सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
प्रसङ्गात्। तस्मान्नियतजातीयतास्वभावभङ्गेन व्यक्त्यपेक्षयैव नियम इति। न।
फूत्कारेण तृणादेरेव, निर्मन्थेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रका-
बोधनी।
भवितव्यमिति नियमस्य भङ्गात् कार्यस्य यया कयाचिद् व्यक्त्या भवितव्यमित्येव नियमः स्या-
दित्युपसंहरति—तस्मात्-इति। सिद्धान्त्याह—नेति। एवशब्दो भिन्नक्रमः, तृणादेः
फूत्कारेणैवेत्यादि योजनीयः। प्रकारनियमः = सहकारिनियमः। फूत्कारादिस्तृणादीनां नि-
प्रकाशः।
वासिद्धौ स्वभावनियमोऽपि दुरवगमः। कार्यानुपलब्धिप्रसङ्गरूपविपक्षबाधकसाध्यत्वात्तस्येति भा-
वः। तदेवं गत्यन्तराभावाद् व्यक्तीनामेव कारणत्वमित्युपसंहरति। तस्मादिति। वह्न्यवान्त-
रजातीये तृणादीनां प्रत्येकं कारणत्वस्वीकारादेव सर्वं समञ्जसमित्याह। फूत्कारेणेति। प्रका-
रनियमः = सहकारिनियमः। वह्न्यनुकूलशक्तिमत्त्वेन कारणत्वे मणिफूत्कारादिस्तोमादपि कार्या-
प्रकाशिका।
विशेषस्यैव वह्निजन्यत्वमिति शङ्कायाः सम्भवात्। यदि चोपस्थितरूपस्यावच्छेदकत्वे बाधके सत्येव
कल्पनीयजातेः कार्यतावच्छेदकत्वमिति न तत्र शङ्का तर्हि कारणतावच्छेदकत्वमपि तत्रैवान्या-
न्यत्वस्य यत्रोपस्थितरूपस्यावच्छेदकत्वे बाधकमिति तुल्यम्। एवञ्च शक्तिवैजात्यान्यतरकल्पनाव-
सरे तयोरक्लृप्तत्वादन्यान्यत्वस्य च क्लृप्तत्वात्तदेवावच्छेदकं कारणतायामिति। तथापि तन्मते
सहकारिनियमानुपपत्तिरेव बाधिका शक्तिपक्षवत्। अत एवं मूलं प्रकारनियमवदिति। यद्यपि
फूत्कारतृणसंयोगादीनामन्यान्यत्वेन जनकत्वपक्षे नैतद् दूषणम्। नचैवं तृणादेरकारणत्वम्। संयोग-
विशिष्टस्यैव तृणादेः कारणत्वात्। अन्यथा तृणत्वेन कारणत्वस्वीकारेऽपि अनतिप्रसङ्गाय संयोगकारण-
त्वे वाच्ये तृणाद्यकारणतापत्तेस्तुल्यत्वात् कारणतावच्छेदकन्तु तृणादावन्यान्यत्वमेव। नचैवं जन्य-
ज्ञानत्वावच्छिन्नं इन्द्रियसन्निकर्षादीनामन्यान्यत्वेन जनकत्वे एकप्रमाणपरिशेषापत्तिः। तत्र ज्ञाने
वैजात्यस्यानुभवसाक्षिकतया तन्नियामकत्वेनासाधारणधर्मस्य कारणतावच्छेदकत्वात् जन्यज्ञानत्व-
स्य कार्यतावच्छेदकत्वे मानाभावात्। तत् सत्त्वेपि तदवच्छिन्नेऽन्यान्यत्वेन जनकत्वे विशेषमादा-
यैव प्रमाणानां भेदात्। एवं च यत्र कार्ये न वैजात्यमनुभूयते कारणानामननुगमश्च तत्रैवान्या-
मकरन्दः।
तदेवमिति। नन्वेवं तवापि वह्निप्रयोज्यवैजात्यशङ्कया न धूमसामान्यमग्निं गमयेत्। यदि
चोपस्थितधूमत्वावच्छेदेन व्यभिचाराग्रहात्तेनैव रूपेण कार्यत्वग्रहः, तदा यत्रोपस्थितरूपे व्यभि-
चारस्तत्रैव रूपान्तरेण कारणत्वकल्पनमतो न रासभमेन्तर्भाव्य तत्कल्पनम्। किञ्च, शक्तिवैजा-
त्ययोरन्यतरकल्पनावसरे तयोः कल्पनीयतया लाघवेन क्लृप्तान्यान्यत्वस्यैवावच्छेदकत्वकल्पना-
दिति। तत्र ब्रूमः। वैजात्यस्यापि प्रमाणान्तरसिद्धतया तत्राप्यवच्छेदकत्वकल्पनेव। अन्यथा
सहकारिनियमानुपपत्तेः। तदिदमुक्तं मूले, तेनैव व्यज्यमानस्येति। न च सामग्रीत्रयकल्पने
गौरवं, तस्यावश्यकत्वात्। अन्यथा सहकारिनियमानुपपत्तिरेव। स हि कार्यतावच्छेदकभेदेन फ-
लविरोधे सत्येव स्यात्। अन्यथा प्रत्यक्षादिप्रमाणानामपि जन्यज्ञानत्वावच्छिन्ने तदन्यान्यत्वेन
हेतुतापत्तेः। यदि च सहकारिनियमानुपपत्त्या सामग्रीभेद-फलवैजात्यावश्यकत्वे गौरवान्न तथा,
तदा प्रकृतेऽपि तुल्यं, तत्तत्सहकारिसम्बन्धानामपि तदन्यान्यत्वेन हेतुत्वान्नियमोपपत्तेरित्यपि
तुल्यम्। यद्विशेषयोः कार्यकारणभावग्रह इत्यादिकमपि तुल्यम्। तेन रूपेणान्वयव्यतिरेकग्रहश्च
तथेति च तुल्यम्। अपि चैवं भौमत्वस्यापि विशेषतया गुरुत्वेन वह्नित्वसामान्यावच्छिन्ने औद-
र्यादिवह्निकारणमप्यन्तर्भाव्य तदन्यान्यत्वेन हेतुत्वापत्तिः। किञ्चैवं, जन्यतावच्छेदकमपि तत्

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ८३
रानियमवत्तेनैव व्यज्यमानस्य कार्य्यजातिभेदस्य भावात् । दृश्यते च पावकत्वा-
विशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालज-
टिलोऽपि दारुदहनो, न तराञ्च कारीषः ॥
बोधनी ।
गमाश्रितयतसामग्रीव्यङ्ग्याया जातेर्भेदोऽस्ति । नहि सामग्री भिद्यते न भिद्यते च कार्यमिति सम्भ-
वति । तथा च प्रयोगः—तार्णाद्यग्नयोऽग्नित्वावान्तरजातिभेदवन्तः विलक्षणसामग्रीजन्यत्वात्
तैलवर्त्त्या विलक्षणसामग्रीकप्रदीपादिवदिति । न च साध्यविकलो दृष्टान्त इत्याह-दृश्यते-च-
इति । प्रदीपादौ कार्यभेददर्शनादवान्तरजातिभेदोऽवश्याभ्युपगन्तव्य इति ।
प्रकाशः ।
पत्तेरित्यर्थः । न चानुपलब्धिबाधितं वैजात्यमित्याह । तेनेति । विवादपदमग्नयो वह्नित्वव्या-
प्यजातिमन्तः नियतसहकार्य्यनुप्रवेशेन जायमानवह्नित्वात् प्रदीपदारुदहनवदिति कारणविशेषस-
म्बन्धव्यङ्ग्यत्वान्न जातीनामित्यर्थः । न च दृष्टान्तः साध्यविकल इत्याह । दृश्यते चेति । तत्र
तैलादिकारणविशेषव्यङ्ग्यत्वं यथा जातीनां, तथाऽत्रापीति नादृष्टचरकल्पनमित्यर्थः । यद्यपि दुरु-
हत्वान्नौष विशेष आपाततः स्फुरति, तथापि विशेषानाकलनेऽपि तदनुकूलकारणमात्रमनुमीयते,
प्रकाशिका
न्यत्वमवच्छेदकं न तु सर्वत्रेति न दण्डवेमादीनां घटपटान्यन्यतरत्वावच्छिन्नकारणत्वशङ्का न तु
वह्नौ तृणादिजन्ये वैजात्यमनुभूयत इति । तथाप्येवं मणेरपि तृणफूत्कारविशेषसंयोगसहकारित्वे
तरणिकिरणसमवहितमणेरपि रात्रौ वह्न्यर्थिप्रवृत्तिविषयतापत्तिः । न च तरणिकिरणसम्बद्धमणेरेवं
जनकत्वं सम्बद्धानां तृणादीनां च स्वस्वनिष्ठान्यान्यत्वेन जनकत्वे भवदुक्तनियमस्यैवानुपपत्तेः । न
च सम्बन्धमात्रमेव कारणं न तु मण्यादीति वाच्यम् । उपजीव्यबाधात् । अन्वयव्यतिरेकगृहीततृ-
णादिकारणतारक्षार्थमेव कारणप्रत्यासत्तितया सम्बन्धानां कारणत्वस्वीकारादिति । मिश्रास्तु अन्या-
न्यत्वं न कारणतावच्छेदकम् तथासति तृणान्यन्यस्य वह्न्यवयवादेरकारणतापत्तेः, भावाभावयोरे-
कत्राप्रयोजकत्वात् । नचैवं भवन्मतेऽपि तृणतदन्ययोः कथं वह्निप्रयोजकत्वमिति वाच्यम् । प्रयो-
जकप्रतियोगिकाभावस्याप्रयोजकत्वमिति नियमशरीरत्वात् । त्वया च कारणीभूतवह्न्यवयवादि
प्रतियोगिकस्यान्योन्याभावस्यावच्छेदकतया प्रयोजकत्वाभ्युपगमादिति वदन्ति । तच्चिन्त्यम् । भा-
वाभावयोरेकत्राजनकत्वेऽपि एकाप्रयोजकत्वे मानाभावात् । वस्तुतस्तु तदपि न । घटघटान्योन्याभा-
वाविति समूहालम्बनस्थले व्यभिचारात् । नच कारणाभावस्य न कारणतावच्छेदकत्वमिति नियमः,
अप्रयोजकत्वादिति दिक् । विवादपदमिति । प्रदीपादावंशतः सिद्धसाधनवारणाय विशेषणमिदम्।
मकरन्दः ।
स्यादिति घटपटान्यान्यतरत्वावच्छेदेन दण्डवेमान्यान्यत्वेन हेतुत्वापत्तिः । तथाचोक्तगौरवादतिप्रस-
ङ्गाच्च न तदन्यान्यत्वमवच्छेदकमिति दिक् । यत्तु, नैकं विरुद्धद्वयप्रयोज्यम् । भावाभावयोरेकका-
र्यजनकतापत्तेः । अत एव न यागध्वंसेनापूर्वस्यान्यथासिद्धिः । तदिह वह्नित्वं यदि तृणान्यान्य-
प्रयोज्यं स्याद् , न स्यात्तदन्यवह्वयवयवादिप्रयोज्यं विरोधादिति । तच्चिन्त्यम् । एवं हि तृण-
प्रयोज्यत्वेऽपि तदन्यवह्वयवयवादिप्रयोज्यत्वं विरुध्येत । यदि च तयोः परस्परविरहरूपत्वाभा-
वात्तदुभयप्रयोज्यत्वं न विरुद्धं, तदा तुल्यम् । वह्न्यवयवत्वेनैव तस्य प्रयोजकत्वं, न तु तृणाय-
न्यान्यत्वेनेत्यपि तुल्यमिति ।
विवादपदमिति । एतच्च प्रदीपादौ साध्यसिद्धया अंशतः सिद्धसाधनवारणार्थम् ।
नियतेति । ननु वृश्चिकादौ हेतुसत्त्वेऽपि साध्यासत्त्वाद्यभिचार इति चेत् । मैवम् । नियत-

