न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 132, कुल 608 में से
संदर्भ में पढ़ें६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां
यितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् । न । नीतिनर्मसचिवेष्वेव
तदर्थं दानादिव्यवस्थापनात् । त्रैविद्यतपस्विनो धूर्त्तबका एवेति चेन्न । तेषां
दृष्टसम्पदं प्रत्यनुपयोगात् । सुखार्थं तथा करोतीति चेन्न । नास्तिकैरपि
तथाकरणप्रसङ्गात् , सम्भोगवत् । लोकव्यवहारसिद्धत्वादफलमपि क्रियते,
वेदव्यवहारसिद्धत्वात् संध्योपासनवदिति चेद्, गुरुमतमेतन्न तु गुरोर्म-
बोधनी ।
यति ददाति वेति । अनुरागो वा किमर्थ इत्यत्रोक्तं-जनानुराग इति । परिहरति-न-इति । ख्या-
त्यनुरागार्थयोर्दानपूजयोर्यथाक्रमं नर्मनीतिसचिवयोर्व्यवस्थितत्वादत्र च तदमिसन्धिविरहान्न ताद-
र्ध्यमिति । पुनः शङ्कते-त्रैविद्य-इति । वैदिका यागादिकर्त्तारो विप्रलम्भका दृष्टार्थमेव भावयन्तो-
ऽदृष्टार्थमिवाचरन्ति, तेऽपि तेन नर्मसचिवप्राया इत्यर्थः । परिहरति न-इति । नीतिनर्मस-
चिवा हि दृष्टोपयोगिनः, नैवं त्रैविद्याः, अतस्तेषु पूजादि न दृष्टार्थमिति । ननु तेषां पूजादिकमनु-
तिष्ठतः किञ्चिद् दृष्टमेव सुखं जायते, ततस्तदर्थमेव पूजानुष्ठानमित्याह सुखार्थम्-इति । न-
इति । न हि तात्त्विकं किञ्चिद् दानादिजन्यं सुखमस्ति, पारलौकिकसुखाध्यवसायादेव हि तदनु-
ष्ठायिनस्तदा प्रीतिरिति भावः। शङ्कते-लोक-इति । अनादिना लौकिकाचारेण कर्तव्यतया सिद्ध-
त्वादफलमपि दानादि क्रियते, वैदिकविधानेन सिद्धसन्ध्योपासनवत् । तद्विधायकवाक्येषु फला-
श्रवणाज् जीवनादिकर्माधिकारालाभाच्च विधित एव अनुष्ठानसिद्धौ फलकल्पनायां प्रमाणाभावादफ-
लमेव सन्ध्योपासनादिकमिति भावः । गुरुमतमेतत्-इति । निष्फलं कर्मेति प्राभाकरगुरोरयं
प्रकाशः।
नीतिनर्मेति । राजादिभिः प्रयोजनमुद्दिश्यैव दानाद्नस्ततपस्विभ्यः प्रयोजनाननुसन्धानेन दा-
नामावादित्यर्थः। त्रैविद्येति । त्रिवेदीविदोऽपि तपस्विनः परप्रतारणार्थं तपसि प्रवर्त्तन्त इत्यर्थः।
तेषामिति । दृष्टप्रयोजनमुद्दिश्यैव परप्रतारणात् तेषाञ्च दृष्टे निस्पृहत्वात् तदसम्भवः । प्रच्छ-
न्नमपि परोपनीतधननिःस्पृहैस्तपःकरणादित्यर्थः । वेदेति । सन्ध्योपासनमकरणे निन्दोपदेशात्
प्रायश्चित्तोपदेशाच्च नित्यम् , नित्ये च यदि फलाऽर्थिनः प्रवृत्तिः स्यात् तदा यागवन्नित्यताभङ्ग-
प्रसङ्ग इत्यफलैव तत्र प्रवृत्तिः । कार्यताज्ञानं हि तत्र प्रवर्त्तकम् , तच्च लोके पाकादाविष्टसाधनता-
ज्ञानात् कार्यताऽनुमित्या निर्वहति । वैदिके च नित्ये कार्यताज्ञानं वेदाधीनमिति किमिष्टसाधनता-
ज्ञानेन । न च नित्यापूर्वमेव फलं, तथापि नित्यताभङ्गात् । काम्यस्थले धर्मिग्राहकमानात् काम्य-
साधनत्वेनैव सिद्धेर्गौणप्रयोजनतया स्वतःप्रयोजनत्वाभावाच्च लोके प्रवृत्ताविष्टज्ञानान्वयव्यतिरे-
प्रकाशिका ।
भावः । चिरेति । तथा च तद्धेतुत्वमप्यदृष्टद्वारैवेत्यर्थः । दानाभावादिति=दानाभावापत्ते-
रित्यर्थः। दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । सन्ध्योपासनस्य निष्फलत्वे
मानमाह । सन्ध्योपासनमिति । निष्फलत्वेऽपि प्रवृत्तिमपपादयति । कार्यताज्ञानं हीति ।
मकरन्दः ।
चिरेति । तथाच तद्धेतुत्वमप्यदृष्टद्वारैव स्यादिति भावः । दानाभावादिति । दानाभा-
वापत्तेरित्यर्थः । दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । निष्फलत्वेऽपि
तत्र प्रवृत्तिमपपादयति । सन्ध्योपासनमिति । काम्यस्थल इति । अपूर्वस्येति शेषः ।
टिप्पणी ।
नच नित्यापूर्वमेव फलमिति । एवकारेण स्वतः प्रयोजनत्वलाभः । अपूर्वसम्पादनीयस्य
प्रयोजनस्याश्रुतत्वात् । स्वतः प्रयोजनत्वाभावाच्चेति । उभयसम्प्रतिपन्नस्य काम्यस्थली-