजकत्वादिना
यथा नेयं व्याप्तिस्तथा प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वव्याप्तिरपीति भावः । लिङ्गासङ्गतेराह
यद्यभावोऽस्तीति । भावरूपत्वे च तस्य संयोगादिनैव ग्रहापत्तेरित्युक्तत्वादिति भावः । तथेति ।
(१) प्रतियोग्यादिनिर्विकल्पप्रायोज्यत्वादिति प्रकृतेऽनिष्टमत आह प्रमाणविषयत्वमिति । तथा-
चेयं व्याप्तिरप्रयोजिका तथा निर्विकल्पकविषय एव ।
५. पञ्चम स्तबक: कार्यत्व, धृत्यादि नव हेतुक ईश्वर-साधन एवं उपसंहार
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम्। ४४६
प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः
प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते ॥
तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवं
देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥
इति तृतीयः स्तवकः ॥ ३ ॥
बोधनी ।
अथ परमेश्वरप्रतिपत्तिव्याजेन परिच्छेदार्थमुपसंहरति प्रत्यक्षेति । बाधकत्वेन शङ्किता-
नामपि सर्वेषां प्रमाणानां कार्यत्वेनेश्वरायत्तात्मलाभत्वादद्यनुमानस्याश्रयासिद्धेरपि तदधीनत्वादागमस्य
च प्रामाण्येऽपि तत्परतन्त्रत्वादुक्तं यन्मुखवीक्षणेति । प्रत्यक्षस्योत्पत्तौ तदपेक्षायामपि प्रामाण्ये
तदनपेक्षत्वादुक्तं प्राय इति । तदयमर्थः-एवमीश्वरस्याधरैरर्वाक्प्रवर्त्तमानैस्तमपि विषयीकर्त्तुम-
शक्नुवद्भिरिति यावत् । यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते तैः प्रत्यक्षादिभिस्तस्य विरोधो
बाधश्च दूरे, तमेवंभूतं सर्वेषां परमपुरुषार्थप्राप्तिहेतुत्वादनुविधेयमेकं समेनाधिकेन वा द्वितीयेन
रहितं असमायां स्वच्छन्दतः प्रवणलक्षणायां लीलायामवद्धरतिं परमेश्वरमुद्भवदतिश्रद्धावन्तो
वयं प्रपद्यामह इति ॥ २३ ॥
इति श्रीमद्रामदेवमिश्रसूनोर्वरदराजस्य कृतौ कुसुमाञ्जलीटीकायां तृतीयः परिच्छेदः ॥
प्रकाशः।
भावोपलम्भः प्रतिबन्धकः स्यादित्यर्थः । एतच्च भावोपलब्धावभावानुपलब्धिः पृष्ठलग्नेवेति व्याच-
क्षाणैरस्माभिः परिशिष्टप्रकाशे विप्रञ्चितमिति तत्रैवानुसन्धेयम् ॥ २२ ॥
स्तवकार्थमुपसंहरन्नेवेश्वरन्नतिं निवध्नाति प्रत्यक्षादिभिरिति । यस्येश्वरस्य मुखवीक्षणैक-
विधुरैरैभिर्ग्राह्यकमानवाधितैः प्रत्यक्षादिभिर्विरोधोदयोऽधरः । अत एव, दूरे । सर्वमनुविधेयं वश्यं
यस्य । असमा चासौ स्वच्छन्दा चेतनान्तराप्रयोज्या या लीला, सैवोत्सवो यस्य, स तथा । दुःखा-
भावैकनिदानत्वात् । अत एवोद्भवदतिश्रद्धा वयं, तं देवानामपि देवं स्तुत्यं प्रपद्यामहे इत्यर्थः ॥२३॥
इति श्रीमन्महामहोपाध्यायश्रीवर्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे तृतीयः स्तवकः ॥३॥
प्रकाशिका ।
चीनेत्यत्र प्रतिपादितं मयेत्याह एतच्चेति । तदधिकरणीयाभावोपलम्भाभावस्य तदधिकरणीय-
भावग्राहकत्वं वाच्यमन्यथातिप्रसङ्गात् एवं तत्सम्बन्धावच्छिन्नत्वाभावोपलम्भाभावस्य तत्सम्बन्धा-
वच्छिन्नभावग्राहकत्वमन्यथातिप्रसङ्गादेव । तथा च निरधिकरणाभावग्रहे निर्विकल्परूपभावग्रहेऽचेन्द्रि-
मेव करणं वाच्यमित्यावश्यकत्वादन्यत्रापि तथा, अभावधीस्तु निरधिकरणा निर्विकल्पकरूपा च न
सम्भवतीति वैषम्यमिति तस्य तात्पर्यम् ॥ २२-२३ ॥
इति महामहोपाध्याय परनामकमैघ ठक्कुरश्रीभगीरथविरचितायां कुसुमांजलिप्रकाशिकायां तृतीयस्तवकः ॥
मकरन्द ।
तथा च भावज्ञानेऽप्यभावानुपलब्धिरेव प्रमाणं स्यादिति भावः ॥ २२-२३ ॥
इति महामहोपाध्यायश्रीरुचिदत्तविरचिते कुसुमाञ्जलिमकरन्दे तृतीयः स्तवकः ॥
५७ न्या० कु०
श्रीगणेशान नमः ॥
न्यायकुसुमाञ्जलौ
चतुर्थः स्तबकः ।
ननु सदपीश्वरज्ञानं न प्रमाणं, तल्लक्षणायोगात्, अनधिगतार्थगन्तुस्तथाभा-
वात्, अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् । न च नित्यस्य सर्वविषयस्य चानधि-
गतार्थता, व्याघातात् । अत्रोच्यते—
अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् ॥
यथार्थानुभवो मानमनपेक्षतयेष्यते ॥ १ ॥
प्रकाशः ।
सत्त्वेऽपि तस्याप्रमाणत्वादिति चतुर्थीं विप्रतिपत्तिमुत्थापयति नन्विति । गन्तुर्बोधकस्य ।
अनधिगतार्थगन्तृत्वञ्च फलप्राक्कालिकसमानाधिकरणज्ञानाविषयविषयकत्वम् । वेदो न प्रमाण-
मप्रमाऽनुभवमूलकत्वादिति भावः । तदेतल्लक्षणं यथार्थत्वेन विशेषितं, न वा ? आद्ये
प्रमाभूतधारावहनबुद्धावव्यापकम्, अन्त्ये च भ्रमेऽतिव्याप्तिरित्याह अव्याप्तेरिति । दृग्
दर्शनं, भावपरतया । अनधिगतार्थविषयकत्वं न लक्षणमित्यर्थः । स्वमते प्रमाणलक्षणमाह
यथार्थेति । अत्रोक्तदोषाभावादित्यर्थः । ननु यथार्थानुभववद् यथार्थस्मृतिरपि प्रमा किं
न स्यात् ? यथार्थत्वस्यैव तन्त्रत्वाद्वानुभवत्वस्य व्यर्थत्वादित्यत आह अनपेक्षतयेति । स्मृतेर्या-
प्रकाशिका ।
कर्तृभ्रमनिरसाय भावपरतामाह गन्तुरिति । ननु पराधिगतेऽपि परस्य ज्ञानमेव प्रमा स्यादत
आह फलेति । उत्तरकालीनं तु ज्ञानमादायाव्याप्तिरिति प्राक्कालिकान्तम् । अन्यदीयज्ञानमादा-
याव्याप्तिरिति समानाधिकरणेति । ईश्वरज्ञानाप्रमात्वे का क्षतिरत आह वेद इति । यद्यपि
भट्टस्येश्वरानङ्गीकारेण हेतोरसिद्धिस्तथापीश्वराङ्गीकारे वेदोऽप्रमानुभवमूलकः स्यात्तथाचाप्रमाणं स्या-
दिति तर्करीत्यैतद् द्रष्टव्यम् । भ्रमेऽतिव्याप्तिरिति । अतिव्याप्तिरपीत्यर्थः । भावपरत्वेन धर्मिम-
लाभेऽपि न लक्षणलाभ इति दृग्पदस्य ज्ञानत्वपरतामाह अनधिगतार्थविषयकत्वमिति ! न
लक्षणं प्रमाणलक्षणम् । प्रमाणेति । प्रमाणलक्षणमित्यर्थः । जन्यानुभवमात्रस्यैव सापेक्षत्वादप्रमात्वापत्तिरत
मकरन्दः ।
ननु पराधिगतेऽर्थे परस्य प्रमोत्पत्तेरनधिगतार्थगन्तृत्वं तत्राव्याप्तमत आह फलेति । उत्तर-
कालीनस्वज्ञानमादायाव्याप्तेराह कालिकान्तम् । एतावता किमित्यत आह वेद इति । यद्यप्येवं
भट्टस्य स्वतोऽसिद्धिः, तथाप्येवमप्रमाऽनुभवमूलको वेदः स्यात्, तथा चाप्रमाणं स्यादिति तर्कविधयै-
तद् द्रष्टव्यम् ।
प्रमाणेति । प्रमालक्षणमित्यर्थः ॥
टिप्पणी ।
गन्तुर्बोधकस्येति । अर्थविषयकत्वेन बोधजनकस्येत्यर्थः । अनुव्यवसायं प्रति व्यवसायस्य
हेतुत्वात् । अनधिगतार्थगन्तृत्वञ्चेति । अनधिगतार्थे या गतिः प्राप्तिः विषयतात्मकसम्बन्धस्त-
त्कर्तृत्वं निरूपकत्वम् । फलप्राक्कालिकेति । अव्यवहितेत्यादिः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५१
न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात्। न चोत्पद्य-
मानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् । नापि पूर्वावि-
विशिष्टतामात्रेणाप्रामाण्यम् । उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् । तद-
नपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् । छिन्ने कुठारा-
दीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पा-
दानुत्पादाभ्यां विशेषात् । तत्फलं प्रमैव न भवति, गृहीतमात्रगोचरत्वात् स्मृति-
वदिति चेत्। न। यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् । अनधिगतार्थत्वे
प्रकाशः।
