न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२६
ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति । तद् यथा
निपुणतरमनुसृतौ मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति,
नूनं नासीदेवेति । एतेन प्राङ्नानास्तिताऽपि व्याख्याता । ननु तथाप्यवान्तर-
जातिभेदोऽस्तु अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्। कारणविरोधात्-
बोधनी।
स्यादेवं यदि ज्ञातानुपलब्धिः क्वचिदसाक्षात्कारं जनयेत्, न चैवमस्तीत्याशयेनाह ननु क्व नाम
इति । तत्रोदाहरणनोत्तरयति तद्यथा इति । न हि तदा देशान्तरस्थस्य श्रोतुर्योग्यानुपलब्धिरस्ति किं
त्वाप्तवाक्यावगतयाऽनुमिनोतीति । एवं प्रातः कालेऽनुपलब्धस्य मैत्रस्य मध्यन्दिनसमयभाविप्रातस्त-
नाभावज्ञानमप्यनुमानफलमेव मध्यन्दिनानुसंवीयमानप्रास्तनानुपलब्धिलभ्यत्वादित्याह एतेन इति ।
नन्वस्तु ज्ञातानुपलब्धिजन्यादज्ञातानुपलब्धिजन्यस्य जातिभेदः स तु साक्षात्काररूप इति कुत इत्याह
ननु इति । न हि विधाद्वयव्यतिरेकेण ज्ञानावान्तरजातिभेद इत्यभिप्रायेणाह कारणविरोधा-
प्रकाशः।
विनाप्यभावधीरिति व्यभिचारादिन्द्रियमकरणमित्यत आह एतेनेति । यथा शब्दावगतानुपलब्ध्या
लिङ्गेनाभावानुमानं, तथा प्राङ्नास्तितास्थलेऽप्यभावधीर्लिङ्गजेत्यर्थः । ननु तत्रास्मरणं न लिङ्गं, न
हि यावदनुभूतं तावदेव ग्रहणयोग्यमपि स्मर्यत एवेति नियम इति, मैत्रस्य तद्गेहसत्त्वेऽप्यननु-
भवात् संस्कारानुत्पादात्तदनुद्बोधाद् वा तदस्मरणस्योपपत्तेः । न । कश्चिद्विषयविशेष एव हि तादृशो
यो गेहादिनिष्ठतया अनुभूयत एव, तदनुभवेन च संस्कारो जन्यत एव, स च न नश्यति ।
नाऽपि तदुद्बोधकान्तरापेक्षा । विलक्षणविषयविशेषमाहात्म्यात् । यथा श्रीविश्वनाथायतने भगवन्तं
श्रीविश्वनाथमनुभवतः, तथा मैत्रमपि प्रेक्षम् । प्रयोगश्च-तद्गेहं तदा मैत्राभाववत् तत्तुल्यपरिमाण-
घटादिस्मरणेऽपि तद्गतया अस्मर्यमाणत्वात्, यदेवं तदेवं, यथा पटाभाववद् भूतलमिति ।
स्मरणाभावश्च संयुक्तविशेषणतया मनोवेद्य एवेति भावः । केचित्तु यत्र सामान्याभावेन लिङ्गेन
विशेषाभावानुमानं, तत्र ज्ञातानुपलब्धिरनुमानाङ्गमिति तत्परोऽयं ग्रन्थ इत्याहुः ।
ननु ज्ञातानुपलब्धेरसाक्षात्कारजनकत्वेऽप्यज्ञातानुपलब्धिजन्ये अवश्यं साक्षात्कारित्वमिति न
नियमो वैजात्यान्तरेणाप्युपपत्तेरित्याह नन्विति । सर्वत्र असाक्षात्कारित्वस्य ज्ञायमानकरणजन्यत्व-
व्याप्तैस्तन्निवृत्तावसाक्षात्कारित्वव्यावृत्तेरवान्तरजातिः साक्षात्कारित्वमेवेत्याह कारणेति । न च
साक्षात्कारित्वमिन्द्रियजन्यत्वप्रयुक्तमेवेति वाच्यम् । ज्ञातेन्द्रियसन्निकर्षजेन्द्रियगतिज्ञानस्य साक्षा-
प्रकाशिका।
कैश्चिदिति । उपलम्भसामान्याभावेन यत्रोपलम्भविशेषाभावानुमानं तत्रैव ज्ञातानुप-
लब्धेः कारणत्वमिति इत्यपि दूषणान्तरमाहेत्यर्थः ।
मकरन्दः।
न्याभावेन विशेषाभावानुमानमित्यर्थः । इन्द्रियजन्यत्त्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन
नोत्तरविरोधः । इन्द्रियविशिष्टसन्निकर्षहेतुत्वे इन्द्रियहेतुत्वमपीति न विरोध इत्यन्ये । ज्ञायमानक-
रणत्वमाश्रित्याह ज्ञातेन्द्रियेति । चक्षुर्गतिमत् गतिशून्यसंयोगित्वादित्यनुमितेरित्यर्थः । नन्वेवम-
साक्षात्कारित्वमपि तत्र न स्यादिन्द्रियसन्निकर्षान्यकरणस्य तत्र प्रयोजकत्वादित्यत आह
टिप्पणी।
तत्परोऽयं ग्रन्थ इत्याहुरिति । एतेनेत्यादिग्रन्थः प्राङ्नास्तिता च, गृहविशेषे चैत्रोपलब्धेः
अहं गृहविशेषे तदा चैत्रोपलब्ध्यभाववान् , चैत्रोपलब्धेरभावात् मया चैत्र एव कदापि नोपलब्धः
गृहे तदुपलब्धेः का कथा इत्यभिसन्धिः ।
४३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २० कारिकाव्याख्यायां
कार्यविरोधेन भवितव्यमित्युक्तमेव । अनन्यथोपक्षीणेन्द्रियव्यापारानन्तरभा-
वित्वाच्च । अधिकरणग्रहणे तदुपक्षीणमिति चेन्न । अन्धस्यापि त्वगिन्द्रियो-
पनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात् । अस्ति हि तस्याधिकरणग्रहणम्,
अस्ति च प्रतियोगिस्मरणम्, अस्ति च श्यामे रक्तत्वस्य योग्यस्याभावोऽनुपल-
ब्धिश्च । अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनोऽपि समानमेतदिति चेन्न । प्रति-
योगिग्राहकेन्द्रियग्राह्योऽभाव इत्यभ्युपगमात् । ममापि प्रतियोगिग्राहकेन्द्रियगृही-
तेऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेन्न । वायौ त्वगिन्द्रियोप-
बोधनी ।
दिति । द्वितीयं हेतुं विवृणोति अनन्यत्र इति । विशेषणासिद्धिमाशङ्कते अधिक-
रणेति । यथा हि धूमज्ञानोपक्षीणेन्द्रियव्यापारानन्तरभाविनो वह्निज्ञानेन्द्रियहेतुत्वं तथा-
ऽधिकरणग्रहणोपक्षीणेन्द्रियव्यापारानन्तरभाविनो भावज्ञानस्यातद्धेतुत्वमिति, तर्ह्यन्धस्यापि साम-
ग्रीसाकल्याद्रूपाभावप्रतीतिः स्यादित्याह न इति । योग्यस्य स्थूलद्रव्यसमवेतत्वादिति । ननु भव-
न्तोऽप्यधिकरणग्राहकेणेन्द्रियेण ग्राह्योऽभाव इति मन्यन्ते, तत्र चान्धस्य त्वगिन्द्रियेण रूपविशेषा-
भावप्रतीतिः प्रसज्येतेत्याह अधिकरणेति । न इति । ततश्च चाक्षुषरूपप्रतीतिर्नान्धस्य स्या-
दिति । ममापि इति । ततश्च चाक्षुषाधिकरणग्रहणाभावान्नान्धस्य रूपविशेषाभावप्रतीतिरिति । ने
प्रकाशः ।
त्कारित्वप्रसङ्गात् । असाक्षात्कारित्वस्य च साक्षात्कारिभिन्नज्ञानरूपत्वात् । अनुभवत्वेन साङ्क-
र्यापत्त्या जातित्वाभावादिति भावः । न चेन्द्रियजत्वं साक्षात्कारित्वप्रयोजकं, प्रकृतेऽपि तत्त्वा-
दित्याह अनन्यत्रेति । ननु प्रतियोगिज्ञानस्येवाश्रयज्ञानस्याप्यभावधीहेतुत्वमिति तत्रैवेन्द्रियम-
न्यथासिद्धमिति विशेषणासिद्धो हेतुरित्याह अधिकरणेति । अधिकरणधीरेन्द्रियव्यापारो न तर्या
तदन्यथासिद्धम्, अन्यथा सन्निकर्षोपक्षीणमिन्द्रियं घटग्राहकमपि न स्यादित्याह अन्धस्येति ।
ममापीति । प्रतियोगिग्राहकेन्द्रियेणाश्रयाग्रहे योग्यानुपलब्ध्या नाभावो गृह्यते । न चान्धस्य रूप-
ग्राहकेन्द्रियेण घटादिग्रहः । अत एव चक्षुःसंयुक्ते पृथिवीपरमाणौ न जलत्वाद्यभावधीप्रसङ्ग इत्यर्थः ।
धायाविति । वायोः प्रतियोगिग्राहकचक्षुरग्राह्यत्वादित्यर्थः ।
ननु यथा तव नीरूपो वायुरिति वायुविशेष्यिका धीरानुमानिकी विशेष्ययोग्यतामाश्रित्येन्द्रियाणां
प्रवृत्तेः, तथा वायौ रूपाभावविशेष्यिकाऽपि धीर्ज्ञातानुपलब्धिलिङ्गजन्याऽनुमितिरेव, तथा च या
धीः साक्षात्कारित्वेन त्वदभिमता, तस्यामुक्ता सामग्रीति नोक्तदोषः । न चाभावज्ञानस्य साक्षात्का-
मकरन्दः ।
असाक्षात्कारित्वस्येति । तथा च साक्षात्कारित्वप्रयोजकस्याज्ञातकरणत्वस्याभावादेव तत्र तदुपपद्यते
इति भावः । ननु परोक्षत्वमसाक्षात्कारित्वमित्येकं, तच्च जातिरूपं, न तूक्तोपाधिरूपमित्यत आह