८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
यस्तु तं नाकलयेत् , स कार्यसामान्येन कारणमात्रमनुमियादिति किमनु-
बोधनी ।
ननु कार्यावान्तरजातिभेदस्य दुरूहत्वात् कथं तत्तत्तृणादिविशेषानुमानमित्यत्राह-यस्त्विति ।
तमवान्तरजातिभेदं तृणादिजन्यमन्वयव्यतिरेकयोर्बलवानेवाकलय्य तृणादिकारणविशेषमनुमिनोति,
यस्त्वलसो दुरूहमवान्तरजातिभेदं नावगच्छति स सामान्यमात्रात्सामान्यमात्रं तन्निवृत्तेश्च तन्निवृ-
त्तिमनुमिनुयात् का नो हानिरिति । ननु यदि तृणादीनामनुपलभ्यमानमग्न्यवान्तरजातिभेदं प्रत्यु-
पयोगान्नाग्निमात्रदर्शिनस्तृणाद्यनुमानसिद्धिः, एवं तर्ह्यनुपलक्ष्यमाणधूमावान्तरजातिभेदं प्रत्येव
प्रकाशः ।
तदाकलने तु विशेषोऽप्यनुमीयत एवेत्याह । यस्त्विति । नन्वग्न्यवान्तरजातीये तृणादीनां
कारणत्वं न युक्तम् , कारणगतैकशक्तिरूपमपहाय कार्यगतबहुतरजातिकल्पने गौरवात् । तृणादि-
जन्याग्निश्ववान्तरजातेर्योग्यानुपलम्भबाधितत्वात् । यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा-
त्यमनुभूयते । तत्रैकशक्तिमत्त्वमपि कारणे नास्ति । अत एवानुमानमप्रयोजकम् । अथास्ति तृणा-
दीनां फूत्कारादिसहकारिता । तत्र फूत्कारादीनां सहकारित्वं तृणत्वाद्यवच्छिन्नं प्रति स्यात् ?
तृणादिसाधारणैकशक्तिमन्तं प्रति वा । नाद्यः । तृणत्वाद्यवच्छिन्नस्य प्राक्कालानैयत्याभावेन कार-
णत्वाभावात् तत्सहकारित्वस्य दूरनिरस्तत्वात् । नान्त्यः । तृणादिवाऽरणेरपि फूत्कारसमवहिता-
दग्न्युत्पत्त्यापत्तेः । न च फूत्कारादिविशिष्टे तृणादौ शक्तिर्न केवल इति वाच्यम् । तस्य तृणादि-
भिन्नत्वे तृणादीनामजनकत्वापत्तेः । तदभिन्नत्वे च यत् तृणं फूत्कारेणोपधीयते, तत्र वा शक्तिः,
प्रकाशिका ।
अत्र कारणविशेषप्रयोज्यधर्म्मवत्त्वमेव साध्यं, यथाश्रुतेन च पक्षधर्म्मतावल्लभ्यसाध्योपदर्शनं तेन
न घटादौ, न वा ध्वंसे व्यभिचार इत्यवधेयम् । यद्यपि यथानिरुक्तसाध्ये सिद्धसाधनं जायमानत्व-
स्यैव हेतुत्वे व्यर्थविशेषणत्वञ्च वह्न्यवयवादिकारणप्रयोज्यवह्नेः सत्त्वात् तत्तत्कारणप्रयोज्यतत्तदव-
च्छेदकधर्म्मवत्त्वाच्च कार्यमात्रस्य । तथापि तृणादिप्रयोज्यधर्म्मवत्त्वमेव साध्यम् नियततत्तदर्थप्रवेशे
न जायमानत्वं हेतुः । सामान्यव्याप्तौ च प्रदीपो दृष्टान्त इति भावः, प्रदीपादिदृष्टान्तोपादानप्रया-
सश्चात्तेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनपरः । सहकारिपदञ्चानन्यथासिद्धपरं नियतरासभो-
त्तरभाविघटे व्यभिचारवारकमिति मिश्राः । वस्तुतो वह्नित्वादिति हेतुः यथाश्रुतमेव च साध्यं निय-
तेत्यादिकञ्च विपक्षबाधकतर्कप्रदर्शनपरमिति ध्येयम् । अत एवेति । वस्तुतः स्वरूपासिद्धिरेव
नियतेत्यादिहेतोर्नियतत्वं हि तृणादीनां वह्नित्वावच्छिन्ने वा तदवान्तरजात्यवच्छिन्ने वा उभयथापि
स्वतः परतो वाऽसिद्धिः । नचोभयमतेऽपि शक्तिमत्त्वेन तृणत्वेन वा नियमोऽस्त्येवेति साधारणरूपो
हेतुः सिद्ध एवेति वाच्यम् । तथा सति तृणादिप्रयोज्यवह्नौ सिद्धसाधनापत्तेः । तस्मात् तृणत्वावच्छिन्न-
नियमाश्रयजन्यत्वेन तृणत्वावच्छिन्नप्रयोज्यधर्म्मवत्त्वं साध्यमिति स्वरूपासिद्धिरेव परंमते । न च
स्वमतेनैवाऽयं हेतुः साध्यसिद्धिनियतसिद्धिकत्वादिति। तदभिन्नत्वे चेति । फूत्कारप्राक्काल एव तृणे
मकरन्दः ।
सहकारिप्रयोज्यजातिकत्वस्य साध्यत्वात् । प्रकृते च पक्षधर्मतावलेन वह्नित्वव्याप्यैव सा जातिः
सिद्ध्यतीति तथा प्रतिज्ञानात् । न चैवमपि ध्वंसे व्यभिचारः । जातिपदस्य धर्ममात्रपरत्वात् ।
प्रदीपादिदृष्टान्तोपादाननिर्वन्धश्चातेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनार्थमित्याहुः । वस्तुतस्तु
साध्यदृष्टान्तालोचनेन वह्नित्वादिति हेतुरभिमतः । स्फुटत्वात् कण्ठरवेण नाभिहितः । नियतेत्या-
दिकञ्च विपक्षबाधप्रदर्शनपरमिति युक्तमुत्पश्यामः ।
ननु प्रागुक्तसहकारिनियम एव विपक्षबाधक इत्याह । अथेति । तदभिन्नत्वे चेति । फू-

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ९५
प्रकाशः ।
'फूत्कारसमवधाने सति वा ? नाद्यः । फूत्काराद्यसमवधानेऽपि तस्मात् तृणादेरग्न्युत्पत्त्यापत्तेः ।
नापरः । तथा सति सैव शक्तिस्तृणे फूत्कारादरणौ निर्मन्थनादिति शक्तावनियतहेतुकत्वापत्तेः ।
तत्राप्येकशक्तिमत्त्वेन हेतुत्वेऽनवस्थापत्तेरिति ॥
मैवम् । यथा ह्यन्वयव्यतिरेकाभ्यां तृणफूत्कारयोरन्योन्यसहकारित्वं तथैव तच्छक्त्योरपि
परस्परसहकारित्वेन वह्नयनुकूलत्वम् । तथैव कार्यदर्शनात् । न तु मणिफूत्कारयोः सहकारित्व-
मिति, न तच्छक्त्योरपि परस्परसहकारित्वम् । कार्यविशेषात् कारणविशेषानुमानं तु वह्निवृद्धि
कादौविष्यत एव । निरूपितनियतवह्र्यादिकारणके धूमादौ अनुमानं स्यादेव । अन्यथा कार्यवै-
जात्येऽपि वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्र इति शङ्कया तवाप्यनुमानं न स्यादिति ।
अत्रास्मत्पितृचरणाः । तृणारणिमणिफूत्कारादिव्यक्तीनामनन्तत्वेन प्रतिव्यक्ति भावहेतुजानि-
त्यानन्तशक्तिस्वीकारे गौरवम् । तावदनन्तव्यक्त्तिजन्यानन्तवह्निव्यक्तिषु जातित्रयकल्पने लाघव-
मिति तदेव कल्प्यते । न च जातौ योग्यानुपलब्धिबाधः । गोमयवृश्चिकप्रभववृश्चिकयोरिपच्छद्या-
मत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् । तृणादिजन्याग्निष्वपि तृणजन्यत्वज्ञानानन्तरं
मणिजन्यव्यावृत्तानुगतबुद्धेर्जातिविषयत्वाद् बाधकाभावात् । ननु तृणादीनामग्नौ कारणत्वग्रहे
शक्तिवैजात्ययोरन्यतरकल्पनम् । तद्ग्रहश्च नान्वयव्यतिरेकाभ्याम् । व्यभिचारात् । अथारणिम-
ण्यभाववति स्तोमविशेषे तृणं विना न वह्निः तृणान्वयेऽवश्यं वह्निरित्यन्वयव्यतिरेकाभ्यां, तत्रैव
स्तोमे इतरकारणसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियतेनान्वयेन वा रासभव्यावृत्तेन तृणादि-
कारणताग्रह इति चेन्न । तृणं विनाऽपि वह्निरिति ज्ञाने सति वह्नि नियतपूर्ववर्तित्वस्य कारणत्वस्य
ग्रहीतुमशक्यत्वात् । अबाधिताभावग्रहे भावग्रहस्याभावात् ॥
प्रकाशिका
शक्तिः फूत्कारजन्या वेति विकल्पार्थः । मनवस्थेति । उत्तरोत्तरमपि भिन्नभिन्नसहकारिपरंपरांया एवं
स्वीकारादिति भावः । तथैव तच्छक्त्योरपीति । तथा च कारणतावच्छेदकसाम्येऽपि तृणफूत्-
कारयोरेव समवहितयोः फलोपधानं स्वभावादिति भावः । वस्तुतः सम्बन्धनामेकशक्तिमत्त्वेन कार-
णत्वमित्यभिप्रायः । कारणतावच्छेदकयावद्धर्म्माश्रयैकैकव्यक्तिसमवधाने स्वभावविरहप्रयुक्तस्य फला-
नुपधानस्यादृष्टत्वात् यद्यप्ययमभिप्रायो न युक्तस्तरणिकिरणसमवहितमणेरपि वह्न्यर्थिप्रवृत्तिविषय-
त्वापत्तेरुक्तत्वात् । तथापि स्फुटत्वात् तदुपेश्यान्यदाह । तृणेति । ननु जातित्रयकल्पनमपि किम
र्थं वह्वयन्वयव्यतिरेकानुविधायित्वस्यैव तृणादौ वह्निकारणतावच्छेदकत्वात् , धर्म्मिकल्पनातो धर्म्मक-
ल्पना लघीयसीति न्यायात् । मैवम् । अन्वयव्यतिरेकानुविधानस्य सहकार्यान्तरसाधारन्येन तृणादि-
मकरन्दः ।
त्कारप्राक्काल एव तृणे शक्तिस्तत्समवधाने तज्जन्या वेति विकल्पार्थः । तथैव तच्छक्त्योर-
पीति । यद्यप्येवं कार्यवैजात्यमावश्यकम् । एकजातीयकार्ये सहकारिनियमानुपपत्तेः । तथापि
तृणफूत्कारसम्बन्ध-तरणिकिरणमणिसम्बन्धादिष्वप्येकजातीयशक्तिमत्त्वं कारणतावच्छेदकम् । त-
था च तदन्यतमसम्बन्धाभावे तृणनिर्मन्थनसमवधानेऽपि नाग्न्युत्पत्त्यापत्तिरिति भावः । तृणेति ।
ननूक्तगौरवेण मा भूच्छक्तिकल्पना, जातिकल्पनाऽपि कुतः । यावता वह्वयनुविधायित्वमेव धर्मि-
कल्पनात् इति न्यायेनावच्छेदकमस्तु । नचेदमेव वह्निजनकत्वं, येनात्माश्रयान्नावच्छेद्यावच्छेदक-
त्वं, किन्त्वनन्यथासिद्धादिघटितमिति चेन्न । तदनुविधायित्वस्य सहकार्यान्तरसाधारणतया तत्स-
त्त्वे तृणान्यतमासत्त्वेऽपि वह्न्युत्पादापत्तेः । कारणतावच्छेदकावच्छिन्नव्यक्तिक्षत्सत्त्व एव का-
र्योत्पादनात् ।

८६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्याया
प्रकाशः ।
मैवम् । उक्तग्राहकैर्वह्निनिष्ठकार्यता निरूपितकारणतावच्छेदकरूपवत्त्वं तृणस्य तृणनिष्ठकारणता-
निरूपितकार्यतावच्छेदकरूपवत्त्वं वह्नेर्वा अकार्यकारणव्यावृत्तं परिच्छिद्यते, न तु तृणत्वेन कारणत्वं,
वह्नित्वेन कार्यत्वं वा । तच्चोभयथाऽपि सम्भवति । वह्नित्वेन कार्यत्वमेकशक्तिमत्त्वेन कारणतया
वा, तृणत्वेन कारणता वह्निविशेषत्वेन कार्यतया वा । तत्र च विनिगमकमुक्तमेव । एतेन मण्या-
द्यजन्यवह्नौ तृणादीनां हेतुत्वं गृह्यते इत्यपास्तम् । अन्योन्याश्रयाच्च । मणिजन्यत्वग्रहे हि तद-
जन्यत्वग्रहः, तृणजन्यत्वेन च तद्ग्रह इति । तथापि यत्र कार्ये वैजात्याभावः सामग्रीभेदश्च तत्र
का गतिः ? यया द्रव्यनाशः क्वचित् प्रतियोग्याश्रयनाशात् , क्वचिदसमवायिकारणनाशात् ।
नचाश्रयनाशजन्यद्रव्यध्वंसत्वावच्छिन्नं प्रत्यसमवायिनाशस्य नियतत्वात् कारणत्वग्रहः । उक्त-
प्रकाशिका ।
त्रयासत्त्वे अन्यकारणसत्त्वे च वन्ध्यापत्तेः । कारणतावच्छेदकाश्रययत्किञ्चित्समवधानस्य सत्त्वात् ।
यत्तु व्यभिचारादन्वयाद्यनुविधानमेव नास्तीति दूषणम् । तन्न । अरणिमण्यभाववति स्तोमे अन्व-
यव्यतिरेकानुविधानस्य तृणे सत्त्वादेवमितयोरपि । अन्यथा तृणादिकारणताग्रहाभावे कल्पनाभावे
न शक्तिवैजात्यान्यतरकल्पनस्याप्यभावादिति । मिश्रास्तु वैजात्यमपि तत्रैवावच्छेदकं यत्रानुभव-
सिद्धः, न तु कारणनियमानुरोधेन वैजात्यकल्पनं तद्व्यक्तिं प्रति तद्व्यक्तित्वेन नियमात् । अत
एवोभयजन्यध्वंसे तद्व्यक्तिरेव नियम इति प्रकाशोऽपि सङ्गच्छते । नचैवमपूर्वतृणे वह्न्यर्थिप्रवृत्त्य-
नुपपत्तिः । कारणतावच्छेदकानिश्चयादिति वाच्यम् । कारणताज्ञानस्यैव प्रवर्तकत्वात् न तु विशे-
षतः कारणतावच्छेदकज्ञानस्य । अत एवेदं ते ज्वरहरमित्याप्तवाक्यादनवगतेऽपि कारणतावच्छे-
दके प्रवर्तन्ते कारणताज्ञानञ्च वैजात्यकल्पकत्वेन त्वयापि स्वीकरणीयमेव । तस्माद् यत्र वृश्चिका-
दावीषन्नीलत्वपीत्वादिकं प्रतीयते तत्र तन्नियामकत्वेन गोमयवृश्चिकादीनां कारणत्वेऽपि यत्र
तृणादिजन्याग्निषु न विशेषप्रतीतिः तत्र तद्व्यक्त्योरेव कारणत्वं कार्यत्वं च । नचैवं यागदानादि-
जन्यस्वर्गेष्वपि नावान्तरवैजात्यं स्यादिति वाच्यम् । तत्र बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृ-
त्त्यनुपपत्त्या वैजात्यस्यानुमानसिद्धत्वात् नहि प्रत्यक्षैव प्रमितिः, नच तृणजन्यत्वज्ञानानन्तरं
वैजात्यप्रतीतिः प्रकृतेऽपीति वाच्यम् । तस्यास्तृणजन्यत्वोपाधिविषयकत्वात् । अन्यथा वह्निज-
नकतावच्छेदिका जातिरेकैव तृणादौ किमिति न कल्प्या त्रयाणां पार्थिवतया जातिसङ्कराप्रसङ्गात् ।
न च तथा सति सहकारिनियमानुपपत्तिः, तृणोत्तरभाविवह्नित्वावच्छिन्नं प्रति फूत्कारादीनां जन-
कत्वात् । नच तस्यां जातौ योग्यानुपलब्धिबाधः कार्यव्यङ्ग्यतया तद्ग्रहादित्याहुः । उक्तग्राहकै-
रिति । अन्वयव्यतिरेकाभ्यां नियतेनान्वयेन चेति व्यक्तीरादाय बहुवचनम् । अकार्यकारणव्या-
वृत्तमिति । कार्यकारणभावः सामान्यतः अत एव विशेषनिषेधमाह - न तु तृणत्वेनेत्यादि ।
एतेनेति । व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः । अन्योन्याश्रयाच्चेति । म-
णिजन्यत्वग्रहे मणिजन्यवह्नित्वमपि सकलवह्नित्तित्वेनैव ज्ञातमिति न तृणजन्यतावच्छेदकत्वेन
ज्ञातुं शक्यते तथाच मणिजन्यत्वज्ञानमपेक्षणीयं तच्च तृणाजन्यत्वेन ग्राह्यं तदपि क्वचित्तृणजन्यग्रहे
मकरन्दः ।
उक्तग्राहकैरिति । अन्वयव्यतिरेकाभ्यां नियतेनान्वयेन चेति बहुवचनोपपत्तिः । अधिक-
म्नुमानप्रकाशे प्रपञ्चितम् । एतेनेतीति । व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः ।
अन्योन्याश्रयाच्चेति । वह्नौ मणिजन्यत्वे गृहीत एव मणिजन्यवह्निभिन्नवह्नित्वेन तृणजन्यत्व-
ग्रहः, तृणजन्यत्वे च वह्नौ गृहीत एव तृणजन्यवह्निभिन्नवह्नित्वेन मणिजन्यत्वग्रह इत्यन्योन्याश्र-
याहित्यर्थः । अन्यथा वह्निमात्रस्यैव तदजन्यत्वेनोपस्थितौ वह्नित्वावच्छिन्न इतरव्यभिचारादेव