यार्थ्येऽपि स्वकारणीभूतान्यूनानतिरिक्तविषयानुभवयाथार्थ्यापेक्षा, न त्वनुभवस्येत्यर्थः। अतदधी-
नत्वात्- प्रमात्रपेक्षानधीनत्वादित्यर्थः । पूर्वाविशिष्टता पूर्वज्ञानान्यूनानतिरिक्तविषयतेत्यर्थः ।
यदि चोत्तरज्ञानानपेक्षं पूर्वज्ञानमिति स्वविषये तत् प्रमाणं, तदा पूर्वज्ञानानपेक्षमुत्तरमपि तथेत्याह
तदनपेक्षत्वेनेति । यद्यप्युत्तरज्ञानं विशिष्टज्ञानत्वेन विशेषणज्ञानाऽऽत्मकपूर्वज्ञानापेक्षम् , अन्यथा
सामग्रीतौल्ये धारावाहिधियां क्रमो न स्यात् । तथापि विशेषणमात्रविषयतया तथा, न विशिष्टवि-
षयतयेति भावः । फलोत्पादेति । छिन्ने छिदा न सम्भवति, ज्ञाते तु ज्ञानान्तरं सम्भवत्येवेत्यर्थः ।
प्रकाशिका।
आहान्यूनेति । धारावाहिकबुद्धेरनपेक्षत्वाभावो मा भूदिति स्वकारणीभूतेति । अन्यूनविषय-
कत्वेन च कारणत्वं विवक्षितमिति नोक्तदोषः, अनतिरिक्तपदं यद्यस्ति तदप्यविवक्षितार्थम् । न च
पूर्वज्ञानप्रामाण्यापेक्षा धारावहनस्थले नोत्तरज्ञान इत्येवानातिप्रसङ्गे किमिति तथा कारणता विवक्षितेति
वाच्यम् । तदपेक्षितत्वं हि तन्नियतत्वम्, तच्च तत्राप्यस्त्येव स्मृतावपि तदेव तत्, अनुमितौ लिङ्ग-
परामर्शप्रामाण्याधीनप्रामाण्यापातादतिव्याप्तिरित्यतोऽप्यन्यूनपदं समानाधिकरणपदमधिकं प्रवेशनी-
यम् । अन्यथा वक्तृयथार्थवाक्यार्थज्ञानाधीनप्रामाण्याधीनप्रामाण्ये शाब्दे ज्ञानेऽतिव्याप्तेरिति ।
तदा पूर्वज्ञानानपेक्षमिति । अन्यूनविषयकत्वेन पूर्वज्ञानस्याकारणतया निरुक्तापेक्षा नास्तीत्यर्थः।
इदमेवाग्रे व्यक्तीकरिष्यति । न विशिष्टविषयतयेति । क्रमो न स्यादिति । यद्यपि विशेषण-
मकरन्दः।
नन्वेवमनुभवोऽपि प्रमा न स्यात्, तस्यापि विशेषणज्ञानादिसापेक्षत्वादित्यत आह स्वकार-
णीभूतेति । एतच्च धारावाहिके तादृशपूर्वज्ञानयाथार्थ्यापेक्षयाथार्थ्यतया उत्तरकालेऽतिव्याप्तिवारणा-
यान्यूनानतिरिक्तविषयकत्वेन कारणत्वं विवक्षितम् । तस्य च विशेषणमात्रविषयतया तथात्वमिति
नोक्तदोषः । न च तत्सापेक्षमेव याथार्थ्यं तस्येति वाच्यम् । तत्सापेक्षत्वं हि तन्नियतत्वम् , तच्च
तत्रापि । स्मृतावपि तदेव तत् । लिङ्गज्ञानयाथार्थ्यापेक्षितवमादायातिव्याप्तिवारणायान्यूनेति ।
वस्तुतः पूर्वोक्तातिव्याप्तिवारणार्थमपि तत् । अनतिरिक्तपदं चिन्त्यम् , अतएव परिमले नास्तीति ।
किञ्च स्मृतावपि पूर्वानुभवस्यान्यूनविषयतयैव जनकत्वम् । अतिरिक्तविषयानुभवादपि तदंशे संस्का-
रोद्बोधे स्मृतिदर्शनात् । एवञ्च वक्तृवाक्यार्थज्ञानयाथार्थ्यापेक्षित्यमादाय शाब्दानुभवेऽतिव्याप्तिरि-
त्यपि चिन्त्यम् ।
अन्यथेति । यद्यपि विशेषणज्ञानत्वेनैव हेतुत्वम् तथापि क्रमासम्भवः, तथापि फलंबलेन तत्त-
द्विशेषणज्ञानत्वेन विशेषसामग्रीत्वमिति क्रम इति भावः । न च स्वरूपसत्क्रमिकक्षणोत्पत्तिकत्वेन
क्रमः, सामग्रीतौल्ये तदेव नेत्याशयात् ॥
टिप्पणी ।
तथापि विशेषणमात्रविषयतयेति । अनधिगतार्थविषयकत्वप्रामाण्यवादिनं विशेषण-
विषयत्वेनापि प्रामाण्याङ्गीकारात् तद्वति तत्प्रकारकत्वप्रामाण्यवादिनामेव विशिष्टविषयकत्वे प्रामाण्या-
४५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
सिद्धसाधनात्, साध्यसमत्वाच्च। व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात् ,
बाधितत्वाच्च। न चानधिगतार्थत्वमेव तन्निमित्तं, विपर्ययेऽपि प्रमाव्यवहारप्रस-
ङ्गात्। नापि यथार्थत्वविशिष्टमेतदेव, धारावहनबुद्ध्यव्याप्तेः। न च तत्तत्काल-
प्रकाशः।
साध्यसमत्वादिति। प्रमात्वाभावस्य गृहीतमात्रग्राहित्वरूपतया साध्याविशेषादित्यर्थः। व्यव-
हारेति। प्रमाशब्दवाच्यत्वव्यतिरेके साध्ये तत्प्रवृत्तिनिमित्तरहितत्वमुपाधिरित्यर्थः। न चायमु-
पाधिः साधनाध्यापक इत्याह न चेति। धारावहनेति। इन्द्रियार्थसन्निकर्षाधारस्तृतीयक्षण-
स्तदिन्द्रियार्थसन्निकर्षजज्ञानोत्पत्त्याधारः, अव्यासक्तमनसो यावत्सहकारिसाकल्ये सत्यनाद्येन्द्रियस-
न्निकर्षाधारक्षणत्वाद् द्वितीयक्षणवदिति धारावहनबुद्धौ मानमाहुः।
ननु सूर्यगत्यादिरूपकालावच्छेदकोपाधिविशिष्टतत्तदर्थविषयत्वेन तासामप्यधिकविषयकत्वम् ,
एकस्मिन् क्षणे यौगपद्यनिषेधेन तस्यावश्यकत्वादित्यत आह न चेति। 'घटोऽयं घटोऽयमित्यादि-
प्रकाशिका।
ज्ञानत्वेनैव हेतुत्वात् क्रमसम्भव एव, तथापि फलबलेन तत्तद्व्यक्तित्वेनैव उत्तरोत्तरं तत्-
ज्ञानं प्रति विशेषसामग्रीत्वमिति भावः। यद्यपि स्वरूपसत एव क्रमिकक्षणोत्पत्तिकत्वेनैव क्रमोप-
पत्तिः, तथापि प्रथमज्ञानोत्पत्तिकाल विनिगमकाभावेन द्वितीयज्ञानस्यैवोत्पत्तिः स्यादिति भावः।
इन्द्रियार्थेति। सन्निकर्षोत्पत्त्यधिकरणक्षणतृतीयक्षण इत्यर्थः। इतरसामग्रीसहकृतत्वं च प्रथमक्षण-
पदार्थविशेषणम्। तेन प्रतिबन्धाकरणेनोत्पत्त्यव्यवधानेन यत्र सन्निकर्षेण ज्ञानं जनितं तत्र
तृतीयक्षणे ज्ञानोत्पत्तेरपि नाभिमतासिद्धिरित्यर्थान्तरमिति प्रत्युक्तम्, साध्ये च पुरुषान्तरीयज्ञानमादा-
यार्थान्तरमिति तदिति सन्निकर्षविशेषणम्। द्वितीयक्षणोत्पन्नज्ञानस्य तृतीयक्षणसत्त्वेनार्थान्तरमित्यु-
त्पत्तीति। व्यासङ्गदशायां व्यभिचार इत्यव्यासक्तेति। व्यासङ्गदशायां ज्ञानोत्पादेऽपि तद्दि-
न्द्रियार्थसन्निकर्षज्ञानाभावाद्भवति व्यभिचारः। यद्यपि व्यासङ्गदशायां तदिन्द्रियमनःसंयोगाभा-
वायावदित्यादि विशेषणादेव न व्यभिचार इत्यव्यासक्तेत्यादि व्यर्थम्। तथापि तदितरयावत्सह-
कारिसाकल्यमेव विशेषणं यावदित्यादिना विवक्षितम्। आलोकादिकिञ्चित्कारणसमवधानदशायां व्यभि-
चार इति यावदिति विशेषणम्। साकल्ये समवधान इत्यर्थः। सन्निकर्षोत्पत्तिक्षणे व्यभिचार इत्य-
नाद्येति क्षणविशेषम्। इन्द्रियपदं तदिन्द्रियपरमतो न पुरुषान्तरीयसन्निकर्षमादाय व्यभिचारः ।
इन्द्रिये व्यभिचार इति क्षणपदम्। नन्वेकक्षणोत्पन्नज्ञानद्वयस्थले द्वितीयज्ञाने तथाप्यव्याप्तिरत आह
एकस्मिन्निति। ननु ज्ञानस्य क्षणविषयत्वे विषयीभूतनियामकाभावादेकक्षणेपि ज्ञानद्वयापत्तिरत
मकरन्दः।
तृतीयक्षण इति सन्निकर्षापेक्षया। एतच्च विनश्यदवस्थप्रथमज्ञानाधारत्वेनार्थान्तरप्रसङ्गिनि-
रासाय तन्त्रे उत्पत्तीति। व्यासङ्गाधारक्षणे व्यभिचारवारणाय अव्यासक्तेति। यद्यपि तदा
ज्ञानमुत्पद्यत एव, तथापि तदिन्द्रियार्थसन्निकर्षज्ञानाभावाद् व्यभिचारः।
यद्यप्येवं व्यासङ्गाभावस्यापि हेतुत्वाद् यावत्सहकारीत्यादिविशेषणाभावादेव न व्यभिचार इति
तद्वैय्यर्थ्यम्, अन्यथा तदा ज्ञानोत्पत्त्यवश्यम्भावापत्तेः। तथापि तदतिरिक्तयावत्सहकारिविवक्षापक्षे
तद् द्रष्टव्यम्, प्रतिबन्धकाभावकारणतावच्छेदकत्ववादिमतेनेदमित्यन्ये। आलोकादिकिञ्चित्सहका-
रिविरहदशायां व्यभिचारादाह यावदिति। साकल्यसमवधान इत्यर्थः। सन्निकर्षोत्पत्त्याधारक्षणे
व्यभिचारादाह अनाद्येति क्षणविशेषणम्। इन्द्रियपदं तदिन्द्रियपरम्, अतो नेन्द्रियान्तरसन्निक-
र्षमादाय व्यभिचारः। ज्ञानोत्पत्त्यनाधारेन्द्रिये व्यभिचारादाह क्षणेति।
टिप्पणी।
