सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

३२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्यायां
शशशृङ्गादावनुपलब्धिर्न बाधिका स्यादिति । ततः किं? तत् सिद्ध्येदिति चेत् । एव
मस्तु यदि प्रमाणमस्ति । पशुत्वादिकमिति चेत् । परसाधने प्रतिवन्धिस्तर्हि न तद्-
बाधने । तत्रैव भविष्यतीति चेत् । तत् किं तत्र प्रतिबन्धिरेव दूषणम् । अथ कथ-
ञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयस्ते च बाधिता एवेत्यपहृतविषय-
त्वम् ? । न प्रथमः । अव्याप्तेः । न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः
कर्तृमत्त्वादिसाधकत्वं व्याप्तं, येन तस्मिन्नसति तत्प्रतिषिध्येत । न द्वितीयः ।
मिथोऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात् । तथापि पशुत्वादौ को दोष
इति चेत् । न जानीमस्तावत्तद्विचारावसरे चिन्तयिष्यामः ।
बोधनी ।
मात्रात् किं तच्छृङ्गं सिध्यति । अयमत्राभिसन्धिः-अयोग्यानुपलब्धिप्रतिपादनेन बाधकाभावमी-
श्वरस्य सिध्यति न तु सद्भाव इति । केचित्तु व्याचक्षते यदि शशशृङ्गमप्ययोग्यं तदा तस्यानुप-
लब्धिर्न बाधिका स्यादिति ! उत्तरं-ततः किम् इति । बाधकाभावात्किमायातं शशशृङ्गस्येति
शङ्कितुर्भावाविष्करणं तत्सिद्ध्येदिति । बाधकाभावादीश्वरवन्न शशशृङ्गं सिद्ध्येदिति । निराकरोति-
एवमस्तु इति । स्यादेवं यदि शशशृङ्गस्यास्तित्वे प्रमाणं स्यात्, तत्तु नास्ति । न हि वयं बाधका-
भावमात्रेणेश्वरमभ्युपगच्छामः किन्तु साधकसद्भावादेवेति भावः । शृङ्गेऽपि प्रमाणमाशङ्कते-पशु-
त्वादिकम् इति । शशः शृङ्गवान् पशुत्वात् गवादिवदिति । हन्तैवमश्वारूढोऽश्वस्यैवास्मार्षीरित्याह-
परसाधने इति । प्रथममीश्वरस्यानुपलब्ध्या बाधकमभिधाय तद्बाधे शृङ्गस्याप्यबाधः तद्बाधे
तस्यापि बाध इति बाधने प्रतिबन्धिमुद्भावयितुमुपक्रान्तः संप्रति परसाधने प्रतिबन्धिमुद्भावयसि परेण
हीश्वरसाधने कार्यत्वादिति हेतौ प्रयुक्ते शशोऽपि शृङ्गवान् पशुत्वादित्यादि वक्तु संगच्छत इति । तर्हि
परसाधन एतत्प्रतिबन्धिर्भविष्यतीत्यत्राह-तत्र इति । तदेतद्विकल्प्य निराकरोति-किं तत्र इति ।
यदि कार्यत्वं कर्त्तारं साधयेत् पशुत्वमपि शृङ्गं साधयेदिति किं प्रतिबन्धिरेव दूषणं किं वा योग्या-
नुपलब्ध्या पशुत्वस्येव कार्यत्वादेरपि बाधितविषयत्वमिति । तस्मिन् व्यापके पशुत्वादेः शृङ्गादि-
साधनत्वेऽसति तत्कार्यत्वादेः कर्तृत्वसाधनं व्याप्यभूतं प्रतिषिध्येतेति । मिथोऽनुपलभ्य इति ।
यदि परात्मादेर्योग्यानुपलब्धिर्वाधिका स्यात् तदा परस्परमनुपलभ्यमानयोरेव वादिप्रतिवादिनोः
परस्पराङ्गीकारो न स्यादिति । ननु मा भूदिदं परसाधने दूषणं, तथापि शृङ्गसाधनतया प्रयुक्ते पशु-
त्वादौ को दोष इत्याह-तथापि इति । पृच्छतोऽयमाशयः-य एवात्र दोषः स एवेश्वरानुमाने
भविष्यतीति । अनवसरत्वान्नेदमिह वक्तव्यमित्याह-न जानीमस्तावत् इति ।
तदेवं प्रत्यक्षस्य बाधकत्वं निराकृतम्, इदानीं तु व्यापक्यानुपलब्धिलक्षणमनुमानमङ्कुरादिषु
; प्रकाशः ।
दूष्यत इत्यर्थान्तरं निग्रहस्थानमित्याह । तत इति । आशयमविद्वानाह । तदिति । तत्सिद्धावपि
न प्रकृते दूषणमित्याह । एवमिति । मानमाह । पशुत्वादिकमिति । पक्षसत्त्वादेव नाश्वादौ
व्यभिचार इति भावः । आशयं स्फुटयति । परेति । यदीश्वरः सिद्धयेत, तदा शशशृङ्गमपि
सिद्धयेदितीश्वरसाधने प्रतिबन्धिस्तथा चार्थान्तरमित्युक्तम् । नन्वनुपलब्धिमात्रेण यथा शशे शृङ्गा-
भावस्तथा क्षित्यादौ कर्तुरप्यभाव इति बाधनेऽपि प्रतिबन्धिः स्यात्, इष्टापत्तेरभावादित्याह ।
तत्रैवेति । मिथ इति । परात्मादेः परायोग्यत्वस्योभयवादिस्वीकारात् प्रत्यक्षानुपलम्भमात्रं,
नायोग्ये बाधकमित्यर्थः । अर्थान्तरं हि पुरुषदोषो, न तु साधनदोष इत्याशयेन पृच्छति । तथा-
पीति । शशे शृङ्गस्यात्यन्ताभाव इति सर्वैणसवाधितप्रत्यक्षबाधः ।

तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३२७

स्यादेतत् । यत्प्रमाणगम्यं हि यत्, तद्भाव एव तस्याभावमावेदयति । यथा
रूपादिप्रतिपत्तेरभावश्चक्षुरादेरभावम् । कायवाग्व्यापारैकप्रमाणकश्च पराऽऽत्मा,
तदभाव एव तस्याभावे प्रमाणमङ्कुरादिषु । तन्न । तदेकप्रमाणकत्वासिद्धेः । अन्यथा
सुप्तोऽपि न स्यात् । श्वाससन्तानोऽपि तत्र प्रमाणमिति चेन्न । निरुद्धपवनोऽपि
न स्यात् । कायसंस्थानविशेषोऽपि तत्र प्रमाणमिति चेन्न, विषमूच्छितोऽपि न
स्यात् । शरीरोष्मापि तत्र प्रमाणमिति चेन्न। जलावसिक्तविषमूर्च्छितोऽपि न स्यात्।
तस्माद् यद्यत् कार्यमुपलभ्यते तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति । न च
कार्यमात्रस्य क्वचिद् व्यावृत्तिरिति । न च त्वदभ्युपगतेनैव प्रमाणेन भवितव्यं
नान्येनेति नियमोऽस्ति । न च प्रमेयस्य प्रमाणेन व्याप्तिः । सा हि कात्स्न्र्येन

बोधनी ।
कर्तृबाधकमाशङ्कते—स्यादेतत् इति । तन्नेति । परमात्मन इति शेषः । कायवाग्व्यवहारैकप्रमाण-
कत्वेऽनिष्टमाह-अन्यथा इति । न हि तस्य कायिको वाचिको वा व्यापारोऽस्तीति । निरुद्धपवनः
प्राणानायम्य तूष्णीमासीनः । शेषं सुगमम् । यस्मान्न कायवाग्व्यापारैकप्रमाणकः परमात्मा तस्मा-
देवमङ्गीकर्त्तव्यमित्याह-तस्मात् इति । तथापि विश्वकर्त्तुः कथं सिद्धिरित्यत्राह-न च कार्यमात्रस्य
इति । न वयं कार्यप्रमाणकत्वं चेतनस्याभ्युपगच्छाम इत्याह-न च इति । किं चास्तु त्वदभ्युपगमे
तदेव प्रमाणं तथापि तदभावान्नाभावश्चेतनस्येत्याह-न च प्रमेयस्य इति । व्याप्त्यभावमेव विक-
ल्प्याह— सा हि इति । प्रमेयस्य प्रमाणव्याप्तिः सर्वैः प्रमाणैरिति प्रमाणकात्स्न्र्येनाभ्युपगम्येत किं
वा येन केनचित्प्रमाणैकदेशेन ? तत्र कृत्स्नप्रमाणव्याप्तौ प्रत्यक्षाद्यन्यतमन्निवृत्तावपि प्रमेयं निवर्त्तेत,
न चैतदस्ति । द्वितीयेऽपि यदि नियतस्यैकस्य पुरुषस्य तर्ह्येकस्य सर्वप्रमाणनिवृत्तावपि प्रमेयं निव-
र्त्तेत, अथानियमेन सर्वेषां न हि तदा सर्वपुरुषाणां यत्किञ्चिदपि प्रमाणं नास्तीति निश्चेतुं शक्यत

प्रकाशः ।
शृङ्गत्वस्य जातेर्योग्यसंस्थानव्यङ्ग्यत्वेनायोग्येष्वङ्कितुमप्यशक्यत्वात् अन्यथा तद्व्यतिरेकाप्र-
सिद्ध्या अनुमानानवकाशात्, अन्वयिनश्चानङ्गीकारात् । परात्मनश्चायोग्यस्यापि कर्तृत्वान्न कर्तृत्वं
योग्यत्वनियतमित्याशयवत उत्तरं, नेति ।
यत्प्रमाणेति । यदेकप्रमाणगम्यमित्यर्थः । अतो न धूमाभावेऽपि अग्निसत्त्वाद् व्यभिचारः ।
अत एव "तदेकप्रमाणत्वासिद्धेरिति वक्ष्यति । कार्यमात्रप्रमाणो ज्ञेयस्तद्विशेषनिवृत्तिमात्रेण न निव-
र्त्तते । कार्यमात्रस्य च न व्यावृत्तिरित्युपसंहरति । तस्मादिति । तथा च, प्रमाणविशेषनिवृत्तावपि
प्रमाणसामान्यसत्त्वात्तदेकप्रमाणगम्यत्वमसिद्धमित्यर्थः । न च प्रमाणप्रमेययोर्व्याप्तिर्यतः प्रमाणविशेषाभावे

प्रकाशिका ।
व्यङ्ग्याभावविषयकमिति कथं तेन लाभ इत्यरुचेराह शृङ्गत्वस्येति । अत्राप्रयोजकत्वमाशङ्कयाह
अन्यथेति । अन्वयिनश्चेति । केवलान्वयिनश्चेत्यर्थः । ननु कार्यत्वावच्छिन्नं प्रति कर्तृत्वेनेव
पशुत्वेनैव शृङ्गजन्कत्वमिति तुल्यमित्यत आह । परात्मनश्चेति । तथा च कर्तृत्वेनायोग्य-
तानियतमतियोग्येश्वरसिद्धौ न किञ्चिद्बाधकम् शृङ्गत्वं तु योग्यसंस्थाननियतमिति नायोग्यशृङ्गसिद्धि-
रिति भावः ।

मकरन्दः ।
बाध इत्याशङ्कयाह शृङ्गत्वस्येति । अप्रयोजकत्वमाशङ्कयाह अन्यथेति । अन्वयिनः =
केवलान्वयिनः ॥ १ ॥

टिप्पणी ।
अन्यथा तद्व्यतिरेकेति । सर्वत्राप्ययोग्यस्य शृङ्गसम्भावनया अभावस्यानिश्चयात् ॥ १ ॥