अनुभवत्वेनेति । स्मृतेरपि परोक्षत्वादिति भावः । एतच्चोपलक्षणम् — तज्जातित्वेऽपि ज्ञायमान-
करणप्रयोज्यत्वाभ्युपगमे गत्यनुमितौ तदुपपद्यत एवेत्यपि बोध्यम् । न चेति । इन्द्रियत्वेनेन्द्रिय-
जन्यत्वमित्यर्थः । तथा चेन्द्रियाजन्यतया असाक्षात्कारित्वमिति भावः । अत्रासिद्धिमाह प्रकृतेऽ-
पीति । तत्त्वादिरिन्द्रियजन्यत्वादित्यर्थः, अन्यथा यथाश्रुते विरोधापत्तेः । ननु वायोरतीन्द्रियतया
त्वगिन्द्रियोपनीत इत्ययुक्तमत आह वायोरिति । तथा चेति । यद्यपि वायौ रूपाभावविशेष्यिका
धीः साक्षात्कारित्वेन त्वदभिमतेव तत्र च नोक्ता सामग्री, तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्या-
टिप्पणी ।
तथा च या धीः साक्षात्कारित्वेन त्वदभिमतेति । यद्यपि वायौ रूपाभावविशेष्यिका
तृतीयस्तवके ] अनुपलब्धेर्मानन्तरत्वखण्डनम् । ४३१
नीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् । तथापि तत्तत्र सन्निकृष्टमिति चेत् । हन्तैवंम-
नन्यत्र चरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन ॥
स्यादेतत् , तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न । तस्य तं प्रत्य-
बोधिनी ।
इति । प्रतियोगिग्राहकेण चक्षुषा वायोरग्रहणात्तत्र रूपाभावप्रतीतिः कदाचिदपि न स्यादिति ।
नन्वगृह्णदपि चक्षुर्वायौ यावत्सन्निकृष्टं तावता रूपविशेषस्यानुपलब्धिरभावं गमयतीत्याह तथापि
इति । हन्तैवम् इति । वायोरग्रहणाभावादनन्यत्र चरितार्थता त्वन्धस्य च रूपाभावप्रतीत्यभावा-
दवश्यमपेक्षणीयत्वं चक्षुष इति ।
ननु मा भूदधिकरणग्रहणोपक्षयस्तथापि तत्र संनिहितस्य यस्य कस्यचिद्वस्तुनो ग्रहण एवोप-
क्षीयत इत्याह स्यादेतत् इति । न इति । अत्र ह्यन्वयव्यतिरेकानुविधाने सत्येवाभावबुद्धेरनिन्द्रि-
प्रकाशः ।
रित्वेनेन्द्रियजन्यत्वं, स्मृतिवत्तस्य परोक्षत्वात् । मैवम् । घटाभावबुद्धेरपि साक्षात्कारित्वेनाभिम-
ताया योग्यानुपलब्धिलिङ्गजन्मत्वापत्तेः । यदि च लिङ्गज्ञानेऽपि तदनुभवादज्ञातकरणिका सा, तदा
वायौ रूपाभाव इति धीरपि तथा । किञ्च वस्तुतो घटवत्युपलब्धिप्राक्कालेऽनुपलब्ध्या घटस्मृति-
मतः कुतो नाभावधीः ? घटाभावाभावादिति चेत् । हन्तैवमभावबुद्धेरर्थजन्यत्वात् प्रत्यक्षत्वसिद्धावि-
न्द्रियजत्वमेव । अपि च प्रतियोगिसत्त्वविरोधिनी याऽनुपलब्धिः, सैव योग्यानुपलब्धिः, अतो
जलपरमाणौ गन्धाभावो न प्रत्यक्षः, प्रत्यक्षश्च वायौ रूपाभावः, रूपानुपलब्धिज्ञापकस्याभावात् ।
तल्लिङ्गत्वमभावं च स्वयमेवाचार्यो वक्ष्यति । तथापीति । चक्षुषा वायोरग्रहेऽपि चक्षुर्वायुसन्निकृष्ट-
मेवेति नाश्रयग्रहे तदुपक्षीणमित्यर्थः ।
नन्वाश्रयेत्यन्यमात्रोपलक्षणम्, अस्ति च वायुसन्निकृष्टस्येन्द्रियस्य तद्देशवृक्षादिप्रकाशकत्वमि-
त्यन्यथासिद्धिरिवेत्याह—
स्यादेतदिति । अन्धस्यापि रूपाभावप्रतीत्यापत्त्या न तावदिन्द्रियमभावज्ञाने अकारणमेव,
किन्तु कारणव्यापकत्वेन परम्पराकारणं मन्तव्यम् । तथा सत्याह तस्येति । तस्य वस्त्वन्तर-
मकरन्दः ।
ज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति वयम् । अन्यथा तु चिन्त्यम् । साक्षात्कारित्वेनेति स्वमते ।
यदि चेति । तथा च तत्र त्वदुक्तानुपलब्धिवैकल्यादनन्यगत्या इन्द्रियग्राह्य एवाभाव इति भावः ।
युक्त्यन्तरमाह किञ्चेति । प्रत्यक्षश्चेति । यद्यप्येवं स्वरूपसदनुपलब्धिग्राह्यत्वमात्रं सिद्ध्यति, तथापि
पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वमुक्तमिति ध्येयम् । चक्षुषेति । तथा च प्रतियोगिग्राहकेन्द्रियेणा-
टिप्पणी ।
धीः साक्षात्कारित्वेन नैयायिकाभिमतैव तत्र च न प्रतियोगिग्राहकेत्याद्यनुपलब्धिकरणज्ञानसामग्री,
तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्याज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति । अन्यथा तु
चिन्त्यम् । स्मृतिवत्तस्य परोक्षत्वादिति । अज्ञातकारणजत्वेऽप्यपरोक्षत्वाभावात् । साक्षा-
त्कारित्वेनाभिमंताया इति । अनुपलब्धिकरणकत्वेन । योग्यानुपलब्धिलिङ्गजत्वापत्ते-
रिति । अनुपलब्धिज्ञानं कल्पयित्वा लिङ्गजन्मत्वेनानुमितित्वस्य वक्तुं शक्यतयाऽनुपलब्धेः कारण-
त्वभङ्गापत्तेः । यदि च लिङ्गज्ञानेपीति । सर्वत्र ज्ञानकल्पने मानाभावात् । तदा वायौ
रूपाभाव इति धीरपीति । तत्रापि सर्वत्रानुपलब्धिज्ञानकल्पने मानाभावात् । इति धीरपि
तथेति । अनुमितिरेवेत्यर्थः ॥ २०-२१-२२-२३ ॥
इति श्रीमद्धर्मदत्तोपाध्याय ( प्रसिद्ध-बच्चाझा ) कृत।कुसुमाञ्जलितृतीयस्तवकटीप्पणी समाप्ता ।
४३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २० कारिकाव्याख्यायां
कारणत्वात् , कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्द्रव्याभावं न प्रती-
यात् । प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याऽश्यामत्वम् । आर्जवावस्थानम-
प्यधिकरणस्योपयुज्यते इति चेत् , तर्हि नयनसन्निकर्षोऽप्युपयोक्ष्यते, तदेकस-
हकारिप्रभासन्निकर्षापेक्षणात् । अन्यथा वातायनविवरविसारिकरपरामृष्टेऽप्यधि-
करणे तदुपलम्भप्रसङ्गाच्च ॥
तथापि योग्यताऽऽपादनोपक्षीणश्चक्षुः । यदितरसामग्रीसाकल्ये ह्यनुपलभ्य-
मानस्याभावो निश्चीयते । तच्च चक्षुष्यधिकरणसन्निकृष्टे सति स्यादिति चेत् ।
ननु परिपूर्णानि कारणान्येव साकल्यम् । तथा च किं कुत्रोपक्षीणम् । अथान्यो-
बोधनी ।
यहेतुकत्वमन्यत्र तदपक्षयादुच्यते, स चाभावबुद्धिहेतौ कस्मिंश्चिद्वक्तव्यः, अन्यथा तदनुविधाना-
नुपपत्तेः, न चात्र तस्य वस्तुन्तरग्रहणस्य तदभावानुभवं प्रति कारणत्वमस्तीति, यदि स्यात्तत्राह
कारणत्वे वा इति । अन्धकारे वस्त्वन्तरग्रहणाभावात्स्पर्शवद्विशेषाभावप्रतीतिर्न स्यात् इति प्रति-
याच्चेति । प्रतिय गिग्राहकेण तदा तदालोके विस्फारिताक्षस्य वस्त्वन्तरग्रहणसंभवाच्चेति । उत्त-
रत्र शङ्कते आर्जवेति । आर्जवावस्थानादधिकरणस्य नयनसंनिकर्षोऽपि तद्गताभावग्रहणएवो-
पयुज्यते न तु तद्ग्रहण इत्यङ्गीकर्तव्यमित्याह नयनेति । कुत इत्यत्राह तदेक इति । आलो-
कसंनिकर्षस्तावदपेक्षणीयो रूपाभावज्ञानेन तमन्तरेण तदनुपपत्तेः, स च तस्य नयनसंनिकर्षस्यैव
सहकारी नानुलब्धयादेः, तस्मान्नयनसंनिकर्षोऽप्यपेक्षणीय एव, न हि संभवति यस्य यत्सहकारित-
यैव कार्योपयोगस्तस्य तदनपेक्षायामप्यपेक्षेति । चक्षुःसंनिकर्षानुपयोगेऽनिष्टमप्याह वातायनेति ।
तत्र हि सत्येवाधिकरणस्यार्जवावस्थाने तद्ग्रहणे चक्षुःसंनिकर्षाभावादेव तस्य श्यामत्वाभाव-
स्यानुपलम्भो भवति ।
नन्वस्त्वपेक्षणीयश्चक्षुः संनिकर्षस्तथाप्यन्यत्रोपक्षयस्तस्येत्याह अथापि इति । योग्यानुपल-
ब्धिर्ह्यभावज्ञानहेतुः, योग्यता च प्रतियोगिव्यतिरिक्ताभावज्ञानकारणसाकल्यं, तच्च साकल्यं चक्षः
संनिकर्षे सति भवति तस्यापि तत्कारणत्वात् । ततश्च सामग्रीसाकल्यापादनोपक्षीणं चक्षुर्नाभाव-
