सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३६
बोधनी ।
तेन संस्कारानाधारत्वेऽपि क्रियाफलजलसंयोगभाजां व्रीहीणां कर्मत्वोपपत्तिः, नाप्यनीप्सितकर्मत्वम्,
आग्नेयाद्यपूर्वेषु उपयोक्ष्यमाणत्वादित्यर्थः ।
प्रकाशः ।
न जलसंयोगावच्छिन्नक्रियाविशेषः प्रोक्षणमिति कथं तदेकदेशस्य तत्साध्यतान्वय इति वाच्यम् ।
संयोगस्योपलक्षणत्वेनापदार्थत्वात् । अन्यथा यत्र नाधेयशक्तिः सक्तून् प्रोक्षतीत्यादौ, तत्र का
गतिः । वस्तुतो ज्ञानविषययोरिव व्रीहिपुरुषसंस्कारयोः स्वरूपमेव साक्षात्सम्बन्धो, न तु सम-
वाय इति भावः ॥
प्रकाशिका ।
प्रसङ्ग इत्यपि प्रतिभाति । वस्तुत इति । तथा च न परम्परासम्बन्धकल्पनागौरवमपीति भावः ।
न चैवमदृष्टान्तरस्यापि कपालेन साक्षात् सम्बन्धे प्रत्यासत्तितयाऽऽत्मसंयोगकारणत्वस्वीकारो
मकरन्दः ।
तथा च प्रकृताववघातविशेषे तस्य न विरोधित्वं नियमतस्तदनन्तरमेव तद्भावादिति भावः । सं-
योगस्येति । ननु फलस्योपलक्षणत्वे तत्तद्व्यापारमात्रस्यैव धात्वर्थत्वे त्यजिगम्योः पर्यायताऽऽ-
पत्तिः । अवच्छेदकीभूतफलयोर्विभागसंयोगयोर्धात्वर्थाप्रवेशे स्पन्दमात्रस्यैव धात्वर्थत्वादिति चेन्न ।
व्यापारे ह्युपलक्षणीभूतस्यापि फलस्य प्रतीतौ विशेषणत्वमेव, इष्टसाधनताविधिपक्षे क्रियोपलक्षण-
स्यापीष्टस्य ज्ञानविशेषणतावत् । तदत्र फलविशिष्टो व्यापारो यदि वाच्यस्तदा शब्दात् फलविशि-
ष्टव्यापारप्रतीतिः । अपरथा फलोपलक्षितव्यापारधीरित्यभयथाऽपि फलांशेऽपि शक्तेः क प्रतीत्य-
विशेषो येन पर्यायता । विशेषणत्वे प्रकृते कर्मत्वानुपपत्तिरिति । वस्तुतस्तु त्यजेः स्पन्दमात्रं
शक्यं, गमेः स्पन्दविशेष इति चिन्तामणिश्वरसात् स्पन्दत्वगमनत्वयोर्भेदे पर्यायत्वशङ्काऽपि न ।
गमनत्वं कर्मत्वव्याप्यसामान्यमिति लीलावतीस्वरसोऽपि तथा । अन्यथा उत्क्षेपणादेरपि गमनत्वे
विभागव्याघातादिति । वस्तुत इति । तथा च परम्परासम्बन्धगौरवमपि नेति भावः । न चैवं-
मदृष्टान्तरस्यापि तथात्वे अदृष्टवदात्मसंयोगो हेतुरिति न स्यादिति वाच्यम् । प्रोक्षणानन्तरं
टिप्पणी ।
गोत्पादकफलभावनाया एव प्रतीतेरन्यत्रापि विध्यपेक्षितत्वमपूर्वस्यैवेति तस्यात्मनिष्ठत्वे व्रीहिपदो
त्तरं द्वितीयानुपपत्तेरिति भावः । तद्व्युत्पत्तेरिति । विध्यपेक्षितफलस्य द्वितीयार्थत्वबोधकशास्त्र-
स्याभावादित्यर्थः । संयोगस्यापि विध्यपेक्षितत्वादिति । विध्यपेक्षितत्वञ्च विधिविषयक्रिया
जन्यत्वं मीमांसकनये फलभावनाया एव विध्यर्थत्वेन तस्य विधिवाक्यजज्ञानविषयत्वे विधिविषय-
त्वमस्त्येवेति संयोगस्य विध्यनापेक्षितत्वे व्रीहिमुद्दिश्य भूम्यादावपि जलादिसेकेनापूर्वोत्पादाद् व्रीहौ
जलसंयोगकरणस्य वैफल्यापत्तेरिति । तत्साध्यतान्वय इति । तत्साध्यतेति यदुक्तं तदुत्तरमान-
सबोधाभिप्रायेण, शाब्दे तु द्वितीयार्थस्य धात्वर्थे एवान्वयेन साधनत्वस्यैव प्रतीयमानत्वादिति बो-
ध्यम् । अपदार्थत्वादिति । संयोगादिफलानवच्छिन्नव्यापारस्य धात्वर्थत्वे त्यजिगम्यादीनां पर्या-
यता स्यादिति वाच्यम् । त्यजेः स्पन्दमात्रं शक्यं गमेः स्पन्दविशेष इति चिन्तामणिकारलेखात् , वि
भिज्ञयोः स्पन्दनत्वगमनत्वयोः फलानवच्छिन्नयोरुभयत्र शक्यतावच्छेदकमिति न पर्यायताप्रसङ्गः,
अन्यथा फलस्य विशेषणत्व इत्यर्थः । वस्तुतो ज्ञानविषययोरिति । ज्ञानविषययोरिव व्रीहि-
पुरुषसंस्कारयोरपि साक्षादेव सम्बन्ध, एवञ्च परम्परासम्बन्धकल्पनमपि नास्माकम्, अस्तु वि-
ध्यपेक्षितफलमेव द्वितीयार्थः, संयोगादिविशेषितव्यापारोऽपि धात्वर्थः, तथापि न किमप्यनुपपन्नमि-
त्याह । वस्तुतित्वस्वरूपमेव साक्षात्सम्बन्ध इति । न चैवमदृष्टान्तरस्यापि फलेन साक्षादेव

१४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्यायो
ननु यदुद्देशेन यत् क्रियते तत्तत्र किञ्चित्करम्, यथा पुत्रेष्टिपितृयज्ञौ।
तथा चाभिमन्त्रणादयो व्रीह्याद्युद्देशेन प्रवृत्ता इत्यनुमानमिति चेत्, तन्न। हवि-
बोधनी ।
पूर्वपक्षी स्वाभिप्रायमुद्घाटयति-ननु-इति। तत्र किञ्चित्करमित्यत्र संयोगादिकरत्वात् सिद्ध-
साधनतां निराकर्त्तुं कालान्तरभाविफलानुकूलं किञ्चिदित्युपस्कर्त्तव्यम्। अत एवानैकान्तिकं प्रद-
र्शयन् वक्ष्यति "न हि ते कालान्तरभाविफलानुगुणम्” इति । वैश्वानरेष्टिर्हि पुत्रे तेजस्वितां क-
रोति, पितृयज्ञश्च पितरि तृप्तिमिति । न-इति । अनैकान्तिकतामेव लौकिकोदाहरणेन विशदयति-
प्रकाशः ।
पराभिप्रेतमनुमानमुद्भाव्यानैकान्तिकत्वं स्फुटयति-
नन्विति । पुत्रेति । “वैश्वानरं द्वादशकपालं चरुं निर्वपेत् पुत्रे जाते" इति पुत्रजन्मनिमि-
त्तो यागो यस्यायमर्थवादो "यस्मिञ्जात एतामिष्टिं निर्वपति स पूत एव तेजस्वी अन्नादः पशु-
मान् भवती"ति । पितृयज्ञः = पितृश्राद्धादि । ननु ताभ्यां पितृपुत्रगतमेवापूर्वं जन्यते, विहित-
क्रियाया यागस्येव कर्तृगतापूर्वजनकत्वात् । न च मुक्ते कर्तरि तददृष्टनाशात् पुत्रादौ फलाभावोप-
पत्तिरिति वाच्यम् । अदृष्टस्य फलनाश्यतया पुत्रादिफलाभावेनादृष्टनाशात् । अत्राहुः । फलोप-
पादकमदृष्टं फलाश्रये कल्प्यते, तस्य प्रथमोपस्थितत्वात्, साक्षादुपपादकत्वाच्च । मुक्ते च
पितरि श्राद्धेन दोषाभावान्नादृष्टं जन्यते । न चैवं साङ्गश्राद्धस्य निष्फलत्वापत्तिः, अदृष्टोत्पत्तौ
स्वरूपसतो दोषस्याङ्गस्य वैकल्यात् । अत्र किञ्चित्करत्वमात्रं साध्यम्, अतीन्द्रियत्वेन विशेषितं
वा ? । आद्ये संयोजननेन सिद्धसाधनम्, अन्त्ये च वह्नावपूर्वहेतुहविःसंयोगेन हविस्त्यागेनाने-
कान्तिकमित्याह । हविरिति ।
प्रकाशिका ।
विरुद्ध इति वाच्यम् । संस्कृतो व्रीहिरितिवत् तत्र स्वरूपसम्बन्धकल्पकप्रतीत्यभावात् । अत
एवोपनयनादिजन्यादृष्टरूपसंस्कारस्यापि माणवकशरीरवृत्तित्वं संस्कृतो माणवक इति प्रतीतेः। पुत्रे
ष्टिपदस्य पुत्रजन्मार्थकेष्टिपरत्वे न प्रकृतसङ्गतिरिति पुत्रेष्टिपदं जातेष्टिपरमित्याह । वैश्वानर-
मिति । तस्य प्रथमेति । भोगनियामकत्वेन सामान्यतो भोगसमानाधिकरणापूर्वसिद्धौ तद-
पूर्वं कुतो जायतामित्यपेक्षायां जातेष्ट्यादिविधिप्रवृत्त्या भोगाधिकरणस्य प्रथमोपस्थितत्वात् तदा
कर्तुरनुपस्थितेरित्यर्थः । साक्षादिति । साक्षात्सम्बन्धेनेत्यर्थः । दोषस्येति । फलाश्रयगतस्ये-
मकरन्दः ।
संस्कृतो व्रीहिरिति व्यवहारात् संस्काररूपादृष्टस्य तथात्वेऽपि अदृष्टान्तरस्य साक्षात् सम्बन्धत्वे
मानाभावादिति भावः । अत एवोपनयनादिसंस्कारस्य माणवकशरीरनिष्ठत्वं, संस्कृत इति व्यवहा-
रादिति बोध्यम् । प्रकृतसंलग्नतया पुत्रेष्टिपदं जातेष्टिपरमित्याह । वैश्वानरमिति । तस्येति ।
पितृस्वर्गकाम इत्यादिना पित्रादेः प्रथमोपस्थितत्वादिति भावः । साक्षादिति । साक्षात् सम्ब-
न्धेतोपपादकत्वादित्यर्थः ।
टिप्पणी ।
सम्बन्धोऽस्माकं प्रत्यासत्तितयाऽऽत्मसंयोगकल्पनमिति वाच्यम् । संस्कृतो व्रीहिरितिवत् संस्कृतः
स्वर्ग इत्यादि प्रत्ययादर्शनात् नान्यत्र स्वरूपकल्पनम् । संस्कृतो माणवक इत्यादिदर्शनात्तत्रोपनय-
नादिना संस्कारादीनां माणवकशरीरवृत्तित्व कल्पत एवेति आत्मना तु समवाय एवेति बोध्यम् ।
वैश्वानरं द्वादशकपालमिति पुत्रेष्टिपदस्य पुत्रजन्मनिमित्तेष्टिपरत्वे प्रकृतासङ्गतेः, पुत्रजन्मजन्यसु-
खादिरूपफलस्य कर्तृगतत्वेन तन्नेष्ट्रिजनितापूर्वस्य कर्त्तर्येव सिद्धान्तितत्वात्-अतस्तद् व्याचष्टे
वैश्वानरमिति । साक्षादुपपादकत्वाच्चेति । साक्षात्सम्बन्धेन फलोपपादकत्वादित्यर्थः ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४१
स्त्यागादिभिरनैकान्तिकत्वात् । न हि ते कालान्तरभाविफलानुगुणं किञ्चिद्
हुताशनादौ जनयन्ति । किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापाराः प्रमेयोद्देशेन प्र-
वृत्ताः प्रमातर्येव किञ्चिज्जनयन्ति, न प्रमेय इति । कृषिचिकित्से अप्येवमेव स्या-
तामिति चेन्न । दृष्टेनैव पाकरूपादिभेदेनोपपत्तावदृष्टकल्पनायां प्रमाणाभा-
वात् । तथा च लाक्षारसावसेको व्याख्यातः । अत एव बीजविशेषस्याऽऽपरमा-
ण्वन्तभङ्गेऽपि परमाणूनामवान्तरजात्यभावेऽपि प्राचीनपाकजविशेषादेव विशि-
ष्टाः परमाणवः, तं तं कार्यविशेषमारभन्ते । यथा हि कलमबीजं यवादेः, नरबीजं
वानरादेः, गोक्षीरं माहिषादेर्जात्या व्यावर्तते, तथा तत्परमाणवोऽपि मूलभूतः
बोधनी ।
किञ्चित्-इति । प्रमेयगतं तु प्राकट्यं निराकरिष्यत इति भावः । कृषिः-इति । ते अपि हि
प्रोक्षणादिवददृष्टरूपसंस्काराधानद्वारेण कार्यकरे स्यातामिति । न इति । परिणतिर्निष्पत्तिः सह-
कारीति वा । इममेव प्रकारमुदाहरणान्तरेष्वप्यतिदिशति-तथा च-इति । लाक्षारसावसिक्तबी-
जपूरादिवीजजनिततत्कुसुमारुणिमापि न संस्काराधानतद्द्वारा लाक्षारसावसेकेन जायते । किन्तु
दृष्टेनैव रूपविशेषजननद्वारेणेति व्याख्यातमिति । तेनैतन्निरस्तं यदाह महाव्रतः—
कुसुमे बीजपूरादेर्यल्लाक्षाद्यवसिच्यते ।
शक्तिराधीयते तेन काचित्तां किं न पश्यसि ॥
यदुक्तमन्यथा कृष्यादयो दुर्घटाः प्रसज्येरन्निति तदुत्तरमुत्तरमर्धं संगृहस्य व्याचष्टे-अत एव-
इति । यत एव दृष्टे सत्यदृष्टकल्पना न न्याय्या अत एव यवबीजारम्भकाः परमाणवः पूर्वं कल-
मबीजारम्भकपरमाणुव्यावृत्तैर्यैः पाकजविशेषैः कलमबीजविलक्षणं यवबीजमारब्धवन्तः 'प्राचीनै-
स्तैरेव तज्जातीयैरेव वा विशिष्टाः परमाणवो यवाङ्कुरमेवारभन्ते नान्यमिति । ननु व्यावर्तकगुण-
विशेषसिद्धौ हि त एव विशेषका भवेयुः, तत्सिद्धिरेव कुतस्त्येत्यत आह-यथा हि-इति ।
यथा हि तदवयविनां जात्या व्यावृत्तिस्तथा तदारम्भकपरमाणूनां गुणविशेषैर्व्यावृत्तिरिति । दृष्टा
प्रकाशः ।
किं वा नेति । प्राभाकरं प्रत्यनैकान्तिकत्वम् , भाट्टानां प्रमेये ज्ञातताजननात् । कृषीति ।
प्रोक्षणवदपूर्वद्वारेवानागतकार्यहेतू स्यातामित्यर्थः । दृष्टेनैवेति । पाकजानामावश्यकतया तत
एव नियतकार्योपपत्तेरित्यर्थः । ननु बीजपूरलाक्षारसावसेकस्याशुतरविनाशिनः कालान्तरीयारुण-
पुष्पजनकत्वं तदाधेयशक्त्या विना न निर्वहतीत्यत आह । तथा चेति । तत्रापि तत्साहित्येनो-
त्पन्नपाकजादेरावश्यकत्वात् तथेत्यर्थः । अत एव शाल्यादिनियतकार्यारम्भान्यथानुपपत्त्या
परमाण्वापि न तत्कल्पनमित्याह । अत एवेति । कार्यसजातीयपाकजवत्त्वं परमाणूनामप्याव-
प्रकाशिका ।
ति शेषः । प्राभाकरं प्रतीति । इदं च तन्निष्ठकिञ्चिज्जनकमित्यत्र यदि जनकत्वं प्रयोजकत्वमात्रं
तदा भट्टानामपि प्रमाज्ञानेन ज्ञातताजननात् यथाश्रुताऽसंगतेः । वस्तुतः सामान्यत एव व्यभिचा-
टिप्पणी ।
तस्य प्रथमोपस्थितत्वादिति । फलनियामकतया सामान्यतो फलसमानाधिकरणे दृष्टसिद्धौ
कथन्तदित्याकाङ्क्षायां जातेष्टथविविधिप्रवृत्तेः, तत्र तेन विधिनाऽपूर्वं बोधिते फलाश्रयस्य कर्त्रपेक्षया
प्रथमोपस्थितत्वात्तद्गतापूर्वमेव सिध्यति । दोषाभावादिति । मिथ्याज्ञानादिरूपदोषाभावादित्यर्थः ॥
एवमेव । प्रोक्षितवदपूर्वद्वारेवानागतकार्यहेतू । दृष्टेनैव = अवश्यक्लृप्तेनैव । लाक्षा-
रसावसेक इति । आशुविनाशिलाक्षारसावसिक्तबीजपूरेण कालान्तरारुणापुष्पजननस्थलेऽपि न

