सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 125, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 125

प्रथमस्तबके ] ब्रह्मप्रकृतिकारणतावादपूर्वपक्षः । ४१
पिण्डितस्य । इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य
दिव्यं, पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् ॥ ६ ॥
तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण । दृश्यते
बोधनी ।
अथ वैचित्र्यादिति हेतुमवतारयितुं शङ्कते—तथापि-इति । यद्यपि कार्यस्य नियतजातीय-
कारणनियमस्तथापीति । कथं तर्हि कार्यवैचित्र्यमित्यत आह—दृश्यते हीति । न चात्र
प्रकाशः ।
तत्र साध्याव्यापकत्वात् । आगमोऽप्यत्रास्त्येवेत्येके । पवनोत्कर्षेण वह्न्युत्कर्षदर्शनात् तेजोमात्रे
तस्य निमित्तत्वं न वह्निमात्रे, सामान्यस्य सामान्यं प्रति प्रयोजकत्वे विशेषस्योपाधितायामतिप्रस-
ङ्गादित्यन्ये । पिण्डितस्य=सुवर्णस्य । दिव्यमिति दृष्टान्तार्थम् । तत्राप्रश्नात् ॥ ६ ॥
एतावता कारणमात्रे सिद्धेऽपि सापेक्षत्वादित्यत्र सिद्धसाधनं शङ्कते ।
तथापीति । एकमिति त्रिदण्डिमतसमुत्थानम् , तेषां ब्रह्मण एव सकलकारणत्वात् । एक-
जातीयमिति साङ्ख्यमतम् । तेषां पुरुषाणां भेदात् प्रतिपुरुषं च महत्तत्त्वानां भेदेऽपि प्रकृति-
विकारत्वात् प्रकृतेश्चैकत्वादेकजातीयत्वात् । तथाच कारणस्यैकव्यक्तित्वेनैकजातीयत्वेन वा नेश्वर-
सिद्धिरस्मदादिनापि तद् द्रष्टुं शक्यत्वादिति प्रकृतसङ्गतिः । न चाविचित्राद् कारणाद्विचित्रं कार्य-
प्रकाशिका ।
स्त्वस्यापि जातेः सिद्धेः । अत एव तेजस्त्वपेक्षया द्रव्यत्वमेव सामान्यमिति तदेव पवनजन्य-
तावच्छेदकं किमिति न स्वीक्रियत इत्यनुयोगो निरस्तः । द्रव्यत्वस्य नित्यवृत्तित्वात्, जन्यद्रव्य-
त्वस्य पृथिवीत्वसङ्करेणोपाधित्वात् । ननु पृथिवीजन्यत्वमेवोपाधिः स्यादत आह । आगमो-
ऽपीति । तथाच पक्ष एव साध्यव्यापकत्वमिति भावः । आगमस्तु—
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भ्राजस्तद्रूपगुणमुच्यते ॥ इत्यादिः ।
यदिद्वेषयोरित्यादिन्यायावतारे निर्वातस्थदीपस्येत्यादिकमेव सम्यक् । तदनवतारे त्वेताव-
तापि वह्निमात्रे कारणत्वमायाति न तु जन्यतेजोमात्र इत्यरुचिं विभावयति । अन्य इति ।
तत्राप्रश्नादिति । यद्यपि तत्गतसामान्यमपि प्रश्नविषय एव दिव्यस्यापि दहनत्वात्,
तथापि तार्णादिदहनसामान्यस्यैव प्रस्तुततया प्रश्नविषयत्वमित्याशयेनेदमुक्तम्। एवं च पिण्डितस्य
सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येको ग्रन्थः, तेन पिण्डितस्यापि दृष्टान्तता लभ्यते । अन्यथा
तस्यापि प्रश्नविषयत्वेनासङ्ग्रहापत्तेः । न च औदर्यस्यापि प्रश्नाविषयतया तत्रोत्तरविरोधः,
तार्णपदेन पार्थिवेन्धनजन्यवह्नेरेवोक्तत्वेन तस्यापि प्रश्नाविषयत्वात् । दृष्टान्तपरत्वाद्वा ॥ ६ ॥
प्रकृतेरिति । एकप्रकृतिविकारत्वादेकजातीयत्वं महत्तत्त्वानां पुरुषभेदेन भेदेऽपीत्यर्थः । अस्म-
मकरन्दः ।
न्नसाध्यव्यापकत्वादिति भावः । अत एवाह । तैजसेति । आगमोऽपीति । “ज्योतिरुत्पद्यते
वायो”रित्यादिविष्णुपुराणरूप इत्यर्थः । यदिद्वेषयोरिति न्यायात्तावता वह्निसामान्यमात्रे तद्धेतुत्वं
सिद्ध्यति, न तु तेजोमात्रे । अन्यथा द्रव्यमात्र एव तदापत्तेरित्यनुशयादाह । अन्य इति । दिव्य-
मितीति । यद्यपि दिव्यस्यापि दहनतया तद्गतसामान्यमपि प्रश्नविषयः, तथापि तार्णऽऽदिदह-
नसामान्यस्य प्रश्नविषयत्वादस्यातथात्वमित्याशयः । यद्यप्येवं पिण्डितस्येत्यप्ययुक्तं, तत्राप्य-
प्रश्नात् । तथापि तदपि दृष्टान्तार्थमेव । एवञ्च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्ये-
कग्रन्थो बोध्यः । दिव्यमित्युपलक्षणम्, उदर्यस्यापि दृष्टान्तत्वमित्येके । तार्णपदस्य पार्थिवेन्धन-
दहनपरतया तत्र प्रश्न एवेत्यन्ये ॥ ६ ॥
प्रकृतेश्चेति । तथाचैकप्रकृतिविकारत्वान्महत्तत्त्वादीनामेकजातीयत्वमित्यर्थः । तद् द्रष्टु-