वाज्ञानं यावत् गच्छतीति । न तु परिपूर्णानि इति । न खलु साकल्यं नाम कारणेभ्यस्तत्त्वान्तरं
प्रकाशः ।
ग्रहणस्य, तं प्रत्यभावानुभवं प्रतीत्यर्थः । न प्रतीयादिति । त्वगिन्द्रियेण वस्त्वन्तराऽग्रहादित्यर्थः ।
ननु प्रतीयत एवाकाशमत्रापि, तस्य तन्मते प्रत्यक्षत्वादित्यंत आह प्रतीयाच्चेति । आर्जवाव-
स्थितेऽप्यन्धकारे ज्ञानाभावादालोकसन्निकर्षोऽपि हेतुरेष्यः, स च चक्षुषः सहकारी नान्यस्येति
सिद्धं चक्षुः करणमित्यभिप्रेत्याह नयनेति । अथार्जवावस्थानेऽपि नालोकसन्निकर्षापेक्षा, तत्राह-
वातायनेति । तदुपलम्भप्रसङ्गाद्रूपाभावोपलम्भप्रसङ्गादित्यर्थः । चक्षुषा यत्किञ्चिदुपलम्भस्य तत्रापि
सम्भवादिति भावः । नन्विति । तथात्वे वा सहकार्युच्छेदापत्तिः । वस्तुतः प्रतियोगिसत्त्वविरो-
प्रकाशिका ।
तथात्वे वेति । कारणचक्रसाकल्योपक्षयाय दण्डादेरपि तत्रोपक्षये घटाद्यहेतुतापत्तिरित्यर्थः ।
तथा च योग्यताघटकतया अवश्यमपेक्षणीयस्यात्रानुपक्षीणस्येन्द्रियस्य सिद्धमभावधीहेतुत्वमिति भावः ।
मकरन्दः ।
धिकरणसन्निकरणसन्निकर्ष एवानुपलब्धिसहकारी स च तत्रास्त्येवेति भावः । अकारणमेव
अप्रयोजकमेवेत्यर्थः । परम्पराकारणं कारणकारणम् । तथात्वे वेति । कारणचक्रस्य साकल्योपेक्ष-
याभ्युपगमे दण्डचक्रादेरपि तथात्वे घटाद्यहेतुत्वपत्तिरित्यर्थः । तथा च योग्यताघटकतयाऽवश्यापेक्ष-
तृतीयस्तवके ] अनुपलब्धेर्धर्मान्तरत्वखण्डनम् । ४३३
न्यन्मेलनं मिथः प्रत्यासत्त्यादिशब्दवाच्यं तदुपक्षयः, न तर्हि क्वचिच्चक्षुः कारणं
स्यादिति । न हि रूपाद्युपलब्धिमध्यसन्निकृष्टमेतदुपजनयति । अथाधिकरणस-
मवेतकिञ्चिदुपलम्भो ऽपि तद्विषयाभावग्रहे ऽनुपलब्धेरपेक्षणीयः , ततस्तत्रेयं चरि-
तार्थम्, वाय्वादिवु तु रूपाद्यभावप्रतीतिरानुमानिकी । तथा हि अनुपलब्ध्या
ह्यनुमीयते—अयं नीरूपो वायुरिति । न असिद्धेः । न ह्युपलम्भाभावो भवतामभा-
वोपलम्भः, उपलम्भस्यातीन्द्रियत्वाभ्युपगमात् । प्राकट्याभावेनानुमेय इति
चेन्न । वायौ रूपवत्त्वाप्राकट्याभावस्याप्यसिद्धेः, रूपाभावेन समानत्वात् । व्यवहा-
बोधनी ।
तत्साध्यमस्ति यत्रोपक्षयः तस्य स्यात् किं तु परिपूर्णानां कारणानामेव तथात्वादिति । नन्वस्ति
मेलनं नाम तत्त्वान्तरं क्षयविषय इत्याह अथ इति । एवं हि रूपादिज्ञानेष्वर्थसंनिकर्षसंपादनोपक्षीर्णं
चक्षुर्न कारणं स्यादित्याह तदुपक्षय इति । नन्वभावाधिकरणसमवेतस्य कस्यचिद्वस्तुनः प्रतिप्र-
गिग्राहकेणेन्द्रियेणोपलम्भोऽभावग्रहणे सहकारित्वेनानुपलब्धेरपेक्षणीयस्तत्रे दमिन्द्रियमुपक्षीयत इत्या-
ह अथाधिकरणसमवेतकिञ्चिदिति । तर्हि वायौ रूपाभावप्रतीतिर्न स्यात् तत्र वस्त्वन्तरस्य
चक्षुषानुपलम्भादित्याशङ्क्य स एवाह वाय्वादिव्विति । न इति । न तत्राभावप्रमाणगम्योऽ-
भावः अनुपलब्धिलिङ्गानुमेयत्वादिति । न इति । असिद्धेरनुपलब्धेरज्ञातासिद्धत्वादिति । न ताव-
दभावप्रमाणात्सिद्ध्यतीत्याह नहि इति । ऐन्द्रियकस्याभावो हि भवतामभावगम्य इति । ननु रूपोपलम्भ-
जन्यस्य प्राकट्यस्याभावेन वायौ रूपानुपलम्भोऽनुमीयत इत्याह प्राकट्याभावेन इति । वायौ रूपा-
-भावस्येव प्राकट्याभावस्यापि नाभावप्रमाणात्सिद्धिरित्याह न वायौ इति । नन्वस्तु वायौ रूपव्यवहाराभा-
वेन प्राकट्याभावोऽनुमेय इत्याह व्यवहाराभावेन इति । व्यवहाराभावस्यानैकान्तिकत्वान्न प्राकट्या-
प्रकाशः ।
धित्वमनुपलब्धेर्योग्यत्वं, तत्र न चक्षुरुपक्षय इति भावः । न हीति । विषयप्रत्यासत्ताविन्द्रियान्यथा-
सिद्धा क्वचिदपि इन्द्रियं करणं न स्यात्, अप्रत्यासन्नस्याऽजनकत्वादित्यर्थः । तद्विषयेति । अधि-
करणनिष्ठाभावग्रहे इत्यर्थः । वाय्वादिश्विति । चक्षुःसन्निकृष्टे वायौ चक्षुषा तद्धर्माग्रहे वायौ रूपा-
भावधीर्नाध्यक्षा, किन्त्वनुमितिरिति नेयं तत्र सामग्रीत्यर्थः । असिद्धिमेवोपपादयति न हीति ।
वायौ रूपाभावधीर्नानुपलब्धिलिङ्गजन्या, अनुपलब्धेरज्ञानात्, आप्तवाक्यस्यापि तद्बोधकस्याभा-
वात् । न चोपलब्धेरनुपलब्धिरज्ञातेव तद्द्वाथिका । उपलब्धेरतीन्द्रियत्वेन योग्यानुपलम्भेनानु-
पलब्ध्यभावस्य ज्ञातुमशक्यत्वात्, अनुपलब्धिमात्रस्य चाभावाग्राहकत्वादित्यर्थः । उपलम्भकार्य-
ज्ञातताया अभावेनोपलम्भाभावोऽनुमीयते इत्याह प्राकट्येति । वायौ रूपाभाववद्रूपाप्राकट्याभाव-
स्यापि दुर्महत्वं, यदि च स योग्यानुपलब्धिगम्यस्तर्हि रूपाभावोऽपि तथाऽभ्युपेयस्तुल्ययोगक्षेमत्वा-
दित्याह वायाविति । रूपज्ञानाभावे लिङ्गान्तरमाह व्यवहारेति । दृश्यमानो व्यवहाराभावो लिङ्गं,
प्रकाशिका ।
उपलम्भेति । उपलम्भस्य ज्ञातताचरमकारणतया ज्ञातताव्याप्यत्वादिति भावः । प्राकट्याभावलिङ्गत्व-
भ्रमं निवारयति रूपज्ञानाभाव इति । न चेति । अग्रिमग्रन्थेन कायेत्यादिगतार्थमिति शङ्कया
विकल्पयति दृश्यमान इति । व्यवहारसामान्याभावस्य नानैकान्तिकत्वमिति विकल्पयति
मकरन्दः ।
णीयस्यान्यत्रानुपक्षीणस्येन्द्रियस्याभावग्राहकत्वं सिद्धमिति भावः । उपलम्भेति । उपलम्भस्य
ज्ञाततायां चरमकारणत्वात्तदभावेन तदभावोऽनुमीयते इत्यर्थः । प्राकट्याभावलिङ्गत्वभ्रमं वारयति
रूपज्ञानाभाव इति । न चेत्यग्रिमग्रन्थेन गतार्थत्वात् कायेऽत्यादि व्यर्थमिति विकल्पयति दृश्य-
मान इति । ननु व्यवहारसामान्याभावस्य क्वाप्यसिद्धेरनैकान्तिकत्वमसिद्धमिति विकल्प्य योजयति
५५ न्या० कु०
४३४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां
राभावेनानुमेय इति चेन्न । कायवाग्व्यापाराभावेऽप्युपेक्षाज्ञानाभावाभ्युपगमात् ,
मूकस्वप्नोपपत्तेश्च । न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते । अनैकान्ति-
कत्वादसिद्धेश्च ॥
तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा ? तद्विषयज्ञानजनको वा ? तदाश्र-
यधर्मजनको वा ? । तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनि-
बोधनी ।
भावे ज्ञानाभावे लिङ्गतेत्याह न इति । इतश्चानैकान्तिकतेत्याह मूकस्वप्न इति । मूकतया वाचि-
कस्य व्यवहारस्याभावः, स्वप्नतया कायिकस्येति । ननु मा नाम हानोपादानलक्षणयोः कायवा-
ग्व्यवहारयोः ज्ञानविशेषकार्यत्वात्तदभावात् ज्ञानमात्राभावः प्राकट्यमात्राभावो वानुमीयतां, ज्ञानमा-
त्रस्य प्राकट्यमात्रस्य च व्यवहारमात्रं कार्यं, ततस्तदभावात् तयोरन्यतरस्याभावोऽनुमास्यत इत्या-
शङ्क्याह न च इति । यदि तावद्व्यवहाराभावमात्रमित्यत्र यः कश्चिद्व्यवहारो विवक्षितस्तदानैकां-
न्तिकता यस्य कस्यचिद्व्यवहाराभावस्य येन केनापि ज्ञानाभावेन व्याप्तेः, तथापि कस्यापि व्यवहा-
रस्य सर्वत्रासत्त्वादसिद्धश्च तन्मात्राभाव इति ।
अथ यद्विषयस्य ज्ञानस्य प्राकट्यस्य वा भावोऽनुमित्सितः तद्विषयव्यवहाराभाव एव लिङ्गमु-