An exact line-by-line transcription of the Sanskrit text provided in the image:

१४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां
पाकजैरैव व्यावर्त्तन्ते । न ह्यस्ति सम्भवो गोक्षीरं सुरभि मधुरं शीतं, तत्परमाण-
वश्च विपरीताः । तस्मात्तथाभूताः पाकजा एव परमाणवो यथाभूतैरेव आद्याति-
शयोऽन्त्यातिशयोऽङ्कुरादिर्वेति किमत्र शक्तिकल्पनया ? । कल्पादावप्येवमेव ।
इदानीं बीजादिसन्निदिष्टानाम्मस्मदादिभिरुपसंपादनं तदानीन्तु विभक्तानामदृष्टा-
देव केवलान्मियः संसर्ग इति विशेषः । न च वाच्यमिदानीमपि तथैव किं न
स्यात् ? यतः कृष्यादिकर्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गात् । अन्व-
बोधनी।
न्तमात्रेणापरितुष्यन् प्रमाणमाह-न हि-इति । तत्तदवयविषु दृश्यमानविलक्षणगुणा एव तत्तदार-
म्भकपरमाणुषु गुणविशेषमावेदयन्ति । अन्यथा कार्येऽपि न स्युः कारणविशेषगुणपूर्वकत्वात्
कार्यविशेषगुणानामिति । उपसंहरति-तस्मात्-इति । भूमावुप्तबीजस्याङ्कुरजननानुकूलगणा-
न्तरकार्यमतिशयः, तत्रोच्छूनत्वमोध्यातिशयः, उच्छूनतमत्वमन्त्यः यतोऽङ्कुरो जातः, उच्छूनत-
रत्वलक्षणस्तु मध्यमः सम्पातगृहीत इति । ननु महाप्रलये सकलकार्यविनाशाम्युपगमात्-पाकजवि-
शेषा अपि विनश्येयुः, कथं तदानीं परमाणवो नियतजातीयकार्यारम्भे रन्नित्यत्राह-कल्पपादौ-
इति । कार्यदर्शनीयस्य पाकजविशेषस्यादृष्टसंस्कारवत् प्रलयेऽप्यविनाशः । यद्वा, तदानीमप्या
ग्रेयादिपरमाणुसंयोगात् पाकविशेषोत्पत्तिरिति भावः । यद्युभयत्राविशेषः, तर्हीदानीमपि कृषी-
वलापेक्षा न स्यादित्यत्राह-इदानीम्-इति । बीजादिरूपेण संन्निदिष्टानामारब्धबीजमृत्सलि-
लायवयविनां परमाणूनां यथाङ्कुराद्यारम्भकभावस्तथोपसर्पणमस्मदादिभिरिदानीमिति । कथं तर्हि
कल्पादौ कृषीवलाद्यभावे बीजादिसमवधानमित्यत्राह-तदानीम्-इति । यथोक्तम् "अणुमनसो-
श्चाद्यं कर्मादृष्टकारितम्" इति । इदानीमप्यदृष्टादेवोपपत्तेः किं कृषीवलेनेत्यत्राह-न च-
इति । हेतुमाह-कृष्यादि-इति । तत्र कृषीबलस्य कायसंक्षोमसाध्यानां दुःखत्मकानां भोगानां
कृष्यादिकर्मलभ्यमृत्त्यादिभोगानां चोच्छेदः स्यात् । अन्यवस्थानामाप्रसङ्गातिप्रसङ्गौ, सा च स्यात् ।
कृतकृषेरपि सस्याधिगमो न स्यात्, स्याच्चेतरस्येत्यर्थः । यद्वा, अदृष्टस्यैव हेतुत्वे केवलं कृषी-
वलभोग एव न स्याद् यस्य ब्रीहितण्डुलादयोऽपि दृष्टहेतवो न स्युरिति । अयमत्र भावः, यत्र
दृष्टकारणानि सन्ति, तत्र तदुपहारेणैवादृष्टस्योपयोगः न स्वतन्त्रस्य, तेन हेतुत्वमवश्यमाश्रयेय-
प्रकाशः।
श्यकमिति न तत्कल्पनं, येन कल्पनायामविशेषः स्यादित्याह । न ह्यस्तीति । शीतमुत्युपष्टम्भ-
कजलाभिपप्रायम् । सौरभशैत्ययोरेकाधारत्वाभावात् । आद्यातिशयो द्व्यणुकम्, अन्त्यातिशयोऽ-
ङ्कुरादिरित्यभेदेनान्वयः । अन्त्यातिशयो वाऽङ्कुरादिरिति पाठेऽन्त्यातिशयोऽङ्कुरादिसमवायिकारण-
मित्यर्थः । यद्वा आद्यातिशयो बीजस्योच्छूनत्वम् । अन्त्यातिशय उच्छूनतरत्वम् । प्रलये कार्यद्र-
व्याभावेऽपि परमाणुषु नियतकार्योचितस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावातत एव सर्गा-
दावपि नियम इत्याह । कल्पादाविति । उपसंपादनं सहकारिसमवधानोत्पादनम् । न चेति ।
यद्यस्मदादिव्यापारं विना सर्गादावङ्कुरोत्पत्तिरिति शेषः । यत इति । यद्यपि कृष्यादिसाध्यभोग-
हेत्वदृष्टबलात् कृषिसंभवेऽपि सर्गादाविवेदानीमपि कृष्यादि विनाऽङ्कुरः स्यादेव, तथापि तथादर्शन-
बीजपूरेऽतिशयः कल्प्यते लाक्षारसावसेकसहित्योत्पन्नपाकजादेव निर्वाहादित्यर्थः । कल्पादाव-
प्येवमेवेति । प्रलये कार्यद्रव्याभावेऽपि नियतकार्योचितस्वभावानां पाकजानामात्मन्यदृष्टस्येव
सद्भावात् तेन यथेदानीं नियमस्तथा तत एव सर्गादावपि ।
उपसम्पादनम् =सहकारिसमधानोत्पादनम् । तथैव यथाऽस्मदादेव्यापारं विनापि केव-
लाददृष्टादेव कार्यनियमः सर्गादौ तथेत्यर्थः ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४३
वस्थाभयाच्च अदृष्टानि कर्म्माणि दृष्टकर्म्मव्यवस्थयैव भोगसाधनानीत्युन्नीयंते ।
तस्मात् , पाकजविशेषैः संस्थानविशेषैश्च विशिष्टाः, परमाणवः कार्यविशेषमार-
बोधनी ।
मिति । दृष्टकर्मव्यवस्थयैवादृष्टानि भोगसाधनानीत्युपसंहरति-तस्मात्-इति । पाकजादय इत्या-
दिशब्दव्याख्यानं संस्थानविशेषैरिति । अत्र पाकजविशेषः पूर्वबीजादिसजातीयाङ्कुरारम्भे हेतुः ।
संस्थानविशेषः कार्यसन्निवेशविशेषहेतुरिति । तेषु पाकजविशेषेषु तत्कारणपरम्परायां च न
प्रकाशः ।
बलात् कृष्यादिहेत्वदृष्टस्यैव तत्प्रतिबन्धकत्वमुन्नीयते। यद्वा, सर्गाद्यङ्कुरविजातीय एवेदानीमङ्कुरो यस्य
कृष्याद्यपेक्षा । अत एव वैजात्याभावे दूषणमाह । अव्यवस्था इति । व्यभिचारेण कृष्यादीनां
कारणत्वव्यवस्थैव न स्यादित्यर्थः । यद्वा भोगानियमप्रसङ्गाच्चेत्यर्थः । अदृष्टानीति । कृष्यादि-
जन्याङ्कुरजनकमदृष्टं दृष्टकृष्यादिद्वारैव हेतुरित्यर्थः । संस्थानेति । संस्थानपदं संयोगमात्रपरम् ।
परमाणववयवसंयोगाभावादित्येके । क्वचित् पाकविशेषं, क्वचित्परम्पराजन्ये समानजातीयरूपादौ
शरीरादौ संस्थानविशेषमपेक्षन्ते परमाणव इत्यन्ये । एतच्च उभयमुपलक्षणम् । तुल्यपाकजसंस्थाने
प्रकाशिका ।
रो भटानामप्यतीतादिस्थले ज्ञाततानुत्पत्तेः । तत्प्रतिबन्धकत्वमिति । तथा च कृष्यादिसाध्य-
भोगेन तददृष्टनाशे प्रतिबन्धकाभावादङ्कुरोत्पत्तिरित्यर्थः । नन्वेवमपि कृष्यादेरनुपयोगे बीजं वि-
नाप्यङ्कुरः स्यादित्याक्षेपस्तदवस्थ एवेत्यरुचेराह । यद्वा सर्गादीति । न चैवमपि सर्गादिस-
जातीय एवाङ्कुर इदानीमुत्पद्यतां बीजादिकं विनापीति वाच्यम् । तज्जातीयं प्रति सर्गादिकालस्य
कारणत्वादिदानीं च तदभावात् । अत एवेति । यत एव वैजात्ये तात्पर्यमित्यर्थः । ननु मूले न
वैजात्यवार्तेति तत्परतया व्याख्यानमयुक्तमत आह यद्वेति । तत्कृत्यजन्यत्वे तेनाङ्कुरेण तस्यैव
भोग इत्यत्र नियामकाभावादित्यर्थः । यद्यपि तददृष्टोत्पादितत्वमेव नियामकं, तथापि तस्यापि
दृष्टमेव कृष्यादिकं द्वारमित्याशयः । एवं च प्रथमव्याख्यानपक्षेरव्यवस्थाभयादेवमुन्नीयत इति
मकरन्दः ।
यद्वा सर्गादीति । तत्सामग्रीसत्त्वात् सर्गाद्यङ्कुरजातीयोऽपीदानीमुत्पद्यतामित्यत्र नेदं
बाधकम् । तथापीदानीन्तनाङ्कुरत्वावच्छेदेनैव कृष्यादिहेतुत्वान्न तथेति भावः ॥ ननु मूले वैजा-
त्यवार्त्ताऽपि नेति तत्परतया व्याख्यानमलग्नकमित्यपरितुष्यन्नाह । यद्वेति । कृष्यादिकं विना
टिप्पणी ।
तत्प्रतिबन्धकत्वमुन्नीयत इति । इदानीन्तस्याङ्कुरादिप्रतिबन्धकत्वमित्यर्थः । तथा च कृष्या-
दिकरणे कृष्यादिजन्यभोगेन तद्धेतुभूतादृष्टनाशे प्रतिबन्धकाभावादङ्कुरोत्पत्तिर्भवतीति भावः ॥
यद्वा-सर्गाद्यङ्कुरेति । कृष्यादेस्तूपयोगो बीजं विनाप्यङ्कुरः स्यादित्याक्षेपस्तदवस्थ एवेत्यरुचे-
राह । यद्वेति । सर्गादिसजातीयाङ्कुरस्य तत्प्रतिकारणीभूतकालविशेषस्याभावान्नेदानीमापत्ति-
सम्भवः । अत एव वैजात्याभाव इति । अत एव वैजात्ये तात्पर्य्यमिति भावः । व्यभि-
चारेण कृष्यादीनां कारणत्वव्यवस्थैवेति । कारणत्वव्यवस्थापिका चाङ्कुरार्थिनां सर्वेषां कृष्यादि-
प्रवृत्तिरेवेति ॥ यद्वा भोगानियमप्रसङ्गाञ्चेति । तत्कृत्यजन्यत्वे तेनाङ्कुरेणास्यैव भोगो
नान्यस्येति नियमो न स्यादित्यर्थः । ननु सुखादाविरतददृष्टोत्पादितत्वमेव नियामक मित्याश-
ङ्क्याह । मूले दृष्टानीति । तद्व्याकरोति कृष्यादीति । तथा च तददृष्टजत्वेन तदी-
यत्वादि व्यवहारः, तद्भोगसाधनत्वादि व्यवहारो वा, न तददृष्टजत्वमज्ञात्वा, तज्ज्ञानञ्च न भोग-