ऽङ्गीकारदतो नासङ्गतिः। अनाद्येन्द्रियसन्निकर्षेति। इन्द्रियसन्निकर्षोत्पत्तिक्षणे व्यभिचार-
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५३
कलाविशिष्टतया . तत्राप्यनधिगतार्थत्वमुपपादनीयम् । क्षणोपाधीनामनाकलनात् ।
न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम् , स्वरूपेण
तज्जननेऽनागतादिविशिष्टानुभवविरोधात् । तज्ज्ञानेन तु तज्जनने सूर्यगत्यादी-
नामज्ञाने तद्विशिष्टतानुत्पादात् । न चैतस्यां प्रमाणमस्ति । नन्वनुपकार्यानुपकार-
कयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? । व्यवच्छित्तिप्रत्यायनेन
व्यवच्छित्तौ स्वभावेन, अन्यथा तवाप्यनवस्थानादिति ।
प्रकाशः ।
बुद्धिधारायां विषयभेदानुपलम्भाज्ज्ञानायौगपद्यं स्वरूपसत्क्रमिकक्षणभेदमादायेति भावः । उपाधयो
यदि स्वसत्तया विशिष्टतां जनयेयुः, तदाऽनधिगतधर्माणामविद्यमानतया तद्विशिष्टताऽनुभवो न
स्यादित्याह स्वरूपेणेति ।
अथ स्वासत्त्वेऽपि ज्ञानसत्तया ते तां जनयन्ति, तत्राह तज्ज्ञानेनेति । नन्वसन्तस्ते सत्ता-
मात्रेण, नासन्तश्च स्वज्ञानसत्तया तां जनयन्तीति नोक्तदोष इत्यत आह न चैतस्यामिति ।
एतस्यां विशिष्टतायाम् । विशेषणविशेष्यभावानुपपत्तिं तत्र मानमाह नन्विति । विशेषणेन विशेष्ये
विशिष्टताख्यधर्मोत्पादनं विनैव स्वसम्बन्धादेव व्यावृत्तिबुद्धिजननेन तदुपपत्तिरित्याह व्यवच्छि-
त्तीति । न च विशिष्टज्ञाने सा भासते, विशेषणविशेष्यसम्बन्धातिरिक्तायास्तस्या अननुभवात् ।
ननु चाभावविशिष्टबुद्धेर्विशिष्टज्ञानत्वात् संयोगादिबाधेन वैशिष्ट्यमेव सम्बन्धो विषयोऽस्तु ।
मैवम् । तद्धि प्रत्यभावव्यक्ति भिन्नमभिन्नं वा ? आद्ये तत्तत्स्वरूपरूपा विशेषणतैवास्तु, किमनन्त-
वैशिष्ट्येन । अन्त्ये घटाभाववति पटवति घटाभावधीप्रसङ्गः । घटाभावपटाभाववैशिष्ट्ययोरभेदात् ।
तद्वैशिष्ट्यसत्त्वेऽपि तत्र पटाभावो नास्तीति चेन्न । पटाभावाभावस्य भावत्वे पटस्य प्रतिबन्धकतया
तदभावस्य हेतुत्वात् । तस्य च वैशिष्ट्यसम्बन्धेन तत्र सत्त्वात् । अभावत्वे च तस्यापि वैशिष्ट्य-
प्रकाशिका ।
आह ज्ञानायौगपद्यमिति । ननु चेति । यद्यप्यभावे वैशिष्ट्यसम्बन्धसिद्धावपि घटोऽयमित्यादि-
धारावहनबुद्धावव्याप्तिर्न परिहृता, तथापि तद्दृष्टान्तेन ज्ञानकालानामपि वैशिष्ट्यं स्वीकरणीयं, तदेव
चादायागृहीतग्राहित्वं धारावहनबुद्धेरुपपादनीयमित्यत्र तात्पर्यम् । घटाभाववतीति । इदञ्च
वैशिष्ट्यनिराकरणाभिप्रायेण, प्रकृते त्वनुगतवैशिष्ट्यसिद्धावपि सङ्गतिः तदादायोऽप्यगृहीतग्राहि-
त्वाभावादित्यवधेयम् । अभावत्वे चेति । पूर्वं घटाभावानुरोधेन पटाभाववैशिष्ट्यमस्वीकरणीयमि-
त्युक्तमिदानीन्तु पटाभावाभावानुरोधेनापि तदङ्गीकारणीयमित्यत्र तात्पर्यम् । केचित्तु प्रतियोगिभावा-
मकरन्दः ।
अभावत्वे चेति । अभावात्मनः पटाभावाभावस्य वैशिष्ट्यसम्बन्धेन सत्त्वं स्यात् , वैशि-
ष्ट्यस्यैकत्वाभ्युपगमादित्यर्थः । अधिकं प्रत्यक्षप्रकाशे ।
टिप्पणी ।
धारणायानायेति, ज्ञानयौगपद्यनिषेधेन तस्यावश्यकत्वादिति ज्ञानानामयौगपद्यन्तरसिद्धान्तश्च ।
तृतीयज्ञानस्य द्वितीयज्ञानोत्पत्तिक्षणे दुर्वारसामग्रीसाम्राज्यात् अतोऽकामेन प्रमाणफलीभूतं
सर्वमेव ज्ञानमतिरिक्तविषयकं वाच्यमित्यधिकमानार्थं सामग्रीभेदोऽपि वाच्यस्तथा च प्रथमक्षणे तृती-
यसामग्र्यभावान्न यौगपद्यमतिरिक्तश्च विषयः कालोपाधिरेव तदन्यस्य सर्वस्यैव ग्राह्यस्य प्रथममपि
विद्यमानतया सम्पन्नग्रहणसामग्रोकत्वादित्याशयः । तत्र पटाभावो नास्तीति चेदिति । पटां-
त्मकप्रतिबन्धकसत्त्वादिति शेषः । प्रतिबन्धकतया तदभावस्य हेतुत्वादिति । प्रतिबन्धका-
भावरूपकारणविघटकतयैव प्रतिबन्धकस्य प्रतिबध्यवारकत्वम् । तद् यदि प्रतिबन्धकसत्त्वेऽपि प्रति-
बन्धकाभावस्य सत्त्वमुच्येत, प्रतिबन्धकसत्ता हि सम्बन्धसत्ताधीना वस्तुनः सम्बन्धश्चास्ति
वैशिष्ट्यमिति स्यादेव प्रतिबन्धकाभावसत्त्वमिति भावः । अभावत्वे च तस्यापि वैशिष्ट्य-
४५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
ज्ञाततैवोपधिरिति चेत्। न निराकरिष्यमाणत्वात्। तत्सद्भावेऽपि वा स्मृते-
प्रकाशः।
संबन्धेन तत्र सत्त्वात् । न चाभावेऽपि समवाय एव सम्बन्धः, तत्साधकविशिष्टबुद्धेर्विशेषादिति
वाच्यम् । समवेतकार्यत्वाद् ध्वंसनाशे पटायुन्मज्जनप्रसङ्गात् । न च तत्र भावत्वं तन्त्रं, गौरवाद्वैपरी-
त्यापत्तेश्चेति सङ्क्षेपः ।
ज्ञाततैवेति । पूर्वपूर्वज्ञानाहितज्ञातताविशिष्टमुत्तरोत्तरज्ञानविषय इत्यनधिगतार्थतैव धारा-
वहनबुद्धीनामित्यर्थः । तत्सद्भावेऽपीति । स्मृतिव्यावृत्त्यर्थमनधिगतेति व्यर्थविशेषणम् । तेनापि
च न तद्व्यवच्छेदः । तत्रापि कारणीभूतानुभवजनितज्ञाततासत्त्वेनानधिगतार्थताऽनपायादित्यर्थः ।
अथ स्मृतेर्जनकज्ञानविषयमात्रविषयत्वात् सा स्मृतौ न भासते, तथापि पूर्वपूर्वस्मृतिजनितज्ञा-
प्रकाशिका।
भाव्योरेकत्रैकेन सम्बन्धेन सत्त्वं विरुद्धमिति पटाभावतदभावयोर्नैकः सम्बन्धः इत्यत्र तात्पर्यमि-
त्याहुः । वैपरीत्यापत्तेश्चेति । अभावत्वमेव नाश्यतावच्छेदकमस्तु कार्यत्वविशेषणस्योभयपक्ष-
समानत्वादित्यर्थः । न च तथासति घटनाशो न स्यादिति वाच्यम् । अप्रामाणिकभावत्वविशेषण-
प्रवेशे तस्याप्यापादनीयत्वादिति भावः । तत्रापीति । कारणज्ञानाहितज्ञातताया एव त्वया कार्यज्ञान-
विषयत्वाङ्गीकारादिति भावः । अथेति । स्वाव्यवहितप्राक्कालवृत्तिजनकज्ञानाहितलज्ञानतयैव ज्ञान-
विषय इति नानुभावाहितज्ञातता स्मृतिविषय इत्यर्थः । तथापीति । पूर्वस्मृतेरुत्तरस्मृतिं प्रति विशे-
मकरन्दः।
तथापीति । यद्यपि जनकागोचरत्वमत्रापि तुल्यं, तथाप्यनुपदमेवाशङ्क्य परिहरिष्यतीति
ध्येयम् ।
टिप्पणी
सम्बन्धेनेति। पटाभावाभावसत्त्वानुरोधेनापि वैशिष्ट्यस्य स्वीकरणीयत्वात्तस्याभावत्वे सम्बन्धान्त-
राभावात्, तस्य च स्वीकृतस्यैकत्वेन तेन पटाभावस्यापि तत्र सत्त्वं स्यादभावत्वाविशेषात्, तथा
च विरोध एव दुर्घट इति भावः। वैपरीत्यापत्तेश्चेति । संक्षेप इति । गौरवेणावच्छेदकत्वे
बाधिते भावत्वे तत्स्वीकरणमप्रामाणिकम् । न च ध्वंसनाशकारणस्य फलस्य सत्त्वेन गौरवस्य फल-
मुखत्वान्न बाधकत्वमिति वाच्यम् । विशिष्टबुद्धेः सम्बन्धान्तरेणानुपपत्तेः, समवायविषयकत्वे नाश्यता-
वच्छेदककोटौ भावत्वस्याधिकस्य प्रवेशे गौरवात्, कार्य्यनाशत्वावच्छिन्नं प्रति समवायेन कार्य्यत्वे-
नैव कारणत्वाद् ध्वंसस्यासमवेतत्वादिति ध्वंसनाशवारणस्य फलस्यान्यथासिद्धत्वेन गौरवस्य फल-
मुखत्वाभावेन बाधकत्वानपायात् । एवञ्च प्रामाणिके भावत्वस्य नाश्यतावच्छेदकत्वे स्वीक्रियमाणेऽ-
भावत्वस्यैव तथाविधं तत् किन्न स्याद्, विनिगमकाभावात् । न चाभावत्वस्य तथात्वे घटादीनामनाश-
प्रसङ्ग इति वाच्यम् । तेन च प्रसङ्गेन तस्याप्रामाणिकत्वमेव प्रसञ्जनीयम्; तत्स्वीकृत्यैव हि तत्स्वी-
क्रियत इत्युक्तप्रसङ्गस्यादोषत्वात् । न चेष्टापत्तिर्घटादीनां नित्यत्वप्रसङ्गाद्, भवतामपि हि तन्नेष्टमिति