३२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
वा स्यादेकदेशेन वा स्यात् ? । न प्रथमः । प्रत्यक्षाद्यन्यतमासद्भावेऽपि तत्प्रमेयाव-
स्थितेः । न द्वितीयः । पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः । अनि-
यमेनासिद्धेः । न हि सर्वस्य सर्वदा सर्वथाऽत्र प्रमाणं नास्तीति निश्चयः शक्य
इति । कथन्तर्हि चक्षुरादेरभावो निश्चयः ? । व्यापकानुपलब्धेः । चरमसामग्री-
निवेशिनो हि कार्यमेव व्यापकं, तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः । योग्यतामा-
त्रस्य कदाचित् कार्यं, तन्निवृत्तौ तथाभूतस्याऽपि निवृत्तिः । अन्यथा, तत्रापि
सन्देहः। प्रकृतेऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधोऽस्तु, न । आश्रयासिद्धत्वात् । न ही-
बोधनी ।
इति । ननु यदि न प्रमेयस्य प्रमाणव्याप्तिः कथं तर्हि रूपादिज्ञानाभावात्तदेकप्रमाणकस्य चक्षुरादेर-
भावनिश्चय इत्याह-कथं तर्हि इति । उत्तरं-व्यापक इति । न हि तत्रापि प्रमाणाभावान्निश्चयः ।
किं तर्हि ? व्यापकानुपलब्धेरिति । कथं रूपादिज्ञानं चक्षुरादेर्व्यापकं, न हि कार्यं कारणस्य व्यापकं
वैपरीत्यादित्यत्राह-चरमं इति । चरमसामग्रीत्वेन निविशमानस्य हि कारणस्य कार्यमेव व्यापकं
यथा अन्त्यतन्तुसंयोगस्य पटस्तेन तस्य व्यापकस्य कार्यस्य निवृत्तौ व्याप्यभूतस्यैव कारणस्य निवृ-
त्तिरवसीयते, न तु प्रमाणनिवृत्त्या प्रमेयनिवृत्तिरित्यर्थः । किञ्चित्तु कारणमस्मिन्सत्येव भवति नास-
तीति कार्यं प्रति योग्यतया निविशते यथा तन्त्वादयस्तस्यापि कदाचिद्भवत्कार्यं व्यापकं न हि सर्वदा
कार्यानन्वितं कारणमिति शक्यं वक्तुम् । तस्मात्तस्य कादाचित्कस्यापि कार्यस्य निवृत्तौ तथाभूतस्य
योग्यतामात्रेणाविष्टस्यापि निवृत्तिः । अन्यथा इति । यदि विधाद्वयमपि चक्षुरादौ नास्ति तदा रूपादि-
ज्ञानाभावान्न तत्राप्यभावनिश्चयः किंतु संदेह एव स्यादिति । यद्वा, योग्यतामात्रस्य कदाचित् कार्यं
न तु व्यापकं तेन कारणस्य निवृत्तौ कादाचित्कस्यापि कार्यस्य निवृत्तिस्तद्व्यतिरेकेणास्य निवृत्तिर-
न्यथा कार्यनिवृत्तौ तत्रापि कारणेऽपि संदेहो नाभावनिश्चय इति । केचित्तु न तन्निवृत्तौ तथाभूत-
स्यापि निवृत्तिरिति नञ्प्रश्लेषेण पठन्ति । तत्रायमर्थः । ननु चरमसामग्रीनिवेशिन इति विशे-
षणं योग्यस्यैवोच्यतामित्यत्राह-योग्यतामात्रस्य इति । तस्य कार्यं न व्यापकं । तस्मात्कार्य-
निवृत्तौ योग्यतामात्रस्य निवृत्तिः । अन्यथा इति । चक्षुरादेश्चरमसामग्रीनिवेशाभावे तत्रापि नाभा-
वनिश्चयः, संदेह एवेति ।
चक्षुरादिवत्प्रकृतेऽपीश्वरे व्यापकस्य प्रयोजनादेरनुपलब्ध्या व्याप्यस्य कर्तुः प्रतिषेधोऽस्तु न
प्रमाणाभावेनेत्याह-प्रकृतेऽपि इति । न इति । प्रतिषेधाधिकरणस्य सिद्धिमेवाह-न हि इति । न
प्रकाशः ।
प्रमेयासत्त्वं स्यादित्याह । न चेति । अनियमेनेति । सर्वपुरुषापेक्षयेत्यर्थः । व्यापकेति । तत्तद्व्या-
पकनिवृत्तौ तत्तद्व्याप्यनिवृत्तेरित्यर्थः । कार्यविशेषस्य कारणविशेषव्यापकत्वमाह । चरमेति । कार्यरूप-
ज्ञानादि । योग्यतामात्रस्येति । व्यापकमित्यनुषज्ज्यते । न च भक्षितविनष्टबीजे व्यभिचारः ।
यत्सामान्यं यत्कारणावच्छेदकं तदवश्यं तज्जनकवृत्तीत्यर्थात्, नित्ययोग्याभिप्रायकत्वाद्वा ।
अन्यथेति । कदाचित्कार्यव्यतिरेके योग्यतायामपि सन्देह इत्यर्थः । प्रकृतेऽपीति । ईश्वरो
न कर्ता तद्व्यापकस्वार्थादिशून्यत्वाद् व्योमवदिति व्यापकाभावलिङ्गकमनुमानमित्यर्थः ।
प्रकाशिका !
रूपज्ञानादीति । तथा च सामग्र्यन्तरसमवधानदशायां रूपानुपलब्ध्येव चक्षुरभावोऽनु-
मीयत इत्यर्थः । यत्सामान्यमिति । कस्य चिदुद्भूतरूपस्य विषयसाक्षात्कारकारणतावच्छेदकस्य न
फलोपहितवृत्तित्वमिति सामान्यपदम् । तेन तत्रापि परम्परासम्बन्धेनावच्छेदकस्य सामान्यस्य
तेनैव सम्बन्धेन फलोपहितवृत्तितया न व्यभिचार इति भावः ॥ १ ॥

तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम्। ३२६
श्वरस्तज्ज्ञानं वा क्वचित् सिद्धम्। आभासप्रतिपन्नमिति चेन्न। तस्याश्रयत्वानु-
पपत्तेः। प्रतिषेध्यत्वानुपपत्तेश्च ॥ १ ॥
व्यावत्र्त्याभाववत्तैव भाविकी हि विशेष्यता ॥
अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ २ ॥
न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं
निषेध्यता वेति । कथं तर्हि शशशृङ्गस्य निषेधः । न कथञ्चित् ।
बोधनी ।
ज्ञानाश्रय एव सर्वकर्त्तृत्वस्य विषयत्वस्य वा प्रतिषेधः संभवतीति । आभास इति ॥ तेनाश्रयत्वोपप-
त्तिरिति । न इति । न परस्माभासप्रतिपन्नाश्रयत्वानुपपत्तिः । प्रतिषेधप्रतियोगित्वं च नोपपद्यत इति ॥१॥
उभयमप्यनुपपत्तिमपपादयति व्यावत्र्त्ये-इति । व्यावत्र्त्यस्य=निषेधस्य । अभाववत्ता=तत्संबन्धिता ।
भाविकी=पारमार्थिकी । विशेष्यता नामाभावाधिकरणतेति । यावत्पारमार्थिकी चाभाववत्ता पारमार्थिक-
स्यैव भावस्य न चाभासप्रतिपन्नस्येति भावः । निषेध्यस्य प्रतियोगिनः परमार्थतोऽभावविरुद्धात्मत्वं हि
प्रतियोगिता निषेध्यत्वमिति यावत्, न चैतदप्याभासप्रतिपन्नस्यास्तीति । यथाहुः "लब्धरूपे क्वचि-
त्किञ्चित्तादृगेव निषिद्ध्यते" इति । न चैतत् इति ॥ विशेष्यप्रतियोगिनोर्दर्शितं रूपमिति । कथं
तर्हि-इति । यद्यसद्वस्त्वैतन्नास्तीति । उत्तरं न कथञ्चित्-इति । शशशृङ्गप्रतियोगिको निषेधो न .
प्रकाशः ।
आभासेति । असत्ख्यात्युपस्थितमित्यर्थः । यदीश्वरे कर्त्तृत्वनिषेधः साध्यते तदाऽऽश्रयत्वमीश्वरस्य,
यदा तस्यैवाभावः, तदेश्वरस्य प्रतियोगितात्वम्, उभयमपि नास्तीत्याह । तस्येति । ॥ १ ॥
कुत इत्याह । व्यावत्र्त्येति । व्यावत्र्त्यः = प्रतियोगी, तदभाववत्ता भाविकी पारमार्थिकी
विशेष्यता आश्रयता, वस्तुनः प्रामाणिकस्य, स्वाभावविरहरूपत्वं च प्रतियोगितात्वम् । असत्ख्यातेः
कारणाभावेन निरासादित्यर्थः ।
नन्वनुमितिरैव पक्षः । तथा हि इयमनुमितिरयथार्था, अशरीरे कर्तृत्वज्ञानत्वात्, ज्ञाने
नित्यत्वज्ञानत्वाद्वा । घटः कर्त्ता, चैत्रज्ञानं नित्यमिति ज्ञानवदित्यस्तु । न चोपजीव्यविरोधः । अनु-
मितिर्हि उपजीव्या, न तु तन्मथार्थत्वमपि । न । अप्रयोजकत्वात् । अन्यथा, पर्वते वह्न्यनुमि-
तिरयथार्था उभयसिद्धाग्निमद्भिन्नोऽग्निमत्त्वज्ञानत्वात्, ह्रदोऽग्निमानितिवदित्यापत्तेः । अपि चानु-
मितेरयथार्थत्वं दोषादुत्पन्नमनेन ज्ञाप्यं, न त्वनेनोत्पाद्यम् । तत्र चायमेव दोषो दोषान्तरं वा ?
नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् ।
न चेति । आभासानाभाससङ्करापत्तेरिति भावः । कथमिति । यदि नासतो निषेध्यत्वमिति
शेषः । न कथञ्चिदिति । नात्रापि कल्पितस्य निषेध्यत्वं, शशेऽधिकरणे शृङ्गस्यैव निषेधा-
प्रकाशिका ।
अयमेवेति । प्रकृतानुमानरूप एवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वे वास्तवव-
स्तुनोरभेदापत्तिरित्यर्थः । तर्हीत्यस्य तदेत्यर्थः । तत्त्व च यदीतिशब्दसापेक्षतया शेषं पूरयति । यदीति ।
मकरन्दः ।
अयमेवेति । प्रकृतानुमानमेवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे
वस्तुत्वावस्तुत्वसङ्करापत्तिरित्यर्थः । यदीति । यद्यपि तर्हीत्यस्य तदेत्यर्थः, तस्य च नित्यसापे-
क्षतया शेषदानं विनाऽपि तदर्थलाभः, तथापि नित्यसापेक्षतया अध्याहारात् तदपेक्षया शेषस्य
टिप्पणी ।
अप्रयोजकत्वादिति । कृतिं प्रति शरीरस्य कारणत्वे सिद्धे सप्रयोजकत्वं स्यात्, नित्यकृत्यभ्युपग
मेन तदभावादिति भावः । आभासानाभाससङ्करेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे
४१ न्या० कु०

३३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
स ह्यभावप्रत्यय एव। न चायमपारमार्थिकप्रतियोगिकः परमार्थाभावो नाम। न
चापारमार्थिकविषयं प्रमाणं नामेति(१) ॥ २ ॥
अपि च—
दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता ॥
न तस्यां नोपलम्भोऽस्ति नास्ति साऽनुपलम्भने ॥ ३ ॥
केन च शशशृङ्गं प्रतिषिध्यते। सर्वथाऽनुपलब्धस्य योग्यत्वासिद्धेः। तदि-
तरसामग्रीसाकल्यं हि तत्। ननूक्ताभासोपलब्धं हि तत्। अत एवाशक्यनिषे-
बोधनी।
कथञ्चित्संभवतीति। कुत इत्याह स हि इति। स हि निषेधोऽभावप्रत्यय एव प्रतीयते। न-इति।
प्रत्ययः प्रमाणं प्रमाणत्वेनैव,स हि निषेधोऽभ्युपगम्यत इत्यर्थः। ततः किमित्याह न च-इति। मा
भूदभावः पारमार्थिकः, ततोऽपि किमित्यत आह तथा-इति। न चेत्यनुषञ्जनीयमिति ॥ २ ॥
न केवलमाभासप्रतिपन्नस्य पारमार्थिकप्रतिषेधप्रतियोगित्वमेव नास्ति प्रतिषेधमात्रविषयत्वमपि
न संभवतीत्याह अपि च-इति। यद्यपि तदतिरिक्तसामग्रीसाकल्यमेव योग्यता, तथापि कल्पितस्य
शशशृङ्गस्य दुष्टैव सामग्री योग्यता, अन्यथोपलम्भस्याप्यदुष्टत्वेनोपलम्भस्यापि तात्त्विकस्य प्रसङ्गात्।
ततः किम् ? तस्यां तादृश्यां योग्यतायां सत्यां शशशृङ्गादेर्नोपलम्भोऽस्ति, अपि तूपलम्भ एव
स्यात्तस्या आभासोपलम्भव्याप्तेः, अत एवानुपलम्भकाले योग्यता नास्ति।
तस्माद्योग्यतानुपलम्भयोरेकतरसंनिधानेऽन्यतरस्याभावात् समुदायसाध्यमभावावधारणं दुष्कर-
मिति व्याख्यातुमुपक्रमते केन-इति। योग्यानुपलम्भेनेति चेत्तत्राह सर्वथा-इति। कदाचिदुपलम्भे
ह्यन्वयव्यतिरेकाभ्यां शक्यज्ञाना सामग्रीति। आभास-इति। तेन सर्वथानुपलब्धिरसिद्धेति।
प्रकाशः।
दित्यर्थः। स हीति। पारमार्थिकाभावप्रत्यय एवेत्यर्थः। प्रतियोग्यधिकरणयोर्वस्तुत्वादिति भावः।
न चेति। प्रामाणिकनिषेधव्यवहारे प्रामाणिकस्यैव निषेध्यत्वादित्यर्थः ॥ २ ॥
किञ्चानुपलब्धिमात्रान्निषेधसिद्धेऽतीन्द्रियोच्छेदाद् योग्यानुपलम्भात् स वाच्यः। योग्यता
च प्रतियोगितावच्छेदकेतरप्रमापकसांकल्यरूप्रा अलीके नास्तीति दोषसचिवतज्ज्ञानसामग्रीरूपा सा
वाच्या तस्यां च सत्यां नालीकस्थानुपलम्भः उपलम्भस्यैव सत्त्वात् अनुपलब्भदशायाञ्च तज्ज्ञानसाम-
ग्रीरूपा योग्यतैव नास्तीत्याह—
अपि चेति। केन चेति। न केनापीत्यर्थः। सर्वथेति। प्रमाणत इति शेषः। नन्वा-
भासोपलब्धस्यापि नेदं रजतमिति निषेधादुपलब्धमात्रस्य निषेधो, न तु प्रमितस्यैवेत्यत आह।
तदितरेति। रजतादेः प्रामाणिकत्वेन योग्यस्यैवानुपलम्भात्प्रतिषेधो, न त्वाभासोपलब्धस्येत्यर्थः।
तथैव किं न स्यादित्याह। नन्विति। आभाससामग्रीकालेऽनुपलम्भाभावार्दनुपलम्भकाले च तद्रू-
पयोग्यताया असत्त्वादित्याह। अत एवेति।
प्रकाशिका।
शश इति। कार्यकारणभावेन सम्बन्धेनायमभावो वोद्धव्यः, अन्यथा संयोगेन शृङ्गस्य सत्त्वादभा-
वासम्भवः, समवायेन गव्यपि शृङ्गाभाव इति तद्वैलक्षण्यं न स्यादिति ॥ २ ॥
मकरन्दः।
त्वरितप्रतिपत्तिकरत्वमिति भावः। शशे इति। यद्यपि शशे गवादिश्टङ्गस्य संयोगवृत्त्या सत्त्वात्
कथं शृङ्गाभावः, समवायवृत्त्या च तदभावो गवादावपि शृङ्गस्य संयोगित्वात्, तथापि जन्यजनक-
भावसंबन्धेन तदभावो बोध्यः ॥ २ ॥
टिप्पणी।
वस्तुत्वावस्तुत्वसङ्करापत्तेरित्यर्थः ॥ २ ॥
(१) अपारमार्थिकविषयं प्रमाणं तथा नामेति बोधनीकारसम्मतः पाठः।

तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३३१
र्धमित्युक्तम् । अनुपलम्भकाले आभासोपलम्भसामग्र्या अभावात्तत्काले चानुपल-
म्भाभावादिति । कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः ? । शशे अधिकरणे विषाणाभा-
वोऽस्तीति ॥ ३ ॥
बोधनी ।
तदुत्तरत्वेन श्लोकार्थं विवृणोति अत एव-इति । कस्तर्हि-इति । यद्यशवयनिषेधम् इति ।
सुहृद्भावेनाह शश इति । प्रमाणसिद्धमेव विषाणं निषिध्यते न त्वाभासप्रतिपन्ने तादृशमेवेति ॥३॥
प्रकाशः ।
नन्वेवं घटादावपि दोषस्योपलम्भकारणत्वात्तदभावोऽपि न गृहीत । प्रमापकसाकल्यस्य च विव-
क्षितत्वे गुणस्यैव प्रमापकस्याभावात् तत्साकल्यासिद्धेः । अत्राहूः । प्रत्यक्षप्रमायामिन्द्रियार्थसन्नि-
कर्षस्य गुणत्वात्तस्य च तद्व्याप्यत्वादेव । तदन्यगुणस्य च तत्राकारणत्वात् । घटादौ गुणा-
न्यप्रमाकारणत्वेन योग्यता । शशशृङ्गे च न दोषान्यज्ञानकारणत्वेन योग्यता । दोषान्यप्रमापक-
स्याभावादित्यन्ये ।
शश इति । ननु गवि शशशृङ्गं नास्तीतिप्रतीतिवलात् प्रतियोग्यवृत्तित्वेन शशीयत्वेनाव-
च्छिन्नः शृङ्गाभावः प्रतीयते । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् ।
मैवम् । प्रतियोगितावच्छेदकधर्मविशिष्टप्रतियोगिज्ञानस्याभावीहेतुतया तादृशप्रतीतेरसिद्धेः ।
अन्यथा प्रतियोगिनिर्विकल्पकादपि व्यतिरेकप्रतीत्यापत्तेः ॥ ३ ॥
प्रकाशिका ।
प्रत्यक्षप्रमायामिति । तथा च तत्, तद्व्याप्येतरयावत्तत्प्रमापकसाकल्ये सत्यनुप-
लब्धिरभावग्राहिका । गुणस्यार्थनियतत्वेन व्याप्यपदादेव व्यवच्छेदान्नासम्भवः । सा च न
शशशृङ्गे तत्प्रमाकासिद्धेः । न च दोषान्यज्ञापकसामग्रीसाकल्यमेव योग्यता तत्साकल्यं
चात्मादिकमादाय तत्राप्यस्त्येवेति वाच्यम् । तत्तद्व्याप्येतरस्यावश्यकत्वे गौरवादित्यर्थः ।
प्रमापकस्येति । ज्ञापकस्येत्यर्थः। अन्य इत्युक्तौ तद्वीजन्तु आत्मादिकमेव दोषान्यज्ञापकमस्ती-
ति । वस्तुतोऽसत्ख्यातेः कारणवाधेन निरासे प्रतियोगिज्ञानाभावारोपादेव नालीकाभावप्रतीतिरित्युत्र
बाधकं स्मर्त्तव्यम् । प्रतियोगितेति । इदञ्चाभावप्रत्यक्षे एव कारणं प्रमेयोऽभाव इति शब्देन
तद् विनापि अभावग्रहात् । वस्तुतोऽभावप्रतीतौ यो धर्मः प्रतियोगिनिष्ठत्वेन भासते तत्प्रकारकप्रतियो-
गिज्ञानं कारणं, विशिष्टवैशिष्ट्यज्ञाने सामान्यत एव विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्य कारण-
मकरन्दः ।
प्रत्यक्षप्रमायामिति । तथा च प्रतियोगितद्व्याप्येतरयावत्प्रमापकसमवधाने सति अनुपलब्धि-
रभावग्राहिका, गुणस्य चार्थनियतत्वेन तद्व्याप्यपदेनैव व्यवच्छेदान्नासम्भवः । सा च न शशशृ-
ङ्गाभावे, तत्प्रमापकाप्रसिद्धेः, न च दोषान्यज्ञापकसाकल्यं विवक्षितं, तच्चेन्द्रियाद्येव तत्रापि प्रसि-
द्धमिति वाच्यम् । गौरवादित्याहुः । वस्तुतोऽसत्ख्यातेः कारणाभावेनानभ्युपगमादलीकस्य नोप-
लब्धत्वमपीति न तन्निषेधमिति भावः । प्रमापकस्येति । प्रज्ञापकस्येत्यर्थः । अत्रेदमरुचि-
मतिवीजम् । असत्ख्यातिपक्षे दोषान्यज्ञापकमिन्द्रियाद्येव, अन्यथा दोषोऽपि न तज्ज्ञापक इति
दोषान्यविशेषणं व्यर्थमिति । प्रतियोगितेति । यद्यपि तादृशज्ञानं विनापि प्रमेयाभाव इति शब्दा-
दिनाऽभावग्रहान्न तस्याहेतुत्वं, तथापि प्रत्यक्षे तथात्वं बोध्यम् । यद्यप्याहार्यादिरूपं तादृशज्ञानं
प्रकृते सम्भवत्येव, तथाप्यनुमानप्रकाशे मदुक्तमनुसन्धेयम् ॥ ३ ॥
टिप्पणी ।
दोषान्यप्रमापकस्याभावादित्यन्य इति । असत्ख्यातिपक्षे दोषान्यमिन्द्रियमेव ज्ञापकम् ,
अन्यथा दोषोऽपि ज्ञापको न स्यादिति दोषान्येति व्यर्थमित्यस्वरसः ॥ ३ ॥ ४ ॥

३३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
स्यादेतत् । यद्यपीश्वरो नावगतो, यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः
शक्यसम्पादनः, तथाप्यात्मानः सिद्धास्तेषां सार्वज्ञ्यं निषिध्यते, क्षित्यादिकर्तृत्व-
श्चेति। तथाहि। मदितरे न सर्वज्ञाश्चेतनत्वादहमिव, न च ते क्षित्यादिकर्त्तारः पुंस्त्व-
त्वादहमिव। एवं, वस्तुत्वादेरपीति। तदेतदपि प्रागेव परिहृतम्। तथाहि—
इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे ॥
नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥ ४ ॥
प्रमाणप्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम्। ततोऽन्येषामसिद्धौ हे-
तोराश्रयासिद्धत्वम्। आत्मत्वमात्रेण सोऽपि सिद्ध इति चेत्। कोऽस्यार्थः ?। किं
बोधनी ।
प्रकृतेऽपि प्रमाणसिद्धं निषेधाधिकरणं दर्शयन्नाह । स्यादेतत्-इति । तस्यामेव प्रतिज्ञायां
वस्तुत्वद्रव्यत्वादयोऽपि हेतव इत्याह एवम्-इति । यथाहुः—
"प्रत्यक्षायविसंवादि प्रमेयंत्वादि यस्य च । अभावकरणे शक्तं को नु तं कथयिष्यति"
( श्लो० वा०, पृ० ८५ )।
एतदप्याश्रयासिद्धत्वादिनो दत्तोत्तरमित्याह तदेतत्-इति ।
तदेव विकल्प्योपपादयति इष्टसिद्धिः-इति । उभयवादिसिद्धेषु पक्षीकृतेषु सिद्धसाधनं तेषाम-
सर्वज्ञत्वासर्वकर्तृकत्वयोः अस्माकमपि सिद्धत्वात् भवतामगोचरेऽपीश्वरे पक्षीकृते हेतोराश्रयतोऽसिद्धिः।
नन्वात्ममात्रे पक्षीकरणे सोऽपि तत्तया गृहीत इत्यस्ति सामान्यतः सिद्धिरित्यत उक्तम् नान्या
सामान्यतः सिद्धिः-इति । उभयसिद्धयनुभयसिद्धिभ्यामन्यतः सिद्धिर्नाम न काचिदस्ति । न
ह्युभयीमपि विधामतिक्रम्य विधान्तरमस्ति ।
आत्मत्वजातावपि पक्षीकृतायां यथेष्टसिद्ध्या पक्षत्वानिपातेनाश्रयासिद्धिः तथा सैवाश्रयासिद्धिः
स्यात् । निषेध्यस्य सर्वज्ञत्वादेः क्वचिदप्यसिद्धेरप्रसिद्धविशेषणत्वात्पक्षस्येति व्याचष्टे प्रमाणेन-इति ।
तृतीयं पादं व्याचिख्यासुः शङ्कते आत्मत्वमात्रेण-इति । विकल्प्य दूषयति कोऽस्यार्थः-इति ।
भवतोऽसिद्धाप्यस्मदभिमतैव सर्वज्ञसर्वकर्तृव्यक्तिरात्मत्वेनोपलक्षिता किं पक्षीक्रियेत तस्या अप्यात्मत्वो-
पलक्षितत्वेन वस्तुगत्या सिद्धत्वात् । अथ तदन्या संप्रतिपन्नैव व्यक्तिः, अथ वात्मत्वमात्रमेव ।
प्रथमे हेत्वसिद्धिरगोचर इति स्यात् । द्वितीये त्विष्टसिद्धिरिति स्यात् । तृतीयेऽपि सैव, आत्मत्वस्यासर्वज्ञ-
प्रकाशः।
न सर्वज्ञा इति। परेषां सर्वज्ञाप्रसिद्धेः । अत्र किञ्चिदनभिज्ञत्वमेव साध्यम् ।
तत इति ॥ सामान्यलक्षणप्रत्यासत्तेस्तैरनभ्युपगमान्नात्मत्वेनापि तदुपस्थितिरिति भावः॥
प्रकाशिका ।
त्वात् । न चैवं शुद्धरूपाभावप्रतीत्यापत्तिः कारणवाधाभावादिति वाच्यम्। शुद्धरूपविशिष्टघटप्रतीत्याप-
त्तेस्त्वयापि समधेयत्वात् । न च विशिष्टधीसामग्री शुद्धव्यक्तिविशेषणज्ञानाजनिकेति तत्र समाधि-
रिति वाच्यम् । इहाप्यभावज्ञानसामग्री शुद्धप्रतियोगिकाभावज्ञानाजनिकेति समाधेः सत्त्वात्, ।
ननु तथाप्याहार्यमेव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानं व्यधिकरणधर्मावच्छिन्नाभावग्रहे कार-
णमस्त्विति चेन्न। अनाहार्यस्यैव तस्य कारणत्वादित्यन्यत्र विस्तरः। वस्तुतो विरोधिशून्येऽभावप्रसं-
ज्ञायाः पारिभाषिकतापत्तिः, विरोधि च प्रकृते न शृङ्गम्, तस्य तत्समानाधिकरणत्वात्, नापि
शशीयत्वविशिष्टं शृङ्गम् । तस्यालीकतया विरोधाप्रतियोगित्वादिति नैतादृग्भावस्वीकार इति ॥ ३ ॥
परेषामिति । सर्वगोचरप्रत्यक्षाभाव एवात्र साध्यः, अन्यथा शब्दे सर्वगोचरज्ञानसत्त्वेन
बाधापत्तेः, तथा सति प्रतियोग्यप्रसिद्धिरिति भावः । सामान्यलक्षणेति । इदमुपलक्षणम् । व-
मकरन्दः।
परेषामिति । यद्यपि शाब्दादिज्ञानमादाय तेषामपि तत्प्रसिद्धिरस्त्येव, तथापि तथा सति

तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३३५
मात्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्मत्व-
मेव वा पक्षः ? । सर्वत्र पूर्वदोषानतिवृत्तेः । अथायमाशयः । आत्मत्वं न सर्वज्ञसर्व-
कर्तृव्यक्तिसमवेतं, जातित्वात्, गोत्ववदिति । तदसत् । निषेध्यासिद्धेर्निषे-
ध्याशक्यत्वात् । तथा चाऽप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव
दोषः ॥ ४ ॥
त्वदभ्युपगमैर्लोकप्रसिद्धया च प्रसिद्धस्येनेश्वरस्यासर्वज्ञत्वमकर्तृत्वञ्च साध्यते
इति चेन्न ।
आगमादेः प्रमाणत्वे बाधनादानिषेधनम् ॥
आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता ॥ ५ ॥
बोधनी ।
त्यासर्वकर्तृकत्वयोः सिद्धत्वादिति । तुरीयपक्षव्यानिख्यासया शङ्कते अथायम्-इति । तन्नाश्रयासि-
द्धिसिद्धसाध्यते न स्यातामिति भावः । तदसत्-इति । न हि मीमांसकस्य सर्वज्ञादिधर्मी प्रसिद्ध-
द्धमिति । कियतोऽनुमानस्येत्यत आह तथा च-इति । साध्यविशिष्टस्य पक्षत्वाद् विशेषाप्रसिद्धावपि
विशेषाप्रसिद्धानपि विशिष्टस्यासिद्धेराश्रयस्य पक्षस्याभावेन हेतोराश्रयासिद्धिरो भवतीति ॥ ४ ॥
त्वदभ्युपगमैः-इति । नैयायिकाम्युपगमैर्लोकप्रसिद्धया चाश्रयः सेत्स्यतीति । न-इति ।
किमाश्रयग्राहकोऽयमागम(दिः प्रमाणमाभासो वा ? प्रमाणत्वे तत एव धर्मिग्राहकमप्रमाणात् बाधितवि-
षयं निषेधायुमानमात्मानमेव नासादयेत् । आभासे तु पूर्वोक्तैवाश्रयासिद्धिरागमदिपाङ्गाणोपङ्गारेण
तिरोभूता तत्परित्यागे पुनरुद्भूता स्यादिति ।
प्रकाशः ।
सर्वज्ञेति ॥ आत्मत्वपक्षेऽप्यसर्वज्ञत्वे शित्वाद्यकर्तृकत्वे च साध्ये सिद्धसाधनमित्यर्थः । न चात्मत्व-
मसर्वज्ञत्वव्याप्यं ज्ञानत्वमप्रानित्यत्वव्याप्यमिति वाच्यम् । विपक्षे बाधकाभावात् । अन्यथा, मूर्त्तत्वम-
प्यणित्वव्याप्यमिति परमाणुरपि न सिद्ध्येदिति भावः ॥ तथा चेति ॥ जिज्ञासितधर्मिणो धर्मिणः
पक्षत्वात्तदभावेनाश्रयासिद्धिरित्यर्थः ॥ ४ ॥
आगमादेरिति ॥ न चाऽऽगमादेर्धर्म्यंशे प्रामाण्येऽपि अन्यांशे न प्रामाण्यमिति वाच्यम् ।
तद्रूपेणाप्यस्मदादितदन्यपक्षत्वे सिद्धससिद्धिन्यायपातादिति भावः ॥ ५ ॥
प्रकाशिका ।
स्तुतस्त्वत्रापि तदुपस्थितौ तस्य सर्वज्ञत्वे बाधः, 'असर्वज्ञत्वे सिद्धसाधनमिति दूषणं द्रष्टव्यम् । जिज्ञा-
सितेति प्राचीनमतेनेदम् ॥ ४ ॥
तद्रूपेणापीति । सर्वज्ञत्वादिधर्मांशेऽप्रामाण्येऽपि धर्मिणः सर्वज्ञस्य सिद्धिरसर्वज्ञस्य वा,
मकरन्दः ।
व्यापारेत्तः, सर्वज्ञपदस्य सर्वविषयकप्रत्यक्षाश्रयपरतायामेव प्रसिद्धिरोच्या । जिज्ञासितेति । प्रा-
चीनमतेनेदम् ॥ ४ ॥
तद्रूपेणेति । यद्यपि धर्मिमात्रसिद्धौ न सिद्धयसिद्धिव्यापातः, तथाप्याप्तोक्तताविशेषाद्-
टिप्पणी ।
तद्रूपेणेति । आगमसिद्धधर्मिमात्ररूपेणेत्यर्थः । अभेदे तृतीया । यद्वा तद्रूपेणात्मत्वरूपेणा-
स्मदाद्यसमदाद्यन्यपक्षत्य इत्यर्थः । आगमस्य प्रामाण्येऽलौकिकधर्मिण्यो लौकिकधर्मेऽपि तत्

