सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 492, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 492

४६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकाव्याख्यायां

  • विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः । स्वभावनियमेन
    चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः । अवश्यञ्चैतदनुमन्तव्यम्, अतीतादिविष-
    यत्वानुरोधात् । न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् । अस-
    त्त्वात्। न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम् । तेन तस्यैव विषयत्व-
    प्राप्तेः । तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने
    रसोऽपि ज्ञायते, तादात्म्यात् । घटाकारेण ज्ञायत एवासौ रस इति चेत् । अथ
    रसाकारेण किं न ज्ञायते। तेन रूपेण ज्ञाततानाधारत्वादिति चेत्। न तर्हि वर्त्तमान-
    सामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्, तेनाकारेण प्राकट्यानाधारत्वादिति ॥ २ ॥
    ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् । न ।
    अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया ।
    तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ ३ ॥
    प्रकाशः।
    अतीतादिघटादौ भासमाने घटत्वादेरपि भासनात्तत्रैव ज्ञाततोत्पत्तिः स्यादित्यपि नास्तीत्याह
    न चेति । तथा सति ज्ञातताऽनाश्रयत्वाद् घटादिर्विषयो न स्यात्, घटत्वादौ ज्ञातताऽऽधानात्-
    स्यैव तद्विषयत्वादित्यर्थः । ननु धर्मधर्मिणोस्तादात्म्यात्तद्धर्मज्ञातता तस्यैवेत्याह तादात्म्यादिति ।
    तत्किमिति । ननु धर्मिणो धर्माभेदेऽपि धर्मस्य न धर्म्यभेदः । भेदाभेदाङ्गीकारात् । तथा च धर्मे
    ज्ञायमाने तद्भिन्नो धर्मी ज्ञायतां, धर्मिणि ज्ञायमाने तद्भिन्नो धर्मः कथं ज्ञायेत । मैवम् । भेदाभे-
    दस्य विरोधेनासम्भवात् ॥ २ ॥
    ननु धात्वर्थावच्छेदकपरसमवेतक्रियाफलशालित्वं कर्मत्वमिति ज्ञानक्रियायाः स्वकर्मनिष्ठफलज-
    नकत्वाज्ज्ञाततां स्यादित्याह--
    नन्विति । क्रिया न धात्वर्थमात्रं, शरसंयोगादिना धात्वर्थेन कर्मणि गगनादौ तदजननादनैका-
    न्तिकत्वात् । नापि स्पन्दः, ज्ञाने स्पन्दत्वाभावात् । नापि करणव्यापारस्त्वं, शब्दादिव्यापारपदार्थ-
    स्मृत्यादिभिरनैकान्तिकत्वादित्याह अनैकान्त्यादिति । इह ज्ञाततायाम् । ननु प्रत्यक्षैव ज्ञातता,
    संयुक्त इतिवज्ज्ञात इत्यनुभवादित्यत आह तद्वैशिष्ट्येति । ज्ञातताऽनुभवो ज्ञानवैशिष्ट्यमात्रविष-
    यको नातिरिक्तविषयतायां मानमित्यर्थः ।
    प्रकाशिका।
    दृत्तो गच्छतीत्यत्र गमनक्रियाफलं विभागोऽपीति तदाश्रयपूर्वदेशस्य कर्मत्वापत्तिरित्याशयेनाह
    धात्वर्थेति । विभागश्च न तथा उत्तरसंयोगावच्छिन्नस्पन्दस्य गमिधात्वर्थत्वादिति भावः । गमन-
    कर्तर्यपि संयोगाश्रयत्वादतिव्याप्तिरिति परेति । अतिरिक्तेति । ज्ञाततायामित्यर्थः । न चैवं
    मकरन्दः।
    ननु चैत्रो गच्छतीत्यत्र परसमवेतगमनक्रियायाः फलमुत्तरदेशसंयोगवत् पूर्वदेशविभागोऽपीति
    पूर्वदेशेऽतिव्याप्तिरित्यत उक्तं-धात्वर्थतावच्छेदकेति फलविशेषणम् । उत्तरसंयोगावच्छिन्न-
    स्पन्दस्य धात्वर्थत्वाद्विभागो न तथेत्याहुः । घटं जानाति चैत्र इत्यत्र ज्ञानक्रियाफलमिच्छादि,
    तच्छालितयाऽऽत्मन्यतिव्याप्तिरित्यत उक्तं परेति । न चाभावो घटमाश्रयते इत्यादावव्याप्तिः,
    आश्रयणक्रियाया अभावे समवेतत्वाभावादिति वाच्यम् । परसमवेतपदस्य सम्बन्धपरत्वात् ।
    अतिरिक्तेति । ज्ञाततायामित्यर्थः ।
    टिप्पणी।
    भिमतस्य विषयत्वाभावात् विषयत्वस्य ज्ञातताधीनतया ज्ञाततानुत्पत्तेर्ज्ञानविषयत्वस्यासम्भवादि-
    त्यर्थः । अतिरिक्तविषयतायामिति । ज्ञाततारूपायामित्यर्थः ।