१४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां
भन्ते । ते च तेजोऽनिलतोयसंसर्गविशेषाः, ते च क्रियया, सा च नोदनाभिघातगु-
रुत्ववेगद्रवत्वाद्दृष्टवदात्मसंयोगेभ्यो यथायथमिति न किञ्चिदनुपपन्नम् । निमित्त-
भेदाश्च पाके भवन्ति । तद्यथा हारीतमांसं हरिद्राजलावसिक्तं हरिद्राग्निप्लुष्ट-
मुपयोगात् सद्यो व्यापादयति, दशरात्रोषितं कांस्ये घृतञ्चापि विषायते, ताम्र-
पात्रे पर्युषितं क्षीरमपि तिक्तायते इत्यादि ॥ ११ ॥
यत्र तर्हि तोये तेजसि वायौ वा न पाकजो विशेषस्तत्र कथमुद्भवानुद्भव-
बोधनी ।
क्वचिद् दृष्टकारणव्यतिरेकेण शक्तिरङ्गीकार्यैत्याह- ते च-इति । नोदनादीनां परस्परनिरपेक्षाणा-
मेव क्रियाहेतुत्वमिति दर्शितम् । यथायथम्-इति । क्वचित्तु पाकजविशेषस्याविशेषेऽपि मरणा-
दिरूपकार्यविशेषदर्शनात् तदतिरिक्तशक्तिभेदोऽङ्गीकार्य इत्याह-निमित्तभेदाश्च-इति । पाक-
जानां निमित्तकारणानि भिन्नानि दृश्यन्ते, तेन निमित्तभेदहेतुकः पाजजेष्वपि विशेषोऽस्ति यतः
कार्यविशेष इति भावः । निमित्तभेदं कार्यविशेषं च निदर्शयति। तद्यथा-इति । यदाह बाहटः-
हारीतमांसं हारिद्रशूलकप्रोतपाचितम् ।
हरिद्रावह्निना सद्यो व्यापादयति चर्वितम् ॥ इति ।
सर्पिःक्षीरयोश्च पार्थिवत्वात् पाकजोत्पत्तिः सम्भवतीति ॥ ११ ॥
अस्तु पार्थिवेषु पाकजविशेषादेव कार्यविशेषः, अबादिषु तदभावाच्छक्तिरङ्गीकार्यैत्याह-
यत्र तर्हि-इति । केचिदाप्याः परमाणव उद्भूतद्रवत्वं कार्यमारभन्ते, केचित्त्वनुद्भूतद्रवत्वं
करकादिकम् । तैजसाश्चोद्भूतस्पर्शमुद्भूतरूपमनुद्भूतस्पर्शमुद्भूतरूपं च प्रदीपं चक्षुर्दर्शनं
चारभन्ते । वायवीयाश्च स्तिमितादीति । किञ्च, पार्थिवेष्वपि केषुचित् पाकजाभावेऽपि कार्यविशेषः
प्रकाशः ।
ब्राह्म्यादावदृष्टविशेषस्यापि तैरपेक्षणात् । तर्हि पाकजोत्पत्त्यर्थमप्याधेयशक्तिरभ्युपेयेत्यत आह । ते
चेति । ननु हारीतमांसं हरिद्राजलावसिक्तं हरिद्रानलप्लुष्टं सद्यो भोक्तारं व्यापादयतीत्युभयवा-
दिसिद्धम् । तत्रावश्यं तेन शक्तिराधेया । न चावश्यकात् पाकजादेवोत्पत्तिः । तस्य पलालानल-
साधितस्याव्यापादनेनानैकान्त्यादियत आह । निमित्तेति । पाकजभेदमात्रं न हेतुः, किं तु नि-
मित्तभेदेनासादितः पाकजविशेष इत्यर्थः । अग्नौ सहकारित्वमुक्त्वा सौरालोके तदाह । दशरात्रे-
ति । ताम्रपात्र इत्यनेन पाकजविशेषस्य प्रत्यक्षत्वं वदता शक्त्यपेक्षया तत्र विनिगमकमुक्तम् ।११।
उद्भवानुद्भवौ विशेषगुणप्रत्यक्षत्वाप्रत्यक्षत्वप्रयोजकौ तद्वृत्तिजातिभेदौ । पाकजवत्यवान्तर
प्रकाशिका ।
मूलयोजना । द्वितीयव्याख्यानपक्षे चादृष्टस्यैव भोगनियामकत्वमस्त्वित्याशङ्काया "मदृष्टानीति"
मूलमित्यवधेयम् ॥ ११ ॥
उद्भवानुद्भवाविति । इदं च मतभेदेन । एकमत उभयोर्जात्योरनङ्गीकारादिति।
मकरन्दः।
उत्पन्नशङ्कुरेणास्यैव भोगो जननीय इत्यत्र नियामकाभावादित्यर्थः । यद्यपि तददृष्टोत्पादितत्वमेव
नियामकमन्यथा सर्गाद्यङ्कुरे का गतिः । तथापि पूर्वोक्ते तात्पर्यम् ॥ ११ ॥
जातिभेदाविति । मतभेदेन । एकमते उभयजात्यनङ्गीकारात् ।
टिप्पणी ।
मन्तरेणेति भोगात् पूर्वं तादृशव्यवहारो न स्यात् । एवं प्रेक्षावतां बहूनां भोगात् पूर्वं तत्तद्वस्त्व-
पादानव्ययादौ कलहमापद्येत । इदानीमदृष्टस्य दृष्टद्वारैव हेतुत्वं स्वीकरणीयमिति भावः ॥११॥
तद्वृत्तिजातिभेदाविति । व्यापकजातिमति व्याप्यैकजातिशून्ये तद्विरुद्धजातिनियमा-

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४५
द्रवत्वकठिनत्वादयो विशेषाः ? कथं वा पार्थिवे प्रतिमाऽऽदौ प्रतिष्ठाऽऽदिना
संस्कृतेऽपि विशेषाभावात् पूजनादिना धर्मो, व्यतिक्रमे त्वधर्मोऽप्रतिष्ठिते तु
न किञ्चित् ? । न च तत्र यजमानधर्मेणान्यस्य साहायकमाचरणीयम् । अन्य-
धर्मस्यान्यं प्रत्यनुपयोगात् , उपयोगे वा साधारण्यप्रसङ्गात् ॥
अत्रोच्यते-
निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ॥
बोधनी ।
प्रतिमादिषु दृश्यत इत्याह-कथं वा-इति । विशेषाभावात्=पाकजदृष्टरूपादिविशेषाभावादित्यर्थः ।
ननु प्रतिष्ठादिजनितेन प्रतिष्ठापकात्मसमवेतेनैव धर्मेण सहकृतः पूजादिर्धर्मं तद्व्यतिरेकश्चाधर्मं
प्रसूते, ततश्च न प्रतिमादावतिशयोऽङ्गीकार्य इत्याशङ्कयाह-न च-इति । साहायकं=सहायकारित्वं
यजमानः=प्रतिष्ठापकः, अन्यः = पूजकादिः । उपयोगे वा-इति । कचिदन्यधर्मस्यान्यधर्मं
प्रत्युपयोगाङ्गीकारे नियामकाभावात् सर्वस्य धर्माधर्मजातस्य सर्वपुरुषसाधारण्यप्रसङ्ग इति ।
अर्द्धद्वयेन शङ्काद्वयं परिहरति-निमित्तभेद-इति । निमित्तभेदः=सहकारिभेदः, तस्मा-
प्रकाशः ।
विशेषानुपपत्त्या शक्तिरास्थेयेत्यत आह । पार्थिवेति । नन्वन्यधर्मस्यान्यत्र सहकारित्वम् ,
यथा पात्राय दानेऽधिकपुण्यम् , धर्मविशेषवत्त्वस्य पात्रत्वादित्यत आह । उपयोगे वेति ।
यजमानधर्मस्य भोगादिना क्षये पूजकस्य धर्मानुत्पादप्रसङ्गात् । तत्सत्त्वेऽपि चण्डालादिस्पर्शेने-
नापूज्यत्वाच्चेति ।
निमित्तभेदेति । यद्यप्युद्भूतानुद्भूतपरमाणुरूपादेव तत्कार्य्यमुद्भूतमनुद्भूतं वोत्पद्यते
इति निमित्तभेदस्तत्राप्रयोजकस्तथापि साक्षात्कारप्रयोजकतयोद्भूतत्वकल्पनात् परमाणुगुणेषु
तदभावात् तन्नास्तीत्यदृष्टविशेषादेवानुद्भूतरूपादप्युद्भूतरूपं जायते इत्यभ्युपेयम् । न च या-
प्रकाशिका ।
केचित् । वस्तुतो व्यापकजातिमत्तितद्व्याप्यैकजातिशून्ये गुणे तद्विरुद्धजातिनियमाद् द्वे अपि जा-
ती साक्षात्कारेऽननुगतत्वादनुद्भूतत्वाभाव एव कारणम् । मिश्रा अपि प्रत्यक्षालाके चिन्तामणि तथैव
व्याख्यातवन्त इति यथाश्रुतमेव सम्यक् । उपयोगे चेतीति । प्रतिष्ठिताप्रतिष्ठितयोश्चण्डालस्पृष्टा-
स्पृष्टयोश्च तददृष्टवदात्मसंयोगाविशेषादविशेषप्रसङ्ग इति मूलार्थः । तत्सत्त्वेऽपीति । मन्मते तु
समानाधिकरणेन तेन शक्तिरेव नाश्यत इति भावः । परमाणुगुणेवित्यपलक्षणं व्यणुकगुणेष्वपीति
मकरन्दः ।
यजमानेति । तथा च प्रतिष्ठिताप्रतिष्ठितयोः साधारण्यप्रसङ्गः । चण्डालस्पृष्टास्पृष्टयोरपि स
एव प्रसङ्ग इति मूलार्थः । तत्सत्त्वेऽपोति । तथा च तत्स्पर्शस्य तन्निष्ठाधेयशक्तिनाशकत्वमिति
भावः । परमाणुगुणेष्वित्युपलक्षणं, द्यणुकगुणेष्वपीति द्रष्टव्यम् । अनुद्भूतरूपादपीति । द्यणु-
टिप्पणी ।
दू द्वे अपि जाती प्रत्यक्षे त्वनुगमानुरोधादनुद्भूतत्वाभावकूटस्यैव कारणत्वमिति भावः । पाक-
जवत्ववान्तरेति । शक्तिभिश्रविशेषाानुपपत्येत्यर्थः । परमाणुरूपादेव तत्कार्य्यमिति ।
तस्मात् प्रतिमायामेव शक्तिकल्पनमुचितम्, तथा सति समानाधिकरणेनास्पृश्यस्पर्शन सैव
नाश्यत इमपूज्यत्वनिर्वाह इति भावः । उद्भूतरूपं जायत इत्यभ्युपेयमिति । तथा
चात्र निमित्तभेदस्यैव प्रयोजकत्वं निमित्तभेदस्य मूलेऽदृष्टविशेषे परिगणनात् । नचैवं महत्त्व-
साधारण्यप्रसङ्गात् । तत्राधेयशक्तिः कल्प्येति शेषः ।
१४ न्या० कु०