३३४ व्याख्यात्रयोपेतप्रकाशबोधनयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां
निगदव्याख्यातमेतत् ॥ ५ ॥
चार्वाकस्त्वाह, किं योग्यताविशेषाग्रहेण ? । यन्नोपलभ्यते तन्नास्ति, विपरीत-
मस्ति । न चेश्वरादयस्तथा । ततो न सन्तीत्येतदेव ज्यायः । एवमनुमानादिविलोप
इति चेत् । नेदम्‌ अनिष्टम् । तथा च लोकव्यवहारोच्छेद इति चेन्न । सम्भावनामात्रेण
तत्सिद्धेः । संवादेन च प्रामाण्याभिमानादिति ।
अत्रोच्यते—
दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् ॥
अदृष्टिबाधिते हेतौ प्रत्यक्षपि दुर्लभम् ॥ ६ ॥
सम्भावना हि सन्देह एव । तस्माच्च व्यवहारस्तस्मिन् सति स्यात् । स एव
बोधनी ।
संग्रहस्याविवरणे कारणमाह—निगद-इति । निगदः पाठः, स एव व्याख्यानमस्येति ॥ ५ ॥
तदेवमनुपलब्धिमात्रं न बाधकं योग्यानुपलब्धिस्तु नास्तीति मीमांसके निरस्ते परमनास्तिकः
चार्वाकः प्रत्यवतिष्ठत इत्याह—चार्वाकस्तु-इति । सिद्धान्ती शङ्कते एवम्-इति । इतर आह नेदम्-
इति । प्रत्यक्षैकप्रमाणवादिनो हि वयमिति । तथा च-इति । प्रायशो व्यवहाराणामनुमानाधीनत्वादिति ।
न-इति । धूमादिदर्शनेऽग्निसंभावनामात्रेण व्यवहरन्ति न तु निश्चयात्, अतो न तदर्थमनुमानप्रा-
माण्यमङ्गीकर्त्तव्यमिति । कथं तर्हि व्यवहर्तॄणां प्रमाणमूलोऽयं व्यवहार इत्यभिमान इत्यत्राह संवा-
देन च-इति । संभावनामात्रेण प्रवर्त्तमाना यादृच्छिककार्यसंवादेन प्रवर्त्तकविज्ञानस्य प्रामाण्यमभि-
मन्यन्ते न तु निश्चायकत्वादिति ।
अत्रोच्यते—इति । संदेहात् प्रवृत्तिरिति तावन्न संभवति, भवत्पक्षे संदेहस्यैवासंभवात् ।
दृष्टौ सत्यामदृष्टौ वा सत्यां क्व कस्मिन्विषये दृष्टेऽदृष्टे वा, संदेहः स्यादुभयोरप्युभयत्रापि न संभवति ।
संशयस्य हेतुर्विषयश्च नास्तीत्यर्थः । कुतः भावाभावनिश्चयात् दृष्टादृष्टयोरित्येव दर्शनदशायां भावा-
वधारणादर्शनदशायां वाऽभावावधारणात् अतो व्यवहारार्थमनुमानादिकमेवाङ्गीकरणीयं, तच्चानुप-
लम्भमात्रेणाभावनिश्चये दुर्लभम् । न केवलम् अनुमानादिकमेव, प्रत्यक्षपि तद्धेतौ चक्षुरादावनुपल-
ब्धिमात्रेण बाधिते कारणाभावात् कार्याभाव इति न्यायेन दुर्लभमिति सर्वोपप्लव इति ।
ननु मा नाम भूत्संदेहः संभावनया व्यवहारमभ्युपगच्छतः किमायातमिति शङ्कामपनुदन्व्याचष्टे
प्रकाशः ।
सम्भावनेति ॥ उत्कटकोटिकसंशयमात्रेणेत्यर्थः ॥
दृष्ट्यदृष्टयोरिति, सप्तमीद्विवचनान्तम् । दर्शने तत्सत्त्वनिश्चयाद् अदर्शने चाभावनिश्चयान्न
सन्देहः प्रत्यक्षहेतौ गोलकादावदृष्ट्या अनुपलब्ध्या, बाधिते हेत्वभावात् प्रत्यक्षपि न स्यादित्यर्थः ॥
प्रकाशिका ।
असिद्धिरेव वा, आद्ये बाधो, द्वितीये सिद्धसानम्, तृतीय आश्रयासिद्धिरित्यर्थः । वस्तुत आप्तोक्त-
त्वादेर्धर्म्म्यंशवद् धर्म्मांशेऽपि तस्य प्रामाण्यमिति भावः ॥ ५ ॥
मकरन्दः ।
र्म्मांशेऽपि प्रामाण्यमन्यथा न धर्म्म्यंशेऽपीत्याश्रयासिद्धिरेवेति भावः । अस्मदादिपक्षत्वे सिद्धसा-
धनं बोध्यम् ॥ ५ ॥
टिप्पणी ।
स्यादिति सर्वज्ञत्वाभावसाधने व्याघातः, धर्म्यंशेऽप्रामाण्ये धर्मांशे तत्स्यादिति धर्मसिद्धौ व्याघात
इति भावः ॥ ५ ॥

तु कुतः ? । दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् । तथा
च गृहाद् बहिर्गतश्चार्वाको वराको न निवर्त्तेत । प्रत्युत, पुत्रदारधनाद्यभावावधार-
णात् सोरस्ताडं शोकविकलो विक्रोशेत् । स्मरणानुभवान्नैवमिति चेन्न । प्रतियोगि-
स्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति । सत्त्वादिति
चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् । तदैवोत्पन्ना
इति चेन्न । अनुपलभ्भेन हेतूनां बाधात् । अबाधे वा स एव दोषः । अत एव प्रत्य-
क्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् । उपलभ्यन्त एव

बोधनी ।
संभावना हि-इति । ततः किमित्यत आह तथा च-इति । गृहान्तर्वर्त्तिनोऽपि निर्गतस्याभावाव-
धारणात् विलीयेयुरिति भावः । स्मरण-इति । बहिर्निर्गतेनापि पुत्रादीनां स्मरणेनोपलम्भात् नोक्तः
प्रसङ्ग इति । न-इति । प्रतियोगिस्मरणसहकृतस्यैवानुपलम्भस्याभावविशेषपरिच्छेदहेतुत्वान्न स्मरणो-
पलम्भो न केवलमभावपरिच्छेदं प्रतिबध्नाति प्रत्युतोन्मूलातीति यदृच्छया परावृत्तोऽपि न पुनः
पुत्रादीनासादयेदित्याह परावृत्तोऽपि-इति । तेऽपि नासादयेयुरिति भावः । ननु परावृत्तिकाले तेषां
सत्त्वादासादयिष्यन्तीत्याह सत्त्वात्-इति । अनुपलम्भकाल इति स्पष्टः परिहारः नानुपलम्भकाले-
ऽपि सन्तः पुत्रादयः पुनरासाद्यन्ते । किन्तु यदोपलभ्यन्ते तदैवोत्पन्ना अन्य एवेत्याह तदैव-इति ।
न-इति । तदुत्पत्तिहेतूनां तदानीमनुपलम्भेन बाधितत्वात्तदुत्पत्तेरसम्भवाददुनुपलम्भेऽपि वा तेषामबाधे
स एवानुपलम्भमात्रेण नाभावावधारणमिति दोषः स्यादिति संग्रहस्योत्तरमर्धं व्याचष्टे अत एव-
इति । यत एवानुपलम्भमात्रेणासत्त्वाङ्गीकार इति । उपलभ्यन्ते-इति । स्पष्टम् । तन्मतमङ्गीकृत्यै-

प्रकाशः ।
तथा चेति ॥ पुत्रादिभिस्तस्यादर्शनात् स न स्यादिति गृहं न प्रत्यावर्त्तेतेत्यर्थः ॥ प्रत्युतेति ॥
पुत्रादेरदर्शनादित्यर्थः ॥
ननु नाप्रत्यक्षं प्रमाणमिति चार्वाकसिद्धान्तादनुपलब्धिः प्रत्यक्षसहकारिणी । न च गेहाद्बहिर्ग-
मनेऽधिकरणेन सहेन्द्रियसन्निकर्षोऽस्तीति न पुत्राद्यभावनिश्चयः स्यात् । सन्निकृष्टे देशे चाभाव-
निश्चयेऽपि ध्वंसानिश्चयान्न शोकः स्यात् । अत एव, पर्वते परभागेन सह इन्द्रियाऽसन्निकर्षाद्
वह्न्यभावनिश्चय इति तत्र संशयादनुमानप्रवृत्तिः । अत्राहूः । अधिकरणज्ञानमात्रमभावधीहेतुर्न
तु तदिन्द्रियसन्निकर्षोऽपि । अत एव, देवताद्यभावस्तदधिकरणसन्निकर्षेऽपि गृह्यते इति चार्वाक-
सिद्धान्तमाश्रित्योक्तम् ॥
पुत्रादेः स्मरणान्नैवं करोतीत्याह ॥ २॥ स्मरणेति ॥ स्मरणादिति वक्तव्ये अनुभवग्रहणं तत्र
प्रमाणसूचनार्थम् । पुत्रादिस्मरणं तदभावग्रहेऽनुकूलमेव, प्रतियोगिज्ञानं विना तदग्रहादित्याह ॥
प्रतियोगीति ॥ अनुपलम्भकाले इति ॥ तथा चानुपलब्धिमात्रमभावसंशये हेतुर्न तन्निश्चा-
यकमित्यर्थः । हेतूनां पुत्राद्युत्पादकानामित्यर्थः ॥ स एवेति ॥ नानुपरूब्धिमात्रेणाभावनिश्चय
इत्यर्थः ॥ अत एवेति ॥ हेतूनां बाधादेवेत्यर्थः । ननु चक्षुरादीनामपि स्वोपलब्धिक।ले सत्त्व-

प्रकाशिका ।
सप्तमोति । सति सप्तमीत्यर्थः । संशयादनुमानप्रवृत्तिरिति । भवतां नैयायिकानामिति