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८७
प्रकाशः ।
रीत्याऽन्योन्याश्रयात् । उच्यते । निमित्तकारणेतरकारणनाशत्वेन कारणत्वम् । यद्वा, विद्यमानाश्रय-
द्रव्यनाशे असमवायिनाशो हेतुरेवं साऽसमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयनाशः । तथाप्यु-
भयजन्ये द्रव्यनाशे का गतिः ? आश्रयनाशाजन्यद्रव्यनाशं प्रत्यसमवायिनाशस्य हेतुत्वात् तस्य
चाश्रयनाशजन्यत्वात् । अत्राहूः । तन्नेतरसमवधाने तदुभयाभावाभावाभ्यां व्यक्तिविशेषाभावाभावाद्
प्रकाशिका ।
सत्येवानतिप्रसक्तत्वेन ग्राह्यमिति परस्पराश्रय इत्यर्थः । न तु प्रतियोगिप्रसिद्धयर्थं मणिजन्यत्वग्रहो-
वह्नावपेक्षणीय इत्यर्थो रूपादावेव मणिनिष्ठे प्रतियोगिप्रसिद्धेरिति । निमित्तकारणेति । नचैव-
मपीन्धनानाशजन्यवह्निनाशेऽदृष्टनाशजन्यशरीरनाशे च व्यभिचार इति वाच्यम् । इन्धननाशाद्देवा-
न्तरानन्तरं नोत्पद्यते पूर्वानलस्तु स्वावयवक्रियाविभागादिन्यायैनैव नश्यति, एवं शरीरमपीति स्वीका-
रात् । नच निमित्तकारणत्वं समवाय्यसमवाय्यन्यत्वमिति तदन्यकारणनाशत्वेन कारणत्वमायाताम् ।
नचान्यान्यत्वमवच्छेदकमिति वाच्यम् । तस्य कारणतानवच्छेदकत्वेऽपि तत्कोटिप्रवेशे बाधका-
भावात् सामान्ये सामान्यस्याप्रयोजकत्वेऽपि विशेषे विशेषस्य प्रयोजकत्वमविरुद्धमेवेत्याशयेनाह ।
यद्वेति । तथाप्युभयेति । उभयनाशोत्तरभाविनित्यर्थः । आश्रयनाशाजन्येत्याद्युपलक्षणम् ।
अव्यवहितपूर्वविद्यमानामंवायिकारणकद्रव्यनाशेऽपि समवायिकारणनाशस्य हेतुत्वात् प्रकृतना-
शस्य चासमवायिकारणनाशोत्तरकालीनत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । अव्यवहितविद्यमा-
नोभयद्रव्यनाश उभयनाशस्य दण्डचक्रवत्कारणत्वमिति भावः । यथाश्रुतेऽनन्तकारणताकल्पनाप-
त्तेः । यत्त्वसमवायिकारणनाशसहितसमवायिकारणनाशत्वेन हेतुत्वे तात्पर्यमिति । तन्न । विशे-
ष्यविशेषणभावे विनिगमकाभावात् । किञ्च समवायिकारणसमकालीनद्रव्यस्य नाशे ऽसमवायिकार-
णनाश एवासवायिनाशसमकालीनस्य तस्य नाशे समवायिनाशो हेतुरेवं चोभयोत्तरकालीने
फलत उभयनाशो हेतुः । वस्तुतो द्रव्यनाशं प्रत्यसमवायिकारणनाशस्य द्व्यणुकादिनाशस्थले
कारणत्वावधारणात् यत्रापि समवायिकारणनाशानन्तरं द्रव्यनाशस्तत्राप्यसमवायिकारणनाश
एव नाशकः, न चैवं क्षणद्वय आश्रयं विना कार्यस्वीकारापत्तिः । प्रथमक्षणेऽनाश्रितत्ववत् , द्विती-
यक्षणेऽपि तथास्वीकाराविरोधात्, एवं च सति गुणकर्मादिनाशे समवायिकारणनाशस्य कारणत्वे क-
ल्प्यमाने सामान्यत एव समवायिकारणनाशसमानकाली स्य समवेतस्य नाशे समवायिकारणनाशः
कारणत्वेन कल्प्यते अनुगमानुरोधादित्येव बीजमाश्रयनाशस्य द्रव्यनाशहेतुत्वे, तथा चोदाहृतनाशे-
मकरन्दः ।
हेतुत्वप्रहाणुपपत्तेः । तथा च विशेषणोपादानायासोऽपि व्यर्थ इति भावः । निमित्तकारणेति ।
न चेन्धननाशादपि वह्निनाशादनुगमः । तत्रेन्धननाशाद्वह्नयन्तरं नोत्पद्यते । पूर्ववह्नित्ववयववि-
भागन्यायेनैव नश्यतीत्युपगमात् । एवं शरीरनाशोऽपि नादृष्टनाशजन्य इत्यभ्युपगमेनेदम् । ननु
निमित्तकारणत्वं समवाय्यसमवायिभिन्नकारणत्वमिति कारणत्वान्तर्भावे गौरवम् । तदनन्तर्भावे
तद्गन्यान्धत्वमवच्छेदकं पर्यवस्यति । तच्चानभ्युपगतमिति चेन्न । तदन्यान्यनाशत्वस्यात्र तत्प-
र्यवसानात् । तथाच प्रतियोग्यनुगमकतया तत्प्रवेशे तद्धटितस्यावच्छेदकत्वं, न तु तस्यैव । अन-
भ्युपगतञ्च तदिति भावः । केचित्तु, एतदस्वरसादेवाह-यद्वेति ।
तथापीति । न चाश्रयनाशे तदाश्रितद्रव्यतदसमवायिनोर्युगपदेव नाशादिदमसम्भवीति वा-
च्यम् । समवायिनाशसमकालं विभागाद् यत्रीसमवायिनाशस्तत्र तत्सम्भवात् । आश्रयनाशा-
जन्येत्युपलक्षणम् । असमवायिनाशाजन्यद्रव्यनाशं प्रत्याश्रयनाशस्य हेतुत्वात्, तस्य चासम-
वायिनाशजन्यत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । नचाविद्यमानोभयक्रव्यनाशत्वावच्छिन्ने अस-

८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
पपन्नम् । एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दह-
नाऽपेक्षेति न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः ।
एतेन व्यतिरेको व्याख्यातः । तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभाव-
स्याप्यसिद्धेर्गतमनुमानेनेति चेत् ।
बोधनी ।
दहनादीनामुपयोग इत्यपि सम्भवान्न धूमादिमात्राद्दहनानुमानसिद्धिरित्याह—एवं तर्ही-इति ।
एतेन धूमादिविशेषस्य दहनाद्यपेक्षत्वसम्भावनाप्रतिपादनेन दहनादिव्यतिरेकान्न धूमादिमात्रव्य-
तिरेकोऽपि सिद्ध्यतीत्याह—एतेन-इति । एवं चानुमानमात्रोच्छेद एव स्यादित्याहँ—तथाच-
इति । शिंशपाया वृक्षत्वस्वभाव इत्येतद् वृक्षे शिंशपात्वानुपलब्ध्या लिङ्गेन शिंशपात्वव्यति-
रेकोऽनुमानात् सिद्ध्यति, तेन व्यतिरेकासिद्धौ स्वभावस्यासिद्धेरनुमानमात्रोच्छेद एवं इति ।
प्रकाशः ।
व्यक्तिविशेषं प्रति तदुभयव्यक्त्योरनन्यथासिद्धयोः कारणत्वं गृह्यते इत्येषा दिक् ।
ननुः कार्यवैजात्ये तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्रे
इति शङ्कया न कार्यात् कारणं काप्यनुमीयेत । यदि चोपस्थितरूपे व्यभिचाराभावात्तेनैव रूपेण
कार्यत्वग्रहस्तर्हि कारणतायामपि यत्रोपस्थितरूपे व्यभिचारस्तत्रैव रूपान्तरेण कारणताग्रह इति
तुल्यमित्याह । एवं तर्हीति । एवं वह्नेर्धूमविशेष एव प्रयोजकत्वाद् वह्निमात्रव्यतिरेकाद् धूम-
मात्रव्यतिरेको नानुमीयेतेत्याह । एतेनेति । निषेध्यतेयेति शेषः । तथा चेति । विपक्षवा-
धकमानवेदनीयो हि स्वाभावनियमो बौद्धानाम् । बाधकं च कार्यानुपलब्धी, ततस्तद्भङ्गे कथमनु-
पायकः सिद्धयेदित्यनुमानमात्रविलयान्निधैव तदुपगमादित्यर्थः । तदेतद् दूषणं बीजत्वसामान्यं
प्रत्यक्षसिद्धमङ्कुरे न प्रयोजकं, किन्तु तद्विशेषः कुर्वद्रूपत्वमतीन्द्रियमिति वदतो बौद्धस्य,
प्रकाशिका
ऽस्ति द्वयमवच्छेदकं समवायिकारणनाशसमानकालीनसमवेतनाशत्वमसमवायिनाशसमानका-
लीनद्रव्यनाशत्वञ्चेति उभयावच्छेदेनोभयोः कारणत्वमित्यभिसन्धायाह । दिगिति ।
मकरन्द
भवायिनाशसहितसमवायिनाशत्वेन हेतुत्वमस्तु । तथाच कथं व्यक्तिविशेषे व्यक्तिविशेषस्य हेतु-
त्वम् ? अन्यथा अनन्तसामग्रीकल्पनापत्तेरिति वाच्यम् । तत्रैव तात्पर्यात् । नचात्राप्यन्यतर-
स्यावच्छेदकत्वे विनिगमकाभावः । असमवायिनाशात्वादिना तदुभयोरपि हेतुत्वादेव । अत एव
सामग्रीभेदः । अन्यत्रान्यतरस्यैव हेतुत्वात् । नचात्राप्यन्यतरस्यैव हेतुत्वमस्तु, कार्यतावच्छेदकभे-
दाच्च सामग्रीभेद इति वाच्यम् । विनिगमनाविरहेणोभयोरपि तुल्यत्वात् । वस्तुतस्तु समवायि-
कारणानाशाद् द्रव्यगुणकर्मणां नाशदर्शनात् तत्तन्नाशस्याननुगमादनुगतस्य सति सम्भवे त्यागा-
योगादविद्यमानांश्रयकासमवेतकार्यनाशत्वावच्छेदेनास्य हेतुत्वकल्पनाद् द्रव्यनाशेऽपि तथा । तथाच
युगपत् समवाय्यसमवायिनाश्योरुत्पत्तावपि तन्निप्तकार्यमात्रनाश एवाश्रयनाशो हेतुः । तथाच न
सामग्रीभेदः । अत एव समवायिनाशस्थलेऽपि तज्जन्यासमवायिनाशस्यैव द्रव्यनाशकत्वं कॢप्त-
त्वादित्यपास्तम् । गुणादिनाशे तस्यापि कॢप्तत्वात् । किञ्चाविद्यमानाश्रयकद्रव्यनाशे आश्रयनाशो
हेतुरविद्यमानासमवायिकारणकद्रव्यनाशेऽसमवायिनाशो हेतुरस्तु । तथाच कॢप्तसामग्रीत एव
प्रकृतकार्योपपत्तौ न सामग्रीभेदः । अविद्यमानता च द्रव्यनाशपूर्वक्षणे बोध्या । तेन सत्समका-
लाविद्यमानत्वमादाय न व्यभिचार इति विद्वद्भिः परिचिन्तनीयमिति । एतत् सर्वमभिसन्धा-
योक्तं दिगिति ॥