च्यते तत्राह तद्विषयस्तु इति । कायिकवाचिकव्यवहारयोरपेक्षाज्ञानव्याप्यत्वाद् व्यापिनश्च व्यवहा-
रान्तरस्यानवगमात् तद्विषयो व्यवहारस्तद्विषयं ज्ञानं तदाश्रितं वा प्राकट्यलक्षणं धर्मं पुरस्कृत्य
तज्जन्य इति वा तज्जनक इति वा निरूपणीयः । ततो व्यवहाराभावश्चात्र तज्ज्ञानतदाश्रितधर्माभा-
वपुरस्कारेणैव निरूप्येत । तच्चाशक्यमात्माश्रयादिदोषप्रसङ्गात् । तथाहि यदा तद्विषयज्ञानव्यवहा-
राभावः तद्विषयज्ञानाभावे लिङ्गं तदापेक्षाज्ञानादिव्यापिनो व्यवहारान्तरस्याभावात्तद्विषयज्ञानमेव तज्ज-
न्यव्यवहारोऽभ्युपगन्तव्यः, तथाचात्माश्रयत्वं-तद्विषयज्ञानाभावादेव तद्विषयज्ञानाभावानुमानमिति ।
यदा तु तद्विषयज्ञानजनकस्य व्यवहारस्याभावो लिङ्गं तदा चक्षुरादिव्यापारस्य तज्जनकत्वात्तस्य च
ज्ञानस्य कार्यैकगम्यत्वात्तदभावोऽपि ज्ञानाभावावगम्यः, तथा चेतरेतराश्रयता-तज्ज्ञानाभावज्ञानात्तज्ज-
नंकव्यवहाराभावज्ञानं ज्ञानजनकचक्षुरादिव्यापाररूपव्यवहाराभावज्ञानाच्च तदभावज्ञानमिति । यदा च
तदाश्रितधर्मजनकस्य व्यवहारस्याभावो लिङ्गं तदा प्राकट्याख्यधर्मस्य ज्ञानहेतुकत्वादात्माश्रयत्व-
मेव । अथ तु ज्ञानद्वारा चक्षुरादिव्यापार एव जनकः तदा चक्रकं भवति ज्ञानाभावाच्चक्षुरादिव्या-
पारलक्षणस्य व्यवहारस्याभावः ज्ञानाभावश्च प्राकट्याभावात् स च तज्जनकव्यापाराभावात् स च
प्रकाशः ।
व्यवहारसामान्याभावो वा ? । नाद्यः अनैकान्तिकत्वादित्याह कायेति । अन्त्येऽपि यदि स्वकी-
यव्यवहारमात्राभावस्तदाऽनैकान्तिकं, सर्वस्य तु तदभावो ग्रहीतुमशक्य इत्याह न चेति ।
ननु अनुपेक्षणीयविषयकः स्वकीयरूपवत्ताज्ञानाभावस्तद्विषयकस्वकीयरूपव्यवहाराभावेनानुमेय
इत्यत आह-
तद्विषयस्त्विति । तदभावश्चेति । आद्ययोर्ज्ञानाभावान्तर्भूतः, अन्त्ये तदाश्रयधर्माभावान्तर्भूत
प्रकाशिका ।
अन्त्येऽपीति । आद्ययोरिति । यद्यपि व्यवहाराभावो ज्ञानभावादन्यस्तथापि ज्ञानाभावेनैव सोऽनुमेय
इत्यन्तर्भावार्थः । तथाचात्माश्रयादिरिति भावः । तदाश्रयधर्माभावान्तर्भूत इति । ज्ञानाभावानुमानद्वारा
प्राकट्याभावात्मकतदाश्रयधर्माभावोऽनुमेय इत्यर्थः । केचित्तु घटज्ञानप्रतियोगिकतया ज्ञानाभाववद-
मकरन्दः ।
अन्त्येऽपीति । आद्ययोरिति । यद्यपि व्यवहाराभावो न ज्ञानाभावान्तर्भूतस्तस्य ततोऽन्य-
त्वात् , तथापि ज्ञानाभावेनैव सोऽप्यनुमेयस्तज्ज्ञानत्वात्माश्रयादिनाऽसम्भवेति व्यवहाराभावोऽशक्य-
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३५
श्रय एव । आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् । न चाज्ञातस्योपलम्भाद्य-
भावस्य लिङ्गत्वम् । न च प्राक्प्रध्वंसाभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति
युक्तम् । लिङ्गाभावस्य तथात्वेऽतिप्रसङ्गात् । अविनाभावबलेन तु नियमे तत्प्र-
तिसन्धानापत्तेः । न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादा-
वपि तथाभावप्रसङ्गादिति । ज्ञानप्रत्यक्षत्वेन त्वद्दिशा अविष्यतीति चेन्न ।
बोधनी ।
ज्ञानाभावादिति । न च व्यवहाराभावमात्रेणोत्यादेरपरा व्याख्या—न केवलमनैकान्तिकः असिद्धश्च
व्यवहाराभाव इत्याह न च इति । उक्तस्यैवानैकान्तिकत्वस्यानुभाषणं दृष्टान्तार्थमिति व्यवहारस्वरूप-
निरूपणपुरःसरं व्यवहाराभावं निरूपयंस्तस्यासिद्धिमेवाह तद्विषयस्तु इति । ननु विद्यमान
एवानुपलम्भो यदि रूपाभावं गमयेत् अविनाभावेन तत एते दोषाः प्रादुष्युः, न त्वेवमित्याशङ्कयाह
न चाज्ञातस्य इति । तथा सति लिङ्गत्वं न स्यादिति भावः । ननूपलम्भलिङ्गस्य प्राक्प्रध्वंसा-
भावो लिङ्गिन उपलम्भस्याभावं गमयिष्यतीत्याह न च इति । स हि लिङ्गाभाव इत्येव
लिङ्गिनोऽभावं गमयेदविनाभावेन वा ! प्रथमे धूमाभावोऽप्यग्न्यभावं गमयेत्, द्वितीये
त्वविनाभावः स्वस्य हेतुस्वरूपस्य च प्रतिसंधानमपेक्षेत, अन्यथाऽतिप्रसङ्गादिति । ननु
नैयायिकमतालम्बनेन प्रत्यक्षत्वमभ्युपगच्छामः, ततो भावप्रमाणावगतेनैव ज्ञानाभावेन वायौ
रूपाभावमनुमीमह इत्याह ज्ञानप्रत्यक्षत्वेन इति । तर्हि प्रामाणिकं पन्थानमागतो यथा-
प्रकाशः ।
एवेत्यर्थः। आत्माश्रयेति। यदि तद्विषयज्ञानाभावेनैव तद्विषयज्ञानाभावोऽनुमेयस्तदाऽऽत्माश्रयः ।
अथ तद्विषयज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकव्यवहाराभावेन च तद्विषयकज्ञाना-
भावज्ञानं, तदाऽन्योन्याश्रयः । अथ तद्विषयज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकज्ञाना-
भावश्च तद्विषयकप्राक्प्रध्वंसाभावात् , स च तद्विषयकज्ञानाभावात् , तर्हि चक्रकमित्यर्थः ।
नन्वन्येषामज्ञातानामलिङ्गत्वेऽपि प्राक्प्रध्वंसाभावः सत्त्वयैव ज्ञानाभावं गमयिष्यति । न चायोग्य-
प्रतियोगिकत्वेनायोग्योऽस्याभाव इति वाच्यम् । अनुपलब्धेरेव तद्विशेषणवत्त्वादित्यत आह न
चेति । स हि व्याप्तिबलेन वा प्रतिपादयेल्लिङ्गाभावत्वमात्रेण वा, कार्य्याभावमात्रतया वा ? तत्रं न
मध्यमान्तिमावित्याह लिङ्ग'भावस्येति । धूमाभावस्यापि सत्त्या गमकत्वापातादित्यर्थः । आद्यमा-
शङ्कय निराकरोति अविनाभायेति । न ह्युपलम्भाभावो भवतामभावोपलम्भ इत्यत्र शङ्कते
ज्ञानेति । प्रत्यक्षेण ज्ञानाभावं ज्ञात्वा तस्माल्लिङ्गाद्वायौ रूपाभावानुमानं स्यादित्यर्थः । मन्मते प्रति-
प्रकाशिका ।
शक्यनिश्चय इति आद्ययोरिति पङ्क्त्यर्थः । तदाश्रयधर्म्मघटितप्रतियोगिकतया प्राक्प्रथाभावाद्-
निश्चय इति तदाश्रयेत्याद्युत्तरपङ्क्त्यर्थ इत्याहुः । न चायोग्यप्रतियोगिकत्वेनेति स्वरूपसद्भावो
योग्यप्रतियोगिकमेवाभावं गमयतीत्यर्थः । अनुपलब्धेरेवेति । अनुपलब्भस्य ग्राहकत्वे स नियम
इत्यर्थः । न ह्युपलम्भाभाव इति । नैयायिकोक्तं शंकत इत्यर्थः । प्रत्यक्षेण स्वरूपसदनुपलब्ध्या ।
मन्मत इति । मन्मताश्रये रूपाभावो वायौ प्रत्यक्ष एव तदनाश्रये तु ज्ञानाभावोऽयोग्य एवेति
मकरन्दः ।
निश्चयः । एवञ्च तदाश्रयधर्म्माभावस्तद्विषयप्राक्प्रध्वंसाभावः, तस्यापि तदनुमापकत्वे चक्रकादिना
सोऽशक्यनिश्चय इत्यत्र तात्पर्यम् । ज्ञानाभावान्तर्भूतो ज्ञानघटितप्रतियोगिकतया ज्ञानाभाववदतीन्द्रिय
इत्यर्थः । ज्ञानाभावश्चेति । तज्ज्ञानमित्यर्थः । यद्वा अनुमेय इति पूर्वोक्तमनुषञ्जनीयम् । अनु-
पलब्धेरेवेति । प्राक्प्रध्वंसाभावस्त्वयोग्यमपि गमयिष्यतीत्यर्थः ।
शब्दध्वंसादिनोक्तोत्तरत्वात्। अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिर-
नुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद्व्यवस्थाप्येत, व्याप्तिवलाद्वा?।
न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते। नापि व्याप्तेः।
तथासति वायौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात्। अनाक्षेपे चा, न