टिप्पणी ।
अनुमानप्रवृत्तिरिति । परैरभ्युपगतानुमानजन्यप्रवृत्तिः ।

३३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
गोलकादय इति चेन्न । तदुपलब्धेः पूर्वं तेषामनुपलम्भात् । न च यौगपद्यनियमः ।
कार्यकारणभावादिति ॥
एतेन, न परमाणवः सन्ति अनुपलब्धेः । न ते नित्या निरवयवा वा पार्थिव-
त्वात् घटादिवत् । न पाथसीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरू-
पादिवत् । न रूपत्वपार्थिवत्त्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्ग-
त्ववत् । नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः । अयोग्यानि च शशशृङ्गप्रतिबन्दिनि-
रसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् ।
मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति ॥ ६ ॥
यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि
बोधनी ।
वाह न-इति । गोलकादयः स्वोपलब्धेः पूर्वमनुपलम्भेनासन्तः कथं स्वस्वविषयोपलब्धिमुत्पादयेयु-
रिति । तर्हि स्वोपलम्भकाल एव सन्तः स्वविषयोपलम्भान्तरमारभेरन्नित्यत्राह न च-इति । न हि
चक्षुरादीनां स्वविषयोपलम्भस्य च कार्यकारणभावायौगपद्यं भवतीति ।
एवं तावदनुपलम्भमात्रेण ईश्वरनिषेधोऽशक्य इत्युक्तम्, इदानीमनेनैव मार्गेण तेषां परमाण्वा-
दिनियमोऽपि न सिध्यतीत्याह एतेन-इति । एतेन निरसनीयमिति संबन्धः । तत्र परमाणूनां पर-
मेश्वरस्येव योग्यानुपलम्भाभावेन प्रत्यक्षेण बाधः, तत्सर्वज्ञत्वसर्वकर्तृत्वयोरिव तेषां नित्यत्वनिरवयव-
त्वयोर्निषेधे धर्मिग्राहकप्रमाणबाधः । तज्ज्ञानं पक्षीकृत्य सर्वविषयत्वनिषेधवत् पाथःपरमाणुगतरूपा-
दिविशेषगुणानां नित्यत्वनिषेधे चाश्रयासिद्धिः, आत्मत्वं पक्षयित्वा तस्य सर्वज्ञसर्वकर्तृव्यक्तिसमवाय-
निषेधवद्रूपत्वादेरतीन्द्रियाश्रयत्वनिषेधे चाप्रसिद्धविशेषणः पक्षः, इन्द्रियासत्त्वहेतोर्योग्यानुपलम्भस्य
विशेषणासिद्धिः । यद्ययोग्यानीन्द्रियाणि सन्ति तर्हि शशशृङ्गमप्ययोग्यमस्ति चेति प्रतिबन्दिग्रहणेने-
मानि निरसनीयानि इत्येतदपि परमात्मयोग्यत्वप्रतिपादनेन निरसनीयम् । तथा स्वर्गादिनिराकरण-
मपि निरसनीयम् । स्वर्गादिनिराकरणप्रदर्शनेन मीमांसको भीषयितव्यः, तन्निषेधं दर्शयित्वा च
परितोषयितव्यः । यद्वा, ईश्वरनिराकरणनिषेधेन तस्य भीषणमितरनिराकरणनिषेधेन तोषणमिति ॥ ६॥
चार्वाकः सिद्धान्तिनं प्रत्याह यद्येवम्-इति । मा भूत्प्रत्यक्षानुपलभ्यपिशाचाद्युपाधिनिषेधः, ततः
प्रकाशः ।
मन्यदा त्वसत्त्वमिष्यत एवेत्यत आह । न चेति । उपलम्भेन्द्रिययोर्युगपदुत्पत्तयोः पौर्वापर्या-
भावादित्यर्थः । एतेनेति ॥ अनुपलब्धमात्रस्याऽसाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्ध्यादिनेत्यर्थः॥
मीमांसकश्चेति । अनुपलब्धमात्रस्याभावासाधकत्वादपूर्वादिसिद्ध्या तोषणम् । योग्यानु-
पलम्भस्य बाधकत्वेनाऽयोग्यपरमात्माऽबाध इति भीषणम् ॥ ६ ॥
यद्यनुपलम्भमात्रान्नाभावनिश्चयः, तदाऽतीन्द्रियोपाधिशङ्कया व्याप्तिनिश्चयान्नानुमानमिति न तत-
ईश्वरसिद्धिरित्याह—
यद्येवमिति । अनुमानाभावे तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमित्याह ।
प्रकाशिका ।
शेषः । मम तु चार्वाकस्यात एव तत्र संशय इति भावः । उपलम्भेन्द्रिययोरिति । प्रत्यक्षज्ञानस्य
विषयजन्यत्वात्तदन्यज्ञानस्य च त्वयानभ्युपगमादिति भावः ॥ ६ ॥
मकरन्दः ।
उपलम्भेन्द्रिययोरिति । प्रत्यक्षस्य विषयजन्यत्वनियमात्तदन्यज्ञानस्य त्वयानभ्युगमादिति
भावः ॥ ६ ॥
टिप्पणी ।
अयोग्यपरमात्माऽबाध इति भीषणमिति । ईश्वरसिद्धेरीश्वरानङ्गीकर्तुस्तस्य भयम् ॥ ६ ॥
तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमिति । अनुपलभ्यमानार्थे ॥

·तृतीयस्तवके ] अनुमानाप्रामाण्याशङ्कोपपादनम्। ३३७
नैपुण्यः। तथा च कथं तथाभूतार्थसिद्धिरपि अनुमानबीजप्रतिबन्धासिद्धेः । तद-
भावे शब्दादेरप्यभावः । प्रामाण्यासिद्धेः । सेयमुभयतःपाशा रज्जुः ॥
अत्र कश्चिदाह । मा भूदुपाधिविधूननं, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्ध-
निर्वाहात्। तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात्। यत्र तु तद्भङ्गः, तत्र
प्रमाणभङ्गो ऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोर्विप्लवे हेतुरूपप्लवत
इति । अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयोदर्शनाविप्लवे कोऽयमप्रयो-
जको नाम ? । न तावत् साध्यं प्रत्यकार्यमकारणं वा । सामान्यतो दृष्टानुमानस्वी-
कारात् । नापि सामग्र्यां कारणैकदेशः। पूर्ववद्भवदुपगमात् । नापि व्यभिचारी ।
तदनुपलम्भात् । व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कितव्यभिचारः ।
बोधनी ।
किमित्यत्राह तथा च-इति । तथाभूतस्य = यथाज्ञानमवस्थितस्य । यद्वा, अनुमित्सितस्य । यद्वा
अनुमित्सितस्य जगत्कर्तुरिति । कथमसिद्धिरित्यत्राह अनुमान-इति । निरुपाधिको हि संबन्धः
प्रतिबन्ध इति । अनुमानाभावे शब्दादेरपि प्रमाणस्याभाव इत्याह तदभावे-इति । प्रामाण्यग्राहि-
णस्तज्जातीयानुमानादेरपि प्रामाण्याभावापराधेन शब्दादिप्रामाण्यासिद्धेरिति । एवं चानुपलम्भ-
मात्रस्यानिषेधकत्वेऽनुमानायुच्छेदादीश्वरो न सिध्येत्, निषेधकत्वे तु तत एव निषिध्येतेति । सेयं
शिरोद्वयेऽपि पाशवती रज्जुरित्याह सेयम्-इति ।
अत्रैकदेशिनः परिहारं दूषयितुमुपन्यस्यति अत्र कश्चित्-इति । किमनेनोपाधिविधूननव्यस-
नेन केवलान्वयिकेवलव्यतिरेकिणोश्च रूपसंपत्तिमात्रेण प्रतिबन्धसिद्धेर्न हि तयोर्विपक्षसपक्षाभावेन
तद्व्यावृत्त्यनुवृत्ती संभवतः । अन्वयव्यतिरेकिणस्तु पञ्चरूपसंपत्तिमात्रेण तस्य सपक्षविपक्षयोरखिल
तदनुवृत्तिव्यावृत्त्योः संभवादिति । न च रूपसंपत्त्यवधारणेऽप्युपाधिविधूननमुपयुज्यत इत्याह तस्या-
श्च-इति । कथं तत्प्रमाणकत्वं तस्या इत्यत्राह यत्र तु-इति । तयोर्भङ्गे प्रमाणभङ्गस्यावश्यकत्वादि-
ति । कस्मादेवमित्यत्राह न हि-इति । हेतोर्धतुःपञ्चानां रूपाणां विप्लवो हेतुरूपप्लवः । प्रमाणवि-
प्लवाविप्लवयोर्र्हि प्रमेयविप्लवाविप्लवौ भवत इति भावः । यदि दर्शनादर्शनाभ्यामेव प्रतिबन्धसि-
द्धिस्तर्हि मैत्रैीतनयत्वादिरपि हेतुः स्यादित्याह अप्रयोजकः-इति । तयोरविप्लवे तु नाप्रयोजको
नाम कश्चिदस्तीत्याह भूयोदर्शन-इति । स एवाप्रयोजकत्वेन संभावितानाशङ्कय निराकरोति
न तावत्-इति । अनुमानसूत्रे पूर्ववच्छेषवदिति कार्यकारणानुमाने परिगृह्य सामान्यतो दृष्टमित्य-
कार्याकारणभूतस्य सलिलादिविषयवलाकाद्यनुमानस्यापि स्वीकारादिति । नापि-इति । सामग्री
कार्यलिङ्गं तदेकदेशोऽप्रयोजकः स्यादित्यपि न युक्तम् । पूर्वं = कारणं यस्यास्ति लिङ्गत्वेन तत्पूर्वव-
दिति । पूर्ववतोऽपि तत्र सूत्रेऽनुमानत्वेन स्वीकारादिति । नापि व्यभिचारी-इति । न हि मैत्री-
तनयत्वादेर्व्यभिचार उपलभ्यते तदुपलम्भे वा व्यभिचार एव दोषः स्यान्नाप्रयोजकत्वमिति । न च-
प्रकाशः ।
तदभाव इति । चतुःपञ्चेति । पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितानि चत्वारि रूपाणि केव-
लान्वयिनि, सपक्षसत्त्वाभावे विपक्षासत्त्वं केवलव्यतिरेकिणि, उभयन्तु रूपमन्वयव्यतिरेकिणीति तत्र
पञ्चरूपाणि । तद्भङ्ग इति । यत्र उक्तरूपसम्पत्तिभङ्गस्तत्र दर्शनादर्शनात्मकप्रमाणभङ्गोऽप्यावश्यकः,
अन्यथा तयोर्निर्विषयतापात इत्यर्थः । सामान्यत इति । रूपरसोयोरकार्यकारणभूतयोरपि व्या-
प्त्यभ्युपगमादित्यर्थः । पूर्ववदिति । पूर्वं कारणं तद्यस्यास्ति विषयतया लिङ्गज्ञानस्य, तत्तथा ।
४३ न्या० कु०

३३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां
निर्बीजशङ्कायाः सर्वत्र सुलभत्वात्। नापि व्याप्यान्तरसहवृत्तिः। एकत्रोपि साध्ये-
ऽनेकसाधनोपगमात्। नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात्। ननु धूमो
वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्द्रन्धनवन्तं वह्निविशेषं
प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्ययुक्तम्। सामान्याप्रयोजक
तायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धिनियमात्। सिद्धौ वा सामान्य-
विशेषाभावानुपपत्तेः। नापि क्लृप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः,
नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति ॥
बोधनी ।
इति। तथा च सर्वोऽपि हेतुरप्रयोजकः स्यादिति। नापि व्याप्यान्तर-इति। स्पष्टम्।
नाप्यल्पविषय-इति। न हि धूमादिः सपक्षव्यापक इति। स एव तत्र किंचिदाशङ्क्य निराकरोति
ननु-इति। न हि धूमः स्वनिवृत्तावप्यनिवर्त्तमाने वह्नौ प्रयोजको नामेति। कुत्र तर्हि प्रयोजक
इत्यत्राह आर्द्रन्धनवन्तम् इति। तस्यैव वह्निविशेषस्यैवेति। कुतो युक्तमित्यत्राह सामान्य-
इति। न हि संभवति वह्निविशेषं साधयति न तु सामान्यमिति सामान्यासिद्धौ विशेषस्यासिद्धेर्निय-
तत्वात्। यदि वा तदापि विशेषः सिध्येन्न तर्हि सामान्यविशेषाभावः स्यात्, न हि तस्मिन्नसिद्धेऽपि
सिध्यतस्तद्विशेषकत्वमिति। सकलसपक्षवर्त्तिनि हेत्वन्तरे सत्येकदेशवृत्तिरप्रयोजको यथा निषिद्धत्वे
सति हिंसात्वम्। निषिद्धत्वं हि सकलभक्षणादेरप्यधर्मत्वसिद्धयर्थं क्लृप्तसामर्थ्यमिति। तदेव
सर्वत्राधर्मत्वे प्रयोजकं हिंसात्वं च नैवंविधमप्रयोजकमित्याशङ्क्याह नापि क्लृप्त-इति।
प्रकाशः।
कारणैकदेशस्यापि तदितराशेषकारणव्याप्यस्यान्यतन्तुसंयोगादेः पटादौ लिङ्गत्वाङ्गीकारादित्यर्थः।
निर्बीजेति। साध्याभावसहचारदर्शनस्य शङ्काबीजस्याभावात्, भावे वा व्यभिचार एव स्फुटो
दोष इत्युक्तमित्यर्थः। अल्पविषय इति। व्यापकवनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः। तन्निवृत्ता-
विति। धूमनिवृत्तावपि वह्नयनिवृत्तेरित्यर्थः। तस्यैवेति। आर्द्रन्धनप्रभववह्नेरित्यर्थः। सामा-
न्येति। वह्निसामान्याव्याप्यत्वे तद्विशेषव्याप्यतैव न स्यात्, सामान्यस्य विशेषव्यापकत्वादित्यर्थः।
तथा च, विशेषव्याप्यत्वे सामान्यव्याप्यत्वं ध्रुवमिति भावः। नाश इति। गुणादिनाशे भावकार्य-
त्वस्य प्रयोजकत्वे क्लृप्तेऽपि द्रव्यनाशे तद्व्याप्यसावयवत्वस्यापि तत्त्वाङ्गीकारादित्यर्थः।
प्रकाशिका।
ननु कारणं व्यापकं तत्कथं व्याप्ये लिङ्गमत्त आह। कारणैकदेशस्यापीति। साध्या-
भावसहचारदर्शनस्येति। यद्यपि साध्याभावसहचारो व्यभिचार एवेति तद्दर्शनं न तत्तच्छङ्का-
बीजम्। तथाप्युपाधिशङ्काबीजं तत्, उपाधेर्व्याप्त्यभावात्मकत्वादिति मन्तव्यम्। ध्वंसेऽतिप्रसक्तं-
कार्यत्वमिति भावपदेन पूरयित्वा व्याचष्टे। भावकार्यत्वस्येति। यद्यपि कल्पनायां पौर्वापर्य्यनियमे
मकरन्दः।
ध्वंसे व्यभिचारेण भावपदमन्तर्भावयति। भावकार्यत्वस्येति। यद्यप्यत्र पौर्वापर्य्यनियमे
मानाभावः, तथापि सामान्यविशेषयोः प्रथममुत्सर्गंतः सामान्यस्योपस्थितिरित्याशयेन तथोक्तम्।
टिप्पणी।
साध्याभावसहचारदर्शनस्य शङ्काबीजस्येति। हेतुतावच्छेदकाश्रये यत्किञ्चिद्धर्मिणि साध्या-
भावसहचारग्रहस्य व्यभिचारशङ्काप्रयोजककोटिद्वयसहचरितहेतुतावच्छेदकरूपसाधारणधर्मदर्शनसम्पा-
दकतया पक्षदृष्टहेतौ व्यभिचारशङ्काप्रयोजकत्वमिति भावः॥ भावे वा व्यभिचार एवेति। पक्षधर्म्मि-
हेत्वसाधारणधर्मेण हेतुत्वस्य सहचारग्रहाभावेनासम्भवात् सामान्यधर्मेणैव हेतुत्वमभ्युपेयं तत्र व्यभि-

