न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 368, कुल 608 में से
संदर्भ में पढ़ें३३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
गोलकादय इति चेन्न । तदुपलब्धेः पूर्वं तेषामनुपलम्भात् । न च यौगपद्यनियमः ।
कार्यकारणभावादिति ॥
एतेन, न परमाणवः सन्ति अनुपलब्धेः । न ते नित्या निरवयवा वा पार्थिव-
त्वात् घटादिवत् । न पाथसीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरू-
पादिवत् । न रूपत्वपार्थिवत्त्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्ग-
त्ववत् । नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः । अयोग्यानि च शशशृङ्गप्रतिबन्दिनि-
रसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् ।
मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति ॥ ६ ॥
यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि
बोधनी ।
वाह न-इति । गोलकादयः स्वोपलब्धेः पूर्वमनुपलम्भेनासन्तः कथं स्वस्वविषयोपलब्धिमुत्पादयेयु-
रिति । तर्हि स्वोपलम्भकाल एव सन्तः स्वविषयोपलम्भान्तरमारभेरन्नित्यत्राह न च-इति । न हि
चक्षुरादीनां स्वविषयोपलम्भस्य च कार्यकारणभावायौगपद्यं भवतीति ।
एवं तावदनुपलम्भमात्रेण ईश्वरनिषेधोऽशक्य इत्युक्तम्, इदानीमनेनैव मार्गेण तेषां परमाण्वा-
दिनियमोऽपि न सिध्यतीत्याह एतेन-इति । एतेन निरसनीयमिति संबन्धः । तत्र परमाणूनां पर-
मेश्वरस्येव योग्यानुपलम्भाभावेन प्रत्यक्षेण बाधः, तत्सर्वज्ञत्वसर्वकर्तृत्वयोरिव तेषां नित्यत्वनिरवयव-
त्वयोर्निषेधे धर्मिग्राहकप्रमाणबाधः । तज्ज्ञानं पक्षीकृत्य सर्वविषयत्वनिषेधवत् पाथःपरमाणुगतरूपा-
दिविशेषगुणानां नित्यत्वनिषेधे चाश्रयासिद्धिः, आत्मत्वं पक्षयित्वा तस्य सर्वज्ञसर्वकर्तृव्यक्तिसमवाय-
निषेधवद्रूपत्वादेरतीन्द्रियाश्रयत्वनिषेधे चाप्रसिद्धविशेषणः पक्षः, इन्द्रियासत्त्वहेतोर्योग्यानुपलम्भस्य
विशेषणासिद्धिः । यद्ययोग्यानीन्द्रियाणि सन्ति तर्हि शशशृङ्गमप्ययोग्यमस्ति चेति प्रतिबन्दिग्रहणेने-
मानि निरसनीयानि इत्येतदपि परमात्मयोग्यत्वप्रतिपादनेन निरसनीयम् । तथा स्वर्गादिनिराकरण-
मपि निरसनीयम् । स्वर्गादिनिराकरणप्रदर्शनेन मीमांसको भीषयितव्यः, तन्निषेधं दर्शयित्वा च
परितोषयितव्यः । यद्वा, ईश्वरनिराकरणनिषेधेन तस्य भीषणमितरनिराकरणनिषेधेन तोषणमिति ॥ ६॥
चार्वाकः सिद्धान्तिनं प्रत्याह यद्येवम्-इति । मा भूत्प्रत्यक्षानुपलभ्यपिशाचाद्युपाधिनिषेधः, ततः
प्रकाशः ।
मन्यदा त्वसत्त्वमिष्यत एवेत्यत आह । न चेति । उपलम्भेन्द्रिययोर्युगपदुत्पत्तयोः पौर्वापर्या-
भावादित्यर्थः । एतेनेति ॥ अनुपलब्धमात्रस्याऽसाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्ध्यादिनेत्यर्थः॥
मीमांसकश्चेति । अनुपलब्धमात्रस्याभावासाधकत्वादपूर्वादिसिद्ध्या तोषणम् । योग्यानु-
पलम्भस्य बाधकत्वेनाऽयोग्यपरमात्माऽबाध इति भीषणम् ॥ ६ ॥
यद्यनुपलम्भमात्रान्नाभावनिश्चयः, तदाऽतीन्द्रियोपाधिशङ्कया व्याप्तिनिश्चयान्नानुमानमिति न तत-
ईश्वरसिद्धिरित्याह—
यद्येवमिति । अनुमानाभावे तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमित्याह ।
प्रकाशिका ।
शेषः । मम तु चार्वाकस्यात एव तत्र संशय इति भावः । उपलम्भेन्द्रिययोरिति । प्रत्यक्षज्ञानस्य
विषयजन्यत्वात्तदन्यज्ञानस्य च त्वयानभ्युपगमादिति भावः ॥ ६ ॥
मकरन्दः ।
उपलम्भेन्द्रिययोरिति । प्रत्यक्षस्य विषयजन्यत्वनियमात्तदन्यज्ञानस्य त्वयानभ्युगमादिति
भावः ॥ ६ ॥
टिप्पणी ।
अयोग्यपरमात्माऽबाध इति भीषणमिति । ईश्वरसिद्धेरीश्वरानङ्गीकर्तुस्तस्य भयम् ॥ ६ ॥
तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमिति । अनुपलभ्यमानार्थे ॥