भावः। अथ स्मृतेर्जनकज्ञानविषयमात्रेति । यतो ज्ञातता स्वान्यवहितपूर्ववर्तिज्ञानाहितैव स्वेन
गोचरीक्रियते, न च स्मृतेरव्यवहितपूर्वोऽनुभव इति स्मृतेर्जनकज्ञानविषयमात्रविषयकत्वव्यवस्थितेर्ज्ञा-
तता स्मृतौ न भासत इत्यर्थः, एवञ्च न तथापीत्यादिग्रन्थासङ्गतिः, अन्यथा जनकज्ञानाविषयज्ञातताया
उत्तरस्मृत्या ग्रहणप्रतिपादनादसङ्गतिः स्यात्, धारावाहिकस्मृतिपक्षे समानविषयकज्ञानत्वमात्रेण
स्मृत्यनुभवकार्य्यकारणभावाभ्युपगमात्, पूर्वस्मृतेरुत्तरस्मृतिजनकत्वादव्यवहितपूर्वत्वात्तजनितज्ञात-
ताग्रहणस्योत्तरेण सम्भवादित्यभिप्रेत्याह तथापि पूर्वपूर्वस्मृतीति। स्मृतेः स्वजनकगृहीतग्राहि-
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५५
रपि तथैव प्रामाण्यप्रसङ्गात् । जनकागोचरत्वेऽप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणज-
नितज्ञाततावभासनात् । अस्तु वा प्रत्यक्षे यथा तथा, गृहीतविस्मृतार्थश्रुतौ का
वार्त्ता । अप्रमैवासाविति चेत् । गतमदानीं वेदप्रामाण्यप्रत्याशया, न ह्यनादौ
संसारे स्वर्गकामो यजेतेति वाक्यार्थः केनचिन्नावगतः, सन्देहेऽपि प्रामाण्यस-
न्देहात् । न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति । न चैकजन्मावच्छेदपरि-
मापयेदं लक्षणं, तत्राप्यनुभूतविस्मृतवेदार्थं प्रति अप्रामाण्यप्रसङ्गात् । कथन्तर्हि
स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव । यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति ।
'तत्त्वज्ञानाद्' इति सूत्रात् , 'अव्यभिचारि ज्ञानमिति' च । ननु स्मृतिः प्रमैव किं
न स्याद्, यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेत् । न । सिद्धे व्यवहारे
निमित्तानुसरणात् , न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम् ,
अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् । न च स्मृतिहेतौ प्रमाणाभियुक्तानां
महर्षीणां प्रमाणव्यवहारोऽस्ति, पृथगनपदेशात् । उक्तेष्वन्तर्भावादनुपदेश इति
चेत्। न। प्रत्यक्षस्य साक्षात्त्वारिफलत्वानुपपत्तेः, लिङ्गशब्दादेश्च सत्तामात्रेण प्रती-
त्य साधनत्वादिति ।
प्रकाशः ।
तताविशिष्टस्योत्तरोत्तरस्मृतौ भानादनधिगतार्थत्वसत्त्वादित्याह जनकेति । न च स्मृतता नोत्त-
रोत्तरस्मृतिविषयोऽनुभवाविषयत्वादिति वाच्यम् । धारावहनबुद्धावप्युत्तरोत्तरबुद्धेः पूर्वपूर्वज्ञानाहित-
ज्ञाततासमानकालोत्पत्तिकत्वेन तत्राऽपि तद्विषयत्वाभावापातादिति भावः ।
अन्यत्र तत्सन्देहेऽप्युभयसिद्धप्रामाण्ये वेदे अधिगतार्थगोचरे प्रामाण्यासम्भव इति दुरुत्तरं
समाधानमित्याह अस्तु वेति । तत्रापीति । एकजन्मनीत्यर्थः । अननुभवत्वेनैवेति । इममर्थमनु-
भवामीममर्थं स्मरामीत्यनुभवसाक्षिकावेवानुभवत्वस्मृतित्वे जातिविशेषावित्यर्थः । तत्त्वज्ञाना-
दिति । ज्ञानपदमत्नुभवपरम् । एवमग्रेऽपि । नन्विति । यथार्थज्ञानत्वमेव प्रमापदप्रवृत्तिनिमित्तं
लाघवाद् , न तु तद्विशेषोऽनुभवत्वमपीत्यर्थः । सिद्ध इति । स्मृतेः प्रमात्वं यदि यथार्थज्ञानत्वमेव
साध्यं, तदा सिद्धसाधनं साध्याविशेषश्च स्यादिति प्रमापदवाच्यत्वं साध्यम् , तत्र च तन्निमित्तत्वमु-
पाधिरित्यर्थः ।
ननु यथार्थज्ञानत्वमेव तन्निमित्तमित्युक्तमित्यत आह न चेति । न च स्मृतीति । यदि
स्मृतौ प्रमापदस्येश्वरसङ्केतः स्यात् , तदा प्रमाणाभियुक्तानां संस्कारे प्रमाकरणत्वव्यवहारः स्यात् ,
न चैवमित्यर्थः । उक्तेषु प्रत्यक्षादिष्वित्यर्थः ।
प्रकाशिका ।
पणज्ञानत्वेन जनकत्वसम्भवादिति भावः । न चेति । संस्कारोपनीतस्यैव स्मृतिविषयत्वादिति
भावः । धारेति । जनकीभूतेन्द्रियसन्निकर्षाश्रयस्यैव साक्षात्कारविषयत्वादिति भावः । ज्ञानपदमिति ।
सूत्रे तत्वज्ञानपदस्य करणव्युत्पत्त्या शास्त्रपरस्य विशेषकतया फलीभूतानुभव एव तात्पर्यत् , न हि
स्मृतिकरणत्वं शास्त्रस्य । एवमव्यभिचारिपदस्यापि प्रत्यक्षफलीभूतानुभव एव तात्पर्यं सूत्रे । तत्रापि
टिप्पणी
त्वनियमादुक्तनियमोपपत्तावपि न ज्ञातताग्रहणसम्भव इत्याह न च स्मृतता नोत्तरोत्तरेति ।
अनुभवाविषयत्वादिति । ज्ञानजनकज्ञानाविषयत्वादित्यर्थः । समानकालोत्पत्तिकत्वेनेति ।
प्रत्यक्षस्यापि स्वप्राक्कालासन्निकृष्टग्राहित्वात् स्वोत्पत्तिक्षणोत्पन्नज्ञातताग्राहकत्वासम्भव , इत्याशयः ।
४५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
एवं व्यवस्थित तर्क्यतेऽपि—यद्यिमनुभवैकविषया सती तन्मुखनिरीक्षणेन
तद्यथार्थत्वायाथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्यवस्थाप्य न यथार्थतया
व्यवहर्तुं शक्यते इति। व्यवहारेऽपि पूर्वानुभव एव प्रमितिरनपेक्षत्वात्। न तु
स्मृतिः, नित्यं तदपेक्षणात्। असमीचीने ह्यनुभवे स्मृतिरपि तथैव।
नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात्। न, विषयभेदात्।
प्रकाशः।
अनपेक्षतयेति विवृणोति—तर्क्यतेऽपीति। अनुभवैकविषया, अनुभवमात्रविषयेत्यर्थः।
तेनास्या विषयान्तरेऽपि न प्रमात्वमिति भावः। तद्यथार्थत्वेति। स्वजनकानुभवयथार्थत्वा-
यथार्थत्वव्याप्ययथार्थत्वायाथार्थत्वेत्यर्थः। तत्प्रामाण्यमिति। स्वजनकानुभवप्रामाण्यमित्यर्थः।
अव्यवस्थाप्य अनवधार्य। यद्यपि स्वजनकानुभवप्रामाण्यमनिश्चित्यापि प्रवृत्तिसंवादादिना अनुभवस्येव
स्मृतेरपि प्रामाण्यग्रहः सम्भवत्येव, तथाऽपि यदि स्मृतिः प्रमा स्यात्, तदा स्वान्यूनानतिरिक्तविषय-
कस्वजनकानुभवप्रामाण्यव्याप्तप्रामाण्या न स्यात्। व्यतिरेके इच्छादिर्दृष्टान्तः। धारावाहनबुद्धिषु
पूर्वपूर्वबुद्धेर्विशेषणमात्रविषयतयोत्तरोत्तरबुद्धिरपेक्षत्वेऽपि, स्मृतौ त्वन्यूनतिरिक्तविषयतयेति न तत्र
व्यभिचारः। धारावाहनबुद्ध्यन्यत्वेन वा विशेषणम्।
शक्यते इतीत्यस्यानन्तरं, न स्मृतिः प्रमेति शेषः। तदपेक्षणमेवाह असमीचीने हीति।
मूलेति। कारणव्याप्त्यादिप्रत्यक्षप्रामाण्यव्याप्यप्रामाण्यादित्यर्थः। विषयेति। व्याप्त्यादिप्रत्य-
क्षस्य लिङ्गलिङ्गिविषयत्वादुमितौ च पक्षतावच्छेदकधर्मभाननैयत्येन तस्याऽधिकस्य भानादित्यर्थः।
प्रकाशिका।
यत इत्याद्याहारेण प्रत्यक्षरूपकरणलक्षणाभिधानादिति भावः। यदि स्मृतिरिति। इदञ्चाव्यव-
धानेनैव विवृतप्रायम्। अत्रापादके प्रमापदं यथार्थानुभवपरम्, अत इच्छादौ तद्व्यतिरेकः। आपाद्ये
चोभयत्र यथार्थत्वपरं प्रामाण्यपदं तेनापाद्यव्यतिरेकस्तत्र अत एवाह व्यतिरेक इति। धारावह-
नेति। तथा चापाद्येऽनुभवस्य तथा जनकत्वं प्रविष्टमिति विशिष्टाभावोऽस्त्येव धारावाहनबुद्धाविति
भावः। तथा च जनकत्वाविवक्षायामाह धारेति। यद्यपि अनुमित्यनन्तरोत्पन्नेन्द्रियसन्निकर्षेण जनितेऽ-
नुमितिसमानविषयप्रत्यक्षे विशेषणज्ञानात्मकतदनुमितिजन्य एवमपि व्यभिचार एव, तथापि स्वान्यू-
नविषयकज्ञानजन्यानुभवत्वमेव धारावहनत्वमिति भावः। विशेष्यस्येति। अतीतादिविशेष्यकपू-
मकरन्दः।
तदास्वाऽन्यूनारिक्तेति। एतच्च प्रागेव विवृतप्रायम्। नन्वापादकस्य प्रामाण्यस्य वैकल्या-