१४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्या० ]
देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा ॥१२॥
उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते। तेषां वि-
शेषादुद्भवविशेषाः प्रादुर्भवन्ति। यथा स्वभावद्रवा अप्यापो निमित्तभेदप्रति-
बद्धद्रवत्वाः कठिनं करकाद्यमारभन्त इत्यादि स्वयमूहनीयम् । प्रतिमाऽऽदय-
स्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्रा-
ऽऽराधनोयतामासादयन्ति, माशीविषद्दष्टमूर्च्छितं राजशरीरमिव विषापनयन-
बोधनी ।
देवोद्भावादिविशेषोपपत्तिः प्रतिष्ठादिनिजातापूर्ववदात्मसंयोगादेव देवतानां सन्निधानादाराधनीयाः-
प्रतिमादय इति स्वमतेन परिहारः। परमतेन तु तत्र देवतासदृशप्रतिमादर्शनजनितेन प्रत्यभिज्ञाने-
न, पूर्वैः प्रतिष्ठापिता सेयं प्रतिमेति वा प्रत्यभिज्ञानेन सहकारिभेदेनार्थक्रियाविशेषः संभवतीति ॥
पूर्वाद्धं तावद् विवृणोति-उपनायक-इति । दृष्टकारणसंयोजनद्वारेणादृष्टस्योपकारकत्वात्
परमाणूनां परस्परसंयोजकक्रियाहेतुरदृष्टमुपनायकादृष्टमुच्यत इति। ततः किमित्यत आह-तेषाम्
इति । पाकविशेषाभावेऽपि तत्तद्विशेषसहकृतानां परमाणूनां विशेषादेव कार्यविशेषप्रादुर्भाव
इति अतिशयान्तरकल्पनातः कृतादेवाद्दष्टविशेषात् कार्यविशेषकल्पना साधीयसी, दृष्टं च केवलाद-
दृष्टस्यैव सांमर्थ्यमग्न्यूर्ध्वज्वलनादिष्विति भावः । तथापि चेदपरितोषस्तन्नाह-यथा इति । दृष्ट एव
वैद्युताग्निसंयोगादिनिमित्तभेदस्तत्र तत्रानेक इति । उत्तरमर्द्धं व्याचष्टे-प्रतिमादयस्तु-इति ।
तेन तेनेति तत्तच्छास्त्रोक्तेनेत्यर्थः । पूर्वमनाराधनीयस्यैव पश्चादाराधनीयत्वे दृष्टान्तः-विषद्द-
ष्टेति । मूर्च्छामूषितचैतन्ये द्विपुषि व्युत्क्रमेण प्रत्यवायाभावेऽपि पश्चादाराधनीयो राजेति । ननु
प्रकाशः।
ऽवयविरूपवृत्तिजातिः सा परमाणुरूपवृत्तिरिति व्याप्तिः । चित्रत्वजातौ व्यभिचारात् । उद्भववाद्बु-
द्भवादय इत्यतद्गुणसंविज्ञानबहुव्रीहिणा कठिनकरकाविद्युदादीनां संग्रह इत्यप्याहुः । देवता इत्य-
त्राराधनीयतामासादयन्तीत्यध्याहार्यम् । उपनायकेति । परमाणुक्रियाजनकमदृष्टमित्यर्थः ।
प्रकाशिका ।
द्रष्टव्यम् । अनुद्भूतरूपाद्= द्व्यणुकनिष्ठात् । उद्भूतरूपं त्र्यणुकगतम् । मतद्गुणेति । न चैव-
मुद्भूतानुद्भूतभेदाः प्रादुर्भवन्तीत्येतन्मूलेन तयोरुपसंग्रहविरोध इति वाच्यम् । ताभ्यां भेदो
येषां विद्युदादीनामिति तदर्थात्, अग्रेतनमूले व्यधिकरणबहुव्रीहिकल्पनं परमाण्वादौ च निष्प्रमाण-
कोद्भूतरूपस्वीकर्तृमतावलम्बनं चायुक्तमित्यरुचेराह । इत्यप्याहुरिति । न चैवं महत्त्वस्य चा-
टिप्पणी ।
स्य साक्षात्कारहेतुत्वं न स्यात्, उद्भूतरूपमात्रस्यैवानतिप्रसक्तत्वादिति वाच्यम् । द्रव्यसामान्य-
साक्षात्कार एवात्मादिस्थले महत्त्वस्य कारणत्वात् तदुत्कर्षेण चाक्षुषोत्कर्षाच्चेति भावः ।
परमाणौ उद्भूतरूपं स्वीकृत्य यद्यपीत्यादिशङ्कामुद्धरति । उद्भवानुद्भववादय इति ।
तथा च तत्र परमाणुरूपा नियमसम्भवेऽपि करकाविद्युदादिकाठिन्ये निमित्तभेदं विनाऽगतिरेवेति
भावः। अपीत्यस्वरससूचनाय । स चोद्भूतत्वानुद्भूतत्वे हि प्रत्यक्षाप्रत्यक्षाभ्यां कल्पनीये
देवताः आराधनीयतामासादयन्तीति शेषः ।
उपनायकादृष्टेति । उपनायकं परमाण्वादिक्रियाजनकम् तेन चावश्यकता तत्र दर्शिता
तथाचावश्यकात् तस्मादुद्भवानुद्भावांदिर्निर्वाह आघेयशकिर्न कल्प्येति भावः ।
निमित्तभेदात् = अदृष्टविशेषात् भयञ्च प्रतिरोध हेतुः ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४७
विधिनाऽऽपादितचैतन्यम् । सन्निधानञ्च तत्र तेषामहङ्कारममकारौ, चित्रादा-
विव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् । अन्येषान्तु पूर्वपूर्वपूजितप्रत्य-
भिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् । एतेनाभि-
मन्त्रितपयःपल्लवादयो व्याख्याताः ॥ १२ ॥
बोधनी ।
सर्वगतत्वाद् देवतानां नित्यमेव सन्निधानं किं प्रतिष्ठाविधिना तत्राह—सन्निधानं च-इति ।
नो दर्शनं देवतावादिनामास्तिकानामित्यर्थः । कथमिदं नास्तिकस्य मीमांसकस्योत्तरं स्यादित्या-
शङ्क्य प्रत्यभिज्ञानतोऽपि वेत्येतदुत्तरतया व्याचष्टे--अन्येषामिति । यो नामुनेयं प्रतिष्ठापि-
तेति प्रतिष्ठायामनुसन्धामुष्टे तस्य प्रतिष्ठा प्रत्यभिज्ञासहकारिणी, इतरस्य तु पूर्वपूर्वपूजितप्रत्य-
भिज्ञा । तथात्वम्=पूजातिक्रमाभ्यां धर्माधर्मजनकत्वमिति । अभिमन्त्रितस्य पयःपल्लवादेर्विश्वरोग-
विप्रतीकारान्यथानुपपत्त्या शक्तिकल्पनमाशङ्क्य तत्राप्युक्तमेव प्रकारमतिदिशति-एतेन इति ॥ १३ ॥
तत्रापि हि तत्तन्मन्त्रप्रतिपाद्यगरुडादिदेवतापरिग्रहादभिमन्त्रितत्वप्रत्यभिज्ञानाद्वा प्रोक्षणादि-
प्रकाशः ।
अहङ्कारेति । न च देवतानां विशेषदर्शनवत्त्वान्न भ्रम इति वाच्यम् । अभिमानीत्यनेना-
हार्यारोपरूपत्वस्य दर्शितत्वात् । ज्ञानस्य नष्टेऽपि तज्जन्यसंस्कारस्य सत्त्वात् । अस्पृश्यस्पर्शा-
दिना च तन्नाशात् । अचेतनदेवतापक्षे त्वाह । अन्येषान्वित्वति । आद्यपूजायां न पूजितप्रत्य-
भिज्ञानमित्यत उक्तम् । प्रतिष्ठितेति । अत्रापि प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शानादिसंसर्गाभा-
वसहकृतस्येति द्रष्टव्यम् । "प्रतिष्ठितं पूजये"दिति विधिवलात् तज्ज्ञानस्यावश्यकत्वात् ।
अत एव तदभावे पूजा निष्फलैवेति भावः ॥ १२ ॥
प्रकाशिका ।
क्षुपसाक्षात्कारे जनकत्वं न स्यात् उद्भूतरूपमात्रस्यैवानतिप्रसङ्गादिति वाच्यम् । द्रव्यसाक्षात्का-
रसामान्य एवात्मादिस्थले तस्य कारणत्वकल्पनात् , तदुत्कर्षेण चाक्षुषोत्कर्षाच्च । अत्रापीति ।
अपिशब्दः पूजितत्वप्रत्यभिज्ञानसमुच्चयपरः । अस्पृश्येति । प्रतिष्ठाकालीनत्वमनाद्यभावे विशे-
षणं, यावत्पदं समसंख्यापरम्, एवं च प्रतिष्ठोत्तरमस्पृश्यस्पर्शे प्रागभावनाशोऽपि स्पर्शध्वंसान-
न्तरं तमादाय समसंख्यत्वादतिप्रसङ्ग इत्यानादिपदम् । अपूज्यतापयोजकपरम्परासम्बन्धावच्छि-
न्नास्पृश्यस्पर्शे प्रतिष्ठोत्तरं जाते पूज्यता न स्यादिति संसर्गपदं संसर्गविशेषावच्छिन्नाभावलाभा-
येति दिक् ॥ १२ ॥
मकरन्दः ।
कानुद्भूतरूपादपि त्र्यणुकोद्भूतरूपं जायते इत्यर्थः । अत्रापीति । प्रतिष्ठाकालीनयावदस्पृश्य-
स्पर्शादीत्यर्थः । अत्र विस्तरोऽनुमानप्रकाशे ॥ १२ ॥
टिप्पणी ।
परमाणुरूपस्याप्रत्यक्षत्वे किमर्थमुद्भूतत्वसिद्धिः, तद्गुणसर्वविज्ञानबहूत्रीहिकल्पनं च निर्युक्तिक-
मिति । अत्रापीति । प्रतिष्ठाकालीनत्वमनादिसंसर्गाभावस्य विशेषणं वाच्यम्, यावदिति-
समसंख्येत्यर्थः, तथा च प्रतिष्ठाकालीनास्पृश्यस्पर्शाभावसमसंख्यकास्पृश्यस्पर्शाद्यनादिसंसर्गा-
भावः सहकारोत्यर्थः । प्रतिष्ठोत्तरमस्पृश्यस्पर्शनाशकाले विद्यमानोऽप्यभावो न तादृशाभावसमसं-
ख्यकानादिसंसर्गाभावः, ध्वंसस्यानादित्वाभावात् प्रागभावस्याविद्यमानत्वादिति विशेषणद्वयस्य
सार्थक्यम् । पुनः प्रतिष्ठायां द्वितीयप्रतिष्ठामादायैव तादृशाभावसम्पत्तिः कार्येति भावः ॥१२॥

१४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां
घटादिषु का वार्त्ता ? कुशलैवेति चेन्न । न हि सामग्री दृष्टं विघटयति,
नाप्यदृष्टं, ज्ञापकत्वात्, नाप्यदृष्टमुत्पादयति, धर्मजनने सर्वदा विजयप्रसङ्गात् ।
विपर्यये सर्वदा भङ्गप्रसङ्गात् ।
मत्रोच्यते—
जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् ॥
परीक्ष्यसमवेतस्य परीक्षाविधयो मताः ॥१३॥
यद्यपि धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते, ताश्च कर्मविभवानुरूपं-
लिङ्गमभिव्यञ्जयन्तीत्यस्माकं सिद्धान्तः, तथापि परविप्रतिपत्तेरन्यथोच्यते । ते-
नापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं कार्यमुन्मोल-
'बोधनी ।
वदभिमन्त्रणसहकाराद्योपपत्तिरिति गूढाभिसन्धिः पृच्छति—घटादिषु—इति । तुलातसमाषा-
दिष्वित्यर्थः । गूढाभिसन्धिरेवोत्तरमाह–कुशला–इति । इतरः स्वाभिप्रायमुद्घाटयति–न हि
सामग्री इति । तुलारोहणाङ्गत्वेन विहिताभिमन्त्रणादिसामग्री न तावदभिशस्तसमवेतं जयस्य
पराजयस्य वा निमित्तं किञ्चिद् दृष्टं लघुत्वं गुरुत्वं वा विघटयति ज्ञापकत्वेनाकारकत्वात् तस्यादर्श-
नाच्चेति भावः । नाप्यदृष्टम्-इति । विघटयतीत्यनुषङ्गो ज्ञापकत्वादेव । किञ्च, धर्मविघटने
सदा भङ्गप्रसङ्गः, अधर्मविघटने सदा विजयप्रसङ्गः, उभयविघटनं त्वेकस्याः सामग्र्या न सम्भ-
वतीति वक्ष्यमाणन्यायोऽत्राप्यनुसन्धेय इति । नन्वभिशस्तसमवेतमर्थतथात्वज्ञापकं किञ्चिददृष्टमु-
त्पादयति, तेन तद्द्वारा ज्ञापकोऽयं विधिर्भविष्यतीत्याशङ्कयाह–नाप्यदृष्टमुत्पादयतीति-इति ।
न चैकस्मिन् धर्ममितरस्मिन्नधर्ममिति सम्भवति, सामग्र्यभेदे कार्यभेदानुपपत्तेरिति भावः ।
प्रतिमादौ तत्तद्देवतासन्निधानादिसम्भवात् पूजातिक्रमलक्षणसामग्रीभेदेन धर्माधर्मजनन सम्भवाच्च
सम्भवेपि परिहारस्तुलायामिमानिकदेवताभावात् सामग्र्याश्चैकरूपत्वेन धर्माधर्म हेतुत्वायोगात्
संस्काराधानमेवाङ्गीकार्यमिति पुनः प्रत्यवस्थानमिति ।
सिद्धान्ती स्वाभिप्रायमुद्घाटयति – जयेतर–इति । वृत्तिः=अभिव्यक्तिः, सा च सहकारि
लाभ इति स्वयमेव व्याख्यास्यति । अभिशस्तसमवेतयोर्जयेतरनिमित्तधर्माधर्मयोरभिव्यक्तिद्वारे-
णार्थतथात्वं ज्ञापयति परीक्षाविधिः, अतोऽत्रापि न संस्कारकल्पनेत्यत्रापि पूर्वोक्तमेव परिहारं स्मा-
रयति – यद्यपि-इति । परीक्षाविधिनापि धर्मसत्यादिषु शरीरवदभिमानिनीनां सन्निधिः क्रियते ।
सन्निहिताश्चाभिशस्तस्तेयादिकर्मविभवानुरूपं तुलानमनोन्नमनादिकं लिङ्गमभिव्यञ्जन्ति । ततो
जयः पराजयो वेति । यद्यप्यभ्युपगमः सिद्धस्तथाप्यत्र मीमांसकस्यासम्प्रतिपत्तेरभ्युपगम्यैवान्यथा
परिहार उच्यत इति श्लोकं व्याचक्षाणस्तमेव परिहारमाह-तेनापि-इति । तद्विधानामिव्यक्तमभि-
शस्तकृतस्तेयाद्यनुमापकं कार्यं नमनोन्नमनादि जनयति । कथमनेन धर्माधर्माभिव्यक्तिरित्यत्राह-
प्रकाशः ।
घटः=तुला । न हीति । सामग्री=परीक्षासामग्री । अवनतिहेतोर्दृष्टस्यादृष्टस्य वा विघटने
सदैवोन्नमनप्रसङ्गादित्यर्थः । तस्माद् भूतार्थपरिच्छेदिका शक्तिस्तुलादिसामग्रीजन्येत्यभ्युपेय-
मिति भावः ।
जयेतरेति । जयभङ्गनिमित्तस्य परीक्ष्यात्मसमवेतस्यादृष्टस्य वृत्तिः स्वकार्यजननाभिमुख्यं
तल्लाभायैवेत्यर्थः । यद्यपीति । पापवान् पुण्यवान् वाऽयमनेन विधिना तुलामारूढ इति यद्देव-
ताज्ञानं, स एव देवतासन्निधिरतः परीक्षाविधेरविधेयेऽपि कर्मोन्नायकं नमनादिकं लिङ्गमभिव्यञ्ज-
यन्ति । तादृशञ्च ज्ञानं न परीक्षाविधिं विनेति सोऽपि प्रयोजक इत्यर्थः । परविप्रतिपत्तिर्देवता-

Here is the complete, line-by-line transcription of the text from the image:

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४५
यति । कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव । तच्च सहकारि, सोऽहमनेन वि-
धिना तुलामधिरूढो योऽहं पापकारी निष्पापो वेति प्रत्यभिज्ञानम् । यदाहुः
“ताँस्तु देवाः प्रपश्यन्ति स्वहृत्स्थैवान्तरपुरुषः” इति ।
अथवा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते निमित्ततो विधाना-
द्विजसफलश्रुतेश्च । भविशुद्धिश्चापेक्ष्याधर्मः । पराजयलक्षणानपेक्षितफलोपदर्श-
नेन फलतो निषेधात् ।
बोधनी ।
कर्मणश्च-इति। सहकारिलाभे फलोत्पत्त्या कर्माभिव्यज्यते, तेनाभिव्यक्तिहेतुत्वात् सहकारिलाभोऽ-
भिव्यक्तिरुपचर्यत इति । कथं लोकपालाद्यर्चनादिकर्मणां क्षणिकत्वेन साहित्यानुपपत्तेः सहकारिते-
त्यत्राह-तच्च-इति । कर्मक्षणानां स्वरूपतः साहित्याभावेऽपि तद्विषयज्ञानद्वारा तत्साहित्यात् सह-
कारित्वोपपत्तिः तत्र निष्पापत्वेन प्रत्यभिज्ञानं जयनिमित्तं कर्माभिव्यनक्तीतरदितरदिति विवेकः ।
सुगूढमपि पापं चरद्विरात्मनः पापकारित्वं ज्ञायत एवेत्यत्र स्मार्त्तवचनमुदाहरति-यदाहुः-इति ।
एवं तावत् संग्रहो व्याख्यातः । इदानीं तु न तावज्जयपराजयमात्रफलमनेनानुष्ठितं कर्मास्ति
यदनेनाभिव्यज्येत, तादृशकर्मणामश्रुतत्वात् । न चानुष्ठितं स्तेयादि पराजयहेतुस्तस्य नरकादिक-
फलत्वात् , न च विजयमानेन विजयहेतुः कश्चित् धर्मोऽनुष्ठितः किन्तु स्तेयादिरनुष्ठितः, न चाननु-
ष्ठानस्य किञ्चित्फलमस्तीति तत्रापरितुष्यन् परिहारान्तरमाह । अथवा इति । प्रतिज्ञानु-
रूपशुद्धिसहकृतेन परीक्षाविधिना धर्मो जन्यत इति । ननु किञ्चिदुद्दिश्य विहितात् कर्मणो
धर्मो जन्यते न त्विह किञ्चिदुद्दिश्यारोहणविधिरस्तीत्यत्राह-निमित्ततः-इति । मिथ्याभि-
शस्ततां निमित्तीकृत्य विधिरस्ति । न चाविहितस्य फलश्रुतिः सम्भवतीति निषेधलक्षणमधर्महेतु-
त्वं, न चात्राविशुद्धो नारोहेदिति निषेधः श्रूयते इत्यत्राह-पराजय इति । अप्रस्तुतोऽपि
प्रकाशः ।
चैतन्ये । सोऽहमिति । ननु यत्र पापविस्मरणान्निष्पापत्वप्रत्यभिज्ञानं, तत्र कुतो न जयः ।
न च सत्यं तादृशं प्रत्यभिज्ञानं जयहेतुः, तथापि भङ्गहेतुपापवत्त्वप्रत्यभिज्ञानाभावेन भङ्गानुप-
पत्तेः । न च स्वरूपसदेव पापवत्त्वं भङ्गहेतुः । तस्यैव प्रयोजकत्वे परीक्षाविधेरतत्त्वापत्तेः । मै-
वम् । पापत्तदभावयोः स्वरूपसत्त्वे सति, योऽहं पापवत्त्वादिना सन्दिह्यमानः सोऽहमनेन वि-
धिना तुलामारूढ इति तस्य प्रत्यभिज्ञानस्य तन्त्रत्वात् । तच्च न परीक्षाविधिं विनेति तस्यापि
तत्त्वात् । यत्र तु सभाशोभादिना तादृशप्रत्यभिज्ञानाभावस्तत्र गत्यन्तरमाह । अथवेति ।
तेन=परीक्षाविधिना । ननु तादृशविधित्वाक्याभावात् परीक्षाविधेर्धर्मजनकत्वे मानाभाव इत्यत
आह । निमित्तत इति । साक्षात्तादृशविधित्वाक्याभावेऽप्यभिशापनिमित्तकत्वात् परीक्षाविधेरि-
तरनैमित्तिकवदभिशस्तः सत्यप्रत्यभिज्ञो जयकामस्तुलामारोहेदिति विधिकल्पनमित्यर्थः । विज-
येति । कालान्तरभाविजयसाधनताऽनुपपत्तेरपूर्वकल्पनाच्चेत्यर्थः । पराजयेति । भङ्गलक्षणानिष्ट-
प्रकाशिका ।
पापत्तदभावयोरिति । सत्यन्तमात्रस्य प्रयोजकत्वे परीक्षायैय्यर्थ्यमित्युत्तरदलम्, तच्च
न परीक्षाविधिं विनेति परीक्षाविधेः कथमित् स्वज्ञानद्वारा प्रत्यभिज्ञानप्रयोजकत्वमिति मन्तव्यम् ।
निमित्तत इतीति । निमित्ते सति विधानादिति मूलार्थः । भङ्गेति । कालान्तरभाविभङ्गेत्यर्थः ।
मकरन्दः ।
पापत्तदभावयोरिति । सत्यन्तमात्रस्य तन्त्रत्वे परीक्षायैय्यर्थमेवेति विशिष्टस्य तथात्व-
मुक्तमिति भावः । भङ्गेति । कालान्तरभाविभङ्गलक्षणफलश्रुतेरित्यर्थः । यद्यप्यकरणे प्रत्यवाया-

Here is the line-by-line transcription of the Sanskrit text provided in the image:

१५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
अथ शक्तिनिषेधे किं प्रमाणम् ? । न किञ्चित् । तत् किमस्त्येव ? बाढम् । न
हि नो दर्शने शक्तिपदार्थ एव नास्ति । कोऽसौ तर्हि ? कारणत्वम् । किं तत् ?
पूर्वकालनियतजातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति । ततोऽधिक-
बोधनी ।
निषेधः कल्प्यते, अविशुद्धं प्रत्यारोहणस्यानिष्टहेतुत्वान्निषिद्धस्यैव च तथात्वादिति ।
तदेवम्भूतसमवायिनी शक्तिः सहजा आधेया वास्तीति न किञ्चित्प्रमाणमस्तीत्युक्तम् । इतरस्तु
वादजल्पयोरन्यतरेण कथाप्रवृत्तिं कृत्वा तयोर्न स्वपक्षसाधनमन्तरेण परसाधनस्य दूषणमात्रेण पर्य-
वसानमिति मन्वानः पृच्छति-अथ इति । गूढाभिसन्धिः प्रतिब्रूते-न किञ्चित् इति । अज्ञात-
पराभिसन्धिः पुनः । पृच्छति-तत् किमस्त्येव - इति । निषेधकाभावे त्वस्तित्वमेवावशिष्यत
इति । गूढाभिसन्धिरेव सम्प्रतिपत्तिमूत्तरमाह-बाढम् इति । यद्येवमपसिद्धान्तप्रसङ्ग इत्यत्र स्वा-
भिसन्धिमुद्घाटयितुमाह-न हि-इति । अस्मत्सिद्धान्तानभिज्ञो भवानिति भावः । पुनरप्यनभिज्ञः
पृच्छति-कोऽसौ-इति । आशयमाविष्करोति-कारणत्वम्-इति । शक्तिमत्तैव कारणत्वमिति
मन्वानः पृच्छति-किं तत्-इति । ज्ञातपराभिसन्धिराह-पूर्वकाल-इति । पूर्वकालनियत
त्वमित्येव वक्तव्ये नियतजातीयत्वाभिधाने जात्यपेक्षयैव नियम इति स्मारयितुमिति । अन्यथा
कारणत्वं निरूपयति-सहकारि-इति । यस्य सहकारिवैकल्यप्रयुक्तः कार्यप्रागभावो न तु स्वरूप-
प्रकाशः ।
फलसाधनत्वेन निषेधविधेरेन्मयनाङ्गफलश्रुतेश्चाधर्मजनकत्वं कल्प्यत इत्यर्थः । यद्यपि तुलारो-
हणादेरधर्मजनकत्वे मानाभावः । पूर्वाधर्मादेवावनमनोपपत्तेः । तथापि परीक्षाविधिं विनाऽवनमने-
ऽपि भङ्गाभावानियमेन तस्याधर्महेतुत्वम् ।
जल्पकथामारित्य पृच्छति-
अथेति । उत्तरं नेति । शक्तिपदार्थमेव न निषेधाम इत्यर्थः । तर्हि स्वीकार एव शक्तेः स्या
दित्यभिप्रेत्याह । कोऽसाविति । पूर्वकालेति । ननु पूर्वत्वं प्रागभावावच्छिन्नकालत्वम् ,
प्रकाशिका ।
यद्यपि नैमित्तिकत्वे तदकरणे प्रत्यवायापत्तिः । तथापि निमित्ते सति कर्तव्यत्वमित्येवात्र नैमित्तिकत्वम् ।
तन्मात्रकरणेऽपि न प्रत्यवायो जातेष्ट्याद्यकरणे प्रत्यवायाभावात् देवतासन्निधान एव तात्पर्य्य-
मत एव मूलमित्यस्माकं सिद्धान्त इति कश्चित् । अधर्म्मजनकत्वे मानाभाव इति । जयपक्षे
भवतु धर्मजनकता अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेनोन्मन्नकारणस्य तस्य स्वीकरणीय-
त्वादिति भावः । तथापीति । परीक्षाविधिजन्याधर्मेणावनमनस्यैव भङ्गहेतुत्वमिति परीक्षाया
आशु बिनाशिन्याः कारणतानिर्वाहाय व्यापारत्वेनाधर्म्मः कल्पनीय इति भावः । वस्तुतोऽ-
गम्यागमनजन्याधर्म्मस्यावनमनहेतुत्वे मानाभावो नरकफलत्वेन तस्य श्रुतेरिति ध्येयम् ।
जल्पेति । तत्रैवोभयसाधनोपन्यासनियमादिति भावः । नाशस्येति । प्रागभाव-
मकरन्दः ।
श्रुतेः परीक्षाविधेरभिशापनिमित्तकत्वाभावान्न विधिकल्पनं, न वा भङ्गलक्षणाऽनिष्टसाधनत्वेन नि-
षेधविध्युन्नयनम् । व्यभिचारादप्रयोजकत्वाच्च । तथापि देवतासन्निधिपक्षे तात्पर्य्यम् । अत एवो-
क्तं मूले, इत्यस्माकं सिद्धान्त इति । अधर्मजनकत्वे मानाभाव इति । विजयपक्षे धर्मज-
ननं भवतु । अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेन प्राक्तनधर्माभावादिति भावः । तथापीति ।
टिप्पणी ।
जल्पकथामारित्येति । उक्तरीत्या शक्तिनिराये शक्तिसाधकस्य मीमांसकस्य तदेतो

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५१
निषेधे का वार्त्ता ? । न का चित् । तत् किं विधिरेव ? सोऽपि नास्ति प्रमाणा-
भावात् । सन्देहस्तर्हि ? । कथमेवं भविष्यति, अनुपलब्धचरत्वात् । विवाद-
स्तर्हि ? कुत्र ? । अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात् । सह-
कारिभेदे तत्रापि दहनादेरनुग्राहकोऽधिकोऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति
बोधनी ।
प्रयुक्तः, यः सहकारिषु सत्सु करोत्येवेत्यर्थः । न त्वभावादकारणत्वमिति । तर्हि कारणत्वा-
तिरिक्तमदभिमतातीन्द्रियशक्तिनिषेधः किंप्रमाण इत्याह-तत इति । एकत्र हि सिद्धस्यान्यत्र
निषेधः न त्वत्यन्तानुपलब्धस्येत्याशयेनाह-न काचित्-इति । अविदितपराशयः पृच्छति-
तत् किम्-इति । विधिः=अस्तित्वम् । यदि निषेधो नास्ति तर्हि विधिरेव स्यात् भावाभावयोरितरे-
तराभावात्मकत्वादिति । न हि निषेधवद् विधिरपि निष्प्रमाणः सिध्यतीत्युत्तरमाह-सोऽपि-इति ।
निषेधे प्रमाणं नास्तीत्युक्तं न तु निषेधो नास्तीति भावः । तर्हि साधकबाधकयोरभावान्नच्छक्तेरस्तित्व
नास्तित्वयोः सन्देह एव स्यात्, एवमपि भवदभिमतं न सिध्येदित्यभिप्रायवानाह-तर्हि-इति ।
उत्तरं कथमेवम्-इति । न तावानेव सन्देहहेतुरपि तर्हि धर्म्युपलब्धिरपि, ततश्चानुपलब्धे
शक्तिरूपे धर्मिणि कथं सन्देह इति । यदि शक्तेर्बुद्धावनारोह एव तर्हि तत्सत्त्वासत्त्वविषयो विवादः
कथमावयोर्भवेत् तस्यापि सामान्यतो ज्ञाते धर्मिणि विशेषविषयत्वादित्याह-विवादः-इति ।
सुहृद्भावेनोत्तरमाह-अनुग्राहकत्व इति । अत्रोभयसिद्धसहकारिपदार्थमधिकृत्य तद्विशेषवि
प्रकाशः ।
प्रागभावश्च न प्रतियोगिजनकोऽभावः । अन्योन्याश्रयात् । नापि विनाश्यभावः । नाशस्य प्राग-
भावनिरूप्यत्वात् । उत्पत्तिमानभावो ध्वंस इति चेत् । काऽसावुत्पत्तिः । आद्यसमयसम्बन्धः
सेति चेत् । किमाद्यत्वम् । स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसमयसम्बन्ध
प्रकाशिका ।
प्रतियोग्यभावत्वस्यैव नाश लक्षणत्वादित्यर्थः । तथा चान्योन्याश्रय इति भावः । किमाद्य-
त्वमिति । क आद्यसमयसम्बन्ध इत्यर्थः, तेन नोत्तरविरोधः । श्वेति । प्रतिक्षणं कस्य
मकरन्दः ।
तथा च परीक्षाविधिजन्यावगमनस्यैव भङ्गहेतुत्वम् । तस्य चाशुविनाशित्वेनाध ॑व्यापारकत्वमिति
भावः । अगम्यागमनादिजन्याधर्माणामपि नरकफलश्रवणात् पराजयहेतुत्वे मानाभावाच्चे-
त्यपि द्रष्टव्यम् ।
नाशस्येति । प्रागभावप्रतियोग्यभावस्यैव नाशत्वादित्यर्थः । किमाद्यत्वमिति । किमा-
द्यसमयसम्बन्धत्वमित्यर्थः । तेन नोत्तरविरोधः । स्वेति । तथा च तादृशध्वंसानाधारत्वमात्रर्थ,
टिप्पणी ।
पृच्छा विजिगीषुकथारूपे जल्प उभयसाधनोपन्यासनियमादिति । प्रागभावनिरूप्यत्वादिति ।
प्रागभावप्रतियोग्यभावरूपत्वात् तथा चान्योन्याश्रय इति भावः । किमाद्यत्वमिति । क आ-
द्यसमयसम्बन्ध इत्यर्थः । तेन सम्बन्धपर्यन्तविवक्षणे न दोषः । स्वसमानकालीनपदार्थेति ।
स्थितिक्षणस्यापि स्वप्रतियोगिकध्वंसानाधारत्वात् तदानीमुत्पन्नत्ववारणाय स्वसमानकालीनेति । अत्र
समानत्वमविवक्षितम्, वैयर्थ्यादुक्तदोषाच्च । इदन्तु प्रतिक्षणं कस्य चिदुत्पादः कस्य चिद् विनाश
इति मतानुसारेणैव, अन्यथा कल्पान्तरस्थितिक्षणस्य ? ध्वंसानाधारत्वे तदुपादानेऽपि तद्दोषतादवस्थ्यं
सन्देहस्तर्हि साधकबाधकमानाभावे तस्य तत्कारणत्वात् । कथमेवं भविष्यतीति । को
ट्युपस्थितेरभावात् । मनुंपलब्धचरत्वादिति संदेह इति शेषः ।