४. चतुर्थ स्तबक: ज्ञान-नित्यत्व एवं सर्वज्ञ ईश्वर प्रतिपादन

तृतीयस्तबके ] अनुमानप्रामाण्याशङ्कोपादानम्। ३३६
तदेतदपेशलम्। कथं हि विशेषाभावात् कश्चिद्व्यभिचरति, कश्चिन्न नेति
शक्यमवगन्तुम् । अतो निर्णयाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति
क्वासौ निर्बीजा । एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनो नोपालम्भाय । स्व-
भावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिन्न नेति स्वभाव एव विशेष इति चेत्
केन चिह्नेन पुनरसौ निर्णय इति निपुणेन भावनीयम् । भूयोदर्शनस्य शतशः
प्रवृत्तस्यापि भङ्गदर्शनात् । यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् । आपाततो
न दृश्यते इति सर्वत्र कालक्रमेणापि न दृश्यते इति को नियन्तेति । तस्मादुपा-
धितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तदवधारणाञ्चाशक्यमिति ॥
बोधनी।
अत्र सामर्थ्यं व्याप्तिस्तस्या अनुमितिज्ञानोत्पादने लिङ्गसहकारित्वादिति तदेकदेशिमंतं पूर्वपक्षी
दूषयति—तदेतत् इति । किमुपाधिविधूननेन भूयःसाहचर्यदर्शने सति कोऽयमप्रयोजको नामेत्येत-
दशोभनं शङ्कितव्यभिचारस्याप्रयोजकत्वादुपाधिविधूननायत्तत्वाच्च शङ्कानिरासस्येति भावः । तदेवोप-
पादयति—कथं हि इति । निश्चितोऽव्यभिचारो हि हेतुर्गमकः, अन्यथातिप्रसङ्गात् । तन्निश्चयश्च न
साहचर्यमात्रात्सिध्यति भूयःसहचरितानामपि क्वचिद् व्यभिचारदर्शनात्, तस्माद् व्यभिचार्याव्यभिचा-
रिणोः साहचर्ये विशेषाभावात्तन्मात्रेणाव्यभिचारनिश्चयानुपपत्तेर्व्यभिचारशङ्कानिरसनहेतुः कश्चिदन्वेष्ट-
व्यः, स चोपाधिविधूननमेवेति भावः । तत्र यदुक्तं निर्बीजशङ्का न युक्तेति तदप्यत एव निरस्तमि-
त्याह—अत इति । निर्णायकविशेषादर्शने सति साहचर्यमेव व्यभिचार्यव्यभिचारिणोः साधारणधर्म-
त्वात्संशयहेतुर्भवतीति । एवं च यदि भूयोदर्शने सत्यपि शङ्का स्यात् सर्वत्रापि सा स्यादित्येकदेशिना
चार्वाकं प्रत्यापादिताऽतिप्रसक्तिरनुमानप्रामाण्यमनिच्छतस्तस्य नोपालम्भाय भवति प्रत्युत नन्दना-
येत्याह—एवं सति इति । यद्वा, अनुमानमिच्छतः सिद्धान्तिनो नोपालम्भाय तस्योपाधिविधूननेन
शङ्कानिवारणाभ्युपगमादिति । एकदेश्याह—स्वभावादेव इति । तेनाव्यभिचारः स्वभावमात्राधीनः
न तु तदर्थमन्योऽन्वेष्टव्य इति । इतर आह—केन इति । सत्यमेवं, स तु स्वभावो निर्णीत एव
व्यभिचारशङ्कां निवर्तयतीति तन्निर्णयार्थमन्योऽन्वेष्टव्य इति । तर्हि भूयोदर्शनमेवास्तु निर्णायक-
मित्यत्राह—भूयोदर्शनस्य इति । शङ्काया एव बीजमेतदित्युक्तमिति भावः । यत्र इति । तद् =
अदृष्टभङ्गम् । तथा अव्यभिचारस्वभावम्—इति । आपाततः इति । सर्वत्र सर्वदा व्यभिचारो न
भूयोदर्शनमात्रात्सिध्यतीति तत एवं वक्तव्यमित्याह—तस्मात् इति । तर्ह्यनुपलम्भे नोपाधिविर-
होऽवधार्यत इत्यत्राह—तदवधारणम् इति । अनुपलब्भमात्रस्य निषेधकत्वाभ्युपगमादिति ।
प्रकाशः ।
कथं हीति । सहचारदर्शनस्य व्यभिचार्यव्यभिचारिसाधारणत्वात्तदेव विशेषादर्शनसहकृतं
व्यभिचारशङ्काबीजमित्यर्थः । एवं सतीति । "अवश्यं शङ्कया भाव्यं नियामकम्पश्यताम्"*
इति चार्वाकोक्तातिप्रसक्तिर्नोपालम्भाय, शङ्काबीजस्य सहचारदर्शनस्य सत्त्वादित्यर्थः । यथा
किञ्चित् कस्यचित् कार्यं कारणं चेत्यत्र स्वभाव एव नियामकः, तथा किञ्चित् कस्यचिद्व्याप्यं व्या-
पकं चेत्यत्रीत्याह । स्वभावादेवेति । स स्वभावविशेष एव कुतोऽवधार्य इत्याह । केनेति ।
भूयोदर्शनस्येति । पार्थिवत्वलोहलेख्यत्वयोरपि व्यभिचारदर्शनादित्यर्थः । अनन्यगतिकतयोपा-
धिविरह एव तदुपायः । स च दुरवधारण इत्याह । तस्मादिति ।
प्रकाशिका ।
मानाभावः, तथापि गुणादिसाधारण्यार्थमवश्यक्लपनीयमेवात्र क्लृप्तत्वम् । सहचारदर्शनेति ।
मकरन्दः ।
सहचारदर्शनस्येति । शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स उपाध्यभावः। नन्वनौ-

३४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां

ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यदृच्छया नोपलभ्यते नासौ तद्वान् ।
यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेन्न ।
अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् । “सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्य-
भिचारतः” सर्वदृष्टेरसिद्धेः ।
तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये ।

बोधनी ।
बोधनी ।
तर्ह्यनुमानान्निश्चेष्यत इत्याह—ननु इति । वह्नौ=वह्निसंबन्ध इति । न इति । अस्याप्यनु-
मानस्योपाध्यभावनिश्चयायानुमानान्तरापेक्षायां तस्य तस्यापीत्यनवस्थेति । किं च, सर्वैः सर्वदोपाधिम-
तया धूमस्यानुपलम्भो नासर्वज्ञेन निश्चेतुं शक्यत इति संदिग्धासिद्धो हेतुरित्याह—सर्वादृष्टेश्च
इति । अस्तु तर्हि स्वैनैकेनानुपलम्भो हेतुस्तत्राह—स्वादृष्टेः इति । न ह्येकेन तद्वत्तानुपलम्भस्त-
दभावव्याप्त इति सर्वदा स्वादृष्टिरप्यसिद्धेत्याह—सर्वदा इति । असिद्धेः इति । कदाचिदपि न
द्रक्ष्यत इति निश्चयासंभवादिति । तदेवमेकदेशिनं निराकृत्य बौद्धमतं दूषयितुमुपन्यस्यति—
तादात्म्य इति । यस्य य आत्मा वा यत्कार्यं तयोस्तेनात्मना कारणेनाविनाभावः, अन्यथा तदात्म-
कत्वव्याघातात् कार्यकारणभावभङ्गप्रसङ्गाच्च, ततोऽविनाभावनिश्चयार्थमुपाधिविधूननापेक्षेति । यथाह—
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्न न दर्शनात् । इति ।

प्रकाशः ।
प्रकाशः ।
ननु सहचारदर्शनव्यभिचारादर्शने एव व्याप्तिग्राहके । न च तयोर्व्याप्तसाधारण्यम् । उपा-
ध्यभावज्ञानस्याप्यव्याप्यसाधारणत्वात् । न च स्वरूपसन्नेव स तद्ग्राहकः व्याप्तिभ्रमानुपपत्तेः ।
नाऽपि वस्तुगत्या यत्रोपाध्यभावस्तत्र तज्ज्ञानाद्व्याप्तिप्रमाऽन्यत्र तु तद्भ्रम इति वाच्यम् । यत्र
वस्तुसती व्याप्तिस्तत्र सहचारदर्शनादेरपि तत्त्वापत्तेः ।
अत्राहूः । व्यभिचारादर्शनस्य व्याप्तिनिश्चायकत्वे तस्मिन् सति व्याप्तिसन्देहानुपपत्तिः ।
अनौपाधिकत्वनिश्चये तु न सन्देह इति तदेव व्याप्तिग्राहकम् । किञ्च, यथा व्यभिचारादर्शनाद
व्यभिचारनिश्चयः । एवमव्यभिचारादर्शनाद् व्यभिचारनिश्चयोऽपि स्यादविशेषात् । न च भावानुप-
लब्धिरभावनिश्चायिका, न त्वभावानुपलब्धिर्भावनिश्चायिकेति वाच्यम् । अव्यभिचारस्यापि भावत्वात् ।
साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपत्वात् । क्षित्यादि द्विकर्तृकं का-
र्यत्वात् पटवदित्यादेरपि गमकत्वापाताद्वा ।
तदपेक्षायामिति । उपाध्यभावापेक्षायामित्यर्थः । असिद्धेरिति । सर्वदा उपाधिमत्तयाऽनुप-
लम्भस्येत्यर्थः ।
बौद्धोक्तं तद्ग्राहकमाह । तादात्म्येति । विपक्षबाधकश्च क्षणभङ्गप्रस्तावे व्याख्यातम् । प्रत्यक्षा-
ऽनुपलम्भावन्वयव्यतिरेकौ । अपि चाग्नीन्धनादिसमवधानेऽप्यन्यस्य पिशाचादेः सन्निधिराराच्छङ्क्य-
मानो नाग्नीन्धनादिव्यभिचारिणोऽन्यत्र धूमस्यादर्शनादिति नियतस्य तस्य वाच्यः । स च नेत्याह ।

प्रकाशिका ।
प्रकाशिका ।
तथा च शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स्वरूपसन्नेव स इति । उपाध्यभाव इत्यर्थः । सन्दे-
ह्यानुपपत्तिरिति । भवति च सत्यपि तस्मिन् कदाचित् सन्देह इति भावः । ननु अनौपाधिक-
त्वस्यापि व्याप्तिव्याप्यत्वेनाऽनिश्चये सन्देहो भवेदेव । न चानौपाधिकत्वव्याप्तिपक्ष इदं, तस्य व्याप्ति
ग्राहकत्वेनाभिधानादित्यरुचेराह किञ्चेति । अव्यभिचारेति । व्याप्तिनिश्चयवदित्यर्थः । अत एवाग्रे
तथैव वक्ष्यति साधनेत्यादि । उपाध्यभावेति उपाध्यभावज्ञानेत्यर्थः । नियतस्येति । अग्नीन्ध-

मकरन्दः ।
मकरन्दः ।
पाधिकत्वं व्याप्तिव्याप्यमिति व्याप्यत्वेन तदनिश्चयदशायां तत्सन्देहः स्यादेव, न चानौपा-
धिकत्वव्याप्तिमितेनेदं, तस्य व्याप्तिग्राहकत्वेनाभ्युपगमादित्यरुचेराह किञ्चेति । अव्यभिचारेति ।
व्याप्तिनिश्चय इत्यर्थः । अत एवाग्रे तथैव वक्ष्यति । उपाध्यभावेति । उपा-
ध्यभावनिश्चयापेक्षायामित्यर्थः । नियतस्य=अग्नीन्धनादिनियतस्य । तस्य=तादात्म्यादेरित्यर्थः ।