तत्कारणको भवेद् न वा भवेत्। ततो न भवत्येव, लिङ्गात्तदुत्पत्तिरिति चेत्।
ननु लिङ्गमपि सैव, न तत्त्वान्तरम्। यथा योनिसम्बन्धोऽलिङ्गदशायामिन्द्रियस-
बोधनी।
प्रमाणं वायो रूपाभावश्चाक्षुष इत्यभ्युपगच्छ । न च कथं नामाचाक्षुषो वायौ रूपाभावश्चाक्षुषः स्यां-
दिति शङ्कावकाशः शब्दप्रध्वंसप्रत्यक्षत्वसाधनेनाधिकरणप्रत्यक्षत्वस्यानङ्गत्वप्रतिपादनेन दत्तोत्तरत्वा-
दित्याह न शब्देति । तदेवं यदि प्रतियोगिग्राहिणेन्द्रियेणाधिकरणसमवेतं धर्मोपलम्भः तद्वि-
षयाभावग्रहे हेतुः ततो वायौ रूपाभावप्रतीतिर्न स्यात् अनुमानस्तत्प्रसिद्धेरित्युक्तम्, इदानीं तत्रैव
दूषणन्तरमाह अपि च इति। तद्रहिताया वस्त्वन्तरप्रतीतिरहितायास्तस्या अनुपलब्धेः कार्य-
व्यभिचारात्सत्यामनुपलब्धौ कदाचित्कार्यस्याभावग्रहणस्यानुत्पत्तेः तत्प्रतीतिरप्यङ्गममिति व्यवस्था-
प्येत व्यतिरेकाभावेऽप्यन्वयव्याप्तिवलाद्वेति। तत्र प्रथमे दूषणं न तावत् इति। + प्रति + +
प्रतियोगिग्राहकेन्द्रियसन्निकर्षैः सहितानां प्रतीतिद्वये दूषणं - नापि व्याप्तेः इति । सत्यां हि
व्याप्तौ भवन् रूपाभावप्रत्ययः तां वस्त्वन्तरप्रतीतिमाक्षिपेदेवम्भूतत्वादभावप्रत्ययस्य वस्त्वन्तरप्र-
तीतिव्यासत्वात् । यदि नाक्षिपेत् तर्ह्यभावप्रत्ययो वस्त्वन्तरप्रतीतिहेतुको न स्यात्स्वयं वा न भवेत्
तत्कारणकस्य वस्त्वन्तरग्रहणस्याभावात् । अस्ति चायं चायाविति प्रतिक्षिप्तमपि पक्षं दूषणान्तर-
विवक्षयोपक्षिपत्ति तत इति। ततः प्रमाणान्तरभूताया अनुपलब्धेर्वायौ रूपाभावप्रतीतिर्न भवती-
त्येव किंतु लिङ्गभूताया तदा च वस्त्वन्तरप्रतीतिर्नापेक्षणीयेति। लिङ्गमपि इति । न हि तस्या
एव कदाचिद्वस्त्वन्तरप्रतीतिरपेक्षणीयाऽन्यदापि युक्तमिति। ननु यथा ह्यलिङ्गदशायां मातापितृसं-
बन्धश्चक्षुःसंनिकर्षमपेक्षते ब्राह्मण्यज्ञानेन तु लिङ्गावस्थायां तथेहापि स्यादित्याह यथा इति । न
प्रकाशः।
योगिमत्तयाऽनुपलम्भाद्वायौ रूपाभावः प्रत्यक्षत्वान्नानुमेयः, शब्दाभावप्रत्यक्षत्वव्यवस्थापन या आश्र-
ययोग्यतायास्तद्धर्मग्रहस्य चाभावप्रत्यक्षताऽङ्गत्वनिरासादिति परिहरति शब्देति। व्याप्तिवलाद्वेति।
कार्यकारणभावस्य व्याप्तिविशेषत्वेन गोवृषन्यायात् तां विनां याः व्याप्तिस्तद्वलादित्यर्थः। तां
विनेति। अधिकरणवृत्तितद्धर्मप्रतीतिं विनेत्यर्थः। एवम्भूतत्वाद् व्याप्यत्वादित्यर्थः। अनाक्षेपे चेति।
अधिकरणवृत्तितद्धर्मप्रतीत्यनाक्षेपे वा नाभावधीस्तद्धेतुका तद्व्याप्या वा । तथात्वे वा हेतुं विना व्यापकं
विना वा न भवेदित्यर्थः। **ततः-**अधिकरणधर्मप्रतीतीत इत्यर्थः। सैव- अनुपलब्धिरेवेत्यर्थः।
यथेति। यथा विशुद्धमातापितृयोनिरुजत्वं लिङ्गालिङ्गदशायामिन्द्रियसम्बन्धनिरपेक्षसापेक्षं, तथानुप-
प्रकाशिका।
न अनुपलब्धिलिङ्गात्सुमेयो वायौ रूपाभाव इति समुदायार्थः। न च ज्ञानप्रत्यक्षत्वमङ्गीकृत्य ममैक-
देशिनः प्रत्यवस्थानमुचितमिति वाच्यम्। अनुपलब्धेः कारणत्वेऽपि निर्व्यापारत्वेनाकरणत्वादिति
भावः। तद्रहिताया इत्यादेः कार्यकारणभावपरत्वादाइ कार्यकारणोति। सैवेति। तच्च दूषित-
मिति भावः। तथेति। अधिकरणधर्मप्रतीतिनिरपेक्षा तत्सापेक्षा चेत्यर्थः। सा अधिकरणधर्म-
मकरन्दः।
^सैवेति। तच्च दूषितमिति भावः। तथेति। अनुपलब्धिरप्यधिकरणधर्मज्ञाननिरपेक्षासापेक्षा
स्यादित्यर्थः।
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३७
न्निकर्षमपेक्षते, लिङ्गदशायान्तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति
चेन्न। कार्यजातिभेदात्तदुपपत्तेः। प्रकृते च तदनभ्युपगमात्। पारोक्ष्यापारोक्ष्ये
विहायान्यथाऽप्यसौ भविष्यतीति चेन्न। अनुपलब्भात्। सम्भाव्यते तावदिति
चेत्, सम्भाव्यतां, न त्वेतावताऽपि तमाश्रित्य करणनियमनिश्चयः।
∴ अज्ञाताकरणत्वाच्च। यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजं, यथा रूप-
बोधनी।
इति। तत्र हि ज्ञानात्मनः कार्यस्य पारोक्ष्यापारोक्ष्यलक्षणजातिभेदात् योनिसंबन्धस्येन्द्रियापेक्षा-
नपेक्षयोरुपपत्तिरिह चोभयोरिति। वस्त्वन्तरग्रहापेक्षतदनपेक्षानुपलब्धिकार्ययोरभावज्ञानयोः पारो-
क्ष्याभ्युपगमेन जातिभेदाभावात् सहकारिवैचित्र्यानुपपत्तिरिति। ननु परोक्षत्वेऽपि वस्त्वन्तरग्रह-
णापेक्षानुपलब्धिजन्यस्य प्रकारान्तरेणासौ जातिभेदो भविष्यतीत्याह पारोक्ष्य इति। न इति।
परोक्षापरोक्ष्यव्यतिरेकिणो ज्ञानान्तरजातिभेदस्याप्रामाणिकत्वादिति। संभाव्यते इति। यद्यपि न
प्रमाणोपलम्भ इति शेषः। सम्भाव्यताम् इति। न हि संभावनामात्रसिद्धं जातिभेदमाश्रित्यास्मिन्
जातिभेदे वस्त्वन्तरग्रहापेक्षानुपलब्धिः कारणमंस्मिंस्तु तन्निरपेक्षेति कारणनियमः शक्यनिश्चय इति।
तृतीयं हेतुमनूद्य व्याचष्टे अज्ञातकरणत्वात् इति। साक्षादनन्यत्रचरितार्थेनेन्द्रियेण जन्य-
प्रकाशः।
लब्धिरपि स्यादित्यर्थः। कार्येति। दृष्टान्तस्य तत्सापेक्षस्याऽपरोक्षज्ञानजनकत्वं तन्निरपेक्षस्य च
परोक्षज्ञानजनकत्वम्। अत्र तु लिङ्गानुपलब्धिजन्याभावज्ञाने जातिभेदाभावाल्लिङ्गानुमितौ व्यभि-
चारात्सा कारणं न स्यात्। तद्वदपरोक्षजात्यङ्गीकारे च तत्रेन्द्रियजन्यत्वमावश्यकमित्यर्थः। न च
जातिं विनाऽपि व्याप्त्यादिज्ञानविनाकृतानुपलब्धिजन्याभावज्ञाने सा कारणमिति वाच्यम्। अनुप-
लब्धिजन्यज्ञानत्वेनैव तल्लिङ्गकानुमितिवद्विवादपदेऽपि तदकारणत्वानुमानात्। इन्द्रियान्यथा-
सिद्धेर्निरोसादिति भावः। सम्भाव्यतामिति। कार्यजातिसम्भावनया तज्जातीयनियतस्य कारणत्वस-
म्भावनायामपि तत्रानिश्चयादित्यर्थः।
यदज्ञायमानेति। नन्विदमनुमित्यादावनैकान्तिकं तस्याज्ञायमानमनःकरणकत्वात्। न च
ज्ञायमानकरणजन्यत्वं लिङ्गं, लिङ्गादेरजनक तया तज्ज्ञानस्याज्ञायमानस्यैव करणत्वात्। नापि ज्ञाना-
साधारणकारणकत्वाभावो लिङ्गम्, अभावज्ञाने प्रतियोग्यादिज्ञानजन्यतया तदसिद्धेः। सविकल्पक-
मात्रस्यैव विशेषणज्ञानजन्यत्वाच्च। मैवम्। लिङ्गादिज्ञानाजन्यानुभवत्वस्य लिङ्गत्वात्। साक्षा-
प्रकाशिका।
प्रतीतिः। अनुपलब्धिजन्यज्ञानत्वेनैवेति।
मकरन्दः।
लिङ्गादीति। अत्रानुभवपदं व्यर्थं स्मरणस्यापि दृष्टान्तत्वेन साध्यवत्त्वाभ्युपगमात् अत एव
परिमले ज्ञानत्वस्येति पाठ इति वदन्ति। वस्तुतो यथाश्रुतसाध्ये मनसैव सिद्धसाधनप्रसङ्गान्मनो-
भिन्नेन्द्रियत्वमिन्द्रियत्वेनेन्द्रियजत्वं वा तदर्थः। तथा च स्मरणे व्यभिचारादनुभवपदमिति।
द्वितीयदृष्टान्तेऽनुशयप्रकाश एवायं प्रकाशकृत इति प्रतिभाति। अत एवाह साक्षादिति। यद्यप्यात्ममनो-
योगलक्षणतद्व्यापारस्य न व्यवधानमन्यथा चक्षुरादावपि तथात्वेन वाधापत्तेः, तथापि निरुक्त एव तात्प-
र्यार्थम्। यथाश्रुतमभिप्रेत्याह साक्षादिति। विपक्ष इति। तथा चाप्रयोजकत्वपरोऽयं ग्रन्थ इत्यर्थः।