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८६
प्रत्यक्षाद्यनुपलम्भगोचरो जातिभेदो न कार्य्यप्रयोजक इति वदतो बौद्धस्य
शिरस्येष प्रहारः(१) । अस्माकन्तु यत्सामान्याक्रान्तयोर्ययोरन्वयव्यतिरेकवत्ता
तयोस्तथैव हेतुहेतुमद्भावनिश्चयः । तथाचावान्तरविशेषसद्भावेऽपि न नो विरो-
बोधनी ।
परिहरति-न-इति । प्रत्यक्षाद्यनुपलम्भाभ्यां गृहीतान्वयव्यतिरेकं बीजत्वादिव्यजातीयमङ्कुरादिकार्य्यं न
प्रयोजकं कारणं किन्तु तद्विशेषः कुर्व्वद्रूपजातीयत्वमिति वदतो बौद्धस्यैष प्रसङ्गो बाधक इति तस्या-
प्रामाणिकं कारणगतं विशेषमिच्छतोऽप्रामाणिकस्यैव कार्य्यगतस्यापि विशेषस्य सम्भावनया तस्यैव
तत्कारणप्रयोज्यत्वं, नतु तद्विजातीयस्येति शङ्कावशादनुमानोच्छेदप्रसङ्गात् । एतच्च क्षणभङ्गे स्फुटी-
भविष्यति । अस्माकं पुनः परिदृश्यमानजातीययोरेव कार्यकारणभावं नियच्छतां कार्य्यगतवि-
शेषसम्भावनायामपि तज्जातीयमात्रात्तज्जातीयानुमाने न कश्चिद्विरोधः । न च तृणादिजन्योऽग्न्य-
प्रकाशः ।
नास्माकमित्याह । प्रत्यक्षेति । अप्रामाणिकबीजकुर्व्वद्रूपत्ववदप्रामाणिक एव कार्य्यविशेषो यस्य
कारणविशेषापेक्षेति बौद्धस्य दोष इत्यर्थः । अस्माभिस्त्वप्रामाणिको विशेषो नोपेयत इति भावः ।
अस्माकं त्विति । यत्र कारणसामान्यं कार्य्यसामान्ये व्यभिचारि दृश्यते, तत्रैव विशिष्य
कारणताग्रहः । यत्र तु स न दृश्यते तत्रोपस्थितसामान्येनैव कार्यकारणताग्रहः । यदि च तृणा-
दिवह्निविशेषाद् धूमविशेषः स्यादित्युच्यते, तदा नेदमनिष्टमित्यर्थः ।
ननु, कार्यकारणभावग्रहो न तावद्व्यक्त्योरेव । स हि व्यक्तिमात्रमपेक्ष्य ? तद्विशेषं वा ? ।
नाद्यः । घटो यदि यावत्पटजातीयापेक्षणीयापेक्षः स्यात् पटजातीयः स्याद् , घटजातीयो न स्या-
दित्यत एव बाधकात् । विशेषोऽपि पूर्ववर्त्तित्वमात्रं वा ? तत्तद्व्यक्तित्वं वा ? । नाद्यः । यावत्पटा-
दिजनकजन्यत्वे घटादिव्यक्तीनामभेदाद्वैजात्यापत्तेः । रासभादिसाधारण्याच्च । अत एव नान्त्यः ।
व्यक्त्योरेव कार्यकारणभावे पूर्वं तदनिश्चये प्रवृत्त्याद्यनुपपत्तेश्च । नाऽपि जात्यपेक्षया । भक्षित-
विनष्टबीजादिव्यक्तिष्वव्याप्तेः । न चेष्टापत्तिः । तस्य सर्वथा कार्याजननाच्छिलाशकलतुल्य-
त्वात् । मैवम् । बीजादिव्यक्तीनामेव बीजत्वादिन। सामान्येनानन्यथासिद्धान्वयव्यतिरेकवत्त्वेन
कारणत्वात् । क्वचित् कार्य्यव्यतिरेकश्च सहकारिवैकल्यात् । अत एव शिलाशकलवैषम्यम् । न
हि यस्मिन् सति कार्यं भवत्येव तत्कारणम् , अपि तु यस्मिन् सत्येव भवति । एतच्च भक्षित-
विनष्टेऽपि सामान्यतोऽस्त्येव । न च सामान्येनापि रूपेण या व्यक्तिः कार्यं जनयत्येव सा कारणं
प्रकाशिका ।
अस्माभिरिति । वह्निवैजात्यं चोक्तयुक्त्या प्रामाणिकमेवेति भावः । घटो यदीति । व्यक्ति-
मात्रकारणत्वे यावत्पटापेक्षत्वाभ्युपगमे घटस्येति बोध्यम् । एवं पूर्ववर्त्तिव्यक्तिमात्रकारणत्वेऽपि ।
यावत्पटजनकजन्यत्वाभ्युपगम इत्यवधेयम् । रासभादीति । पूर्ववर्त्तित्वमात्रस्य तत्रापि सत्त्वा-
दित्यर्थः । अत एवेति । रासभादिसाधारण्यादेवेत्यर्थः। ननु रासभादिविलक्षणव्यक्तीनामेव कार-
णत्वं तत्त्वेनेत्यरुचेराह । द्रव्यत्वे सतीति । तद्व्यक्तेः कारणताप्रमाणकाभावादिति भावः । य-
स्मिन् सत्येवेति । यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने सत्येवेत्यर्थः । तदुक्तम् । सामान्यत इति ।
मकरन्दः ।
उभयत्र व्यक्तिमात्रापेक्षित्त्वेन यावत्पटापेक्षणीयापेक्षित्त्वं घटस्य बोध्यम् । एवं पूर्ववर्त्तिमात्रा-
पेक्षित्त्वेन यावत्पटादिजनकजन्यत्वं घटादेर्बोध्यम् । अत एवेति । रासभादिसाधारण्यादेवेत्यर्थः ।
यस्मिन् सत्येवेति । यद्धर्मावच्छिन्ने सत्येव सहकारिसमवधानात् कार्यं भवति तदवच्छिन्नं कार-
णमित्यर्थः । तदिदमाह । सामान्यत इति । यागादौ बहुवित्तव्ययायाससाध्ये फलावश्यम्भाव-
( १ ) प्रसङ्ग इति पाठान्तरम् ।
१२ न्या० कु०

६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां
धः । किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम् ? तृणादीनां विशेष एव
नियतत्वादिति चेत् । न । तेजोमात्रोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगो-
ऽसमवायी, तेजोऽवयवाः समवायिनः । इयमेव सामग्री गुरुत्ववद्द्रव्यसहिता
बोधनी ।
वान्तरजातिभेदोऽप्रामाणिको येन तदङ्गीकारे सर्वत्रानाश्वासः स्यादिति किं पुनः-इति । किमा-
क्षेपे । विशेषे स्वे स्वे कार्यविशेषे नियतत्वेनाभ्युपगमादिति । अनुवृत्तं तु न किञ्चित् दृश्यते इति
भावः । न-इति । समवाय्यसमवायिनिमित्तानामनुवृत्तिरस्ति तावत् सामान्यप्रयोजकम् । अनुवृ-
त्तैव च सामग्री तत्तत्सहकारिभेदवशात्पिण्डितादिविशेषोत्पत्तौ निबन्धनमुद्भूतस्पर्शतेजोऽवयवत-
त्संयोगपवनास्तार्णतार्णसामान्यसामग्रीति न कुत्रचिद्विरोध इति ॥ ६ ॥
प्रकाशः ।
न त्वन्येति वाच्यम् । यागादौ बहुवित्तव्ययायाससाध्ये यागत्वसत्त्वेऽपि किमियं व्यक्तिः स्वर्गजनिका,
न वेति संशये प्रवृत्त्यभावापत्तेः । यदि सा पापव्यक्तिर्नरकजनिका, तदा कृतेऽपि प्रायश्चित्ते नरकं
जनयिष्यत्येव अन्यथा तु प्रायश्चित्तं विनाऽपि न नरकमित्यभयथापि प्रायश्चित्ते प्रवृत्त्यनुपपत्ते-
श्चेति । किं पुनरिति । दहनगतं सामान्यं दहनसामान्यं तेजस्त्ववह्नित्वादि । तेन नोत्तर-
विरोधः । तृणादीनामिति । तथा च सामान्यमाकस्मिकं स्यादिति भावः । तेजोमात्रेति । तेजः
पदं कार्यतेजःपरम् । न च सूर्यालोके व्यभिचाराद् न पवनस्तेजोमात्रे निमित्तमिति वाच्यम् ।
निर्वातस्थितस्य दीपस्य वातं विना नाशदर्शनेन तत्र पवननिमित्तकत्वनिश्चयादन्यत्रापि तेजस्त्वेन
पवनजन्यत्वानुमानात् । न च वह्नित्वमुपाधिः । तैजसशरीरस्य पाञ्चभौतिकत्वेन पवनजन्यतया
प्रकाशिका ।
यदि सेति । नचाजनकत्वेऽपि तस्या जनकजातीयनाशार्थं प्रायश्चित्ते प्रवृत्तिरिति वाच्यम् । दुःखा
जनकत्वेन द्वेषाविषयतया तन्नाशार्थमप्रवृत्तेः, निष्प्रयोजनकत्वेन द्वेषमात्रात् कृतेरनुत्पत्तेश्चेत्या
शयात् । निर्वातस्थेति । ननु वाताभावे दीपध्वंस इत्येतावता तस्य कारणत्वं नायाति कार्या-
नुत्पादप्रयोजकव्यतिरेकप्रतियोगिन एव कारणत्वात् । न वा वाताभावो वह्निनाशे कारणं समवा-
यिकारणासमवायिकारणनाशयोरेव द्रव्यनाशकत्वादिति चेन्न । विनाशपदेन सजातीयानुत्पादप्रयु-
क्तसन्तानोच्छेदस्य विवक्षितत्वात् । तथाचाशुविनाशितया पूर्वदीपनाशे वातरूपकारणाभावेनाग्रि-
मानुत्पादे सति सन्तानोच्छेद इत्यत्र तात्पर्यम् । तेजस्त्वेन=जन्यतेजस्त्वेन । न चेति । साधना-
वच्छिन्नसाध्यव्यापको यः स उपाधिरतो न वातध्वंसे साध्याव्यापकत्वम् । नन्वेवमपि वह्नित्त्वाव-
च्छिन्नने पवनस्य कारणत्वमायाति न तु जन्यतेजोमात्रे, पवनोत्कर्षण वह्न्युत्कर्षादपि वह्नित्त्वावच्छि-
न्ने पवनस्य कारणत्वमिति चेत् ? वह्नित्वापेक्षया जन्यतेजस्त्वस्य सामान्यतया तस्यैवावच्छेदकत्वात् ।
नच वह्नित्वं जातिरूपतया लघ्विति वाच्यम् । भास्वररूपसमवायिकारणतावच्छेदकतया जन्यतेज-
मकरन्दः ।
निश्चये सत्येव प्रवृत्तेरिष्टापत्तिरिति यदि ब्रूयात्, तदा दोषान्तरमाह । यदि सेति । नचाजनकव्य-
क्तेरपि तज्जातीयतया द्वेषात्तन्नाशार्थं प्रवृत्तिरिति वाच्यम् । दुःखजनकत्वे द्वेषस्याप्यभावात्,
निष्प्रयोजने द्वेषमात्रात् कृतेरनुत्पत्तेश्चेति भावः । निर्वातस्थितस्येति । ननु नैतावता कारणत्वम्
न हि कारणाभावेन कार्यध्वंसः, किन्त्वनुत्पाद इति चेन्न । नाशपदेन प्रवाहानुत्पादेनात्यन्तो-
च्छेदस्य विवक्षितत्वात् । तथाचाऽऽशुनाशितया पूर्व प्रदीपनाशेऽपि वातं विनाऽग्रिमतदनुत्पादा-
दित्यत्र तात्पर्यम् ॥
तेजस्त्वेन=कार्यतेजस्त्वेन । न चेति । न च पवनध्वंसादिषु साध्याऽव्याप्तिः । साधनावच्छि-

प्रथमस्तबके ] ब्रह्मप्रकृतिकारणतावादपूर्वपक्षः । ४१
पिण्डितस्य । इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य
दिव्यं, पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् ॥ ६ ॥
तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण । दृश्यते
बोधनी ।
अथ वैचित्र्यादिति हेतुमवतारयितुं शङ्कते—तथापि-इति । यद्यपि कार्यस्य नियतजातीय-
कारणनियमस्तथापीति । कथं तर्हि कार्यवैचित्र्यमित्यत आह—दृश्यते हीति । न चात्र
प्रकाशः ।
तत्र साध्याव्यापकत्वात् । आगमोऽप्यत्रास्त्येवेत्येके । पवनोत्कर्षेण वह्न्युत्कर्षदर्शनात् तेजोमात्रे
तस्य निमित्तत्वं न वह्निमात्रे, सामान्यस्य सामान्यं प्रति प्रयोजकत्वे विशेषस्योपाधितायामतिप्रस-
ङ्गादित्यन्ये । पिण्डितस्य=सुवर्णस्य । दिव्यमिति दृष्टान्तार्थम् । तत्राप्रश्नात् ॥ ६ ॥
एतावता कारणमात्रे सिद्धेऽपि सापेक्षत्वादित्यत्र सिद्धसाधनं शङ्कते ।
तथापीति । एकमिति त्रिदण्डिमतसमुत्थानम् , तेषां ब्रह्मण एव सकलकारणत्वात् । एक-
जातीयमिति साङ्ख्यमतम् । तेषां पुरुषाणां भेदात् प्रतिपुरुषं च महत्तत्त्वानां भेदेऽपि प्रकृति-
विकारत्वात् प्रकृतेश्चैकत्वादेकजातीयत्वात् । तथाच कारणस्यैकव्यक्तित्वेनैकजातीयत्वेन वा नेश्वर-
सिद्धिरस्मदादिनापि तद् द्रष्टुं शक्यत्वादिति प्रकृतसङ्गतिः । न चाविचित्राद् कारणाद्विचित्रं कार्य-
प्रकाशिका ।
स्त्वस्यापि जातेः सिद्धेः । अत एव तेजस्त्वपेक्षया द्रव्यत्वमेव सामान्यमिति तदेव पवनजन्य-
तावच्छेदकं किमिति न स्वीक्रियत इत्यनुयोगो निरस्तः । द्रव्यत्वस्य नित्यवृत्तित्वात्, जन्यद्रव्य-
त्वस्य पृथिवीत्वसङ्करेणोपाधित्वात् । ननु पृथिवीजन्यत्वमेवोपाधिः स्यादत आह । आगमो-
ऽपीति । तथाच पक्ष एव साध्यव्यापकत्वमिति भावः । आगमस्तु—
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भ्राजस्तद्रूपगुणमुच्यते ॥ इत्यादिः ।
यदिद्वेषयोरित्यादिन्यायावतारे निर्वातस्थदीपस्येत्यादिकमेव सम्यक् । तदनवतारे त्वेताव-
तापि वह्निमात्रे कारणत्वमायाति न तु जन्यतेजोमात्र इत्यरुचिं विभावयति । अन्य इति ।
तत्राप्रश्नादिति । यद्यपि तत्गतसामान्यमपि प्रश्नविषय एव दिव्यस्यापि दहनत्वात्,
तथापि तार्णादिदहनसामान्यस्यैव प्रस्तुततया प्रश्नविषयत्वमित्याशयेनेदमुक्तम्। एवं च पिण्डितस्य
सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येको ग्रन्थः, तेन पिण्डितस्यापि दृष्टान्तता लभ्यते । अन्यथा
तस्यापि प्रश्नविषयत्वेनासङ्ग्रहापत्तेः । न च औदर्यस्यापि प्रश्नाविषयतया तत्रोत्तरविरोधः,
तार्णपदेन पार्थिवेन्धनजन्यवह्नेरेवोक्तत्वेन तस्यापि प्रश्नाविषयत्वात् । दृष्टान्तपरत्वाद्वा ॥ ६ ॥
प्रकृतेरिति । एकप्रकृतिविकारत्वादेकजातीयत्वं महत्तत्त्वानां पुरुषभेदेन भेदेऽपीत्यर्थः । अस्म-
मकरन्दः ।
न्नसाध्यव्यापकत्वादिति भावः । अत एवाह । तैजसेति । आगमोऽपीति । “ज्योतिरुत्पद्यते
वायो”रित्यादिविष्णुपुराणरूप इत्यर्थः । यदिद्वेषयोरिति न्यायात्तावता वह्निसामान्यमात्रे तद्धेतुत्वं
सिद्ध्यति, न तु तेजोमात्रे । अन्यथा द्रव्यमात्र एव तदापत्तेरित्यनुशयादाह । अन्य इति । दिव्य-
मितीति । यद्यपि दिव्यस्यापि दहनतया तद्गतसामान्यमपि प्रश्नविषयः, तथापि तार्णऽऽदिदह-
नसामान्यस्य प्रश्नविषयत्वादस्यातथात्वमित्याशयः । यद्यप्येवं पिण्डितस्येत्यप्ययुक्तं, तत्राप्य-
प्रश्नात् । तथापि तदपि दृष्टान्तार्थमेव । एवञ्च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्ये-
कग्रन्थो बोध्यः । दिव्यमित्युपलक्षणम्, उदर्यस्यापि दृष्टान्तत्वमित्येके । तार्णपदस्य पार्थिवेन्धन-
दहनपरतया तत्र प्रश्न एवेत्यन्ये ॥ ६ ॥
प्रकृतेश्चेति । तथाचैकप्रकृतिविकारत्वान्महत्तत्त्वादीनामेकजातीयत्वमित्यर्थः । तद् द्रष्टु-