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१
तत्र तादात्म्यं विपक्षे बाधकाद्भवति । तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् ।
न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, आशङ्क्यमानकारणभावस्यापि
पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति । न । एवमप्युभयगामिनोऽव्य-
भिचारनिबन्धनस्यैकस्याऽविवेचनात् , प्रत्येकं चाव्यापकत्वात् । कुतश्च कार्यात्मानौ
कारणमात्मानञ्च न व्यभिचरत इति ॥
अत्रोच्यते—
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ॥
बोधनी ।
तादात्म्यतदुत्पत्त्योरेव निश्चयः कुतस्त्य इत्यत्राह तत्र-इति । अवृक्षे शिलादौ शिंशपात्वस्यानु-
पलब्धिबाधितत्वाद् वृक्षः शिंशपात्वेति निश्चीयते । तदुत्पत्तिस्तु पूर्वापरभावेन प्रत्यक्षानुपलम्भाभ्यां
सिध्यति । “प्रत्यक्षानुपलम्भपञ्चकेन तदुत्पत्तिनिश्चयः” इति हि बौद्धाः । तत्र पौर्वापर्येण वह्निधूम-
योरुपलम्भो प्रत्यक्षद्वयं वह्नयनुपलम्भे धूमानुपलम्भः अन्यस्मिन्पूर्वभावेनोपलब्धेऽपि धूमस्या-
नुपलम्भ इत्यनुपलम्भत्रयमिति प्रत्यक्षानुपलम्भपञ्चकम् । अन्येषां तु वह्नेर्धूमस्य पौर्वापर्यस्य च
त्रीणि प्रत्यक्षाणि वह्नेर्धूमस्य च द्वावनुपलम्भाविति । नन्वेवमप्यदृश्यभावः पिशाचादिर्धूमस्य कारणं,
वह्निस्तु नान्तरीयकसंनिधिर्न वेति शङ्कायां न तदुत्पत्तिसिद्धिरित्यत्राह न ह्येवम्—इति । पिशाचा-
देस्तु पौर्वापर्येण प्रत्यक्षानुपलम्भगोचरत्वरूपस्य कारणलक्षणस्य विरोधाभावेन तत्त्वस्य कारणत्वस्य
निर्वाहान्न शङ्कावकाश इति नानेनापि प्रकारेणाविनाभावनिश्चय इत्याह नैवम्-इति । कुत इत्यत
आह उभय-इति । किमत्र क्वचित्तादात्म्यमव्यभिचारनिबन्धनमन्यत्र तदुत्पत्तिरिति विषयव्यव-
स्थयोच्यते किं वा स्वतन्त्रमुभयं तादात्म्यं तदुत्पत्तिर्वेति । नाद्यः, अनुवृत्तस्याव्यभिचारनिबन्ध-
नस्यावचनात् , तद्वचने च तस्यालक्षितत्वात् । नाप्युत्तरः, तादात्म्यस्य तदुत्पत्तावभावात् तस्या-
श्चेतरत्राभावाद्व्यापकत्वादत एव नापि संभूयेति भावः । कि च उपाधिविधूननापेक्ष एव ताभ्या-
मप्यविनाभावनिश्चय इत्याह कुतश्च-इति । तदेवमनुमानस्याव्यभिचारनिश्चयापेक्षत्वात्तस्य चोपाधि-
निषेधायतत्वात्तन्निषेधे योग्यानुपलम्भाभावादनुपलम्भमात्रस्य च निषेधकत्वानङ्गीकारादनुमानेन च
तन्निषेधेऽनवस्थाप्रसङ्गात् । बौद्धानामपि निषेधाच्चानुमानादिविलोपप्रसङ्ग इति ।
चार्वाके प्रत्यवस्थिते परमसिद्धान्तीत्याह अत्रोच्यते-इति । उपाधिविरहस्य दुरवधारणत्वेना-
नुमानकुलोत्सादाच्छङ्कास्ति चेत् तत एवानुमाऽस्त्येव तत्कालतद्देशयोः सहदृष्टस्य किं कालान्तरे
देशान्तरे चाऽविनाभावो भविष्यति न वेत्येवं व्यभिचारस्य शङ्कनीयत्वात् कालान्तरभवनमसंनिहितं च
देशमनाकलप्य शङ्कानुपपत्तेः तदाकलनस्य चानुमानमवधीर्याशक्यत्वादिति हृदयम् । तदनाकलने
तु शङ्कैव न स्यान्निराश्रयत्वादित्यभिसंधायोक्तं न चेच्छङ्का ततस्तराम्-इति । न चेच्छङ्का,
प्रकाशः ।
आशङ्क्यमानेति ॥ अग्निं विना पिशाचादेव धूमः स्यादिति पिशाचस्य कारणत्वशङ्काऽन्वयव्यति-
रेकावादाय वाच्या तौ चाग्नेः प्रत्यक्षसिद्धस्येति नान्यकारणशङ्केत्यर्थः । दूषयति ॥ नैवमपीति ॥
तयोर्न मिलितयोर्व्याप्तिग्राहकत्वमसिद्धेरिति प्रत्येकं तत्त्वे व्याप्तिग्राहकतावच्छेदकानुगतरूपाभाव
इत्यर्थः । ननु ज्ञापकस्याननुगमो न दोषः, एकस्याप्यनेकज्ञाप्यत्वादित्यत आह । कुतश्चेति ॥
विपक्षबाधकतर्कस्यापि व्याप्त्यपेक्षया तत्रापि तर्कान्तरानुसरणेऽनवस्था तर्कं विनाऽपि व्याप्तिग्रहे
व्यभिचारात् तर्कोऽपि न तद्धेतुः स्यादित्यर्थः ॥
शङ्का चेदिति ॥ कालान्तरदेशान्तरयोर्व्यभिचारोपाध्यन्यतराशङ्का यदि, तदाऽनुमानमस्त्येव ।
तां विना तयोरप्रतीतेः। यदि च तयोरप्रतीतौ न शङ्का, सुतरामनुमानम् । शङ्कानिरासकस्याप्यनपेक्ष-
प्रकाशिका ।
नादिनियतस्येत्यर्थः । अनेकज्ञाप्यत्वादिति । कार्ये च ज्ञानरूपे विषय एव विशेष इति न परस्पर-

३४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायो
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ ७ ॥
कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्क्येत तदाक-
लनञ्च नानुमानमवधीर्य्य कस्य चित्। मुहूर्त्तयामाऽहोरात्रपक्षम्रासत्वयनसंवत्सरा-
ऽऽदयो हि भाविनो भवन्मुहूर्त्ताद्यनुमेया एव । अनवगतेषु स्मरणस्याप्यनाशङ्क-
नीयत्वात्। अनाकलने वा, कमाश्रित्य व्यभिचारः शङ्क्येत। तथा च सुतरामत्नु-
मानस्वीकारः। एवञ्च देशान्तरेऽपि वक्तव्यम्॥
स्वीकृतमनुमानम्। सुहृद्भावेन पृच्छामः, कथमाशङ्का निवर्त्तनीया ? इति
बोधनी ।
ततः शङ्काभावादेव सुतरामगुमाऽस्त्येव शङ्कानिरासप्रयासस्याप्यभावः । स्वीकृतैवानुमानं कथमियं
व्यभिचारशङ्का निवर्त्तनीयेति तत्त्वबुभुत्सया पृच्छत उत्तरम्-अर्थक्रमानुरोधेन पाठक्रममनादृत्य तर्कः
शङ्कावधिर्मत इति । तावदेवावकाशः शङ्कापिशाच्या यावत्तर्केण नागतं, समागतस्तु तर्कः शङ्काया
अवधिरन्तो मतो न्यायविदाम् । ननु तर्कोऽप्यविनाभावमूल एव प्रवर्त्तमानोऽन्यथासिद्धिशङ्कया तर्का-
न्तरमपेक्षत इति अनवस्थादौस्थ्यात् पुनरप्यनुमानं दत्तजलाञ्जलि स्यादित्यत उक्तं व्याघाताव-
धिराशङ्का-इति । अयमाशयः-किमियमाशङ्कार्थक्रियार्थिनो लौकिकस्य, हेतुफलभावं जिघांसतः
परीक्षकस्य वा ? प्रथमे क्रियाव्याघातावधिराशङ्का लोकस्य न तु यथा क्रियाव्याघातादयोऽवतरन्ति
तथा भवतीत्यर्थः । तथा च द्वित्रस्थानपर्य्यवसानान्नानुमानप्रामाण्यविघातः । द्वितीये तु शङ्कव न स्यात्
तस्या अपि कस्यचित् फलत्वातया हेतुफलभावप्रत्यक्षे प्रामाण्यनिश्चयोऽपि न स्यात् तस्या अपि
तथाभावात् , सोऽयं व्याघात इति !
व्याचष्टे कालान्तरे इति । भवन्मुहूर्त्ता अनुमेया-इति । वर्तमानमुहूर्त्तादयो भाविमुहूर्तादिव
न्तः मुहूर्त्तत्वादतीतमुहूर्त्तवदिति । मा भूदनुमानं स्मरणं तु भविष्यति कालान्तर इत्यात्राह अनवगत-
इति । भाविनः कालस्य प्रत्यक्षसंभवादिति सर्वथा चानाकलने निर्विषया शङ्कव न स्यादित्याह
अनाकलने-इति । तर्हि ननु माभूद् व्यभिचाराशङ्केत्यत्राह तथा च-इति । तुरीयं पादं व्याचि-
ख्यासुः शङ्कते स्वीकृतम्-इति । सुहृद्भावेनैवोत्तरमाह न-इति । द्वयी हि शङ्का किमस्य हेतोरनेन
साध्येन संबन्ध उपाधिरस्ति वा न वेत्येका, अन्या तूपाधिशङ्कानिमित्ता हेतोः साध्यव्यभिचारशङ्का,
प्रकाशः ।
णादित्यर्थः । वादकथाम्राश्रित्य शङ्कानिवर्त्तकमाह ॥ व्याघातेति ॥ शङ्काया अवधिस्तर्कः, तन्नि-
वर्त्तकत्वात् । ननु तर्कोऽपि व्याप्तिमूलकतया तर्कान्तरापेक्षायामनवस्थेत्यत आह ॥ व्याघातावधि-
रिति ॥ तर्कमूलम्यौसौ स्वक्रियाव्याघातेन व्यभिचारशङ्कव नोदेतीति न तत्र तर्कापेक्षेत्यर्थः ॥
पूर्वार्द्धं व्याचष्टे ॥ कालान्तरेत्यादि, तथाचैत्यन्तेन । ननु साध्यात्यन्ताभावसामानाधिक-
रण्यं साधने वर्त्तते न वेति शङ्का, देशकालानन्तर्भाव्यैवेति नानुमानावश्यकत्वम् । मैवम् । साध्या-
त्यन्ताभावसामानाधिकरण्यं तदधिकरणाधिकरणत्वम् । तत्र प्रसिद्धधूमाधिकरणे बह्णिनिश्चयादेव
न शङ्का । तदन्यच्चानुमानगम्यमेव ॥
तथापि सामान्यलक्षणया प्रत्यासत्त्या प्रत्यक्षेणापि कालादेरुपस्थितेर्नोनुमानादेव तदुपस्थितिः ।
प्रकाशिका ।
व्यभिचार इति भावः । वादकथामिति । तथा च कथं शङ्कानिवृत्तिरिति जिज्ञासुं प्रत्युत्तरमेत-
दित्यर्थः। अर्थक्रमानुरोधेन शाब्दक्रमव्युत्क्रमेण व्याचष्टे शङ्काया अवधिरीति। ननु तर्केऽपीति।
बाधकाभावेन शङ्काया अवश्यम्भावो एतन्निवर्त्तनाय तर्कान्तरविज्ञायामनवस्थितिरिति भावः। [क्रियति।
वस्तुतः कोटिस्मरणादिविरहेणैव शङ्काविच्छेदे न तन्निवर्त्तकतर्कापेक्षेति.न अनवस्था इति परिभाव-
------------------------------ । पत्तत्रिक्तान्तेन सामान्यलक्षणया कालदेशयोरुपस्थितेरित्यर्थः ।

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४३
चेन्न । यावदाशङ्कं तर्कप्रवृत्तेः । तेन हि वर्त्तमानेनोपाधिकोटौ तदायत्तव्यभिचार-
कोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते । विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्श-
नोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्प-
त्तिरिति किमनुपपन्नम् ॥
बोधनी
तत्रोभयत्रापि तर्कप्रवृत्तेः शङ्कानिवृत्तिरिति । कथं तर्हि ततस्तन्निवृत्तिरित्यत्राह तेन हि-इति ।
यद्यत्रोपाधिः स्यात् तदायत्तो वा हेतोर्व्यभिचारस्तत एव स्यादिति । प्रामाणिकत्यागाप्रामाणिकस्वीका-
रात्मकानिष्टमुपनयता तर्केण पक्ष एव जाता विपक्षजिज्ञासात्मिकेच्छा विच्छिद्यते, तद्विच्छेदे चानुमाता
निरन्तरायेण भूयोदर्शनेनावधारितव्यभिचारं लिङ्गं निःशङ्क एवानुमितिज्ञानोत्पादे विनियुङ्क्ते
विनियुक्ताच्च करणालिङ्गादनुमितिक्रियानिष्पत्तिरिति न संकटं किञ्चिदिति ॥
प्रकाशः ।
सा च प्रत्यासत्तिरनुमानप्रामाण्यवादिनोऽपि स्वीकार्या । अन्यथा, यस्य व्याप्तिग्रहः स न पक्षधर्मः,
तादृशश्च न व्याप्तिग्रहगोचर इत्यनुमानविलयापत्तिः । मैवम् । इदमसाधकमनुपलभ्यमानव्यभिचारशङ्का-
ग्रस्तत्वादित्यनुमानमपि शङ्काऽऽस्कन्दतीति जात्युत्तरत्वात् । व्याप्तिग्रहाभावव्यभिचारशङ्कयोस्त्वयापि
व्याप्तिस्वीकारात् । व्यभिचारशङ्कायामव्यभिचारकोटेरावश्यकत्वाच्च । अपि चानुमानाप्रामाण्यं नानु-
मानगम्यम् । तदनङ्गीकारात् । नापि प्रत्यक्षगम्यम् । तथाऽनुव्यवसायाभावात् । एतेनोत्कटकोटिक
संशयरूपाऽनुमितिरस्तत्करणमनुमानमित्यपास्तम् । धूमादग्निं निश्चिनोमीत्यनुव्यवसायेन तन्निश्चयत्वस्यै
प्रत्यक्षत्वात् । अन्यथा, प्रत्यक्षस्यापि निश्चयत्वे कः समाश्वासः ? ।
यावदाशङ्कमिति ॥ तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्तिर्गृह्यत इत्यर्थः
तर्कव्यापारमाह ॥ तेन हीति ॥ इच्छा विच्छिद्यते इति ॥ संशयजनितसाध्याभाववति जिज्ञासा
निवर्त्त्यते इत्यर्थः । तज्जनकसंशयसहितेति शेषः । अन्यथा, जिज्ञासाविच्छेदेऽपि
प्रकाशिका ।
ननु सामान्यलक्षणा वा स्वीक्रियतामनुमानं वेत्यत्र किं विनिगमकमत आह । सा चेति । ननु
सम्भावनैवानुमानप्रयोजनं प्रकृतेऽपि स्यादित्यरुचेराह । व्याप्तिग्रहेति । ननु भूयःसहचारमात्रमेव
तत्रापि स्वीकरणीयमत आह । व्यभिचारशङ्कायामिति । तथाऽनुव्यवसायाभावादिति ।
इदमुपलक्षणम् । प्रत्यक्षस्य तत्रासामर्थ्यादित्यपि द्रष्टव्यम् । निश्चिनोमीति निश्चयत्वं जातिरिति
मतेनेदम्, वस्तुतः संशयान्यत्वमपि ज्ञाननिष्ठं योग्यमेवेति भावः । तर्कसहकृतेति । तर्कस्य च
शङ्कानिवर्त्तनद्वारा प्रयोजकत्वमित्यवधेयम् । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह संस्कारे-
तेति । संशयजनितेति । यद्यपि जिज्ञासा ज्ञानेच्छा सा च ज्ञानेष्टसाधनताज्ञानादिति न संशयाद्भवितु-
मर्हति, न चातन्निवर्त्तनमनिष्टप्रसञ्जनरूपात् तर्कात्, "इच्छानिवर्त्तकमनिष्टसाधनताज्ञान"मित्यत्रानिष्टं
दुःखरूपं प्रकृते च प्रमाणबाधितत्वरूपमनिष्टं प्रसञ्जनीयं यतः, तथापि संशये सति संशयजन्यदुःखा-
भावरूपेष्टसाधनताज्ञानादेव ज्ञानेच्छा सत्प्रतिपक्षस्थलेऽज्ञानजन्यदुःखाभावरूपेष्टसाधनताज्ञानादिवत् त-
दुच्छेदेऽपि तत्प्रयोजकीभूतसंशयजनकीभूतविरोधिप्रमाणशङ्कोच्छेदद्वारैवेति मिश्राः । केचित्तु
अन्वयव्यतिरेकाभ्यां संशयस्य प्रतिपक्षोपस्थितेश्च स्वातन्त्र्येणैव जनकत्वं तर्कस्य च जिज्ञासानिवर्त्तक-
मकरन्दः ।
ननु व्याप्तिस्वीकारेऽपि नानुमानप्रामाण्यस्वीकारस्तयोर्भेदादित्यत आह । अपि चेति ।
धूमादिति । निश्चयत्वं जातिरिति मतेनेदम् । उपनीतभानाभिप्रायेण वा । अन्यथा अनुव्यवसाय-
विषयत्वानुपपत्तेरित्याहुः । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह । संस्कारेति ।
अन्यथेति । प्रतिबन्धकतावच्छेदके ज्ञानत्वस्यैव न प्रवेशो गौरवात्, कुतो निश्चयत्वस्येति