भावविषयत्वोपाधिपरस्तु नेत्याह।
४३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां
प्रत्यक्षम्, तथा चेह भूतले घटो नास्तीति ज्ञानमिति । यथा वा स्मरणमज्ञायमा-
नकरणजं साक्षान्मनोजन्म । कुतस्तर्हि न साक्षात्कार्यनुभवरूपम् ? । संस्काराति-
रिक्तसन्निकर्षाभावादिति वक्ष्यामः।
बोधनी ।
मिति तत्रैवोदाहरणान्तरमाह यथा वा इति । यदि स्मरणं साक्षान्मनेन्द्रियजं तर्हि सुखादिज्ञान-
वदस्य साक्षात्कारित्वानुभवत्वे न किमिति स्त इत्याह कुत इति ।
प्रकाशः।
दिति, मनसा व्यवहितव्यापारेण सिद्धसाधननिरासार्थम्, उपनीतभाननिरासार्थं वा। कुत इति।
साक्षादिन्द्रियसन्निकर्षजन्यस्य प्रत्यक्षत्वव्याप्तत्वादित्यर्थः । संस्कारेति । संस्कारान्यः सन्निकर्षः
प्रकाशिका ।
(१) तत्पर एतेन प्राङ्नास्तीत्यादिग्रन्थ इत्यर्थः । अरुचिबीजन्तु सन्मुखार्थत्याग
एवेति । इन्द्रियजन्यत्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन नोत्तरविरोधः ।
तथा च ज्ञानाकरणकत्वं साक्षात्त्वप्रयोजकमिति भावः । इन्द्रियसन्निकर्षजेति ।
चक्षुष्कृतिर्गतिमत्संयोगजन्या चलघटसंयोगाश्रयत्वादित्यनुमितेर्ज्ञायमानकारणतापक्षे इन्द्रियसन्निकर्ष-
जन्यत्वादित्यर्थः । ननूदाहतानुमितौ साक्षात्कारित्वं कुतः ? इन्द्रियसन्निकर्षात्मककरणजत्वप्रयोज्य-
त्वात् साक्षात्कारित्वस्य, तथा च कथं साक्षात्कारित्वप्रसङ्ग इत्यत आह असाक्षात्कारित्व-
स्येति । तथा च साक्षात्कारित्वप्रयोजकाज्ञातकरणकत्वाभावादेव तत्रासाक्षात्कारित्वमिति भावः । ननु
असाक्षात्कारित्वं परोक्षत्वम् तच्च जातिरेव कुतो नैत्यत आह अनुभवत्वेनेति । स्मृतेरपि
परोक्षत्वादिति भावः । इदञ्च वस्तुगतिमभिरुद्ध्य, वस्तुतस्तु जातित्वेऽपि ज्ञायमानकरणकत्वप्रयोज्य-
त्वमेव तदिति नोक्तानुमितौ तदभावो नापि स्मृतिवृत्ति तदिति अनुभवत्वेन संकर इत्यवधेयम् ।
न चेति । इन्द्रियत्वेनेन्द्रियजन्यत्वं साक्षात्त्वप्रयोजकं, तथाचेन्द्रियाजन्यतया नाभावधीः साक्षात्क-
रिणीति भावः । तत्रासिद्धिमाह प्रकृतेरपीति । तत्त्वात् = इन्द्रियजन्यत्वादित्यर्थः । वायोरतीन्द्रि-
यतया त्वद्दुषनीतत्वमसम्भवतीति तदर्थमाह वायोरिति । तथा च धीरिति । यद्यपि रूपाभावधीः
साक्षात्कारित्वेनैव नैयायिकाभिमतेति तस्या उक्तसामग्रीव्यभिचार एव, तथापि या धीः स्वरूपसद-
नुपलब्धिजन्यत्वेनोभयसिद्धेत्यत्र तात्पर्य्यम् । साक्षात्कारित्वेनाभिमताया इति । स्वरूपसदनु-
पलब्धिजन्यत्वेनोभयसिद्धाया इत्यर्थः । यदि चेति । तथाचानुपलब्धेः प्रतियोगिग्राहकेन्द्रियजन्या-
धिकरणज्ञानसहकारिकारणविरहादिन्द्रियजन्यैव वायौ रूपाभावधीरिरिति भावः । प्रत्यक्षश्चेति ।
एतावता स्वरूपसदनुपलब्धेर्ग्राहकत्वमात्रंसिद्धावपि पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वसिद्धिरिति ध्येयम् ।
चक्षुषेति । तथा च नाश्रयग्रहे किन्तु तत्सन्निकर्ष एवेन्द्रियमन्यथासिद्धमिति भावः । सन्निकर्षेण
यदीन्द्रियमन्यथासिद्धं तदा घटोऽपि नेन्द्रियग्राह्यः स्यादिति न तेन तदन्यथासिद्धिरित्याशयेन
मूलं हन्तेवमिति । क्वचिदेतदाशयनेवेदिका सन्निकर्षो हीत्यादि पङ्क्तिका प्रकाश एव पठितेति ।
अकारणमेवेति । अप्रयोजकमेवेत्यर्थः । परम्पराकारणं कारणकारणमित्यर्थः । महान्धकार इति मूलं
स्पर्शननेन्द्रिययोग्यालोकाभावप्रतिपादनाय । ननु प्रतीयत एवेति आकाशं, त्वचापि गृह्यत इति
मतमाश्रित्येदमुक्तम् । नालोकसन्निकर्षेति । तत्र यद्यपि महान्धकारे ज्ञानाभावादित्यपि दूषणम्,
तथापि तस्मिन्स ?–त्रुटिः ) ।
इदञ्च ज्ञायमानकारणत्वपक्षे न चाप्रयोजकत्वं निर्व्यापारत्वस्य विपक्षबाधकत्वात्, न च
तयाप्तत्यकरणत्वप्रसङ्ग एवेत्यस्ति बाधकोऽपि तर्क एवेत्यत आह इन्द्रियेति । तथा
(१) इयं व्याख्या सिंहावलोकनन्यायेन ४२७ पृष्ठतो द्रष्टव्या ।
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३६
तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षा-
दिन्द्रियजं भविष्यतीति चेन्न । उत्सर्गस्य बाधकाभावेन सङ्कोचाद्यनुपपत्तेः । अन्यथा
सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् । तथापि विपक्षे किं बाधकमिति
· बोधनी ।
संस्कार इति । न तावदनुभवत्वं संस्कारातिरिक्तासाधारणकारणाभावान्, नापि साक्षात्का-
रित्वमिन्द्रियार्थसन्निकर्षासमुत्थत्वादिति वक्ष्यामश्चतुर्थे परिच्छेदे इति ।
अज्ञायमानकरणकेन ज्ञानेनेन्द्रियेण भवितव्यमिति व्याप्तिर्भावज्ञानेषु नाभावज्ञानेष्वपीत्याह
तथापि इति । न इति । सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेणाभावविषयत्वेन संकोचानुप-
पत्तेस्तथापि वा संकोचेऽतिप्रसङ्ग इति । मा भूत्संकोचः तथाप्यज्ञायमानकरणकस्यैव कस्यचिद् ज्ञान-
स्यानिन्द्रियजत्वे किं बाधकमित्याह तथापि इति । बाधकं वि + (ना ?) + त्सर्गापवादेऽतिप्रसङ्ग इत्येत-
प्रकाशः ।
प्रत्यक्षत्वप्रयोजकः, स्मरणे तु स एव सन्निकर्षः । प्रत्यभिज्ञाने तु तत्ता स्मृत्युपनीता भासते, न तु
संस्कारस्तत्सन्निकर्षः । तज्जन्यत्वे स्मृतित्वापत्तेरित्यर्थः ।
तथापीति । विपक्षे बाधकाभावादित्यर्थः । न च भावविषयत्वमुपाधिः, अभावज्ञानेऽपि
प्रतियोग्यादिभावविषयतया साधनव्यापकत्वात् । नाप्यभावविषयत्वं, अभावस्मरणे साध्याव्याप-
कत्वात् । उत्सर्गस्येति । सामान्यत एव व्याप्तिर्भावविषयत्वस्य गुरुत्वादित्यर्थः । तथाप्यु-
त्सर्गस्य बाध्यत्वशङ्कानिवारकं किमित्याह, तथापीति । निर्बीजतादृशशङ्कायां सर्वत्र सामान्य-
प्रकाशिका ।
चेन्द्रियमेव करणमिति भावः । नन्विदमिति । न च तत्रापि मनोजन्यतया साध्यमस्त्येवेति
वाच्यम् । यथाश्रुते सिद्धसाधनतया विषयप्रत्यासन्नेन्द्रियजन्यत्वस्य साध्यत्वात् । लिङ्गादीति ।
सिद्धान्तेऽप्यनुभवपदं ज्ञानपरम् । अत एव मूलोक्तद्वितीयदृष्टान्तासङ्गतिः साध्यस्यापि निरुक्तस्य
संस्कारलक्षणां प्रत्यासत्तिमादाय स्मरणे सत्त्वात् । कैश्चित्तु सिद्धसाधनापनुत्तये मनोभिन्नेन्द्रियज-
न्यत्वमिन्द्रियत्वेनेन्द्रियजन्यत्वं वा साध्यमित्याशयेन व्यभिचारदेशनेयं द्वितीयदृष्टान्ते चारुचिरेव
प्रकाशकृतः अत एव सिद्धान्तेऽनुभवपदोपादानं करिष्यति स्मरणे निरुक्तसाध्याभावादिति वदन्ति ।
मास्तु प्रतियोगिज्ञानत्वेनाभावज्ञानं प्रति जनकत्वं तथाप्यसिद्धिरैवेत्याह सविकल्पकेति । मननेति-
व्यवहितव्यापारत्वञ्च विषयाप्रत्यासन्नत्वादिकमेव बोध्यम् । उपनीतेति । तथा चोपनीताभावज्ञानेऽशतः
सिद्धसाधनवारणाय साक्षात्पदं ज्ञानादिप्रत्यासत्तिरहितपरमिति भावः । साक्षादिति । यदपि
चेन्द्रियत्वेनेन्द्रियजन्यत्वस्य साक्षात् प्रयोजकत्वेनेयं शङ्का तथापीन्द्रियसन्निकर्षासाधारणकारणत्वमेव
साक्षात्त्वप्रयोजकमित्यभिप्रायेण शङ्केयमिति भावः । स्मृतित्वापत्तेरिति । इदमुपलक्षणम् । वस्तुतो