दिच्छादिकं नान्वयदृष्टान्तः, व्यतिरेकदृष्टान्तोऽपि न स्यात्, तादृशानुभवव्याप्तप्रामाण्यवत्त्वस्या-
पाद्यव्यतिरेकस्य व्याप्यत्वाभिमतवैकल्यादिति चेत्। मैवम्। आपाद्ये प्रामाण्यपदद्वयस्य यथार्थत्व-
मात्रपरत्वात्, आपादके च यथार्थानुभवपरत्वात्। एवञ्चेच्छादेरापाद्यव्यतिरेकस्य व्याप्यस्यापाद्य-
व्यतिरेकस्य व्यापकस्य च सत्त्वाद्व्यतिरेकदृष्टान्तत्वमिति।
विशेष्यस्येति। अतीतादिविशेष्यकस्यातुभवस्येत्यर्थः।
टिप्पणी
अनुभवप्रामाण्यव्याप्तेति। आपाद्ये प्रामाण्यं यथार्थत्वमात्रम्, आपादके च यथार्थानुभवत्वं
तथाचेच्छादेर्व्यतिरेकदृष्टान्तत्वसम्भवः। विषयतयोत्तरोत्तरबुद्धिरिति। स्वान्यूनानतिरिक्त-
विषयकत्वावच्छिन्नजनकत्वस्य प्रवेशाद्योक्तापाद्यापादकव्याप्तौ व्यभिचारः, पूर्वज्ञानस्य विशेषणमात्र-
विषयकत्वेन जनकत्वादिति भावः। तस्य तदुपादानज्ञानेति। तस्य ज्ञाततालक्षणस्योपका-
तृतीयस्तवके ] स्मृतिर्मानान्तरत्वखण्डनम्। ४५७
आगमस्तर्हि न प्रमाणं, तद्विषयमानान्तरानुविधानात् । न । प्रमातृभेदात् ।
धारावाहिकबुद्धयस्तर्हि न प्रमाणम्, आद्यप्रमाणानुविधानात् । न । कारणविशुद्धि-
मात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणभावात् , कारणबलायातं काक-
तालीयं पौर्वापर्यमिति ।
यदि हि स्मृतिर्न प्रमितिः पूर्वानुभवे किं प्रमाणम् । स्मृत्यन्यथानुपपत्तिरिति
चेत् । न । तया कारणमात्रसिद्धेः, न तु तेनानुभवेनैव भवितव्यमिति नियामक-
मस्ति । अननुभूतेऽपि तर्हि स्मरणं स्यादिति चेत्, किं न स्यात् । न ह्यत्र प्रमा-
णमस्ति । पूर्वानुभवाकारोल्लेखः स्मृतेर्दृश्यते, सोऽन्यथा न स्यादिति चेत् । तत्
किं बौद्धवद्विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्तवार्थापिष्यते, तथाभूतं ज्ञानमेव
वा तत्सिद्धिः ? । आद्ये तद्वदेवानैकान्तिकत्वम् । न हि यदाकारं ज्ञानं, तत्पूर्वकत्वं
तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् । द्वितीये तु स्मृतिप्रामा-
ण्यमवर्ज्जनीयम् । मा भूत् पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् । न तर्हि
प्रकाशः ।
तथापि श्रोतुर्वाक्यार्थप्रमाया वाक्यप्रयोगमूलतदर्थविषयकज्ञानप्रामाण्यापेक्षित्वात्र प्रमात्वं स्यादि-
त्याह आगम इति । तथात्वेऽपि वक्तृश्रोतृरूपप्रमातृभेदोऽस्ति, स्मृतौ त्वेकस्यैव तथात्वमित्याह
प्रमात्रिति ।
तर्हि विषयप्रमात्रोरभेदाद्धारावहनबुद्धयः पूर्वबुद्ध्यपेक्षाः प्रमा न स्युरित्याह धारेति । यद्यपि
बुद्धिक्रमार्थ्यानुपपत्त्या पूर्वबुद्धेर्विशेषणज्ञानत्वेनोत्तरबुद्धिकारणत्वं, तथापि स्मृतिवदन्यूनविषयतया
न कारणत्वं किन्तु विशेषणमात्रविषयत्वेनेत्युक्तम् । अन्यूनानतिरिक्तविषयत्वन्तु काकतालीयमित्याह
कारणेति ।
नन्वतीतानुभववैशिष्ट्यरूप्रा तत्ता न मानसप्रत्यक्षवेद्या, अनुभवसत्त्वकाले तदतीतत्वाभावात् ,
तदत्ययकाले च विशेष्यासत्त्वादिति स्मृतिरेव तत्र मानमित्यगृहीतविषयतया सा प्रमा स्यादित्याह-
यदीत्यादिना, न तर्हीत्यन्तेन । तत्किमिति । सौत्रान्तिकानां घटाद्याकारज्ञानकादाचित्कत्या-
न्यथाऽनुपपत्त्या घटादिकल्पनवत् तत्ताऽऽकारान्यथाऽनुपपत्त्या पूर्वानुभवकल्पनमित्यर्थः । तथा-
भूतम् । सौत्रान्तिकमते यथाऽनैकान्तिकत्वं, तथा तन्मतेऽपीत्यर्थः । तदेवाह न हीति ।
आकारेण ज्ञानस्यार्थजन्यत्वमनुमेयमर्थसत्त्वमात्रं वा ? आद्ये अनागतार्थस्य वर्तमानज्ञानाकारणत्वा-
दनैकान्तिकम् । अन्त्ये अनागतस्य कादाचित्कत्वेऽपि शुक्तौ सर्वदा रजतत्वाकारत्वऽसत्त्वाद्रजत-
त्वाकारभ्रमेऽनैकान्तिकमित्यर्थः । द्वितीये त्विति । तत्ताविषया स्मृतिरेव तत्तासिद्धिरिति सा प्रमा
स्यादेवेत्यर्थः । तथा च स्मृत्यनुभवयोः कार्यकारणभावान्यथाऽनुपपत्तेः स्मृतिः प्रमेति भावः ।
प्रकाशिका ।
र्वानुभवस्येत्यर्थः । अतीतानुभववैशिष्ट्येति । यद्यप्येतावता पूर्वापरीभावसिद्धावपि न कार्य-
कारणभावसिद्धिरन्यथा योऽहं घटमद्राक्षं सोऽहं घटं स्पृशामीत्यत्रापि तत्सिद्धापत्तेः, तथाप्येवमभ-
योषस्थितौ ( स्मरणे ) अननुभूते स्मरणाभावादन्वयव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः ।
मकरन्दः ।
अतीतानुभववैशिष्ट्येति । यद्यप्येवं पौर्वापर्य्यमात्रं सिध्यति, न तु कार्यकारणभावः,
अन्यथा योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यादावपि तथा स्यात् । तथाप्यननुभूते स्मरणाभावादन्व-
यव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः ।
५८ न्या० कु०
४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति । न । तदप्रामाण्येऽपि पूर्वाऽपरावस्था-
वदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः । योऽहमन्वभवममुमर्थं, सोऽहं स्मरा-
मीति मानसप्रत्यक्षमस्तीति ।
न च गृहीतग्राहित्वमीश्वरज्ञानस्य, तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य ।
प्रकाशः ।
अतीतानुभवविशिष्टे स्मृतिवैशिष्ट्यप्रत्यभिज्ञानं स्मृत्यनुभवयोः कार्यकारणभावग्राहकमित्यन्यथोपपत्त्या
न स्मृतिः प्रमेत्याह तदप्रामाण्येऽपीति । प्रत्यभिज्ञानस्वरूपमाह योऽहमिति ।
ननु केयं तत्ता ? न तावदतीतानुभवविषयत्वम् । अतीतानुभवविषयत्वस्यानुभवाविषयतया
स्मृत्या तदनुल्लेखापत्तेः । न च तस्याऽनुभवाविषयत्वेऽपि यदा ज्ञानान्तरेण ग्रहणं तदा स घट
इति स्मृतिः, अन्यथा प्रमुष्टतत्त्वांशो घट इति वाच्यम् । अतीतानुभवविषयत्वस्यानुमितौ भानेऽपि
स इति बुद्धेरभावात् । नाप्यतीतधर्मवैशिष्ट्यम् । यदि हि यो वस्तुतोऽतीतो धर्मस्तद्वैशिष्ट्यं तत्ता,
तदाऽनुभवेऽपि तद्विषयत्वात्तत्तोल्लेखापत्तिः, अतीतधर्मविशिष्टः स इति सहप्रयोगाद्यनुपपत्तिश्च ।
नाप्यतीतत्वेन भासते यो धर्मस्तद्वैशिष्ट्यम् । भासमानधर्मस्यातीतत्वेनानुभवाविषयत्वात् , प्रत्युत
वर्त्तमानत्वेनाऽनुभवात् , स्मृतौ तत्तोल्लेखानापत्तेः । नाऽप्यतीतसमयसम्बन्धः । अनागतगोचरस्मृ-
तिप्रत्यभिज्ञयोस्तत्तोल्लेखानापत्तेः । इदन्ताऽपि न तद्वृत्तिगुणादि । गुणादावभावात् । नापि प्रत्यक्ष-
ज्ञानगोचरत्वम् । अचाक्षुषत्वापत्तेः ।
उच्यते । अनुभवे य एव धर्मः कालो वा वर्त्तमानत्वेन भासते स एव स्मृतावपि । तयोरेक-
विषयत्वेऽपि स्मृतावेव तच्छब्दोल्लेखः, संस्कारजज्ञानस्यैव तच्छब्दप्रयोगहेतुत्वात् , प्रत्यभिज्ञाने
तथा कल्पनात् । तत्रैव च प्रत्यक्षानुभवेनेदंशब्दप्रयोगः । विषयकृतश्च स्मृत्यनुभवयोर्विशेषो
नास्त्येव । अत एवायं घट इत्यनुभवादयं घट इति न स्मृतिः । स घट इति स्मृतेश्च स घट इति
नानुभवः । सह प्रयोगस्तु धर्मविशेषमादायेत्यस्मत्पितृचरणाः ।
परलक्षणमभ्युपगम्य अनधिगतार्थगन्तृत्वमीश्वरज्ञानेऽप्यस्तीत्याह---
न चेति । ईश्वरस्य ज्ञानान्तराभावान्न तज्ज्ञानं गृहीतग्राहीत्यर्थः । पुरुषान्तरज्ञानान्तरगोचर-
त्वेन गृहीतग्राहित्वे अभिमताऽपि प्रमा न स्यात् ।
अथ तद्विषयज्ञानोत्तरकालवृत्तिसमानाश्रयतद्विषयकज्ञानत्वमेव गृहीतग्राहित्वम् । तन्न । बुद्धिमा-