३४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७_कारिकाव्याख्यायां
प्रकाशः ।
संशयसत्त्वे व्याप्त्यग्रहात् । न च साध्याभावविषयकज्ञानस्य प्रतिबन्धकत्वात् तन्निवर्त्तनमफलं,
लाघवात्साध्याभावविषयत्वस्यैव प्रतिबन्धकतावच्छेदकत्वात् ॥
प्रकाशिका ।
त्वमित्याहुः। तज्जनितेति। न चैवं मूलविरोधः, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीत्यत्र मूले शङ्काया
अनुमाननिवर्त्तनीयत्वाभिधानादिति वाच्यम् । तन्मूलस्य ततस्तदानुमानप्रवृत्तौ अनुमानेऽनुमानप्रवृ-
त्यर्थं शङ्कास्वरूपमपीति निमित्तसप्तम्याश्रयणेनार्थोन्नयनात्, मतान्तरेण तन्मूलमित्यन्ये। व्याप्तिग्राहक-
तर्करूपपरः प्रकाशः विषयपरिशोधकतर्कपरञ्च मूलमित्यपरे । नन्वेवमपि विषयपरिशोधकस्य
नोपयोगः, परामर्शेनैव विशेषदर्शनात्मकेन शङ्कानिवृत्तौ जिज्ञासाया अपि तन्मूलाया निवृत्तेरिति चेत्,
न । विशेषदर्शनेन स्वारसिकशङ्कानिवृत्तावपि विरोधिप्रमाणशङ्कानिबन्धनसाध्याभावशङ्काजिज्ञासयोर-
नुवृत्तेस्तन्निवृत्त्यर्थं तर्कोपयोगात्, एवं च तर्केण विरोधिकोटावनिष्ठमुपनयता विरोधिप्रमाणशङ्काप-
गमे तन्मूलकसाध्याभावसंशयापगमे तन्मूलकजिज्ञासोच्छेद इति तात्पर्य्यम् । केचित्तु पक्षे
धूमदर्शनमात्रस्य तदविरोधित्वेन साध्याभावशङ्कायां जिज्ञासापि भवत्येव, ततश्च साध्यतद्भावा-
न्यतरावधारणोपायानुसरणव्यग्रः प्रतिपत्ता स्मृतामपि व्याप्तिं पक्षवृत्तिधूमे न परामृशति व्यग्र-
त्वादिति परामर्शसामग्र्यां प्रतिरुद्धायां तर्केणानिष्टप्रतिसन्धानात्मकेनापहृतायां जिज्ञासायामव-
धारणोपायानुसरणरूपविषयान्तरसञ्चाराभावे परामर्शोत्पादः । न चैवमस्य कथं विषयपरिशोधकत्व-
मिति वाच्यम् । न्यायस्य विषयो लिङ्गं तस्य शुद्धिः परामर्शप्रतिबन्धकजिज्ञासाया उक्तरूपोपायानु-
सरणपरतायाश्चापगम इति तदुपपत्तेः । तदुक्तम्—प्रमेयतत्त्वावबोधे विरोधिनोनाविषयस्य जिज्ञासा
तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी''ति । न चैवं तर्कस्य न्यायोत्तराङ्गत्वव्यु-
त्पादनविरोधः, मतभेदेन तदुपपत्तेः अत एव तत्त्वबोधे तर्को न्यायस्य पूर्वाङ्गं न्यायविषयपरिशो-
धकत्वात्, व्याप्तिग्राहकत्वाच्चेत्युक्तमिति वदन्ति । संशयसत्त्व इति । प्रतिबन्धकतायां ज्ञानत्वस्यैव
मकरन्दः ।
भावः । ननु संशयो न जिज्ञासाहेतुः, तस्या इच्छात्वेन ज्ञानेष्टसाधनताज्ञानसाध्यत्वात् । साध्यार्थिनश्च
साध्याभावज्ञानं नेष्टसाधनमिति न तत्र जिज्ञासा । तथा च कथं तन्निवर्त्तकता तर्कस्येति चेत् न,
अन्वयव्यतिरेकाभ्यां सत्प्रतिपक्षस्येव संशयस्यापि जिज्ञासाजनकत्वात् । ननु विरोधिविषयत्वाभावा-
त्तर्कः कथं संशयजिज्ञासयोर्निवर्त्तक इति चेत्, न, वैषयिकविरोधाभावेऽपि स्वरूपेणैव दाहादौ मण्या-
दिवत् फलबलेन तस्य विरोधित्वात्, इच्छायामनिष्टप्रतिसन्धातृत्वेनापि विरोधित्वाच्च, मधुविष-
संपृक्तान्नबुभुक्षादौ तथा दर्शनात् । नन्वेवमपि यदि निर्वह्निः स्यादिति विषयपरिशोधकस्य तर्कस्य
कथमनुमितावुपयोगः, परामर्शादेव विशेषदर्शनत्वेन शङ्कानिवृत्तेरिति चेत् । विशेषदर्शने स्वरसवाहि-
शङ्काऽनुदशेऽपि अन्याहितशङ्कोदयेन बाधकप्रमाणावतारशङ्कानिबन्धनसाध्याभावशङ्कानिवर्त्तकत्वेन
तदुपयोगादिति विप्रपञ्चितमनुमानप्रकाशे । केचित्तु प्राथमिकलिङ्गदर्शनस्य तदविरोधित्वेन धूमवानयं
वह्निमान्न वेति संशयः, ततो जिज्ञासा, ततश्च साध्याभावज्ञानोपायानुसन्धानपरस्य तामपि वह्निव्याप्तिं
पक्षधर्म्मधूमे न परामृशति व्यग्रत्वादिति प्रसिद्धायां परामर्शसामग्र्यां तर्कावतारे तेनापहृतायां
जिज्ञासायां तदुपायानुसरणपरत्वरूपविषयान्तरसञ्चाराभावे परामर्शोत्पादः, अत एवायं न्यायविषयपरि-
शोधक इति गीयते, न्यायस्य परामर्शस्य विषयो लिङ्गं, तस्य परिशुद्धिः परामर्शप्रतिबन्धकसाध्या-
भावजिज्ञासातदुपायानुसरणपरत्वयोरपगमः । तदाह प्रमेयतत्त्वबोधे वर्द्धमानः-“एवञ्च विरोधिनोना-
विषयस्य जिज्ञासा तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी”—इति । न चैवं
तर्कस्य न्यायोत्तराङ्गत्वप्रतिपादनविरोधः, परामर्शव्यापारस्तर्क इति मतेन तदुत्थानात् । तदाह तत्रैव
वर्द्धमानः । “तर्को न्यायस्य पूर्वाङ्गं न्यायविषयपरिशोधकत्वात्, व्याप्तिग्राहकत्वाच्च” इत्याहुः ।

तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३४५
ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्त्तते, ततोऽनवस्थया भवितव्यम् । न ।
शङ्काया व्याघातावधित्वात् । तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्या-
बोधनी ।
ननु यदि तर्केण व्यभिचारशङ्कानिवृत्तिः तर्हि, तर्कस्याप्यविनाभावापेक्षत्वात्तत्रापि शङ्कानिवृत्त्यर्थं
तर्कान्तरापेक्षायामनवस्था स्यादित्याशङ्कयाह ननु-इति । अत्रोत्तरत्वेन तृतीयं पादमवतारयति न-
इति । नानवस्थया भवितव्यम्, न हि यत्र यत्राविनाभावग्रहस्तत्र सर्वत्र शङ्कोदय इति । व्या-
घातावधित्वमेवाह तदेव हि-इति । यस्मिन्नाशङ्क्यमाने लोकस्य व्यवहारव्याघातादयो न प्रादुष्यन्
प्रकाशः ।
नन्वन्वयेच तर्कामूलव्याप्तावपि शङ्काऽनुवृत्तौ मूलशैथिल्यात्तन्निवर्त्तनं तर्कादेवेत्यनवस्थेत्याह—
नन्विति ॥ न चानादिसिद्धव्याप्तिका एव केचित्तर्का इति वाच्यम् । तत्रापि प्रमाणानुयोगेऽ-
नुमान एव पर्यवसानेऽनवस्थापत्तेरिति भावः । तर्कामूलव्याप्तिग्रहो न तर्कांन्तरात् किन्त्वन्वयै-
वेत्याह ॥ शङ्काया इति ॥ तदेव स्पष्टयति ॥ तदेव हीति ॥ धूमो यदि वह्निसमवहितसामग्र्य-
जन्यत्वे तत्समवहितसामग्र्यजन्यः स्यान्नोत्पन्नः स्यादित्यत्र तर्के प्रवृत्ते किमवह्नेरेव धूमः स्यादिति
शङ्का, क्वचिद्वह्निं विनाऽपि स्यादिति वा, अकारणत एवोत्पद्यते इति वा ? । सर्वत्र स्वक्रियाव्याघातः ।
यदि हान्वयव्यतिरेकावधृतकारणभावं कारणं विना कार्योत्पत्तिं शङ्केत, तदा नियमेन धूमार्थं वह्नेस्तृ-
प्यर्थमन्नस्य परप्रतिपत्त्यर्थं शब्दस्योपादानं न कुर्यात्, तैर्विनाऽपि तेषां सम्भवात् । तस्मात् तदु-
पादानमेव तादृशशङ्काप्रतिवन्धकम् । न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते तत्कारणं तन्ने-
त्याशङ्कते चेत्यर्थः । अतश्च—
व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥
प्रकाशिका ।
रति धूमो यदीति । अत्र सत्यन्तं विशेषणं पक्षेयोजनीयम् । तेनाभिमतविपर्ययपर्यवसायित्वं
तर्कस्येति बोध्यम् । तदुपादानमिति । उपादानकारणीभूतं कार्यकारणभावज्ञानमित्यर्थः । उपादा-
नस्य क्रियायाः शङ्काप्रतिवन्धकत्वात् । नन्वेवमन्योन्याश्रयः कार्यकारणभावग्रहार्थमेवैतत्कर्मानुसरणा-
दिति वाच्यम् । न ह्यनेनैव तर्केण धूमवह्निव्याप्तिग्रहनियमः कोटिस्मरणादिविरहेण शङ्काविच्छेदे
तर्कं विनापि व्याप्तिग्रहात् , किन्तु सर्वत्र शङ्का स्यादेवेति शङ्कापिशाच्या न क्वापि व्याप्तिग्रह इति
नानुमानं प्रमाणामेति वदन्तं चार्वाकं प्रति तर्कोऽयमुपदर्श्यते । एवमाशङ्कमानस्य भवतोऽपि स्वक्रि-
याव्याघात इति प्रतिपादनाय तथा च भवतोऽप्युपादानकारणीभूतं कार्यकारणभावज्ञानं वर्त्तत एवेति
नास्ति शङ्केति तदुद्भावनं वाङ्मनसविर्संवाद इति भयेन शङ्काममुद्भावयन् सोऽनुमानप्रामाण्यानु-
मकरन्दः ।
यत्तर्कामूलव्याप्तौ व्याघातः शङ्काप्रतिबन्धकस्तमुदाहरति धूमो यदीति । सत्यन्तं घटादौ व्यभि-
चारवारणाय । पक्षविशेषणमप्येतद् बोध्यम् । तेनैतद्विशेषणस्यैव व्यतिरेकमादाय नास्य विपर्य्ययप-
र्य्यवसानम् । तद्ग्रहश्च योग्यानां व्यभिचारदर्शनात्, अयोग्यानामनुपस्थितकल्पनागौरवात् । तदु-
पादानमिति । तदुपादानहेतुभूतधूमवह्न्यादिकार्य्यकारणभावज्ञानमेवेत्यर्थः । शङ्काया विरोधिनिश्च-
याप्रतिबध्यत्वादिति ध्येयम्। यद्यप्येवमन्योन्याश्रयः, शङ्कानिवृत्तावेव तर्कस्य कार्य्यकारणभावनिवर्त्तकत्वं
निश्चिते च कार्य्यकारणभावे ततः शङ्कानिवृत्तिरिति, तथापि न सर्वत्रानेनैव तर्केण वह्निधूमकार्य्य-
कारणभावग्रहः, स्वतः सिद्धशङ्काविरहेऽन्वयादिज्ञानवतस्तद्ग्रहे बाधकाभावाव तस्मात् सर्वत्र शङ्का
स्यादेवेति यच्चार्वाकादिरनुमानविरोधी मन्यते, तं प्रत्युच्यते तथा सत्येतादृशतर्केऽपि तादृशशङ्कायां
भवतो धूमार्थंवडयुपादानं व्याहन्येत । तदिदमाह, न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते
४४ न्या० कु०