विशिष्टानुभवं प्रत्यव्यवहितविशेषणज्ञानं कारणमन्यथा स्मरणसमयेऽनुभव एव स्यादिति त-
त्राऽपि स्मृतिरेव प्रत्यभिज्ञाकारणमित्यपि द्रष्टव्यम् । विपक्ष इति । तथा चाप्रयोजकत्वपरोऽयं
ग्रन्थ इति भावः । ननूपाधिपरत्वेनैव किमिति न व्याख्यात इत्यत आह न चेति । नत्वित्यर्थः । उपाधि-
रित्यनन्तरमित्यर्थ इति शेषः । भावाभावविषयतेति काचित्कः पाठः । तत्राभावपदं दृष्टान्तार्थम्
अभावस्मरण इति । एतच्च यथाश्रुतसाध्यं विषयप्रत्यासन्नेन्द्रियजन्यत्वं वा विवक्षितम् । साध्यमभिप्रेत्य
पौनरुक्तमाशङ्क्याह तथापीति । आत्मादिना सिद्धसाधनवारणायाह ।
मकरन्दः ।
न चेति । न त्वित्यर्थः । इत्यर्थ इति शेषः, भावाभावविषयतेति यदि पाठः क्व चित्तदाऽभावपदं
सम्पातायातम् । अभावस्मरण इति । एतच्च यथाश्रुते । वस्तुत उपनीताभावप्रत्यक्षे तयात्वम् । अदृष्टा-
दिना अर्थान्तरादाह लिङ्गादिति ।
४४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां
चेत्। नन्विदमेव तावत्। अन्यदप्युच्यमानमाकर्णय। तद् यथा अकारणकका-
र्यप्रसङ्गो, रूपाद्युपलब्धीनामपि वाऽनिन्द्रियकरणत्वप्रसङ्गः। न ह्यनुमित्यादिभिरु-
पलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपि त्वनुपलभ्यमानकरणिकाभी
रूपाद्युपलब्धिभिरेव। यद्यपि साक्षात्कारिताऽपि तत्रैव पर्यवस्यति, तथापि प्रथ-
मतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने। न ह्युपलभ्यमाने कर-
णान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चित्कल्पयिष्यत्।
अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः। संस्कारस्त्व-
र्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात्।
भावावेशाच्च चेतसः। सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणा-
बोधनी।
देव तावद् बाधकं किमन्यन्मृग्यत इत्याह नन्विदम् इति। नन्वन्वतः सिद्धायां याप्तावेव तद्वक्तुं
युक्तं तत्सिद्धिश्च विपक्षे बाधकादित्याशङ्क्याह अन्यदपि इति। इह घटो नास्तीति बुद्धिरतीन्द्रि-
यजा निर्हेतुकैव स्यात् हेत्वन्तरासंभवादिति बाधकान्तरमाह रूपादीति। तासामपीन्द्रियजत्व-
मज्ञातकरणत्वाधीनसिद्धीति भावः। तमेव स्फोरयति न हि इति। उपलभ्यमानकरणिकास्रनुमि-
त्यादिषु इन्द्रियस्य कारणत्वेनाव्यवस्थापनादनुपलभ्यमानकरणिकासु रूपादिबुद्धिषु तद्व्यवस्थाप-
नादज्ञातकरणत्वमेवेन्द्रियत्वे प्रयोजकमिति निश्चीयत इति। ननु रूपादिबुद्धीनां चक्षुरादिकारणत्व-
कल्पने तासां साक्षात्कारित्वमेव प्रयोजकं न त्वज्ञातकरणत्वमित्यत्राह यद्यपीति। रूपादिबुद्धीनां
सत्यपि साक्षात्कारित्वे प्रथमतः कार्यदर्शनसमय एव कारणमपेक्षमाणः कारणान्तराज्ञानेनैव चक्षु-
रादि कल्पयति, नतु तासां साक्षात्कारित्वमप्यनुसंधाय, ततश्च प्रथमभाविनो ज्ञातकारणत्वस्यैव
प्रयोजकत्वमिति तदेव व्यतिरेकमुखेन स्फोरयति नहि इति। अत एव इति। यत एवाज्ञातकार-
णत्वमेव प्रयोजकमैन्द्रियकत्वे न तु साक्षात्कारित्वमत एवेति। संस्कारकरण एव स्मृतेः नतु मनं
इति चेत् तत्राह संस्कारस्तु इति। करणस्य मनइन्द्रियस्य विषयप्राप्तिरूपतया संस्कार उपयु-
ज्यते, न तु कारणत्वेनेति।
तुरीयं हेतुमनूद्य व्याचष्टे भावावेशाच्च इति। बहिः स्मरणादन्तःसुखाद्यनुभवाच्चान्यत्र सर्व-
त्रैन्द्रियलिङ्गादिभावात्मककरणसहायमेव मनः प्रवर्त्तमानं दृष्टमतो व्याप्तिवलादभावानुभवेऽपि किमपि
भावरूपं कारणमाविश्य मनः प्रवर्त्तत इत्यनुमीयते, तच्च कारणमिन्द्रियमेवावशिष्यत इत्यर्थः। ननु
प्रकाशः।
व्याप्त्युच्छेद इत्याह। नन्विदमिति। उत्सर्गस्य बाधकं चिन्त्येत्याशङ्केत्यर्थः। अकारणकेति।
अज्ञातकरणकत्वावच्छिन्नज्ञानं प्रतीन्द्रियस्य करणत्वादिन्र्दियं विना तन्न स्यादित्यर्थः। न हीति।
ज्ञातकरणकज्ञानेन करणतया नेन्द्रियं कल्प्यते, किन्त्वज्ञातकरणकज्ञानेनेत्यर्थः। ननु नाज्ञायमानकर-
णकज्ञानत्वेन चक्षुरादिकल्पनम्, अपि तु साक्षात्कारिज्ञानत्वेनेत्यत आह यद्यपीति। तत्रैव
इन्द्रियकरणकत्व एवेत्यर्थः। यदि च साक्षात्कारिज्ञानमेवेन्द्रियसिद्धौ मानं स्यात्; तदा स्मृतेस्त-
दभावान्नमनःकरणत्वं नानुमीयेतेत्याह अत एवेति। न चैवं स्मृतेः साक्षात्कारित्वापत्तिः।
संस्कारातिरिक्तसन्निकर्षाभावादित्युक्तत्वात्। ननु स्मृतौ संस्कार एव कुतो न करणमित्यत आह
संस्कारस्त्विति। इन्द्रियाणामप्राप्तानां ज्ञानाजनकत्वात्, संस्कारस्य च निर्व्यापारत्वेनाकरणत्वा-
दित्यर्थः।
भावावेशादिति। भावरूपासाधारणकारणसाहित्यनियमादित्यर्थः। तथा चाभावप्रमायां
मनो भावभूतासाधारणकारणसहकृतमेव करणमिति भावः। प्रयोगश्च लिङ्गाद्यजन्या अभावप्रमा
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४१
विष्टमेव चेत् उपयुज्यते नातोऽन्येति व्याप्तिः । तथैव शक्तेरवधारणात् । न ह्यनु-
पलब्धिमात्रसहायं तदभावे ऽप्यनुभवमाधातुमुत्सहते । शब्दलिङ्गादेरपेक्षादर्शनात् ।
न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धं, तदेव तस्यैव तदनपेक्षं जनकमिति न्याय-
सहम् । आर्द्वेन्धनसंवन्धमन्तरेणापि दहनाद् धूमसम्भावनापत्तेः । तथाच गतं कार्य-
कारणभावपरिग्रहव्यसनेन ॥ २० ॥
अपि च
प्रतियोगिनि सामर्थ्याद्व्यापाराद्व्यवधानतः ॥
अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥ २१ ॥
बोधनी ।
भावानामुपलम्भ एवार्थं नियमः, अभावानुभवे तु बहिरस्वतन्त्रमनुपलब्धिमात्रसहायं भविष्यती-
त्यत्राह नहि इति । अभावानुभवेऽपि शाब्दलैङ्गिकादौ मनसः शाब्दादिभावरूपकारणापेक्षादर्शना-
दिति । अन्यत्र तथादर्शनेऽपीह घटो नास्तीत्यत्रानुपलब्धिमात्रसहायं भविष्यतीत्याह न च इति ।
यद्वा भावानुभवे भावकारणापेक्षमप्यभावानुभवे तन्निरपेक्षमेव मनो भविष्यतीत्यत्र दोषान्तरमाह
न च इति । तथा च इति । अपेक्षणीयत्वेनावधृतस्याभावेऽपि कार्योत्पत्त्यभ्युपगमे न किञ्चित्कस्य-
चित्कार्यं कारणमिति वा परिगृह्येताविशेषादिति ॥ २० ॥
अपरानपि चतुरो हेतूनुपन्यस्यति अपि च प्रतियोगिनि इति । इन्द्रियाणि पक्षः, अभाव-
प्रकाशः ।
भावभूताऽसाधारणकरणसहकृतमनोजन्या अस्मदाद्यभावप्रमात्वात् लिङ्गादिजन्याभावप्रमाव-
दिति । अत एव—भावप्रमायां तथात्वेऽप्यभावप्रमायां योग्यानुपलब्धिमात्रापेक्षं मनः करणं
स्याद् विपक्षे बाधकाभावा-दित्यपि निरस्तमित्याह न हीति । न च भावत्वमतन्त्रं गौरवात्,
अन्यथा लिङ्गाद्यपि तत्र मानं न स्यादिन्द्रियसहकृतस्यैव मनसो बाह्यानुभावकत्वादिति वाच्यम् ।
वायौ रूपाभावबुद्धेरनुपलब्धिकरणत्वाभावव्यवस्थापनेन गौरवस्यापि न्यायत्वादिति भावः ॥२०॥
प्रतियोगिनीति । इन्द्रियाणीति धर्मिनिर्देशः, करणमिति साध्यं, प्रकरणात् । प्रतियोगि-
प्रकाशिका ।
असाधारणेति । लिङ्गादीति । अनुमित्यादवंशे सिद्धसाधनवारणाय प्रथमं विशेषणम् ।