त्रस्य प्रमात्वाभावापत्तेः । यद्विषया बुद्धिरुत्पन्ना तद्विषयाया एव तस्याः स्वोत्पत्त्युत्तरक्षणेऽपि सत्त्वा-
प्रकाशिका ।
प्रसङ्गादाह इदन्तापीति । संस्कारजेति । एतच्च प्रत्यभिज्ञायाः संस्कारजन्यत्वपक्षे यदा स्मृति-
जन्यत्वं तस्यास्तदाप्यनुभवावृत्त्यात्मविशेषगुणमात्रवृत्तिधर्मवाच्छिन्नकारणताकत्वं तत्त्वोल्लेख-
प्रयोजकं प्रत्यभिज्ञाने च तत्त्वोल्लेखानुरोधादेव स्मृतित्वेन कारणत्वं वाच्यमिति भावः । यद्विषया
बुद्धिरिति । नचोत्तरकालपदेनान्यवहितोत्तरकालो विवक्षित इति वाच्यम् । प्रहरायनन्तरतद्विष-
यकज्ञानेऽपि प्रमात्वव्यवहारेणान्याप्तितादवस्थ्यात् । बुद्धिमात्रस्येत्यादिना निराकृतमप्यर्थं मूल-
मकरन्द ।
तद्विषयेति । न चोत्तरकालत्वं व्यवहितकालत्वं विवक्षितमिति वाच्यम् । मासाद्यनन्तरतद्विष-
यज्ञानस्याप्यप्रमात्वव्यवहारादिति भावः । यद्यपि बुद्धिमात्रस्येत्यादिना निरासान्नेयं शङ्का, तथापि
मूले तदनिरासात्तत्र तद्विरोध इति भावः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५६
न च तदेव ज्ञानं कालभेदेनाप्रमाणम्, अनपेक्षत्वस्यापरावृत्तेः । तथापि वा ऽप्रमा-
ण्येऽतिप्रसङ्गादिति ॥ १ ॥
स्यादेतत् । अनुपकारकं विषयस्य, तदीयमेतदीयं वा न भवितुमर्हत्यविशे-
षात् । न च तस्येत्यनियतं तत्र प्रमाणमतिप्रसङ्गात् । न च तदभिन्नमन्तरेण तदु-
पकारस्योत्पत्तिः, तथानभ्युपगमात् । अभ्युपगमे वा, कार्यत्वस्यानैकान्तिकत्वात् ।
अत्रोच्यते—
स्वभावनियमाभावादुपकारोऽपि दुर्घटः ।
सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥ २ ॥
प्रकाशः ।
दिति भावः । नन्वीश्वरस्य ज्ञानान्तराभावेऽपि प्रथमक्षणे गृहीतस्यैव द्वितीयादिक्षणे ज्ञानाद् गृही-
तग्राहित्वमस्त्येवेत्यत आह न चेति । अनपेक्षत्वस्येति । न हि स्मृतिवदुत्तरकालबुद्धिविषयत्वे
पूर्वकालीनतद्विषयज्ञानापेक्षा ईश्वरज्ञानेऽस्तीत्यर्थः । अतिप्रसङ्गादिति । सर्वज्ञानानां द्वितीयादि-
क्षणे ग्रहणरूपत्वेनाप्रमात्वापातादित्यर्थः । वस्तुतो गृहीतेत्यत्र निष्ठाऽर्थस्य ध्वंसस्यासम्भव
एवेति भावः ॥ १ ॥
ननु विषयनियमान्यथानुपपत्त्या तदुपपादको विषयनिष्ठो ज्ञानजन्यो धर्मः स्वीकार्यः, तस्य
च तदुपादानज्ञानजन्यत्वे तदुत्पत्तेः प्राक् तद्विषयत्वाभावात् कथं तदुत्पत्तिः, तदुपादानज्ञानाज-
न्यत्वे च क्षित्यादिसकर्तृकत्वग्राहकं कार्यत्वं तत्रैवानैकान्तिकमित्याह—
स्यादेतदिति । न चेति । तदीयोऽयं विषय इति नानियतं, किन्तु नियतमेव । तन्नियाम-
कस्तज्जन्यधर्म एव वाच्यः । तेन तज्जन्यज्ञातताऽऽश्रयत्वमेव तद्विषयत्वमित्यर्थः ।
ज्ञानस्य ज्ञेयनिष्ठोपकाराधानेऽपि नियामकः स्वभाव एव वाच्यः, तथा च तत एव विषयनि-
यमोपपत्तौ किमुपकाराधानेनेत्याह स्वभावेति । विद्यमानेऽर्थे ज्ञानजन्योपकारसम्भवेऽप्यतीताद्यर्थे
तदसम्भवाद् यथा तत्र स्वभाव एव विषयत्वनियामकः, तथा विद्यमानेऽप्यर्थेऽस्त्वित्याह
सुघटत्वेऽपीति ।
प्रकाशिकाः ।
व्याख्यानाय पुनराशङ्कते नन्वीश्वरस्येति । ननु विषयेति । इयञ्च यथार्था तटस्थशङ्का यथा-
र्थान्भवत्वरूपं हि प्रामाण्यं स्वविषये वाच्यम्, विषयता चानुपपन्ना ज्ञातताऽस्वीकारे नियमका-
भावात्, तत्स्वीकारे च तदुत्पत्तेः प्राक् तद्विषयकज्ञानाभावेन तदनुत्पत्तेः, उत्पत्तौ वा कार्यत्वस्य
तत्रैवानैकान्तिकत्वादिति मूलप्रकाशयोः सङ्गतिः । एतेन—कार्यत्वस्यानैकान्तिकोद्भावनमत्रार्थान्तरम् ।
न च ज्ञाततामादायागृहीतग्राहित्वमुपपादयितुमेव तद्ग्रन्थावतार इति वाच्यम् । न तु तदभि-
न्नमन्तरेणोत्यादिना तदुत्पत्त्यसम्भवोपन्यासस्य विद्धरुतवापातादिति-दूषणमपास्तम् । ननु देव-
मकरन्दः ।
नन्विति । ननु कार्यत्वानैकान्तिकोद्भावनस्य नायमवसरः । न च ज्ञाततामादायागृहीतग्राहि-
त्वमुपपादयितुं तत्साधनमेवेदमिति वाच्यम् । पूर्वंनिरस्तत्वात्, न च तदभिन्नज्ञानमित्यादिना तदु-
त्पत्त्यसम्भवोपन्यासस्य विरुद्धत्वापाताच्च इति चेत् । मैवम् । यथार्थानुभवत्वादिकं प्रामाण्यं
ज्ञानस्य स्वविषये स्यात्, विषयता च नियामकं विनाऽनुपपन्ना, ज्ञाततायास्तथात्वे कार्यत्वानैकान्ति-
कत्वापत्त्या तदुपादानज्ञानजन्यत्वमवश्यं वाच्यम्, तच्च तदुत्पत्तेः प्राक् तद्विषयत्वाभावादसम्भवीति
न प्रामाण्यव्यवस्थितिरिति तटस्थशङ्कापरत्वेनास्य सङ्गतत्वात् ।
टिप्पणी
रस्य यदुपादानमाश्रयो विषयस्तज्ज्ञानस्येत्यर्थः । तद्विषयत्वाभावादिति । तस्य विषयत्वेना-
४६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकाव्याख्यायां
- विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः । स्वभावनियमेन
चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः । अवश्यञ्चैतदनुमन्तव्यम्, अतीतादिविष-
यत्वानुरोधात् । न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् । अस-
त्त्वात्। न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम् । तेन तस्यैव विषयत्व-
प्राप्तेः । तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने
रसोऽपि ज्ञायते, तादात्म्यात् । घटाकारेण ज्ञायत एवासौ रस इति चेत् । अथ
रसाकारेण किं न ज्ञायते। तेन रूपेण ज्ञाततानाधारत्वादिति चेत्। न तर्हि वर्त्तमान-
सामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्, तेनाकारेण प्राकट्यानाधारत्वादिति ॥ २ ॥
ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् । न ।
अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया ।
तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ ३ ॥
प्रकाशः।
अतीतादिघटादौ भासमाने घटत्वादेरपि भासनात्तत्रैव ज्ञाततोत्पत्तिः स्यादित्यपि नास्तीत्याह
न चेति । तथा सति ज्ञातताऽनाश्रयत्वाद् घटादिर्विषयो न स्यात्, घटत्वादौ ज्ञातताऽऽधानात्-
स्यैव तद्विषयत्वादित्यर्थः । ननु धर्मधर्मिणोस्तादात्म्यात्तद्धर्मज्ञातता तस्यैवेत्याह तादात्म्यादिति ।
तत्किमिति । ननु धर्मिणो धर्माभेदेऽपि धर्मस्य न धर्म्यभेदः । भेदाभेदाङ्गीकारात् । तथा च धर्मे
ज्ञायमाने तद्भिन्नो धर्मी ज्ञायतां, धर्मिणि ज्ञायमाने तद्भिन्नो धर्मः कथं ज्ञायेत । मैवम् । भेदाभे-
दस्य विरोधेनासम्भवात् ॥ २ ॥
ननु धात्वर्थावच्छेदकपरसमवेतक्रियाफलशालित्वं कर्मत्वमिति ज्ञानक्रियायाः स्वकर्मनिष्ठफलज-
नकत्वाज्ज्ञाततां स्यादित्याह--
नन्विति । क्रिया न धात्वर्थमात्रं, शरसंयोगादिना धात्वर्थेन कर्मणि गगनादौ तदजननादनैका-
न्तिकत्वात् । नापि स्पन्दः, ज्ञाने स्पन्दत्वाभावात् । नापि करणव्यापारस्त्वं, शब्दादिव्यापारपदार्थ-
स्मृत्यादिभिरनैकान्तिकत्वादित्याह अनैकान्त्यादिति । इह ज्ञाततायाम् । ननु प्रत्यक्षैव ज्ञातता,
संयुक्त इतिवज्ज्ञात इत्यनुभवादित्यत आह तद्वैशिष्ट्येति । ज्ञातताऽनुभवो ज्ञानवैशिष्ट्यमात्रविष-
यको नातिरिक्तविषयतायां मानमित्यर्थः ।
प्रकाशिका।
दृत्तो गच्छतीत्यत्र गमनक्रियाफलं विभागोऽपीति तदाश्रयपूर्वदेशस्य कर्मत्वापत्तिरित्याशयेनाह
धात्वर्थेति । विभागश्च न तथा उत्तरसंयोगावच्छिन्नस्पन्दस्य गमिधात्वर्थत्वादिति भावः । गमन-