१५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायो
प्रकाशः ।
इति चेन्न । परस्पराश्रयात् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकसामयिकया-
वत्परत्वाश्रयसमानकालीनकादाचित्काभावः । प्रलयकालीनपरमाणुक्रियाप्राग्भावाव्याप्तेः । न
च तदाऽपि ब्रह्माण्डान्तरवर्तिद्रव्येणापरत्वाश्रयेण परत्वनिरूपणम् । तस्य विशिष्टाज्ञानात् ।
प्रकाशिका ।
चिदुत्पत्तिः कस्यचिद् विनाश इति मतानुसारेणेदम् । न च महाप्रलयोत्पत्तावव्याप्तिः,
तत्र समानकालपदार्थध्वंसाप्रसिद्धेरिति वाच्यम् । स्ववृत्तिध्वंसप्रतियोगियावत्समानकाल
पदार्थसमयसम्बन्धस्य तदुत्पत्तित्वात् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणप्रा-
गभावाव्याप्तिरपरत्वाश्रयस्यैव परत्वावधित्वादित्यन्यूनतिरिक्तकालीनपदम् । एवं च तादृशं द्रव्य-
मादायैव गुणप्राग्भावेऽपि लक्षणं नेयम् । तदन्यूनतिरिक्तकालत्वं च तद्व्यापककालकत्वमतोऽन्त्य-
शब्दस्यैव क्षणिकतया तदन्यूनारिक्तकालीनद्रव्याप्रसिद्धेः, तत्प्राग्भावाव्याप्तिरपास्ता, प्रतिक्षणं
कस्य चिद् द्रव्यस्य उत्पत्तिः कस्य चिद् विनाश इति मतेनेदम् । प्रतियोगिकालीनेत्येतावति कृते प्राग्-
भावस्य प्रतियोग्युत्पत्त्यनन्तरोत्पत्तिकावधिकपरत्वाश्रयप्रतियोग्यसमानकालत्वाद्यावदर्थाभावादव्या-
प्तिरिति व्यापकत्वपर्यन्तम् । अत्र केचित् प्रतियोगिकालीनत्वमेव सम्यक् । न चोक्तदोषः, प्रतियोगि-
कालीनयत्किञ्चित्पदार्थावधिकयावत्परत्वाश्रयगर्भमेव हि तल्लक्षणम् न तु प्रतियोगिकालीनेऽपि यावत्त्वं
विशेषणम् तथा च तत्प्रतियोग्युत्पत्तिकालीनद्रव्यमादायैव सर्वत्र लक्षणमित्याशयादिति । ते भ्रान्ताः,
मकरन्दः ।
तत्समयसम्बन्ध उत्पत्तिरिति भावः । प्रतिक्षणं कस्य चिदुत्पत्तिः कस्य चिन्नाश इति मतानुसारेणे-
दम् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणादिप्राग्भावाव्याप्तिः । तदवधिकपर-
त्वाभावात् । अपरत्वाश्रयस्यैव तथात्वादित्यत उक्तमन्यूननातिरिक्तति । तथा च तादृशं द्रव्य-
मादाय तत्र लक्षणगमनमिति नोक्तदोषः । प्रतियोगिकालीनेत्येतावति कृते घटध्वंसाव्यवहितपूर्व-
क्षणोत्पन्नं प्रतियोगिकालीनं द्रव्यान्तरमादाय तद्घटध्वंसेऽतिव्याप्तिः । तस्य तदवधिकयावत्पर-
त्वाश्रयसमानकालीनत्वात्, परत्वापरत्वयोः परस्पराश्रयावधिकत्वस्वीकारेण तत्कालविद्यमानस्यैव
टिप्पणी ।
स्यादिति ध्येयम् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकेति । अत्र प्रतियोग्यव-
धिकेति कृते गुणादिप्राग्भावेऽव्याप्तिः, अपरत्वाश्रयस्यैव परत्वनिरूपकत्वात्, प्रतियोगिकालीनेत्यु-
क्तावपि न सामञ्जस्यम् प्रतियोग्यनन्तरोत्पन्नावधिकपरत्वाश्रयप्रतियोग्यसमानकालीनत्वात् प्राग्भाव-
स्येत्यव्याप्तेः। नापि प्रतियोगिकालीनयत्किञ्चिदवधिकत्वोक्तावपि । प्रतियोगिक्षणोत्पन्नपदार्थमादाय
लक्षणसम्भवेऽपि प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नावधिकपरत्वस्य नाशकालोत्पत्तिकतया तदानीं
तदाश्रयस्यावश्यम्भावनियमेन तत्त्कालीनत्वाद् ध्वंसस्यातिव्याप्तिः। नापि प्रतियोगिकालीनयाव-
दवधिकपरत्वाश्रयकालीनत्वम् । यत्किञ्चित्प्रतियोगिकालीनं वस्तु प्रतियोग्याद्याश्रयकमेव परत्वमु-
त्पाद्य नष्टं तमादायाव्याप्तेः । सामयिकव्यापकत्वार्थकं प्रतियोग्यन्यूनतिरिक्तकालीनत्वानुधाव-
नम् । व्यापकत्वव्यापकव्याप्यत्वयोर्विवक्षणे प्रयोजनाभावः । क्षणिकान्यशब्दप्राग्भावेऽव्याप्तिश्च,
प्रतियोगिनस्तथाविधद्रव्याभावात् यावत्त्वाविवक्षायां ध्वंसपर्यन्तस्थायिप्रतियोगिज्येष्ठपदार्थमादाय
ध्वंसेऽतिव्यप्तिः। अत्र सर्गीयकालीनपदार्थप्रतियोगिकप्राग्भावाव्याप्तिः, तद्व्यापकं हि द्रव्यं नित्य-
मनित्यं वा तत्कालोत्पत्तिकं तस्य परत्वनिरूपकत्वाभावादिति चेत् । तस्य प्रन्योक्तदोषतुल्य-
त्वात्तत्रापि ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सम्भवात्, तदस्वीकारे दोषः, अत्र
वदन्ति । नानासर्गस्थायिन्यदृष्टप्राग्भावेऽव्याप्तिः, तादृशादृष्टव्यापकद्रव्याप्रसिद्धेः, एवं

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५३
बोधनी ।
षयो विवादः कथं तर्हि शक्तिविषय इत्यत्रोक्तं-अनुग्राहकत्वेन-इति । सहकारिविशेषो भवद-
भिमतया शक्त्या सहानुग्राहकत्वेन साम्यात् शक्तिपदास्पदं भवति । ततश्च सहकारिविशेषविषय
एव विवादः शक्तिविषय इत्युच्यते । नन्वसावपि सहकारिभेदः सम्प्रतिपन्नश्चेत् न विवादगोचरः,
असम्प्रतिपत्तौ सुतरां शक्तिवद् बुद्धावनारोहादतः पुनरपि विवादविषयाभाव इत्यत्राह—तत्रो-
पि-इति । दहनादेरधिकः प्रतिबन्धकापाकरणीयः कश्चिदनुग्राहकः सम्प्रतिपन्न इति न तस्य
प्रकाशिका ।
तथा सति प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नद्रव्यमादाय ध्वंसातिव्याप्तेः तदवधिकपरत्व-
स्य तद्ध्वंसानन्तरमुत्पत्तेः, दैशिकपरत्वाश्रयं प्रतियोग्यनन्तरोत्पत्तिकं द्रव्यमादाय या-
वदर्थाभावादव्याप्तिरिति सामयिकेति । इदन्तु विजातीयपरत्वपरं यत्किञ्चित्प्रतियोगि-
ज्येष्ठसमानकालीनत्वं ध्वंसस्यापीति यावदिति । यावत्त्वञ्चाश्रयविशेषणम् । अन्यथा यावत्परत्वा-
श्रयस्यैकस्याप्रसिद्धेः, विशेषणावच्छेदादेव च विशिष्टस्य सावधिकत्वान्वयः । प्रत्येकं यावत्पर-
त्वनिरूपिताश्रयप्रसिद्ध्या यावत्त्वं परत्वविशेषणमेवेत्येके । यावत्परत्वेत्येतावति च कृते प्रतियोगि-
मकरन्दः ।
तदवधिकपरत्वाश्रयत्वादिति विशिष्टमुपात्तम् । तदर्थश्च कालिकव्याप्त्या प्रतियोगिव्यापकत्वम् ।
तच्च द्रव्यान्तरं, न तद्धटव्यापकमिति नोक्तदोषः । एतेनान्यूनपदेनैव तद्दोषनिरासेऽनतिरिक्त-
पदं तथापि व्यर्थमेव । कारणाद्यत्वेनानन्यशब्दस्य क्षणिकतया तत्प्रागभावाव्याप्तिः । तदन्यू-
नानतिरिक्तकालीनद्रव्याप्रसिद्धेरित्यादि दूषणमपास्तम् । प्रतियोगिव्यापकञ्च किञ्चिदेव विवक्षितं,
न तु यावत् । तेन तादृशव्योमाद्यवधिकपरत्वाप्रसिद्ध्या नासम्भव इति ध्येयम् । प्रतियोगिव्या-
पकावधिकदैशिकपरापरत्वाश्रयः प्रतियोग्यपि कदाचिद्भवतीति तत्प्रागभावस्य तत्समानकालीन-
त्वाभावादव्याप्तिरित्यत उक्तं, सामयिकेति । समयपिण्डसंयोगसमवायिकारणकेत्यर्थः । प्रतियो-
गिव्यापकावधिकपरत्वाश्रयेण येन केन चित् पर्वतादिना समानकालत्वाद् घटध्वंसेऽतिव्याप्तिरित्यत
उक्तं, यावदिति । प्रतियोगिन्युत्पन्ने ज्येष्ठे यत्परत्वमुत्पद्यते तत्समानकालीनत्वाभावात् तत्प्रा-
टिप्पणी ।
ध्वंसप्रागभावेऽव्याप्तिः, ध्वंसव्यापकद्रव्याप्रसिद्धेः । न च तस्यालक्ष्यत्वम् । ध्वंसकारण-
त्वस्य प्रतियोगिनो निर्वाहाय लक्ष्यत्वात् । अत्र ब्रूमः । प्रतियोगिकालीनपदार्थाव-
धिकपरत्वाश्रयकालीनकादाचित्कोऽभावः प्रागभावः, उक्तध्वंसातिव्याप्तिश्च परत्वाश्रयं प्रति-
योगिकालावृत्तित्वेन विशिष्य वारणीया । ध्वंसस्य च प्रतियोगिकालमात्रवृत्तिपरत्वाश्रयसमान-
कालीनत्वात् । एवमदृष्टप्रागभावे ध्वंसप्रागभावे च नाव्याप्तिः । तत्कालीनयत्किञ्चित्पदार्थावधि-
कपरत्वाश्रयसमानकालीनत्वसत्त्वात् , एतादृशार्थलाभश्चैतादृशार्थतात्पर्यग्राहकसकलपदसमभि-
व्याहारात् । अत्र कादाचित्कत्वानुपदानेऽत्यन्तान्योन्याभावातिव्याप्तिः । अभावपदानुपादाने-
भावेऽतिव्याप्तिः । न च चरमध्वंसप्रागभावेऽव्याप्तिः, चरमध्वंसकालीनद्रव्याप्रसिद्धेः, विभाज-
कोपाधिपक्षेऽप्यस्यालक्ष्यत्वात् । तस्य कर्म्मस्वरूपतयैवोपपत्तेः, कारणनिर्वचने तु सुतरां तथे-
त्यलमधिकं पल्लवितेनेति । यावत्परत्वाश्रयसमानकालीनेति । इदञ्च परत्वं कालि-
कम् अन्यथा दैशिकपरत्वाश्रयप्रतियोग्यनन्तरोत्पन्नपदार्थसमानकालीनत्वाभावेन यावदर्थाभावा-
दव्याप्तिः स्यादिति । प्रवृत्त्युपयोगिकारणत्वस्यैव लक्ष्यत्वात् यावत्परत्वसमानकालीनत्वोक्तौ
पूर्वोत्पन्नत्वज्ञानस्य परत्वकारणतया तेन प्रतियोग्यन्तरोत्पन्नपरत्वसमानकालीनत्वाभावादव्याप्तिः
स्यादत आश्रयपर्यन्तानुधावनम् । प्रलयकालीनपरमाणुक्रियेति । प्राच्यादृष्टसहकृतानां
परमाणूनां सर्गान्तरोत्पत्त्यर्थं प्रलयकालेऽपि क्रियाङ्गीकारादिति भावः ।
२० न्या० कु०