३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या
ह्यविलक्षणमपि विलक्षणाऽनेककार्यकारि । यथा प्रदीप एक एव तिमिरापहारी,
वर्त्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न । वैचित्र्यात् कार्य्यस्य ।
एकस्य न क्रमः क्वापि वैचित्र्यञ्च समस्य न ।
शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥
बोधनी ।
दृश्यते स्वरूपसहकारिवैलक्षण्यमिति भावः । अत्र हेतुमवतारयति—वैचित्र्यात्-इति । कथं
साध्यमेव कारणवैचित्र्यं हेतुरित्यत्राह-कार्य्यस्य—इति ।
व्याचष्टे-एकस्य-इति । न तावदेकमेव कारणम्, एकस्याक्रमत्वेन कार्य्यक्रमानुपपत्तेः ।
अनेन कालकृतवैचित्र्यं कारणवैजात्ये हेतुर्दर्शितः । यद्वा, प्रथमसंग्रहश्लोकानुपन्यस्तमेव कार्य्यक्र-
ममैवाशङ्कितस्य कारणैकत्वस्य निराकरणाद्योक्तासंग्रहोक्तं वैचित्र्यमवतारितमिति । समस्यापि
शक्तिभेदात्कार्य्यवैचित्र्योत्पत्तिमाशङ्कयाह-शक्तिभेदो न च-इति । धर्मिव्यतिरेकान्यतिरेकविक-
ल्पदुःस्थत्वादित्येति भावः । यद्वा, भावादभिन्नः शक्तिभेदो न कारणं भावमात्रकारणत्वेन समान-
योगक्षेमत्वादिति । एकप्रसरेण योजनाभेदे तु कारणवैचित्र्यस्वीकार इति भावः । ननु स्वभाव
एवायं भावस्य यत्समं च विषमं कार्य्यं करोतीति तत्राह-अभिन्नस्वभाव-इति । य एवास्यैक-
स्मिन् जनयितव्ये स्वभावः स एवान्यस्मिन् जनयितव्येऽपि, स्वभावस्य दुर्लङ्घ्यत्वात् । ततश्चा-
भिन्नस्वभावस्य कथं विलक्षणकार्य्यनिर्माणमिति भावः । अभिन्न इत्यस्य पूर्वशेषत्वे त्वयमर्थः
प्रकाशः ।
महच्चरमित्याह । दृश्यते हीति । तिमिरमालोकाभावः । तदपहार आलोकः । तत्कारी
दीपः पिण्डितरूपः । रूपान्तरं घटादिरूपम् । प्रदीपे च. न स्वरूपभेदसहकारिभेदावित्यर्थः ।
तथाच तद्दृष्टान्तेनान्येषामपि विचित्रकार्याणामविचित्रकारणजन्यत्वमनुमेयमिति भावः ॥ न
वैचित्र्यादिति । दृष्टान्तेऽप्यविचित्रकारणजन्यत्वमसिद्धमिति भावः ॥
एकस्येति ॥ एकस्य कारणस्य सम्बन्धी न क्रमः कार्याणाम् । समस्यैकजातीयस्य च कार-
णस्य सम्बन्धि न वैचित्र्यं कार्याणाम् । शक्तिविशेषो न कार्यवैचित्र्यहेतुः, धर्म्यभिन्नो यतः । चो
हेत्वर्थे । विचित्रकार्यजननस्वभावादपि कार्यवैचित्र्यमुपपाद्यम् । एकत्र कार्ये यत्स्वभावो जनकस्त-
दितरकार्यजननेऽपि तत्स्वभावो वाच्यः । अन्यथैकस्य स्वभावभेदादेकत्वादिहानिप्रसङ्ग इत्येकस्व-
प्रकाशिका ।
दादीनापीति । यद्यपि ब्रह्माणास्मदादिना वा शक्याधिष्ठानं तथापि तावन्मात्राभिज्ञसिद्धावपि न
सकलदर्शित्वसिद्धिरित्यत्र तात्पर्यम् । तदित्यव्ययं षष्ठ्यन्तम् । तथाच तस्य द्रष्टुं शक्यत्वादित्यर्थः ।
तिमिरस्य तेजोऽभावतया तदपसारस्तेज एव न च तत्कारित्वं तस्येत्यत आह । पिण्डितरूप
इति । तथा च तेजःकारित्वं तेजसो व्यक्तिभेदादविरुद्धमिति भावः । प्रदीपे चेति । अयं
पूर्वपक्षिणोऽभिमानं इति भावः । अत एवाग्रेऽभिमानखण्डनमेव करिष्यति दृष्टान्तेऽपीत्यादिना ।
एकस्य क्रमः परैरपि नाभ्युपगत इत्यतः पूरयति सम्बन्धी कार्याणामिति चेति । एवमग्रे-
मकरन्दः ।
मिति । तदित्यव्ययं षष्ठ्यन्तम् । तेन, तस्य द्रष्टुं शक्यत्वादित्यर्थः ।
ननु तिमिरं तेजोऽभावः, तदपहारं एव प्रदीपो, न तु तत्कारी, अभेदे जन्यजनकभावा-
नुपपत्तेरित्यत आह । तिमिरमिति । तथा च व्यक्तिभेदमादायाविरोध इति भावः । प्रदीपे
चेत्यापातः अत एव दूषयति । दृष्टान्तेऽपीति । एकस्य कारणस्य क्रमो न पराभ्यु-
पग़तोऽपीत्यनाक्षिप्तसमाधानमिति पूरयित्वा व्याचष्टे । एकस्येति । एवमग्रेऽपि । अक्रमा

न तावदेकस्मादनपेक्षादनेकम् । अक्रमात् क्रमवत्कार्यानुपपत्तेः । क्रमवत्ता-
वत्कार्यकारणस्वभावत्वात्तस्य तत्तथा यौगपद्यवदिति चेत् । अयमपि क्षणभङ्गे
परिहारो न तु सहकारिवादे, पूर्वपूर्वानपेक्षायां क्रमस्यैव व्याहतेः । क्रमनियमे
स्वभावः कार्यान्तरे जनयितव्येऽपि नापैति यावद्द्भावभावित्वात् स्वभावस्येति ।
आद्यं पादं विवृणोति- न तावत्-इति । नैकस्मात् क्रमवत्सहकारिविधुरादनेकं क्रमवत्
कार्यं, भवतीति शेषः । अक्रमात्-इति । क्रमवत्सहकारिवैधुर्य्येणासम्भवायितक्रमादिति । यद्वा,
कार्यस्य भेदस्तावत् कारणभेदात् स्यात् यथा घटपटयोः, तदभावेऽपि कालभेदाद्वा यथा दुग्ध-
दध्नोः । अत्र तु पूर्वः कल्पो न भवति कारणस्यैकत्वाभ्युपगमादित्यभिप्रेत्योत्तर आह-न तावत्-
इति । सहकार्यभावेन कालक्रमायोगादिति । अत्र तु नानेककार्यं भवतीति यथास्थित एव ग्रन्थः
सङ्गच्छत इति । शङ्कते-क्रमवत्-इति । तस्य कारणस्य । तत् कार्यं । 'तथा क्रमवद् । यथा
ह्येकस्य यौगपद्यम् । अनेकेषामेककालता हि यौगपद्यं, तत् कथमेकस्य भवेत् तत्रापि स्वभावत एव
युगपत् कार्याणि कुर्वन् दृष्टान्त इत्यर्थः । एवं वदतां चार्वाकवराकेण सहकारिवाद एवाभ्युपगतः
स्यादिति प्रतिपादयन्नाह-अयमपि-इति । यावत्कार्यकरणसमर्थस्वभावो भावो जातः स ताव-
न्त्यपि कार्याणि तदैव कुर्यात् समर्थस्य क्षेपायोगात् । ततः स क्षणान्तरे अर्थक्रियाभावादसत्त्व-
मेवेति यदा बौद्धः क्षणभङ्गं ब्रूयात् तत्रैष परिहारः सङ्गच्छते । एकस्यैव स्वभावतः क्रमेणानेकका-
र्यकरणमुपपद्यत इति । अपि चेति समुच्चयो बौद्धस्यैव शिरसि सम्प्रहार इत्येतदपेक्ष्येति । सह
कारिसन्निधिक्रमेणैकमेव तत्तत्कार्यं करोतीति सहकारिवादः, न तस्यायं बाघ इति । कथमबाधकं
यावत्ता स्वेतरनिरपेक्षमेकमेव क्रमेण कार्याणि करोतीत्युक्तिः सहकारिवादं बाधेतैवात आह-पूर्व-
भावजन्यत्वेन विजातीयकार्याणामप्यैकजात्यं स्यादित्यर्थः । अक्रमादिति । क्रमप्रयोजकसहकारि-
विधुरादित्यर्थः । क्रमवदिति । सहकारिविरहेऽपि क्रमिककार्यजनशीलत्वादक्रमस्यापि क्रमिकका-
र्यजनकत्वं स्यादित्यर्थः । यौगपद्यवदिति सप्तमीसमर्थाद्वतिः । यथा कार्ययौगपद्ये अयुग-
पत्स्वभावोऽपि दीपः कारणमेवमक्रमोऽपि क्रमिककार्येपु कारणं स्यादित्यर्थः । तत्-कार्यम् ।
तथा-क्रमवदित्यर्थः । अयमपीति । समर्थस्य विलम्बानुपपत्तेरनेकानि क्रमिकाणि कार्याण्युत्प-
त्त्यनन्तरमेव कुर्यादित्यत्र समर्थोऽपि न तथा, क्रमवत्तावत्कार्यकरणस्वभावस्योत्पादादिति न
विरुद्धधर्माध्यास इति क्षणभङ्गपक्षे परिहारः सम्भवी । स्थैर्यपक्षे तु क्रमिकसहकार्यापेक्षां विना
तादृशः स्वभाव एव न स्यादित्यर्थः ।
पूर्वपूर्वकर्मिककार्यानपेक्ष उत्तरकार्योत्पादः ? तत्सापेक्षो वा ? । आद्ये, पूर्वेति । विलम्बे
ऽपि नित्यस्य कालादेः क्रमिककार्यजनकत्वमस्त्येवेत्यत आह । क्रमप्रयोजकेति । ननु प्रथमांस-
मर्थत्वे वैम्यम् न हि यौगपद्यं कारणस्वभावजन्यं किन्तु युगपत्कालीननि कार्याणीत्यत आह ।
सप्तमीसमर्थादिति । ननु स्वभाववादेन परिहारः स्थैर्यपक्षेऽपि संभवत्येव तत्कुतो न सहका-
रिवाद इत्युक्तमत आह । समर्थस्येत्यादि स्वभाव एव न स्यादित्यन्तम् । तथा च
परैः सहकारिविलम्बेन विलम्बाभ्युपगमात्, स्वभावस्य कुर्वद्रूपात्मकस्य नियामकत्वं वक्तुं शक्यते
स्थिरवादिनान्तु तादृशस्वभावस्य सहकारिणं विनानुपपत्तिः । तत्स्वीकारे तु विजातीयं कारणं
सिद्धमेवेत्यर्थः । ननु कारणभेदे कार्यभेदः सत्यदहनत्वे दहनत्वे चोपपद्यत इति कुतो नियतं-
दपि नित्यात् कालादेः क्रमेण कार्याणीत्यत आह । क्रमप्रयोजकेति ।