कर्तर्यपि संयोगाश्रयत्वादतिव्याप्तिरिति परेति । अतिरिक्तेति । ज्ञाततायामित्यर्थः । न चैवं
मकरन्दः।
ननु चैत्रो गच्छतीत्यत्र परसमवेतगमनक्रियायाः फलमुत्तरदेशसंयोगवत् पूर्वदेशविभागोऽपीति
पूर्वदेशेऽतिव्याप्तिरित्यत उक्तं-धात्वर्थतावच्छेदकेति फलविशेषणम् । उत्तरसंयोगावच्छिन्न-
स्पन्दस्य धात्वर्थत्वाद्विभागो न तथेत्याहुः । घटं जानाति चैत्र इत्यत्र ज्ञानक्रियाफलमिच्छादि,
तच्छालितयाऽऽत्मन्यतिव्याप्तिरित्यत उक्तं परेति । न चाभावो घटमाश्रयते इत्यादावव्याप्तिः,
आश्रयणक्रियाया अभावे समवेतत्वाभावादिति वाच्यम् । परसमवेतपदस्य सम्बन्धपरत्वात् ।
अतिरिक्तेति । ज्ञाततायामित्यर्थः ।
टिप्पणी।
भिमतस्य विषयत्वाभावात् विषयत्वस्य ज्ञातताधीनतया ज्ञाततानुत्पत्तेर्ज्ञानविषयत्वस्यासम्भवादि-
त्यर्थः । अतिरिक्तविषयतायामिति । ज्ञाततारूपायामित्यर्थः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६१
धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात्, न हि शरसंयोगेन
गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः ।
व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात्, न हि तैः प्रमेये किञ्चित्
क्रियते, अपि तु प्रमातर्येव । फलाभिप्रायेणापि तथा । अन्ततस्तेनैवानेकान्ताद् ,
अनवस्थानाच्च । आशुविनाशिधर्माभिप्रायेण द्वित्त्वादिभिरनियमात् । आशुकार-
काभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् । कर्त्तर्याशु-
कारकत्वस्य कर्मोपकारत्वेनाव्याप्तेः । शब्दादिव्यापारैरेवानेकान्तात् ॥ ३ ॥
स्यादेतत् , अनुभवसिद्धमेव प्राकट्यम् । तथा हि—ज्ञातोऽयमर्थ इति सामा-
न्यतः, साक्षात्कृतोऽयमर्थइति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति
चेत् । तदसत् । यथा हि—
अर्थे नैव विशेषो हि निराकारतया धियाम् ।
प्रकाशः ।
'अन्त्यशब्देति । न चान्त्यशब्दाभिव्यक्त्या तत्र ज्ञाततैवोत्पद्यते इति वाच्यम् । तस्याप्यवहि-
तोत्तरक्षण एव नाशात् । समवायिकारणस्य च कार्यसमानकालतानियमात् । शब्दनित्यत्वस्य च
निषेधादिति भावः । असिद्धेरिति । ज्ञानक्रिया न स्पन्द इत्यर्थः । ननु क्रिया फलमत्र, यद्धि फलं
तत्प्रमेयनिष्ठकिञ्चिज्जनकं, प्रयत्नवदात्मसंयोगवदित्यत आह फलेति । अन्तत इति । फलेनापि
फलजननेऽनवस्थेति क्वचिद्विश्रान्तौ तेनैव व्यभिचार इत्यर्थः । आशुविनाशित्वं क्षणचतुष्टयानव-
स्थायित्वम् । अनियमाद् , व्यभिचारादित्यर्थः । कर्मण्याशुकारकत्वं हेतुः, कर्त्तर्याशुकारकत्वं वा,
आशुकारकत्वमात्रं वा ? । नाद्यः । साध्याविशिष्टतया हेतोरसिद्धत्वादित्याह कर्मणीति । न द्विती-
यतृतीयावनेकान्तादित्याह कर्त्तरिति । शब्दादिव्यापारैः पदार्थस्मृतिलिङ्गपरामर्शादिभिर्वाक्यार्थ-
ज्ञानानुमित्यादिकं कर्त्तर्याशुक्रियते । न च कर्मणि वाक्यार्थे अनुमेयादौ वा किञ्चित् क्रियते इत्यनै-
कान्तिकमित्यर्थः ॥ ३ ॥
कारिकोत्तरार्द्धं व्याख्यातुं शङ्कते अनुभवेति । निराकारमपि ज्ञानं यया विषयेण नीलत्वादिना
नीलज्ञानाद्युच्यते, तथा ज्ञानरूपक्रिययैव ज्ञातो घट इति धीव्यपदेशौ, इत्थमभ्युपगमे च कृतो
घट इत्यादावपि कृत्यादिजनितधर्माधारो घटः स्यात् । न चैतत् त्वयेष्यते, इति परिह-
रति यथा हीति । घटक्रियेत्यत्र क्रियायामर्थो विशेषकः, कृतो घट इत्यत्रार्थे क्रिया विशेषिकेति
भेदः । एवं घटज्ञानमित्यत्रार्थो ज्ञाने विशेषणं, ज्ञातो घट इत्यत्रार्थे ज्ञानं विशेषणम् ।
ननु घटोऽयमिति ज्ञानं घटधर्मिककिञ्चिद्धर्मजनकं घटज्ञानत्वाद् अपेक्षाबुद्धिवत् । न चापेक्षा-
प्रकाशिका ।
प्रत्यक्षत्वमपि तस्य कथमिति वाच्यम् । प्रत्यक्षविषयस्य पूर्ववर्त्तितामात्रेणैव हेतुत्वात् । आशुविना-
मकरन्दः ।
तस्येति । नचैवं प्रत्यक्षमपि कथं स्यादिति वाच्यम् । पूर्ववर्त्तितामात्रेणैव तस्य तद्धेतुत्वात् ।
समवायिकारणमात्रस्यैव कार्यसमानकालत्वनियमादिति भावः ।
टिप्पणी
तत्प्रमेयनिष्ठेति । प्रमेयेति प्रकृतमभिप्रायम् फलं किञ्चिज्जनयतीत्येव व्याप्तिः । आत्मशरीर-
संयोगवदिति । स च शरीरे चेष्टाजनकः ।
४६२ व्याख्यायात्रोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
तथा,
क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥ ४ ॥
किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि,
तथैव गृहाण, घटज्ञानं पटज्ञानमितिवज्ज्ञातो घटो ज्ञायते इति । कथमसंबद्धयोर्ध-
र्मधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा । एतदपि कथमिति चेद् , नूनं
ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि । तन्निरूपणाधीन-
निरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् । प्रकृतेऽ-
प्येवमेव ।
एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् । विनाशयद्यत् करणव्यापार-
प्रकाशः ।
बुद्धित्वमुपाधिः । घटसंयोगादिजनकाऽवयवसंयोगादौ साध्याव्यापकत्वात् । मैवम् । अप्रयोज-
कत्वात् । अन्यथेच्छा स्वविषयनिष्ठकिञ्चिद्धर्मजनिका सविषयकत्वात् बुद्धिवदित्यादेरापत्तेः । तथापि
ज्ञातो घट इति ज्ञानं विशेषणविशेष्ययोः सम्बन्धविषयकं विशिष्टज्ञानत्वात्, गौरिति ज्ञानवत् ।
वर्त्तमानेऽर्थे बाधकाभावात् । अन्यथा समवायोऽपि न सिद्ध्येदिति चेन्न । अतीतानागतयोर्ज्ञातताया
अभावेन ज्ञातव्यवहाराभावापत्तेः । तस्य ज्ञाततासाध्यत्वात् । तत्र ज्ञानविषयावेव तद्विषयाविति चेन्न ।
वर्त्तमानेऽपि तयोरेव तद्विषयत्वापत्तेः । अतीतादिवर्त्तमानतप्रतीत्योर्वैलक्षण्याऽननुभवात् । अथ घट-
पटयोरेकज्ञानविषयत्वेऽपि घटत्वेन घटो ज्ञातः, पटत्वेन पटो ज्ञात इति ज्ञातताभेदभानाज्ज्ञानभिन्ना
ज्ञाततेति चेन्न । तस्यैव ज्ञानस्य सम्बन्धस्तत्र तत्र तेन तेन धर्मेण निरूप्यते इति ज्ञानस्वभावादेव
नियमादिति भावः । प्रतिबन्धिमुक्त्वा मूलयुक्तिमाह तन्निरूपणेति ।
ननु ज्ञानजन्यफलानाश्नयत्वादर्थः कर्म न स्यादित्यत आह-
एतेनेति । परसमवेतक्रियाफलशालित्वं न कर्मत्वम् । आत्मानं जानातीत्यत्राव्याप्तेः, किन्तु
करणव्यापारविषयत्वम्, तच्चात्राऽस्त्येवेत्याह विनाशयद्यदिति । अर्थो ज्ञानस्य कर्मैव न भवति,
प्रकाशिका ।
शित्वं क्षणिकत्वरूपमसिद्धमित्यत आह क्षणचतुष्टयेति ।' अप्रयोजकत्वादित्युपलक्षणम्,
पक्षधर्मावच्छिन्नसाध्यव्यापकस्यापेक्षाबुद्धित्वस्योपाधित्वाच्चेत्यपि द्रष्टव्यम् । सम्बन्धत्वेन ज्ञातता-
सिद्धिमाशङ्कते तथापीति । अन्यथेति । सम्बन्धं विनापि विशिष्टधीस्वीकार इत्यर्थः । प्रति-
बन्दीमुक्त्वा मूलयुक्तिमाह अर्थ इत्यादि। ऐन्द्रियकोपलम्भाभावमिति मूलं अतीन्द्रियत्वं
ज्ञानस्य तद्विषयकसाक्षात्काराभावः । स च जानातीन्द्रियतया न स्वरूपसदनुपलब्धिग्राह्य इत्यर्थः ।
मम इन्द्रियग्राह्यत्वेनाभिमतो य उपलम्भाभाव इति योजना । अनुपलब्धेस्तत्रैव त्वन्मते सामर्थ्या-
दिति भावः । अस्तु वा स्मरणम् तथापि तदनुपपत्त्या नानुभवसिद्धिः, तत्कारणेवान्यथासिद्धिरित्यत