१५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां
प्रकाशिका ।
गिज्येष्ठावधिकप्रतियोग्यनन्तरोत्पत्तिकपरत्वासमानकालीनत्वात् प्रागभावस्याव्याप्तिरित्याश्रयेति ।
अत्यन्ताभावान्योऽन्याभावयोरतिव्याप्तिरिति कादाचित्कपदम् । अभावपदं च संपातायातम् कादा-
चित्कभावस्य पूर्वविशेषणनिरस्ततया व्यावर्तनीयाभावात् । न च महाप्रलयाव्यवहितप्राक्कालिकक-
र्मप्रागभावाव्याप्तिः तद्व्यापककालावधिकपरत्वाप्रसिद्धेरिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्य
लक्षणत्वात् । ननु सर्गाद्यकालीनघटप्रागभावाव्याप्तिः, तत्कालव्यापकं हि द्रव्यं नित्यं वा स्यात् तत्
कालोत्पन्नमेव वा, न च नित्यावधिकं परत्वं क्वचित् , न वा तत्कालोत्पन्नावधिकम् । आश्रयाभावात् ।
नित्यस्य परत्वानधिकरणत्वात्, अनित्यस्य तु ज्येष्ठस्याभावादिति चेत् । न । प्रलयकालीनपरमाणु-
क्रियाप्रागभावतुल्यतया ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सत्त्वात्। तदनभ्युपगमे ग्रन्थकृदु-
क्ताव्याप्तितुल्यतयैव तदव्याप्तेरपि दोषत्वेनेष्टत्वमेव । अत एव खण्डप्रलयाव्यवहितपूर्वक्षणोत्पन्न-
क्रियाप्रागभावाव्याप्तिरपि न दोषः । प्रलयकालीनपरमाणुक्रियाप्रागभावतुल्यत्वादिति सम्प्रदायः ।
अत्र वदन्ति । नानासर्गस्थायिनोऽदृष्टस्य प्रागभावेऽव्याप्तिः, तत्र प्रतियोगिकालव्यापकस्यानित्यस्य
द्रव्यस्याभावाद् । नित्यस्य च परत्वावधित्वाभावात् । किं च भावरूपे प्रागभावेऽव्याप्तिः, न च तद-
लक्ष्यमेव, कारणताघटकस्य हि प्रागभावस्य लक्षणमिह प्रकृतं तथा च ध्वंसे प्रतियोग्यादेः कारणता-
निर्वाहाय भावरूपस्यापि तस्य लक्ष्यत्वात् । एतेन द्रव्यप्रागभावमात्रस्यैवेदं लक्षणं, तेन नोक्तादृ-
ष्टप्रागभावेऽव्याप्तिः । तस्यालक्ष्यत्वात् । यावद्द्रव्यप्रागभावसमानकालत्वं च प्रागभावसामान्यल-
क्षणम् , तदुपयोगितयैव च विशेषलक्षणमपि निरुक्तम् , उक्तसामान्यलक्षणं तूक्तादृष्टप्रागभावादाव-
विकलमेवेत्यपास्तम् । *ध्वंसप्रागभावात्मकभावान्याप्तेरिति । अत्र वयं ब्रूमः । प्रतियोगिसमानका-
लीनत्वमात्रमत्र लक्षणे प्रविष्टमित्यदृष्टप्रागभावे लक्षणमविकलम् । न च विनश्यत्क्षणोत्पन्नद्रव्यमा-
मकरन्दः ।
गभावान्याप्तिरित्यत उक्तमाश्रयेति । न च यावत्परत्वानामाश्रयाप्रसिद्ध्याऽसम्भव इति वाच्यम् ।
प्रत्येकिनिरूपिताश्रयस्यैव विवक्षितत्वात् । केचित्तु यावत्त्वमाश्रयविशेषणमेव । विशेषणस्य साव-
धिकत्वेन विशिष्टे तदवधिकत्वान्वय इत्याहुः । अत्यन्तान्योन्याभावयोरप्यनादितया तथा-
त्वादतिव्याप्तेराह कादाचित्केति । कादाचित्कभावस्यानादित्वानभ्युपगमेन व्यावत्त्याभावाद्-
भावपदं स्वरूपाख्यानपरमित्याहुः । न च महाप्रलयपूर्वक्षणभाविकर्मादिप्रागभावाव्याप्तिः । तदा
ब्रह्माण्डान्तरस्याप्यभावादिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्योक्तत्वात् । अत एव लीला-
वतीप्रकाशे सिद्धान्तितमिदमेव लक्षणम् । ननु तथापि सर्गाद्यकालीनघटादिप्रागभावाव्याप्तिः । तत्र
हि प्रतियोगिव्यापकं सर्गाद्यकालीनमेव स्याद् नित्यं व्योमादि वा ? तदवधिकञ्च परत्वमप्रसि-
द्धम् । नित्यस्य तदवधिकत्वाभावात् । अपरावधिकपरत्वस्य चाश्रयाभावादनुत्पत्तेः । न हि नि-
त्यद्रव्यं तदाश्रयः । बहुतरतपनपरिस्पन्दान्तरितजन्मत्वाभावेन तत्र तदनभ्युपगमात् । नापि
कार्यद्रव्यम् । तज्ज्येष्ठस्य तदानीमभावात् । सर्गान्तरे तद्वत्त्वेऽपि तदानीमवधेरेवानुत्पन्नतया
तदवधिकपरत्वानुत्पत्तेः । यदवधिकं यत्रापरत्वं तदवधिकमेव तत्र परत्वमित्यभ्युपगमादिति चेत् ।
मैवम् । जन्मांशस्य गुरुत्वेन नित्यद्रव्येऽपि तदभ्युपगमादित्याहुः । अवधिर्न परत्वकारणं, किन्तु
तज्ज्ञानम् । तथा चानागतस्यैवावधेरीश्वरादीनां ज्ञाने सर्गान्तरद्रव्येषु तदुत्पाद इत्यप्याहुः । व-
स्तुतो ब्रह्माण्डान्तरद्रव्यमादाय अत्रापि समाधिसम्भवे प्रलयकालक्रियाप्रागभाववदत्राप्यव्याप्ति-
रभिप्रेतैवेति न दोषः । अत एव खण्डप्रलयपूर्वक्षणक्रियाप्रागभावान्याप्तिशङ्काऽपि न दोषायेति
मन्तव्यम् । वस्तुतस्तु प्रतियोगिव्यापकत्वविवक्षायामपि क्षणिकशब्दाऽऽदिध्वंसे पूर्वोक्तन्यायेना-
तिव्याप्तिरेवेति प्रतियोगिकालीनत्व एव तात्पर्यम् । परत्वाश्रयतयोरैक्यविवक्षया च नोक्ताति-

[प्रथमस्तबके] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५५

प्रकाशः ।

नियतत्वमपि व्यक्त्यपेक्षया, जात्यपेक्षया वा ? । नाद्यः । वह्निव्यक्तेः पूर्वं रासभस्यापि भावात् ।
अत एव नान्त्यः । न हि कापि वह्निजातीयपूर्वकाले न रासभसत्त्वम् । देशतोऽपि नियम इति
चेत् । सोऽपि संयोगी समवायी वा प्रत्यासन्नमात्रं वा ? आद्ये गुणादीनामकारणत्वप्रसङ्गः । द्वितीये
धूमं प्रति वहेरकारणत्वप्रसङ्गः । तयोरेकदेशसमवायित्वाभावात् । अन्त्ये व्योम्नः कार्यमात्रं प्रति
कारणत्वप्रसङ्गः । अन्यथासिद्धत्वेऽसतीति चेन्न । कारणेतरत्वेन तत्सिद्धेः कारणज्ञानापेक्षित्वात् ।
नापि कार्याभावव्यापकाभावसमूहै कदेशप्रतियोगित्वं कारणत्वम् । व्योमादेः कार्यमात्रे तत्त्वापत्तेः ।

प्रकाशिका ।

दाय तथा सति ध्वंसातिव्याप्तिरित्युक्तमेवेति वाच्यम् । प्रतियोगिकालावृत्तित्वस्याऽऽश्रयविशेषणत्वा-
त् । ध्वंसस्य च प्रतियोगिकालमात्रवृत्तितया तथाविधपरत्वाश्रयसमानकालत्वात् । यावत्पदसम-
भिव्याहारेणैव च प्रतियोगिकालावृत्तित्वलाभो ग्रन्थाधिक्यादिति न्यायादिति न यावत्पदव्यर्थ-
ताशङ्कापि । सामयिकपदं तु ध्वंसातिव्याप्तिवारणाय । प्रतियोगिनाशोत्तरानुवर्त्तमानप्रतियोगिसमा-
नकालीनावधिकदैशिकपरत्वाश्रयप्रतियोगिनाशोत्तरजातपदार्थसमानकालत्वात्तस्य । एवं च भावरूप-
प्रागभावाव्याप्तिरप्यपास्ता । तस्यापि ध्वंसरूपप्रतियोगिकालावृत्तिध्वंससमानकालतत्पूर्वोक्तन्नपदार्थ-
र्थावधिकपरत्वाश्रयसमानकालत्वात् । अभावपदं तु विरोधिमात्रपरं तत्तत्प्रागभावलाभाय । यदा
च विभाजकोपाधिनिर्वचनं तदा भावातिव्याप्तिवारणायाभावपदम् । एवं च महाप्रलयाव्यवहितक-
र्म्मप्रागभावाव्याप्तिरपि निरस्ता । तत्रापि कर्म्मसमानकालीनानित्यद्रव्यावधिकपरत्वाश्रयकर्म्मपूर्वनि-
ष्ठपदार्थसमानकालतासत्त्वात् । यावदनित्यद्रव्यनाशानन्तरं परमाणुकर्मोत्पत्तौ च मानाभावात् ।
न च चरमध्वंसप्रागभावरूपे कर्म्मण्यव्याप्तिः, विभाजकोपाधिपक्षे तस्यालक्ष्यत्वात्, कारणतानिर्व-
चनेऽपि तदसंग्रहे क्षतेरभावात् । तत्कारणताया भिन्नत्वेऽपि प्रवर्त्तकज्ञानविषयकारणताया अनु-
गमात्, चरमध्वंसेऽर्थं तत्प्रतियोगिन्यप्रवृत्तेः । महाप्रलयानभ्युपगमनैवेदं लक्षणमित्युपयुक्तमेवेति
दिक् । कारणेतरत्वेनेति । कारणेतरत्वस्यैवान्यथाशब्दार्थत्वादिति भावः । व्योमादेरिति । तद-

मकरन्दः ।

व्याप्यादिदोषः । एतन्मतेनैवाभावपदस्य स्वरूपाख्यानपरत्वमुक्तम् । अन्यथा पर्वतादिकमादाय
व्यावर्त्त्यसम्भवादित्यवधेयम् । नन्वेवमपि ध्वंसप्रागभावात्मनि घटादावव्याप्तिः, तन्न लक्ष्यमिति
चेद्, भ्रान्तोऽसि । न हि प्रागभावलक्षणमिह प्रकृतं, किन्तु कारणत्वलक्षणम् । तच्च सामान्यत एव
लक्ष्यं, मूलस्वरसात् । तथा च ध्वंसप्रागभावस्यालक्ष्यत्वे ध्वंसकारणसाधारणं लक्षणं न स्यात् ।
किञ्चैवमनुगतं कारणत्वमपि न स्यादिति तदनुगमात् प्रवृत्त्यननुगम इति चिन्त्यम् ।
अन्यथेत्यस्यार्थमाह । कारणेतरत्वेनेति । व्योमादेरिति । तदभावस्य केवलान्वयित्वा-

टिप्पणी ।

व्यापकाभावसमूहेति । कार्याभावव्यापकतावच्छेदकसमुदायत्वाश्रयैकदेश इत्यर्थः ।
अवच्छेदकत्वञ्च स्वरूपेण, न पर्याप्त्या, एवञ्च कारणाभावस्य कार्याभावव्यापकत्वेऽपि
प्रत्येकन्न क्षतिः । घटत्ववदिति । युगपत्सर्वब्रह्माण्डनाशपक्षे घटत्वस्य दृष्टान्तता । वस्तुत-
स्त्वैन्नत्वादिरथ दृष्टान्तः । तदाश्रयानधिकरणकालस्य प्रसिद्धत्वादिति । ननु गन्धानधिकरणकाल-
सिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं सिद्धम् । शब्दप्रत्यक्षयोरभावात् । अनुमान-
स्य च साध्यप्रसिद्धिमात्रेणासम्भवादिति चेन्न । प्रागभावत्वावच्छिन्नो गन्धानधिकरण-
कालावृत्तिः, गन्धप्रागभाववितिप्रतीतित्रिषयत्वाद् गन्धवदित्यनुमानात्तत्सिद्धिः । गन्धे साध्यप्रसि-
द्धिश्च प्रकाशोक्तानुमानादेव । तेन च काले गन्धानधिकरणत्वसिद्धौ गन्धेऽपि तुष्ट्यवितिवेद्यतया