६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां
त्वनपेक्षाऽनुपपत्तेः ।
नाप्यनेकमविचित्रम् । यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्या-
पि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् । न चैवम् ।
बोधनी ।
इति । पूर्वपूर्वमुत्पाद्योत्तरोत्पादनं हि क्रमः, अन्यथा यौगपद्यप्रसङ्गात् । तत्र स्वेतरनिरपेक्षस्य
कार्योत्पादने पूर्वोत्पादनमपेक्ष्योत्तरोत्पादनमित्येवमात्मकः क्रमो बाध्यते । क्रमाङ्गीकारे च पूर्वपूर्व-
मुत्पादनमुत्पाद्यमानं वापेश्क्षमाणस्य कार्यकारकत्वमिति स्यात् । तत्र स्वेतरापेक्षालक्षणसहकारिवादः
सिद्धः स्यादिति ।
द्वितीयपादं व्याचष्टे—नाप्यनेकमिति । नानेकमप्यविचित्रमेकजातीयं कारणं विचि-
त्रस्य कार्यस्येति । कुतो नैवमित्याशङ्क्य किं तत् कारणं दहनैकजननस्वभावम्, अदहनैकजनन-
स्वभावम् उभयजननस्वभावं वेति विकल्पं हृदि निघाय प्रथमे दोषमाह—यदि हि—इति ।
असावदहनाभिमतो नादहनः स्यात् किन्तु दहनसामग्रीजन्यत्वेन दहन एव स्यादिति भावः ।
द्वितीयेऽप्याह—दहनो वा—इति । अदहनसामग्रीजन्यत्वादिति । तृतीयेऽप्याह—उभयात्मक-
इति । उभयमप्युभयात्मकं भवेदिति । विपर्ययस्तु दृश्यत इति । शक्तिभेदो नचेत्येतदवतारयितुं
प्रकाशः।
हेत्वभावादित्यर्थः । अन्त्ये, क्रमेति । तस्यैव द्वितीयस्य कारणस्यापेक्षणादित्यर्थः । एकजातीयं
कारणं दहनजनकैकस्वभावं वा ? अदहनजनकैकस्वभावं वा ? उभयजनकस्वभावं वा ? । आद्ये
दोषमाह । नासाविति । कारणाभावादित्यर्थः । भवन् वा दहनात्मकॊ भवेदित्याह । दहनो वेति ।
इतरदहनवत्तद्धेतुस्वभावप्रसूतत्वादित्यर्थः । दहनजनकैकस्वभावस्य अदहनजनकत्वे व्याघातोऽ-
पीति भावः । द्वितीये तु यथाव्याख्यातवैपरीत्यं फक्किकार्थः,- नाऽसौ दहनोऽदहनो वा स्यादिति,
कृत्वा । तृतीये, उभयात्मक इति ॥ अत्र च पटो यदि यावद्दहनजनकजन्यः स्यात् पटो न
स्याद् , दहनो वा स्यादित्यदहनदहनत्वयोरापादनम् । अदहनो वा यदि तथा स्याद् दहनः
प्रकाशिका ।
दहनत्वमेवापादनीयमतो विकल्पयति । एकजातीयमित्यादि । अदहनत्वाभावदहनत्वयोः
पौनरुक्त्यमतोऽन्यर्थार्थप्रतिपत्तये हेतुं पूरयति । कारणाभावादिति । तथा चादहनेऽनुत्पत्ति-
दहनत्व आपात, इत्यर्थः । एवमग्रेऽपि । यथाश्रुते वैयधिकरण्यं तृतीये चोभयात्मकत्वमापायम-
प्रसिद्धमित्यन्यथा तर्कमाह । अत्र च पटो यदीति । इत्यदहनदहनत्वयोरिति । यद्यप्य-
'दहनत्वं प्रथमतर्केण नापाद्यं किन्तु तदभावो दहनजकस्वभावत्वे तर्कानुपदर्शनं च,तथाप्यत्रेतिशब्दः
प्रकारवची तथा च दहनो यद्यदहनजनकस्वभावजन्यः स्याद्दहनो न स्यात् अदहनो वा स्यादिति
द्वितीयस्तर्कः। स च द्वितीयकल्पे यथाव्याख्यातवैपरीत्यमित्यादिग्रन्थेन दर्शितप्रयोग इति तत्फलमेव
दर्शितं अदहनदहनत्वयोर्यथायोग्यं प्रथमद्वितीयात्त्वयः । तृतीयतर्कमाह अदहनोऽयमिति ।
मकरन्दः ।
यथाश्रुते वैयधिकरण्यादाह । अत्र चेति ।
श्रीगणेशाय नमः ।
यदि हि अन्यूनमनतिरिक्तं चेति । अन्यूनानतिरिक्तं दहनकारणमेव तदेकजातीयं कारणं
यदि स्यादसौ प्रसिद्धोऽदहनो न स्यात् नोत्पद्येत दहन एव वा स्यादित्येका योजना । अन्यूना
नतिरिक्तमित्यत्र विभक्तिविपरिणामेन अदहनस्यापि हेतुर्यद्यन्यूनानतिरिक्तस्तदेकजातीयकारणं
स्यादसौ दहनो न भवेत् अदहन एव वा स्यादिति द्वितीया । तदेकजातीयं कारणमन्यूनानतिरिक्तं
दहनकारणमदहनस्यापि हेतुः स्यादसावुभयात्मको भवेदिति तृतीया ॥

प्रथमस्तबके ] प्रकृतिकारणतायादखण्डनम् । ६५
शक्तिभेदादयमदोष इति चेन्न । धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः । असङ्कीर्णो-
भयजननस्वभावत्वादयमदोष इति चेत् । न । न हि स्वाधीनमस्यादहनत्वम् ,
अपि तु तज्जनकस्वभावाधीनम् । तथाच तदायत्तत्वादहनस्यापि तत्त्वं केन
वारणीयम् । न हि तस्मिञ्जनयितव्ये नासौ तत्स्वभावः । तस्माद्विचित्रत्वात्
बोधनी ।
शङ्कामाह-शक्तिभेदात्-इति । नानात्वादेकस्यैव कार्यवैचित्र्योपपत्तेर्न पूर्वोक्तदोष इति । न-
इति । सा हि शक्तिर्धर्मिणो स्याद् भिन्ना वा ऽभिन्ना वा भिन्नाभिन्ना वा, प्रथमे शक्तिरेव कारणं
स्यात् तदन्वयव्यतिरेकानुविधानात् कार्यस्य । न द्वितीयः, शक्तेरेवापलापात् । न तृतीयः, प्रमाणा
भावात् तद्व्याघाताच्च । तेन भेदाभेदाभ्यामिति ग्रन्थश्च प्रत्येकसमुदायपरो योजनीयः । यद्वा,
दहनादहनजननशक्तिमतः कारणाज्जातस्य कार्यस्य दहनादहनात्मकत्वप्रसङ्गेन विरुद्धधर्मसंस-
र्गाद् भेदः स्यात् एकसामग्रीजन्यत्वेनाभेदश्च स्यादिति शक्तिभेदानुपपत्तिरिति । श्लोकशेषं
विवरीतुं शङ्कते — असङ्कीर्ण-इति । नायं दहनादहनायात्मकत्वप्रसङ्कदोषोऽस्तीत्यर्थः । न-
इति । यदि हि स्वाधीनमस्यादहनस्यादहनत्वं तदा दहनस्यादहनप्रसङ्गो वक्तुं न शक्येतापि,
न चैवं, किन्तु कारणगतादहनजननस्वभावायत्तम् , तथा च दहनस्यापि तदेकसामग्रीकस्य
तत्त्वमदहनत्वं दुर्वारमिति । एतदेव श्लोकशेषेणोपपादयति नहि-इति । तस्मिन् दहने जनयि-
तव्येऽनासौ भावो दहजननस्वभावो न भवति, स्वभावभेदाम्युपगमे तु कारणवैजात्यं स्यादिति
भावः । उपसंहरति-तस्मात्-इति । वस्तु कार्यवैचित्र्यात् कारणवैचित्र्यमभ्युपगम्यैव क्षणभ
ङ्गित्वाद् भावानां स्वरूपत एव वैचित्र्यं न त्वेकस्यैवानुयायिनः सहकारिनिबन्धनं वैचित्र्यमिति
प्रकाशः ।
स्यादित्युभयापादनमिति नाप्रसिद्धिः । ननु, दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वान्नो-
क्तदोष इति शङ्कते । शक्तिभेदादिति । स धर्मभेदो न धर्मिभिन्नः तथा सति धर्मिणोऽभिन्न-
त्वात्तदभिन्नस्य शक्तिरूपधर्मस्य भेदानुपपत्तेः । नापि धर्मिभिन्नः, तस्यैव कारणान्तरत्वे प्रतिज्ञा-
तैकजातीयकारणत्वव्याघातापत्तेः । नापि धर्मिणो भिन्नाभिन्नो, विरोधादिति परिहरति । धर्मिभे
दाभेदाभ्यामिति । परस्परविलक्षणानेकजनकस्वभावस्य कारणत्वमिति नोभयात्मकत्वमेकस्येत्याह ।
असङ्कीर्णेति । जनितादहनस्य दहनेऽपि जनयितव्ये अदहनजनकस्वभावत्वमनुवर्त्तते न वा ?
आद्ये, न हीति । अस्य अदहनत्वेनाभिमतस्य । अन्त्ये पुनरेकजातीयकारणव्याघातः । तस्यैवादह-
नजनकस्वभावत्वमतिक्रम्य स्वभावान्तरेण दहनजनकत्वादिति भावः । तथाचेति । दहनो यद्यहन
जनकस्वभावजन्यः स्याददहनः स्यादिति । एवं विपरीतमप्यापाद्यमित्यर्थः । विचित्रकार्याणां
विचित्रकारणजन्यत्वे प्रत्यक्षानुमाने प्रमाणमुपसंहरन्नेवाह । तस्मादिति । ननु स्वरूपमेव विचित्र-
प्रकाशिका ।
उभयापादनमिति । यद्यपि दहनत्वमेवापाद्यं तथापि पक्षतावच्छेदक महिम्ना तदुभयापादन-
मित्यभिप्रेत्येदमुक्तम् । यद्यपि घटपक्षकदहनत्वापादककतर्कादविशेषोऽस्य, तथापि तत्र घटत्वम-
त्रादहनत्वं पक्षतावच्छेदकमिति भेदः । वस्तुतोऽत्र तथाशब्देनोभयजनक स्वभावजन्यत्वस्यापाद-
कत्वे, न लाभः तत्र दहनजनकैकस्वभावजन्यत्वमापादकमिति भावः । नाप्रसिद्धिरित्युपलक्षणं न
वैयधिकरण्यमित्यपि द्रष्टव्यम् । ननु शक्तिभेदेऽपि शक्तस्य भेदादेककारणकत्वं भज्येतेत्यत आह ।
नन्विति । तथाचैवमपि धर्मानभिन्न इत्यर्थः । उभयशब्दस्य द्वितयार्थकत्वेन सर्वसङ्ग-
तिरित्यन्यथा व्याचष्टे । परस्परेति । तत्त्वं दहनत्वमिति भ्रमं निवारयन्नेव वैयधिकरण्यादन्यथा-
तर्कमाह । दहनो यद्यदहनेति ॥ ७ ॥
मकरन्दः ।
नाप्रसिद्धिरित्युपलक्षणं, नापि वैयधिकरण्यमित्यपि द्रष्टव्यम् ॥ ७ ॥

६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां
कार्यस्य कारणेनापि विचित्रेण भवितव्यम् । न च तत् स्वभावतस्तथा । ततः
सहकारिवैचित्र्यानुप्रवेशः । न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति ॥ ७ ॥
अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेति चेन्न । विश्ववृत्तिः ।
विफला विश्ववृत्तिर्न न दुःखैकफलाऽपि वा ।
दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥
यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोका-
बोधनी ।
बौद्धो मन्यते तं प्रत्याह-न च-इति । न च तत्=कारणम् । स्वभावतः=स्वरूपतः । तथा=वि-
चित्रं, तत्त्वेन प्रत्यभिज्ञायमानत्वादिति । यद्वा, प्रदीपवत् स्वभावत एव विचित्रमस्तु कारणं किं
सहकारिवैचित्र्येणेत्युक्तमिति चेत्, तत्राह-न च-इति । प्रदीपे तिमिरापहारादिकार्यभेदस्य
तैलवर्त्यादिसहकारिभेदनिबन्धनत्वादित्यर्थः । क्षणभङ्गवादेऽपि सहकारिवैचित्र्यमादरणीयमित्याह-
न च क्षणोऽपि-इति । न चान्त्यक्षणोऽपि सहकार्यानपेक्षस्तथा विचित्रकार्यसन्ततिहेतुर्भवति ।
सोऽपि हि यदृच्छया सिद्धसहकारिमध्यमध्यासीन एव विचित्रकार्ये हेतुः, अन्यथा कुसूलनिहितः
बीजः कृषीवलः कृतार्थः स्यादिति ॥ ७ ॥
अथ विश्ववृत्ति इत्येतदवतारयितुं शङ्कते-अस्तु-इति । ततोनेश्वरसिद्धिरिति अवतार-
यति-न, विश्ववृत्तिः-इति । अस्यानन्यथासिद्धिं दर्शयन् विवक्षितसाध्यकत्वमुपपादयति-
विफला-इति । यागादौ तावद्विश्वस्य जगतः प्रवृत्तिर्दृश्यते, नेयं विफला, नापि दुःखैकफला,
विश्ववृत्तित्वादेव । नापि दृष्टपूजादिफला स्वरूपतो हेतुत्वात् । परैर्विप्रलब्धत्वात् परविप्रलिप्सया
वा प्रवृत्तिरित्यपि न युक्तम् । ईदृशविप्रलम्भासम्भवात् तस्मात् यागादौ विश्ववृत्तिरनन्यथासिद्धा
तस्यापि तावत् कारणत्वं कल्पयति । न तु दृष्टमेव सहकारिचक्रं कारणमित्यर्थः । तदेतद् व्या-
प्रकाशः ।
मस्तु कृतं सहकारिवैचित्र्येणेत्यत आह । न चेति । ननु सहकारिवैचित्र्यानुप्रवेशं विनैव यथोत्पन्न-
क्षणस्वरूपमुपादाय कार्यवैचित्र्यमुपपत्स्यत इत्यत आह । न त्विति । तदनपेक्षः=सहकार्यान-
पेक्षः । तथा=विचित्रकार्यार्जकः । बौद्धमते सहोत्पन्नविचित्रसहकारिसहितस्यैव विचित्रकार्यजनक-
त्वादित्यर्थः । तदेवं विलक्षणसामग्री विचित्रकार्यजनिकेति प्रसाधितम् ॥ ७ ॥
सम्प्रति दृष्टकारणमेलकात्मिकैव सा तथा, तदधिष्ठानं चास्मदादिभिरेव शक्यमिति पुनरपि
सिद्धसाधनमित्याक्षिपति -
अस्त्विति । विश्ववृत्तिः=विश्वेषां=लोकानां वृत्तेः=प्रवृत्तेरदृष्टं सिद्ध्यतीत्यर्थः ।
तदेव प्रपञ्चयति । विफलेति । भूतचैतन्ये भूतानामेव परिणतिभेदाद्वासनात् एवोत्तरकार्यमिति
न परलोकसिद्धिरित्यत्र दोषमाह-यदि हीति ।
प्रकाशिका
भूतचैतन्ये हीति । परिणतिभेद एव वासनेत्यभेदेनान्वयो विकल्पेन वा परिणतिभेदाद्वासा-
नयोरन्वयः । भूतचैतन्यपक्ष आत्मनोऽनङ्गीकारात् भूतस्य शरीरादेर्भस्मीभावाच्च परलोकसिद्धिरिति
मकरन्दः ।
भूतचैतन्य इति । भूतस्य शरीरादेर्भस्मीभावादात्मनश्चानङ्गीकारात् कस्य परलोक
इति न तत्सिद्धिरित्यर्थः ॥
क्षणोऽपीति । क्षणिकपदार्थोऽपीत्यर्थः ।