मकरन्दः ।
अप्रयोजकत्वादित्युपलक्षणम्-पक्षधर्मावच्छिन्नसाध्यव्यापकमपेक्षाबुद्धित्वमुपाधिरित्यपि द्रष्टव्यम्।
अन्यथेति । यदि सम्बन्धं विना विशिष्टधीः, तदेत्यर्थः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६३
विषयत्वेन तदुपपत्तेः । स्वाभाविकफलनिरूपकत्वञ्च तुल्यम् ।
ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रती-
तञ्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् ।
तदप्यसत् । परस्पराश्रयप्रसङ्गात् । ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहा-
रान्यथानुपपत्तिस्तां ज्ञापयेत् । कुतश्च ज्ञानमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमान-
त्वादिति चेत् । न । अनुमानोपन्यासे साध्याविशिष्टत्वात् , अनुपलब्धिमात्रोप-
न्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत् , तद्विशेषणे
तु कथमतीन्द्रियं ज्ञानमिति । तथाविधज्ञाततानाश्रयत्वादिति चेन्न । आश्रया-
सिद्धेः । व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेन्न । ज्ञानहेतुनैव तदुप-
पत्तेः । तस्यात्ममनःसंयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावा-
न्नैवमिति चेन्न । तावन्मात्रस्य व्यवहाराहेतुत्वात् । अन्यथा ज्ञानस्वीकारेऽपि
तुल्यत्वात् । स्मरणान्यथानुपपत्त्येति चेन्न । तस्याप्यसिद्धेः । अस्ति तावद्व्यवहा-
रनिमित्तं किञ्चिदिति चेत् । किमतः ? । न ह्येतावता ज्ञानं तदिति सिद्ध्यति,
प्रकाशः ।
अतीतादेरप्यर्थत्वात् , कारकविशेषस्य च कर्मत्वात् । अतीतानागतं जानामीति द्वितीयाप्रयोगः साधु-
रिति तु तत्त्वम् । स्वाभाविकेति । यथा कर्तृव्यापारफलं विनाशः प्रतियोगिनिरूप्यः, तथा ज्ञानमपि
विषयनिरूप्यमित्यर्थः ।
तद्विशेषणे त्विति । यदि योग्यानुपलब्ध्या योग्यस्य ज्ञानस्याऽभावोगृह्यते, तदा सिद्धमैन्द्रि-
यकत्वं ज्ञानस्येत्यर्थः । तथाविधेति । साक्षात्कृतताऽनाश्रयत्वादित्यर्थः । आश्रयेति । ज्ञानस्याप्रत्य-
क्षत्वे मानान्तरासम्भवेनाश्रयस्य ज्ञानस्यासिद्धेरित्यर्थः । ज्ञानस्य प्रत्यक्षतया स्वरूपासिद्धेरिति भावः ।
अज्ञाते घटादिव्यवहारो न स्यात् , तस्य व्यवहर्त्तव्यज्ञानसाध्यत्वादिति कार्येण कारणानुमानात् सिद्ध
आश्रय इत्याह व्यवहारेति । ज्ञानहेतुत्वेनाभिमतादेवावश्यकान्द्यवहाराेपपत्तौ न तेन ज्ञानानुमानमि-
त्याह ज्ञानेति । ज्ञानहेतुसद्भावेऽपि व्यवहाराभावान्न तेनान्यथासिद्धिरित्याह तस्येति । ज्ञान-
हेतुसद्भावे सुषुप्तौ कुतो ज्ञानमेव न जायते ? तावन्मात्रस्याहेतुत्वादिति यदि, तदा या ज्ञानसामग्री
सा व्यवहारसामग्र्यस्तु किमान्तरालिकेन ज्ञानेनेत्याह तावन्मात्रस्येति । अन्यथेति । ज्ञानमेव तदा
किं न स्यादित्यर्थः । तस्यापीति । स्मरणस्यापि ज्ञानत्वेनातीन्द्रियत्वादसिद्धिरित्यर्थः । अत्राप्यनुभ-
प्रकाशिका ।
ग्राह अत्रापीति ।
मकरन्दः ।
अस्तु वा स्मरणं, तथापि तदन्यथाऽनुपपत्त्या नानुभवसिद्धिः, तत्कारणेनान्यथासिद्धेरित्याह
अत्रापीति ।
टिप्पणी ।
योग्यानुपलब्ध्या योग्यस्य ज्ञानस्येति । ज्ञानोपलम्भस्येत्यर्थः । अन्यथा ज्ञानाभाव-
साधनस्यानुपक्रान्तत्वात् तथात्वे ज्ञातताया अप्यभावप्रसङ्गात् , अग्रे ज्ञानसाधनेन विरोध-
प्रसङ्गाच्च । अतीतानागतं जानामीति द्वितीयाप्रयोगः साधुरिति । यथाऽन्वादियोगे कर्मसंज्ञाया-
मपि न तस्य कर्मता, यथा च क्रियाविशेषणस्य कल्पितकर्मसंज्ञकत्वेऽपि न कर्मता, संज्ञाफलन्तु द्वितीया-
प्रयोगसाधुत्वैव, तथा प्रकृतेऽपि सविषयकार्यकत्वात्वर्थयोगे कर्मसंज्ञां प्रयोगवलात् परिकल्प्य द्वितीयो-
पपादनीया इति । द्वितीयाप्रयोगेन सार्वजनीनेन साधुः न कर्मार्थकंतया तस्यादिवन्द्वितीया प्रयोग-
कल्पितसंज्ञामात्रफलीभूततया साधुरित्यर्थः ॥ अत्राप्यनुभवकारणादेवेति । अस्तु स्मरणं
४६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
तस्यैवासिद्धेः । तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहे-
तुना भवितव्यमिति चेत् । अस्तिवच्छा प्रत्यक्षसिद्धा, न तु ज्ञानम् । सैव कथं
नियताधिकरणे उत्पद्यतामिति चेन्न । ज्ञानाभ्युपगमेऽपि तुल्यत्वात् । स्वहेतोः
कुतश्चिदिति चेत् । तत एव इच्छा अस्तु, किं ज्ञानकल्पनयेति ।
स्यादेतत् । प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्था-
यामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् । तत इच्छायाः कारणं विलक्षणमेव
किञ्चित् परिकल्पनीयं, यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो
निवर्त्तते इति चेत् । हन्तैवं सुष्वापत्तिनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवाप-
रोक्षमिय्यते । अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञान-
मिति । तथाच कालात्ययापदिष्टो हेतुः ।
एतेन क्षणिकत्वादिति निरस्तम् । अपि च किमिदं क्षणिकत्वं नाम ? यद्या-
शुतरविनाशित्वं, तदाऽनैकान्तिकम् । अथैकक्षणावस्थाायित्वं, तदसिद्धं प्रमाणा-
भावात् ।
ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृश-
मेव गृह्णाति, अन्यादृशं वा, न वा कमपीति । न प्रथमः । तस्य क्षणस्यातीत-
प्रकाशः ।
वकारणादेव स्मरणोत्पत्तिरित्यन्यथासिद्धिरिति भावः । तदिति । व्यवहारनिमित्तमित्यर्थः । तस्यै-
वेति । ज्ञानासिद्धा व्यवहारे तज्जन्यत्वानिश्चयादित्यर्थः । कर्तृधर्मप्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मतया
ज्ञानं सिद्ध्येदित्याह तथा पीति । इच्छा स्वविषयविषयकात्मधर्मजन्या नियतविषयकधर्मत्वात् प्रय-
त्नवदित्यभिप्रेत्याह सैवेति । अनुमानं ज्ञान एवानैकान्तिकमित्यभिप्रेत्याह ज्ञानेति । न च ज्ञानहे-
तोरननुगमाद् व्यभिचारेण कारणत्वासम्भवः, परेषा मेकशक्तिमत्त्वेनापि कारणत्वग्रहसम्भवादिति
भावः । अनुभवसिद्धमिति । यद्यप्येकात्मन्येकदा आश्रुतरविनाशिगुणत्रयानवस्थानादिच्छा-
ज्ञानयोः पौर्वापर्याऽनुभवो न सम्भवति, तथापि ज्ञानव्यतिरेकाऽव्यवहितोत्तरकाले इच्छाव्यतिरेक-
नियमात् कार्यकारणभावग्रह इति भावः ।
एतेनेति । कालात्ययापदेशेनेत्यर्थः । तदानैकान्तिकमिति । इच्छादावित्यर्थः । यादृशं, वर्त्तमान-
क्षणावच्छिन्नम् । अन्यादृशं द्वितीयक्षणावच्छिन्नम् । तस्येति । द्वितीये क्षणे इत्यनुषज्जयते । वर्त्त-
प्रकाशिका ।
परेषामिति तथा च तद्रीत्या ज्ञानहेतुनान्यथासिद्धिः स्यादेवेति भावः । यद्यपीति ।
कार्यकारणभावग्रहमादाय एकत्रैत्युक्तं प्रत्यक्षे विषयस्य समसमयतया हेतुत्वमित्यभिमानेन
चैतदुपपादनीयम् । तथापीति । व्यतिरेकपदं प्रागभावपरम् , अन्यथा ज्ञाननाशेऽपीच्छासत्त्वा-
न्नियमभङ्गापत्तेः । वर्त्तमानतेति ।
मकरन्दः ।
परेषामिति । तथा च तन्मते ज्ञानहेतुना तदन्यथासिद्धिः स्यादेवेति भावः ।
तथापीति । अत्र व्यतिरेकपदं प्रागभावपरम् । अन्यथा ज्ञाननाशेऽपीच्छासत्त्वान्नियमभङ्गापत्तेः ।
टिप्पणी ।
तथापि तदनुपपत्त्या नानुभवकल्पनं युज्यते, अनुभवं विनाप्यनुभवकारणत्वेनाभिमतादेव संस्कारा-