१५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
प्रकाश ।
नापि सामग्र्येकदेशत्वं कारणत्वं, कारणसमूहस्यैव सामग्रीत्वात् । उच्यते । गन्धानधिकरणका-
प्रकाशिका ।
भावस्य केवलान्वयित्वाभ्युपगमादिति भावः । गन्धानधिकरणेति। स्नेहप्रागभावेऽव्याप्तिरिति
कालपदम् । अभावपदं तु विरोधिपरं तत्प्रागभावलाभाय । तत्तत्कारणतायास्तत्तत्प्रागभावघटि-
तत्वात् । यत्तु भावातिव्याप्तिवारणायाभावपदं यथाश्रुतार्थमेवेति । तत्तूच्छम् । प्रकृते कारणता-
निर्वचनाय प्रागभावनिर्वचनमिति ध्वंसे प्रतियोगिनः कारणत्वनिष्पत्तये भावस्यापि लक्ष्यत्वात् यदा
तु विभाजकोपाधिनिर्वचनं तदा तद्व्याख्यानं समीचीनमिति । ननु गन्धानाधारसमयो नास्तीत्य-
वधारितवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तदज्ञाने च कथं प्रवृत्तिः, इष्टसाधन-
ताज्ञानसाध्यत्वात् प्रवृत्तेः, किञ्चैवं कारणताबोधकशब्दस्यैव महाप्रलये प्रमाणमिति तत्र विप्रति-
पत्तिरपि कथं मीमांसकादेरिति चेत् । न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्कार्यनिरूपिततत्तत्प्रा-
गभावत्वज्ञानात् तत्तत्कार्यनिरूपिततत्तत्प्रागभावव्यक्तिघटिततत्तत्कारणताज्ञानेन तत्तत्कार्या-
र्थिनः प्रवृत्तेः शब्देनापि प्रतियोग्यनुगतोकृततत्तत्प्रागभावघटितकारणताया एवाभिधानात् प्राग-
भावलक्षणानुगतमेवेदं स्वमते । वस्तुतः कारणत्वं स्वरूपसम्बन्धविशेषो विषयस्य ज्ञानेनैव
कार्येण कारणस्य प्रतीतिसिद्धेः तज्ज्ञानमेव च प्रवृत्त्यनुकूलम् इदन्तु नियामकमात्राभिधानम् । अत
एव गन्धानाधारत्वेनेव नीलानाधारत्वादिनारिप स कालो लक्षयितुं शक्य एवेति विनिगमकाभावादु-
भयगर्भप्रागभावत्वघटितकारणत्वज्ञानस्य प्रवर्त्तकत्वेऽननुगम इत्यपास्तम् । नियामकानेकत्वस्या-
मकरन्दः ।
दिति भावः । गन्धानधिकरणेति । निर्गन्धान्योन्याभावादावतिव्याप्तेराहे । कालेति । अ-
भावपदञ्च घटादिवारणायेत्याहुः । तन्न । कारणत्वसामान्यलक्षणार्थं तस्य लक्ष्यतौचित्यमित्युक्त-
त्वात् । तस्मात् तत्प्रतियोगिकाभावलाभार्थमभावपदम् । न हि प्रागभावसामान्यगर्भे कारणत्वं,
किन्तु तत्प्रतियोगिप्रागभावावच्छिन्नसमयवृत्तित्वं तत्कारणत्वम् । तथा च तादृशकालावृत्तिस्तद-
भावस्तत्प्रागभाव इति पर्यवस्यति । ननु गन्धानाधारसमयो नास्तीति निर्णयवतो मीमांसकस्येष्ट-
साधनतालिङ्गककार्यताज्ञानेन प्रवृत्तिदर्शनान्नैतत्प्रागभावगर्भं कारणत्वम् । किञ्च, कारणत्वबोधक-
शब्दादिरेवैवं महाप्रलयकाले प्रमाणं स्यात् । तस्य तद्घटितत्वात् । तथा च तदनभ्युपगमोऽपि
तस्य व्याहन्येतेति चेत् । मैवम् । विशेषतो बाधावतारेऽपि सामान्यतस्तस्य तद्ग्रहाभ्युपगमादि-
त्येके । वस्तुत इदं कारणत्वं न प्रवृत्त्यनुकूलम् । अनन्यथासिद्धिघटितत्वेन गुरुत्वात् । तथा च
स्वमतेन लक्ष्यतावच्छेदकतया निरुक्तं, वक्ष्यमाणं तदनुकूलं लाघवादिति । एतेन गन्धानाधारगर्भ-
वन्नीलाधारगर्भत्वादिनारिप तन्निर्वचनात्तद्गर्भं कारणत्वमपि भिद्येत । तथा च विनिगमकाभावादु-
भयगर्भैष्टसाधनताज्ञानप्रवर्त्तकतायां प्रवृत्त्यननंगम इत्यापास्तम् । अन्ये तु आकाशादिपदात् कदा-
टिप्पणी ।
तद्वृत्तित्वस्यापि सिद्धेः, पक्षतावच्छेदकप्रागभावत्वञ्च प्रतीतिविशेषविषयाभावत्वमेवेति न परम्प-
राश्रयः । प्रतीतेर्व्यावृत्तिश्च कालविशेषपुरुषविशेषादेवेति न प्रतीतिविषययोः परस्परव्यावर्त्तकत्वे
ऽन्योन्याश्रय इति दिक् । गन्धानधिकरणकालावृत्तिरभाव इति । ननु गन्धान
धिकरणसमयो नास्तीत्यवाधितज्ञानवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तद-
ज्ञाने च कथं वृत्तिः, कारणताबोधकशब्दस्यैव प्रलये मानत्वात्कथं महाप्रलये विप्रतिपत्तिरिति
चेन्न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्प्रागभावव्यक्तिघटितकारणताविशेषज्ञानादेव प्रवृत्तेः ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५७
प्रकाशः ।
लावृत्तिरभावः प्रागभावः । न च तत्र मानाभावः । गन्धत्वं स्वाधिकरणानधिकरणकालवृत्ति,
प्रकाशिका ।
दोषत्वात् । वस्तुतोऽननुगमोऽपि न, कालोपाधिविशेषघटितत्वात् प्रागभावस्य स च नीलानाधारत्वेन
वोपलक्ष्यतां गन्धानाधारत्वेन वेति न कश्चिद्विशेषः, उपलक्ष्यस्यैकत्वात् । केचित्तु प्रागभावगर्भं
कारणत्वं लक्ष्यतावच्छेदकं, लक्षणं तु सहकारिवैकल्येत्यादिवक्ष्यमाणमिति नाननुगमादिदोषाशङ्केत्या-
हुः । स्वाधिकरणेति । स्वाधिकरणत्वावच्छिन्नभिन्नवृत्तीत्यर्थः । गन्धवृत्तितया सिद्धसाधनवारणाय
कालपदम् । कार्यमात्रेति । आत्मत्वादौ व्यभिचार इति कार्येति । सत्तादौ व्यभिचार इति मात्रेति ।
ध्वंसत्वे व्यभिचार इति जातीति । तदर्थश्च समवेतत्वमात्रमितरदलप्रवेशस्य व्यर्थत्वात् कार्यत्वं च
क्षेमसाधारणकृतिसाध्यत्वमात्रमतः प्रागभावप्रतियोगित्वरूपं कार्यपदार्थमादायान्योन्याश्रय शङ्कापा-
मकरन्दः ।
विच्छब्दाश्रयत्वेन कदाचिदघटद्रव्यातिरिक्तद्रव्यत्वेनेतिवत् कदाचिन्नीलाधारत्वेनापि समयविशेषो-
पलक्षणान्न काऽपि क्षतिः । तत्समयविशेषावृत्त्यभावावच्छिन्नसमयत्वस्यैव हेतुत्वरूपतया च न
प्रवृत्त्यननुगम इति वदन्ति । स्वरूपसम्बन्धविशेषः कारणता प्रतियोगित्वादिवत् , तत्परिचायक
एवायं धर्मविशेष उक्त इत्याहुः ॥
स्वाधिकरणेति । स्वाधिकरणतावच्छिन्नेत्यर्थः । अत एव गन्धवृत्तित्वेन सिद्धसाधन-
वारणाय, कालेति । आत्मत्वादौ व्यभिचारवारणाय कार्येति । द्रव्यत्वादौ व्यभिचारवार-
णाय मात्रेति । ध्वंसत्वादौ व्यभिचारवारणाय जातीति । जातिपदार्थनिर्वचने यदि व्यर्थ-
त्वशङ्का तदा तावन्मात्र एव तात्पर्यम् । ननु कार्यत्वं प्रागभावप्रतियोगित्वमित्यन्योन्या-
श्रय इति चेन्न । प्रागभावसाधारणकृतिसाध्यत्वमात्रस्य तत्त्वेनाभिमतत्वादित्याहुः । खण्ड-
प्रलयवृत्तितया घटत्वस्य दृष्टान्तत्वम् । तदसिद्धावपि चैत्रत्वादैर्दृष्टान्तत्वं बोध्यम् । ननु सि-
द्ध्यतु गन्धानाधारसमयस्तथापि प्रागभावस्य तदनधिकरणत्वं कथं ग्राह्यम् ? न हि तत्र प्रत्य-
क्षमागमो वा सम्भवति । अनुमानञ्च सम्भवेत् तत्प्रसिद्ध्युत्तरम् । तथा चानुमानप्रवृत्तौ प्रागभाव-
त्वेन धीस्तस्याञ्चानुमानप्रवृत्तिरित्यन्योन्याश्रय इति चेन्न । तादृशसमयो नास्तीति निर्णयवतो मीमां-
सकस्य, भविष्यतीति बुद्धिनिर्भाकातिरिक्त रूपेण प्रागभावस्यावश्यं तद्बुद्धिविषयत्वात्तेन रूपेण तद्-
बुद्धिविषयत्वेन वोपस्थितस्य प्रागभावस्य लिङ्गाभासादिनापि तादृशसमयानाधारत्वमिति सम्भ-
वाद् गन्धस्यैव दृष्टत्वात् । यद्वा, कादाचित्काभावत्वेनैवोपस्थितस्य तदनुमानं ध्वंसांशे बाधादे-
वानुमानात् । तदनवतारे तदंशे भ्रमत्वेऽपि न क्षतिरिति ।
टिप्पणी ।
अनुगतप्रागभावत्वच्छेदं स्वमतेनैव । अन्यथा तु शब्देनापि प्रतियोग्यनुगतीकृत्य तत्तत्प्रागभा-
वघटितकारणताया एवाभिधानात् । अन्यथा विषयस्य ज्ञानेनैव कार्येण कारणस्य स्वरूपसम्बन्ध-
विशेषः कारणत्वं तज्ज्ञानेनैव प्रवृत्त्यादिनिर्वाहः । प्रागभावघटितकारणत्वं तु नियामकमात्रम् ।
अत एव च गन्धानाधारत्वेनेव नीलानाधारत्वादिनापि स काल उपलक्ष्यतां विनिगमकाभावादित्य
ननुगतकारणत्वज्ञानादप्रवृत्तिरित्यप्यपास्तम् । नियामकाननुगमस्यादोषत्वात् । यद्वाननुगमोऽपि न
कालोपाधिविशेषघटितत्वात् प्रागभावस्य स कालोनीलानाधारत्वेन वा गन्धानाधारत्वेन वोपलक्ष्यतां
तथापि नानुगमः । उपलक्ष्यस्यैक्यात् । अथवा प्रागभावघटितकारणत्वं लक्ष्यतावच्छेदकम् ,

१५= व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
प्रकाशः।
कार्यमात्रवृत्तिजातित्वात्, घटत्ववत्। स एव सर्वमुक्तिकालः। अन्यथासिद्धिश्च पञ्चधा। येन सहैवः
प्रकाशिका।
स्ता। घटत्ववदिति। युगपत् सर्वेश्च ब्रह्माण्डप्रलयपक्ष घटत्वं दृष्टान्तः। अन्यथा तु चैत्रत्वादिकं
दृष्टान्त इति ध्येयम्। ननु गन्धानधिकरणकालसिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं ग्राह्यं प्रत्य-
क्षशब्दयोरभावात्, अनुमानस्य च साध्यप्रसिद्धिमन्तरेणाप्रवृत्तेरिति चेत् न, प्रागभावत्वावच्छिन्नो
गन्धानधिकरणकालावृत्तिः गन्धप्रागभावादिति प्रतीतिविशेष्यत्वात् गन्धवदित्यनुमानेन तद्प्र-
हात् प्रतीतिविशेषविषयाभावत्वमेव च प्रागभावत्वमतो नान्योन्याश्रयावकाशः, पक्षनिर्वचने-
तैत्पुरुषीय तत्कालीनलवमेव च प्रतीतेर्व्यावर्त्तकमिति न विषयप्रतीत्योंः परस्परव्यावर्त्तकत्वेनान्यो-
न्याश्रयः, प्रतीतिश्चेत् प्रागभावीयेदानीं स्मृतेत्यनादितैव इयञ्च कल्पना भविष्यतीति मीमांसको-
दिसाधारणप्रतीत्यनुरोधेन गन्धे च साध्यं प्रकाशोक्तानुमानसिद्धमेव गन्धे तत्तत्कालावृत्तित्वस्य
तत्तत्काले गन्धानधिकरणत्वग्राहकेन तेन समानसंवित्संवेद्यतया विषयीकरणात् विपक्षबाधकं च
प्रागभावस्य विनाशत्वनियम एवाविनाशे च प्रागभावत्वव्याघात इति। ननु गन्धानधिकरणकालेऽपि
कर्मप्रागभावावृत्तिसन्देहेनाव्याप्तिसन्देहादलक्षणमिदमत आह स एवेति। तथा च कोऽपि
प्रागभावो न तदेति नान्याप्तिरिति भावः। ननुयुगपन्नाशे मानाभावः, यावद्गन्धनाशो हि यावद्-
दृष्टनाशात् कालविशेषद्वारा वाच्यः, स च सर्वनाशे साधारण एवेत्याशयात् पूर्वोक्तदोषभयेन
योगार्थमपहाय रूढ्या अन्यथासिद्धपदार्थमाह। अन्यथासिद्धिश्चेति। एतन्निर्वचनञ्च निरुक्त-
कारणतालक्षणानुसारेण, स्वरूपसम्बन्धात्मककारणताभ्युपगमे तु नैतदुपयोग इति मन्तव्यम्।
येन सहैवेति। येन पृथगन्वयादिमताऽवच्छेदकीभूतेन सह यस्यापृथगन्वयादिमतः पूर्ववर्त्तित्वं
गृह्यते तेन तदन्यथासिद्धमित्यर्थः। पृथगित्यादिविशेषणेन दण्डत्वेन न दण्डस्यान्यथासिद्धिः, अपृथ-
गित्यादिविशेषणेन न दण्डेन दण्डसंयोगोऽन्यथासिद्धः। घटं प्रति अवच्छेदकीभूतेनेति विशेषणा-
द्दण्डत्वस्याप्यनेनैव संग्रहे तत्संग्राहकान्यथासिद्धयन्तरवैय्यर्थ्यमिति दूषणमपास्तम्। अत्र ह्यवच्छे-
मकरन्दः।
स एवेति। नन्वत्र मानाभावः, युगपन्नाशे मानाभावात्। तथा च यावद्गन्धनाशानन्तर-
मपि वस्त्वन्तरसत्त्वसम्भावनया तत्प्रागभावस्य गन्धानाधारत्वसंशयेन तत्कारणेऽपि तद्गर्भका-
रणत्वलक्षणाऽव्याप्तिसन्देहः। एवञ्च व्यर्थविशेषणतासन्देहात्तद्धारणाय विशेषणमप्यदेयमिति।
अत्राहुः। यावद्गन्धनाशो ह्यदृष्टभावात्। अन्यथा संयोगविभागयोरन्योन्यनाश्यतयाऽन्यतराव-
स्थितौ सर्वमुक्त्यनुपपत्तेः। तथा च सर्वाद्दष्टाभावाद् यावत्कार्याभावो वाच्य इति युगपदेव सर्वना-
श इति। कारणेतरत्वेनेत्यादिदोषभिया योगार्थमपहाय रूढमन्यथासिद्धिपदार्थमाह। अन्यथा-
सिद्धिश्चेति।
येन सहैवेति। ननु शब्दादिना दण्डपूर्ववर्त्तित्वज्ञानं विनापि तद्रूपपूर्ववर्त्तित्वग्रहसम्भवा-
न्नियमोऽसिद्धः। न च प्रत्यक्षेणेति विशेषणीयम्। अतीन्द्रियान्यथासिद्धयव्याप्तेः। नियमाविवक्षा-
यां दण्डरूपेणैव दण्डस्यान्यथासिद्ध्यापत्तेरिति चेन्न। रूपत्वमात्रस्यातिप्रसक्ततया दण्डरूपत्वेनैव
पूर्ववर्त्तित्वग्रहो वाच्यः। तथा च साहित्यनियमात्। न चैवं द्रव्यत्वादेरतिप्रसकतया दण्डत्वेनैव
टिप्पणो।
लक्षणन्तु सहकारिवैकल्येत्यादि वक्ष्यतीति न किमप्यनुपपन्नमिति ध्येयम्। येन सहैवेति।
येन पृथगन्वयादिमता अवच्छेदकीभूतेन यस्यापृथगन्वयादिमत इत्यर्थः। यथाश्रुते दण्डत्वेन
दण्डोऽन्यथासिद्धः स्यात्। पृथगिति विशेषात् परमाण्वादीनीलघटादिनीलयोर्नीलत्वस्यैक्याद्