र्थी कश्चिदिष्टपूर्तयोः प्रवर्त्तेत, न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि
प्रेक्षापूर्वकारी घटते, प्रागेव जगत् । लाभपूजाख्यात्यर्थमिति चेद् ? लाभादय
एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः, यतो वाऽनेन लब्धव्यं,
यो वैनं पूजयिष्यति । स किमर्थम् ? ख्यात्यर्थमनुरागार्थञ्च, जनो दातरि मान-
बोधनी ।
ख्यास्यन्ननन्यथासिद्धिं तावत् प्रतिजानाति-यदि हि- इति । भूतानां परिणतिः कार्य, तत्पर-
म्परा, उर्वं बीजमङ्कुरं जनयति, तत् सस्यं, तद्ब्रीह्यादिकमिति पूर्वं पूर्वं दृष्टमेवोत्तरोत्तरं प्रति का-
रणमिति यद्युच्येतेति । यद्वां भूतानां सहकारिणां परिणतिः साकल्यम् । इष्टं=यागादि श्रौतं
कर्म । पूर्तं = खातादि स्मार्त्तम् इति । अत्र हेतुत्वेन संग्रहं व्याचष्टे-न हि - इति । शङ्कते-
लाभ इति । दुःखात्मकयोरपि श्रौतस्मार्त्तयोर्लाभादिदृष्टसिद्धयर्थमर्थं प्रवर्त्तत इति दूषयति-ला-
भादय-इति । तेऽप्यदृष्टनिबन्धना इत्यर्थः । कुत इत्यत आह-न हि-इति । न हीयं यागा-
दौ प्रवृत्तिः स्वरूपेणैव लाभादिहेतुः, तेषां प्रवृत्त्यानन्तर्यनियमाभावात्; तेनादृष्टद्वारेणैव हेतुत्व
मिति भावः । यतो वा-इति । स किमर्थं लम्भयति पूजयति वेति शेषः । तत्र प्रवृत्तिरपि नादृ-
ष्टमन्तरेणोपपद्यत इति भावः । शङ्कते- ख्यात्यर्थम् इति । नतु पारलौकिकं किञ्चिल्लिप्समानः पूज-
प्रकाशः ।
इष्टं यागादि । पूर्तं तडागादि । न हीति । बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानजन्यत्वात्
प्रवृत्तेरिति भावः । प्रागेवेति निपातसमुदायोऽतिशयार्थः । लाभेति । तथाच दृष्टेष्टसाधन-
ताज्ञानादेव तत्र प्रवृत्तिर्न पारलौकिकेष्टसाधनताज्ञानादिति भावः । न हीति । चिरातीतायामेव
यागादिक्रियायां लाभाद्युत्पादादिति भावः । यद्वा, स्वरूपतो लाभादिहेतुत्वे, नास्तिकैरपि तत्कर-
णप्रसङ्गादिति भावः । यतो चेति । लाभाद्युद्दिश्य यागादौ प्रवर्त्तमानाय परेण धनदानमदृष्टार्थ-
मेवेति तत्सिद्धिरित्यर्थः । ख्यात्यर्थमिति । दृष्टार्थमेव तद्दानमिति नादृष्टमुद्देश्यमिति भावः ।
टिप्पणी ।
[ पृ० ८७-१ ] यद्वा विद्यमानाश्रयेत्यादि । स्वाश्रयाधिकरणक्षणोत्पन्नद्रव्यनाश इत्यर्थः ।
[पृ० ८७-२] सासमवायिकारणक इति । असमवायिकारणसहितस्य द्रव्यस्य नाशे । अर्था-
दसमवायिकारणनाशोत्पत्तिकक्षणोत्पन्नद्रव्यनाश इत्यर्थः । [पृ० ८७-३] उभयजन्ये द्रव्यनाश
इति । पूर्वोत्पन्नविभागादाश्रयनाशक्षण एव यत्रासमवायिनाशस्तत्रोभयजन्यत्वं प्रसिद्धयति ।
[पृ० ८८-१२] व्यक्तिविशेषमप्रतीति । अन्यवहिविद्यमानोभयनाशकद्रव्यनाश उभयना-
शस्य दण्डचक्रादिवत्कारणत्वम्बोध्यम् । यथाश्रुते कार्य्यकारणभावानन्त्यापत्तेः ॥ ६ ॥
[पृ० ९१-१४] एकजातीयत्वात् इति । महत्तत्वादीनां पुरुषभेदेन भेदेप्येकप्रकृतिविकार-
त्वादेकजातीयत्वमिति पर्य्यवसितार्थः । [पृ०९१-१५]द्रष्टुं शक्यत्वादिति । ज्ञातुं शक्यत्वा-
दित्यर्थः । तेन दशधातोश्चाक्षुषप्रत्यक्षार्थक तया तदभावेऽपि न क्षतिः । अल्पविषयतयाऽनुमानाव-
तारसम्भवात् । यद्यप्युपादानगोचरप्रत्यक्षस्यैव कार्य्यजनक तया ब्रह्म नास्मदादिना द्रष्टुं शक्यम् ।
तथापि तन्मात्राभिज्ञसिद्धावपि न सकलदर्शीश्वरसिद्धिः । यद्वा द्रष्टुं शक्यत्वादित्यनेनादृष्टव्यव-
च्छेदः । तथाच नादृष्टाधिष्ठातृत्वेनेश्वरसिद्धिरित्यत्र तात्पर्य्यम् । स्वरूपभेदसहकारिभेदाद्वित्यर्थे
इति पूर्वपक्षिणोऽभिमानमिति शेषः । अग्रे दृष्टान्तेऽपीत्यादिना तदूखण्डनमेव करिष्यति । [पृ०
९२-२१] दृष्टान्तेऽप्यविचित्रकारणेति । कारणपदं सामग्रीपरम् , तस्यैव वैचित्र्यनियामकत्वं
"तदेवमित्यादि प्रसाधितम्" इत्यन्तेनोपसंहरिष्यति । तथा च दृष्टान्तस्थलेऽपि यस्या वैचित्र्यप्र-
योजकत्वं सा विचित्रेवेति भावः । [पृ० ९२-२२] सम्बन्धी न क्रम इत्यादि एकस्य क्रमः, एवं
समस्य वैचित्र्यम् परैरपि नाभ्युपगतमित्यतः पूरयति सम्बन्धी कार्याणामिति ॥ ७ ॥
१३ न्या० कु०

६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां
यितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् । न । नीतिनर्मसचिवेष्वेव
तदर्थं दानादिव्यवस्थापनात् । त्रैविद्यतपस्विनो धूर्त्तबका एवेति चेन्न । तेषां
दृष्टसम्पदं प्रत्यनुपयोगात् । सुखार्थं तथा करोतीति चेन्न । नास्तिकैरपि
तथाकरणप्रसङ्गात् , सम्भोगवत् । लोकव्यवहारसिद्धत्वादफलमपि क्रियते,
वेदव्यवहारसिद्धत्वात् संध्योपासनवदिति चेद्, गुरुमतमेतन्न तु गुरोर्म-
बोधनी ।
यति ददाति वेति । अनुरागो वा किमर्थ इत्यत्रोक्तं-जनानुराग इति । परिहरति-न-इति । ख्या-
त्यनुरागार्थयोर्दानपूजयोर्यथाक्रमं नर्मनीतिसचिवयोर्व्यवस्थितत्वादत्र च तदमिसन्धिविरहान्न ताद-
र्ध्यमिति । पुनः शङ्कते-त्रैविद्य-इति । वैदिका यागादिकर्त्तारो विप्रलम्भका दृष्टार्थमेव भावयन्तो-
ऽदृष्टार्थमिवाचरन्ति, तेऽपि तेन नर्मसचिवप्राया इत्यर्थः । परिहरति न-इति । नीतिनर्मस-
चिवा हि दृष्टोपयोगिनः, नैवं त्रैविद्याः, अतस्तेषु पूजादि न दृष्टार्थमिति । ननु तेषां पूजादिकमनु-
तिष्ठतः किञ्चिद् दृष्टमेव सुखं जायते, ततस्तदर्थमेव पूजानुष्ठानमित्याह सुखार्थम्-इति । न-
इति । न हि तात्त्विकं किञ्चिद् दानादिजन्यं सुखमस्ति, पारलौकिकसुखाध्यवसायादेव हि तदनु-
ष्ठायिनस्तदा प्रीतिरिति भावः। शङ्कते-लोक-इति । अनादिना लौकिकाचारेण कर्तव्यतया सिद्ध-
त्वादफलमपि दानादि क्रियते, वैदिकविधानेन सिद्धसन्ध्योपासनवत् । तद्विधायकवाक्येषु फला-
श्रवणाज् जीवनादिकर्माधिकारालाभाच्च विधित एव अनुष्ठानसिद्धौ फलकल्पनायां प्रमाणाभावादफ-
लमेव सन्ध्योपासनादिकमिति भावः । गुरुमतमेतत्-इति । निष्फलं कर्मेति प्राभाकरगुरोरयं
प्रकाशः।
नीतिनर्मेति । राजादिभिः प्रयोजनमुद्दिश्यैव दानाद्नस्ततपस्विभ्यः प्रयोजनाननुसन्धानेन दा-
नामावादित्यर्थः। त्रैविद्येति । त्रिवेदीविदोऽपि तपस्विनः परप्रतारणार्थं तपसि प्रवर्त्तन्त इत्यर्थः।
तेषामिति । दृष्टप्रयोजनमुद्दिश्यैव परप्रतारणात् तेषाञ्च दृष्टे निस्पृहत्वात् तदसम्भवः । प्रच्छ-
न्नमपि परोपनीतधननिःस्पृहैस्तपःकरणादित्यर्थः । वेदेति । सन्ध्योपासनमकरणे निन्दोपदेशात्
प्रायश्चित्तोपदेशाच्च नित्यम् , नित्ये च यदि फलाऽर्थिनः प्रवृत्तिः स्यात् तदा यागवन्नित्यताभङ्ग-
प्रसङ्ग इत्यफलैव तत्र प्रवृत्तिः । कार्यताज्ञानं हि तत्र प्रवर्त्तकम् , तच्च लोके पाकादाविष्टसाधनता-
ज्ञानात् कार्यताऽनुमित्या निर्वहति । वैदिके च नित्ये कार्यताज्ञानं वेदाधीनमिति किमिष्टसाधनता-
ज्ञानेन । न च नित्यापूर्वमेव फलं, तथापि नित्यताभङ्गात् । काम्यस्थले धर्मिग्राहकमानात् काम्य-
साधनत्वेनैव सिद्धेर्गौणप्रयोजनतया स्वतःप्रयोजनत्वाभावाच्च लोके प्रवृत्ताविष्टज्ञानान्वयव्यतिरे-
प्रकाशिका ।
भावः । चिरेति । तथा च तद्धेतुत्वमप्यदृष्टद्वारैवेत्यर्थः । दानाभावादिति=दानाभावापत्ते-
रित्यर्थः। दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । सन्ध्योपासनस्य निष्फलत्वे
मानमाह । सन्ध्योपासनमिति । निष्फलत्वेऽपि प्रवृत्तिमपपादयति । कार्यताज्ञानं हीति ।
मकरन्दः ।
चिरेति । तथाच तद्धेतुत्वमप्यदृष्टद्वारैव स्यादिति भावः । दानाभावादिति । दानाभा-
वापत्तेरित्यर्थः । दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । निष्फलत्वेऽपि
तत्र प्रवृत्तिमपपादयति । सन्ध्योपासनमिति । काम्यस्थल इति । अपूर्वस्येति शेषः ।
टिप्पणी ।
नच नित्यापूर्वमेव फलमिति । एवकारेण स्वतः प्रयोजनत्वलाभः । अपूर्वसम्पादनीयस्य
प्रयोजनस्याश्रुतत्वात् । स्वतः प्रयोजनत्वाभावाच्चेति । उभयसम्प्रतिपन्नस्य काम्यस्थली-

तम्, ततो नेदमनवसर एव वक्तुमुचितम् । वृद्धैर्विप्रलब्धत्वाद् वालानामिति-
चेन्न । वृद्धानामपि प्रवृत्तेः । न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते ।
तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् । न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रता-
रणशङ्का स्यात् । इदं प्रथम एव कश्चिदनुष्ठायापि धूर्त्तः पराननुष्ठापयतीति
बोधनी ।
राद्धान्तः, नास्मद्गुरोः, तस्य निष्फलोपदेशासंभवात् । तत्राप्युपात्तदुरितक्षयादिफलमस्तीति
राद्धान्तः । यद्वा, गुरु श्लाघ्यं तन्मतमित्युपालम्भगर्भः, न तु गुरोर्हितोपदेशिनः कस्यचिन्मतं-त
स्मादप्रस्तुतमिदानीं न वक्तव्यमिति । तस्माद् यागादिकर्तृपूजादेर्दृष्टहेतुभावादवश्यं धार्मिक इति
बुद्ध्या तदाचार इत्यभ्युपगन्तव्यम् । तेन यागादेस्तदनुष्ठातृपूजादेश्चामुष्मिकं फलं सिद्धमिति रह-
स्यम् । तुरीयपादमवतारयितुं शङ्कामाह—वृद्धैः-इति । बालानां प्रवृत्तिरिति शेषः । न-
इति । विप्रलम्भका यत्र परं प्रवर्त्तयन्ति न तत्र स्वयमपि प्रवर्त्तन्त इति । स्वैरेव विप्रलब्धाः
प्रवर्त्तन्त इति मन्दाशङ्कां निराकरोति-न-च इति । आत्मवञ्चनमशक्यमप्रयोजनं चेति भावः ।
तर्हि सर्वेऽपि पूर्वैर्विप्रलब्धाः प्रवर्त्तन्त इत्याह-तेऽपि-इति । सर्वेषामेव भावाभ्युपगमेनेयं विप्र-
लम्भकमूला प्रवृत्तिः । अन्यथा संविदानोऽन्यथोपदिष्य प्रवर्त्तको विप्रलम्भकः, न चात्र तादृशः
कश्चित् ; अतः प्रमाणमूलत्वमेवोपपन्नमिति भावः । पुनः शङ्कते—इदं प्रथमः-इति । विप्रलि-
प्सातिशयेन हि स्वयमप्यनुष्ठानोपपत्तिरिति भावः । तदतिशयप्रदर्शनार्थमुक्तं-धूर्त्तः-इति ।
किमसाविति धूर्त्तविप्रलम्भकास्तावदुपदेशमात्रेण विप्रलभन्ते । क्वचित्तु केचिदलपायाससाध्येपु कर्मसु
स्वयमनुष्ठायापीति संभाव्येत । न तु सर्वस्वदक्षिणादिसाध्ये वैदिककर्मकलापानुष्ठाने कश्चिद्
प्रकाशः ।
काविष्टसाधनताज्ञानजननद्वारा कार्यताज्ञान एवोपक्षोणाविति फलज्ञानं न प्रवृत्तिहेतुः । न चान्य-
थाऽपि निष्फले प्रवृत्तिप्रसङ्गः । वेदस्येष्टसाधनत्वस्य वा लिङ्गस्य कार्यताज्ञानहेतोरभावादिति जर-
न्मीमांसकमंतं दृष्टान्त इत्यर्थः । अत्र सोपहासमाह । गुरुमतमिति । गुरोः प्रभाकरगुरोः,
गुरु महद्वा मतमेतद्, न त्वस्मद्गुरोर्मतमित्यर्थः । निष्फले प्रेक्षावतां प्रवृत्तेरनुत्पादनियमात्
प्रयोजनज्ञानस्य प्रवृत्तिहेतुत्वेन निष्फले कार्यत्वस्यायोग्यतया वेदेन बोधयितुमशक्यत्वात् प्रवर्त्तक-
स्य कार्यत्वज्ञानस्यासम्भवात् । अत एव नेष्टज्ञानं कार्यताज्ञान एवोपक्षीणम् । अनन्यथासिद्धत्वा-
दिति भावः । वृद्धैरिति । तथाच निष्फल एवान्यैः प्रतारणादाकुमारं प्रवृत्तिरिति न तत्र प्रयोजन-
गवेषणमिति भावः । विप्रलिप्सुरन्यथाज्ञातमर्थमन्यथा बोधयति, भ्रान्तो वा ? । आद्ये वृद्धानामिति ।
प्रकाशिका ।
कार्यस्य साधनत्वेनैव सिद्धेरपूर्वस्येति शेषः । तथा च नापूर्वं स्वतःप्रयोजनम्, काम्यापूर्ववदिति
भावः । उपहासबीजमाह । निष्फल इति । तथाचेति । प्रयोजनमिति भावः । अनन्यथासि-
द्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञाने तदुपक्षीणम् । तथापि प्रवृत्तिप्रयोजकतायामपि
निष्फले प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । नचैवं नित्यताभङ्गः, त्रिकालकाम्यस्तवपाठवत्
मकरन्दः ।
तथाच तद्गत्तित्यापूर्वस्यापि न स्वतः प्रयोजनत्वमिति भावः ।
उपहासबीजमाह निष्फल इति । अनन्यथासिद्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाध-
नताज्ञानेऽपि तदन्यथासिद्धमित्युपपादितं प्रत्यक्षप्रकाशेऽन्यथाख्यात्यवसरे । त्रिस्त्रीस्वरसोऽप्ये-
वमेव । तथापि तस्य प्रवृत्तिप्रयोजकत्वान्निष्फलेऽपि प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । न
चैवं नित्यताभङ्गप्रसङ्गः । त्रिकालकाम्यस्तवपाठवत् कामनाऽवश्यम्भावादिति भावः ।
वृद्धतरैरिति । विप्रलब्धा इति शेषः ।

१०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ. [८ कारिकाव्याख्यायां
चेत्। किमसौ सर्वलोकोत्तर एव, यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन
सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चनकुतूहली यावज्जी-
वमात्मानमवसादयति, कथञ्चैनमेकं प्रेक्षाकारिणोऽप्यनुविदध्युः। केन वा चिह्ने-
नायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न ह्येतावतो दुःखराशेः
प्रतारणसुखं गरीयः। (१) यतः पाखण्डाभिमतेष्वप्येवं दृश्यते इति चेद् । न । हेतु-
दर्शनादर्शनाभ्यां विशेषात् । अनादौ चैवम्भूतेऽनुष्ठाने प्रतीयमाने प्रकारान्तरमा-
बोधनी ।
विप्रलम्भक इत्युत्प्रेक्षितुमपि क्षममिति । अस्तु वा तथाविधो धूर्त्तः कश्चित्, नत्वेकस्यास्य प्रेक्षाव-
द्भिर्बहुभिरनुविधानं संभवतीत्याह-कथं च इति । यदि वा सर्वप्रेक्षावदनुविहिताचारस्तथाविधः
पुरुषः, किमस्य विप्रलिप्सायां भवतः प्रमाणमित्याह-केन वा-इति । न केवलं प्रमाणाभावः
प्रमाणबाधितैव तस्य विप्रलिप्सेत्याह-न हि इति । तस्माद् वैदिकेषु कर्मसूपदेशानुष्ठानाभ्यां परान्
प्रवर्त्तयन् सकलप्रेक्षावदनुविहिताचारो लोकोत्तरः कश्चिदिति निश्चेतव्यम् । न च तस्मिन्नना-
श्वासो युक्त इति भावः । विश्ववृत्तेर्भ्रममूलत्वमप्यत एव निरस्तं वेदितव्यम् । चोदयति-अथ-
इति । बाह्याभिमितेषु चैत्यवन्दनादिषु विश्वप्रवृत्तिर्द्दीपान्तरापेक्षं दृश्यते, ततः साप्युक्तप्रकारेणा
न्यथासिद्धां तेषामामुष्मिकफलत्वं कल्पयेदिति भावः । न-इति । ज्योतिष्टोमचैत्यवन्दनयोर्न तुल्य-
त्वं, दृष्टहेतुसंभवाच्चैत्यवन्दनादिपरिग्रहस्य तदभावाच्चेतरपरिग्रहस्य । अयं च विशेषः प्रपञ्चयि-
ष्यते द्वितीये परिच्छेदे । हेतुदर्शनशून्यैर्ग्रहणार्यार्थानुमानादितरत्र विश्ववृत्तिरभिमताऽसावन्यत्र
नास्तीति भावः । किञ्च, यत्र यत्र प्रतारणं तत्र सर्वत्रापि पूर्वसिद्धे कस्मिंश्चिदनुष्ठाने प्रतीयमाने ततः
प्रकारान्तरमाश्रित्य प्रतारयितुमात्मनोऽर्थप्रदानादिसुकरोपायोपदेशमात्रेण प्रतारणं भवति, न तु
स्वयमनुष्ठानेन । यथा रोगापगमहेतौ भेषजभेदानुष्ठाने पूर्वसिद्धे प्रतारणं ‘मम हस्ते किञ्चित् प्रदी-
यतामिदानीमेव सर्वं शमयिष्यामि’ इति । इह दुःखात्मके कर्मणि स्वयमनुष्ठायैव परमनुष्ठापयति,
तस्मान्न प्रतारणेयमित्याह-अनादौ-इति। एवं सत्याप्रप्रणीतत्वेन वेदानामेव प्रामाण्यात् तद्विरो-
धिनां बौद्धाद्यागमानां प्रमाणविरोधनिबन्धना पाखण्डत्वप्रसिद्धिः सिध्येत्, नत्वन्यथेत्याह
प्रकाशः।
अन्त्ये, कथं चैनमिति । प्रत्युतानादिप्रवृत्तितया दृष्टफलनिरपेक्षतया चादृष्टफलत्वमेवानुमेयमिति
भावः । यत इति । एवं पाखण्डप्रवृत्तिरपि दृष्टफलनिरपेक्षा परलोकसाधनं स्यात् । अन्यथाऽयं
परिशेषस्तत्रैव व्यभिचरेदित्यर्थः । हेत्विति । हेतुदर्शनेन कर्मलाघवादिना तादृशी तत्प्रवृत्तिर-
न्यथासिद्धा । अत्र तु ब्रह्मचर्यादिदुःखमयकर्म्मप्रधानतया न तत्सम्भव इत्यादेर्द्वितीयस्तवके व-
क्ष्यमाणत्वादित्यर्थः । नन्विष्टापूर्त्तादीनां हेतुदर्शनशून्यत्वेऽपीदम्प्रथम एव प्रतारकस्तद्बोधकाग-
मस्य प्रामाण्यं भ्रमेण ग्राहयित्वा प्रेक्षावतः प्रवर्त्तयेदित्यत आह । अनादाविति । एवम्भूते-
ऽनादौ अविगीते परलोकसाधने । प्रकारान्तरं = सादित्वं विगीतत्वञ्च । यदि वैदिकव्यवहारा-
प्रकाशिका ।
कामनावश्यंभावादिति भावः । प्रत्युतेति । अनादिप्रवृत्तितया सफलत्वानुमानमेव दृष्टफलाभाव-
ज्ञानसहकृतमदृष्टफलकत्वं विषयीकरोतीत्यर्थो यथाश्रुते साध्याप्रसिद्धेः । अयं परिशेष इति ।
विफलेत्यादिकारिकोक्त इत्यर्थः । एवं भूत इति मूलस्य परलोकसाधन इति व्याख्यानमवगीते चे-
मकरन्दः ।
प्रत्युतेति । क्वचिददृष्टफलत्वसिद्धावेव तत् । अन्यथा साध्याप्रसिद्धेरिति ध्येयम् । अय-
गरीय इति । तथात्वे त्वयाऽपि तत्करणप्रसङ्गादिति भावः । (१) अथेतिपाठान्तरम् ।

प्रथमस्तवके ] अपूर्वकारणताव्यवस्थापनम् । १०१

श्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण
कर्मणा । अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् ॥ ८ ॥
अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेन्न ।

बोधनी ।
अन्यथा इति । अन्यथा-यदि वैदिकमनुष्ठानं प्रतारणायत्तं भवेदित्यर्थः । यद्वा, यदि वञ्चकः
स्वयमप्यनुतिष्ठेत् ततो बौद्धागमानां प्रतारणपरत्वे प्रमाणाभावादाप्तोक्तत्वसिद्धौ प्रमाणं विरोधासंभ-
वात् तन्निबन्धना पाखण्डत्वप्रसिद्धिर्न स्यादिति ।
अनादावित्यादेरपरा व्याख्या- कस्यचिदनुष्ठाने प्रागसिद्धे ह्यनुष्ठानमात्रस्यैवाज्ञानाद्विप्रलिप्-
सोपदेशमात्रेण प्रतारणानुपपत्तेरवश्यमनुष्ठानायैव प्रतारणं स्यात् । प्रागेव तु ज्योतिष्टोमानुष्ठान-
सिद्धौ प्रकारान्तरोपदेशमात्रेण स्वयमनुष्ठायैव प्रतारणं संभवति । नन्वनुष्ठानायैवेति विपरीतं कि-
मिति न स्यादित्यत आह- अन्यथा इति । चैत्यवन्दनादीनां प्रमाणमूलत्वे प्रमाणविरोधासं-
भवात् तदागमानां पाखण्डत्वप्रसिद्धिर्न स्यादित्यनुष्ठानागोचरेण कर्मणेति केचित् पठन्ति । तत्रा-
यमर्थः-यदि वैदिकानुष्ठानात् पूर्वसिद्धं किञ्चिदनुष्ठानं स्यात् ततः पश्चात्तनं वैदिकमनुष्ठानं तत्र
प्रतारणपरं स्यात् । न तु पूर्वसिद्धानुष्ठानागोचरेण कर्मणा प्रतारणं संभवति । सर्वत्र पूर्वसिद्धानु-
ष्ठानविषयत्वात् प्रतारणस्येति । अयं च प्रथमव्याख्यायां संगच्छेत ॥ ८ ॥
प्रत्यात्मनियमाद् भुक्तेरित्याद्यपूर्वसद्भावहेतुः कालान्तरे फलोपभुक्तिरपूर्वस्यात्मसमवाये हे-
तुश्च भुक्तेः प्रत्यात्मनियमः संगृहीतः । तत्रापूर्वसिद्धौ तस्यात्मसमवायः शक्यसाधन इति तत्-
सिद्धिहेतुं तावद् भुक्तिमवतारयितुमाशङ्कते - अस्तु इति । अत्रैवैकारोऽपूर्वव्यवच्छेदार्थः, जग-
द्वैचित्र्यस्यामुष्मिकफलस्येत्यर्थः । परिहरति-न-इति ।

प्रकाशः ।
तिरिक्तोऽनादिरविगीतश्च व्यवहारः प्रामाणिकः स्यात् तदायमाधुनिको वैदिकव्यवहारः परप्रतार-
णपर इति व्यवह्रियेत यथाऽनादिसिद्धः पिपासोपशमनं तोयपानमिति व्यवहारः । अन्नभक्षणं
पिपासोपशमनमित्याधुनिक उपदेशः परप्रतारणपर इति निश्चीयते । न त्वेवमित्याह । न त्विति ।
तस्मादयमेव व्यवहारः प्रामाणिको, न परप्रतारणपर इत्यभ्युपेयमिति भावः । अनभ्युपगमे त्वप्रा-
माणिकत्वाविशेषात् पाखण्डापाखण्डमतभेदो न स्यात् । तथाच प्रमाणेन खण्डिताः पाखण्डा
इत्यपि न स्यादित्याह । अन्यथेति ॥ ८ ॥
अस्त्विति । न तु तज्जन्यमदृष्टमित्येवकारार्थः । तथाचादृष्टाधिष्ठातृत्वेन ईश्वरानुमानमा-

प्रकाशिका ।
त्यपि द्रष्टव्यम् । तेनाग्रे प्रकारान्तरकथने विगीतत्वोपादानं घटते । आधुनिक इति । सादिरुपदेशो
विगीतश्चेत्यपि द्रष्टव्यम् । अन्नभक्षणं पिपासोपशमनसाधनमित्युपदेशे च विगीतत्वं शिष्टव्यवहारा-
विषयत्वमप्रामाणिकत्वं वा बोध्यमिति । इत्यपीति । असाधारयेनेति शेषः । तथाचोभयोः
पाखण्डत्वमपाखण्डत्वं वा व्यवह्रियेतेति भावः ॥ ८ ॥

मकरन्दः ।
मिति । विफला विप्लववृत्तिरित्यादिरित्यर्थः । आधुनिक इति । सादिरूपदेश इत्यर्थः । अवि-
गीतश्चेत्यपि द्रष्टव्यम् । यद्यपि वेदानिषिद्धत्वमविगीतत्वं न तत्र, तथापि शिष्टव्यवहाराविषय-
त्वमप्रामाणिकत्वं वा तदित्येके । परदुःखहेतुतया सामान्यतस्तत्रापि निषेध इत्यन्ये ।
इत्यपीति । असाधारण्येनेति शेषः । तथाचोभयस्यापि पाखण्डत्वमन्यतरस्यापि वा नेति
भावः ॥ ८ ॥