घटादिप्रमायां तद्वारणायाभावेति । अभावस्मरणे बाधवारणाय प्रमापदम् । असाधारणकार-
णपदेन कारणाभिधानादन्यथा प्रतियोगिज्ञानमादाय सिद्धसाधनापत्तेः । न चैवमपि दुःखसुखाभाव-
प्रमायां बाधः अभावपदेन बाह्याभावस्योक्तत्वात् । साध्ये च भावपदमनुपलब्ध्या सिद्धसाधनवारणाय ।
शरीरादिना सिद्धसाधनवारणाय साधारणेति । प्रतियोगिज्ञानादिना सिद्धसाधनवारणाय कारणपदं
करणपरं बोध्यम् । क्वचित् पाठ एव तथा । हेतावीश्वरज्ञानवारणायास्मदादीति । तच्च लौकिकं
परमन्यथा मानसे घटाभावज्ञाने व्यभिचारात् । सुखाभावप्रमायां व्यभिचार इत्यभावेति बाह्येत्यर्थः ।
अत एव नाभावपदवैयर्थ्याशङ्कापि । स्मरणे व्यभिचार इति प्रमापदं तच्चानुभवमात्रपरम्
भ्रमेऽपि साध्यम् ॥ २० ॥
मकरन्दः ।
एतच्चानुमित्याद्यंशे सिद्धसाधनवारणाय । घटादिप्रमांशे तद्वारणायाभावेति । स्मृत्यंशे
बाधवारणायाह प्रमेति । अनुपलब्धधा अर्थन्तरादाह भावेति । शरीरादिनाऽर्थान्तरादाह
असाधारणेति । प्रतियोगिज्ञादिनाऽर्थान्तरादाह करणेति । अनुभवकरणेत्यर्थः । अन्यथा पक्षे
हेतौ च प्रमात्वपर्य्यन्तस्य वैयर्थ्यापत्तेः । यदि न कारणेति पाठः, तदाऽपि तत्रैव तात्पर्य्यम् ।
ईश्वरप्रमायां व्यभिचारादाह अस्मदादीति । सुखाभावप्रमायां व्यभिचारादाह अभावेति ।
बाह्याभावेत्यर्थः । प्रमापदं स्मृतौ व्यभिचारवारणाय अनुभवपरं, भ्रमेऽपि साध्यसत्त्वात् ॥ २० ॥
५६ न्या० कु०
An accurate, line-by-line Markdown transcription of the provided Sanskrit text:
३४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २१ कारिकान्याख्यायां
यद्धि प्रमाणं यद्भावावगाहि, तत् तदभावावगाहि यथा लिङ्गं शब्दो वा।
घटाद्यवगाहि चेन्द्रियमिति। अन्यथा हि शब्दादिकमपि नाऽभावमावेदयेद्, भाव
एव सामर्थ्यावधारणात् । न चैवमेव न्याय्यम् । देवदत्तो गेहे नास्तीति शब्दाद्,
मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यनुमानादप्यवगतेः।
ग्राहयतु वाश्रयमिन्द्रियं, तथापि न तेनेदं व्यवधीयते व्यापारत्वात्, अन्यथा
सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्जलिः स्यात् ।
नन्वेवं सति धूमोपलम्भोऽप्यस्य व्यापारः स्यात्, तथा च गतमनुमानेनापीति
बोधनी।
ज्ञानकारणमिति साध्यमध्याहार्यमभावप्रतियोगिनि घटादौ समर्थत्वात् शब्दलिङ्गादिन्द्रियस्यावान्तर-
व्यापारत्वादधिकरणग्रहणेन व्यवधानाभावात् । इदं चाभावग्रहणेऽधिकरणग्रहणस्योपयोगमङ्गी-
कृत्योक्तम् , अभावविषयविपर्ययज्ञानहेतूनां दोषाणामिन्द्रियाश्रयत्वात् अघटं भूतलमिति विशिष्टबुद्धे-
रिन्द्रियहेतुत्वाच्चेति । तत्रायं व्याचष्टे यद्धि इति । भावग्राहिणः प्रमाणस्य तदभावेऽपि सामर्थ्या-
नङ्गीकारेऽनिष्टमाह अन्यथा इति । शब्दादेरप्यभावानापादकत्वमस्त्वित्यत्राह न चैवमेव इति ।
मैत्रो नास्तीत्याप्तवाक्यान्न दृष्ट इत्याप्तवाक्यावगतानुपलब्धिलिङ्गादपि तदभावावगतेरिति । द्वितीयं
विवृणोति ग्राहयत्विति । आश्रयग्रहणव्यापृतमपीन्द्रियमभावबुद्धेः कारणं तस्येन्द्रियावान्तरव्यापार
त्वेनतद्व्यवधायकत्वादिति । यद्यवान्तरव्यापारोऽपि व्यवदध्यात् ततः सविकल्पकज्ञानानां प्रत्यक्षत्वं
न स्यात् निर्विकल्पकज्ञानव्यवहितत्वादिन्द्रियस्येत्याह अन्यथा इति ।
यदि व्यवधानेनेन्द्रियमेवाभावज्ञाने कारणं स्यात् तर्ह्यवान्तरव्यापारीकृतधूमज्ञानमिन्द्रियमेवाग्निं
ग्राहयेत् , तत्र चाभावप्रमाणवदनुमानमपि दत्तजलाञ्जलि स्यादित्याह ननु इति । तदवान्तरव्या-
प्रकाशः।
ग्राहकं मानं तदभावग्राहकमपि, यथा लिङ्गाद्यतीन्द्रियभावग्राहकमभावधीकरणमित्यर्थः । ननु प्रति-
योगिग्राहकत्वमतन्त्रम् , अनन्यथासिद्धत्वस्योपाधित्वात् । इन्द्रियं त्वाश्रयग्रहे अन्यथासिद्धमित्यत
आह व्यापारेति । अभावभ्रमस्य दुष्टकरणजन्यत्वादुपलब्धेश्च स्वरूपतो दुष्टत्वाभावात् पित्ता-
दिना दुष्टमिन्द्रियं तत्करणमित्याह अद्येति । किञ्चाधिकरणाभावयोर्विशिष्टधीर्नेन्द्रियजन्या प्रभा-
वबुद्धित्वात् , नानुपलब्धिजन्या भावबुद्धित्वात् , नोभयजन्या जातिसङ्करप्रसङ्गादित्यभयग्राहक-
मिन्द्रियं मन्तव्यमित्याह विकल्पनादिति ॥
यद्धीति । ननु न व्यक्तिधर्मोऽयं नियमः। भावग्राहकलैङ्गिकादिव्यक्तैरेवाभावग्राहकत्वात् ।
नाऽपि तज्जातीयं तथा, उपमाने व्यभिचारात् , सुरभि चन्दनमितिवदुपनीताभावभानेन सिद्धसा-
धनंच । मैवम् । चक्षुष्टादिकमभावग्राहकवृत्ति, भावग्राहकवृत्तिजातित्वात् शब्दत्ववत् । उपमान-
त्वञ्च न जातिः, योगजधर्मजन्यजन्यस्वविषयकसविकल्पकाजन्य-सामान्यलक्षणप्रत्यासत्त्यजन्य-
जन्याभावप्रमित्यसाधारणकारणतावच्छेदकं चात्र साध्यं विवक्षितमिति नोपनीताऽभावभानेन सिद्ध-
साधनमित्याशयात् । अन्यथेति । इन्द्रियस्य निर्विकल्पकेनान्यथासिद्धेरित्यर्थः ॥
नन्वेवमिति । वह्नयनुमितावपि धूमज्ञानं चक्षुषो व्यापार एवेति नानुमानसम्भव इत्यर्थः ।
प्रकाशिका ।
चक्षुष्टादिकमिति । लिङ्गविधया चक्षुषोऽप्यभावकारणतया सिद्धसाधनं माभूदिति कारणताव-
च्छेदकत्वपर्यन्तं साध्यम् । न च गत्वे व्यभिचारः, गकारस्यापि क्वापि गत्कत्वादिति वाच्यम् । न पद-
साहित्येन तस्यापि भावग्राहकत्या साध्यंसत्वात् । योगजेति । हेतावपि जातिपदं कारणतावच्छेदक-
मकरन्दः।
चक्षुष्टादिकमित्यनुमानमन्यञ्च सर्वं प्रत्यक्षप्रकाशे विपश्चितम् ॥ २१ ॥
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४३
चेन्न । यथा क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव
व्यापारत्वात्। न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वह्निज्ञानकारणत्वं न निर्वहति,
संयोगवदिति ।
अस्ति च भावाभावविपर्ययः । सोऽयं यस्य दोषमनुविधत्ते, तदेवेवात्र करण-
मिति न्याय्यम् । न चानुपलब्धिः स्वभावतो दुष्टा, नाप्यधिकग्रहणप्रतियोगिस्मरणं
वा स्वभावतो दुष्टम् । अनुत्पत्तिदशायामनुत्पत्तेरुत्पत्तिदशायाञ्च स्वार्थप्रकाशन-
स्वभावतया अपराद्वृत्तेः । असंस्पृष्टयोरधिकरणप्रतियोगिनोः संस्पृष्टतया प्रतिभानं
दुष्टम्, संस्पृष्टयोश्वासंस्पृष्टयेति चेत् । नन्वेवमेव विपर्ययः । तथा च आत्मा-
श्रयो दोषः । तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञान-
सामर्थ्यमपि । तथा च प्रयोगः—इन्द्रियमभावप्रमाकरणं, तद्विपर्ययकरणत्वात्, यद्
यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति ।
बोधनी ।
पारलक्षणमपि दृष्टोपवलिगतमित्याह न इति । न हि यद्येन जन्यते तत्सर्वं तस्य व्यापारः, किन्तु
येन विना यस्य यदुत्पादनं न संभवति स एव तस्य कारणस्य तस्मिन् कार्ये जनयितव्येऽवान्तर-
व्यापारः । न च वह्निसंयोगमन्तरेणैव धूमोपलम्भमन्तरेण चक्षुर्न वह्निज्ञानमुत्पादयति पुरोवर्तिनि
वह्नौ तमन्तरेणैव तदुत्पादनदर्शनादिति ।
तृतीयं विवृणोति अस्ति च इति । अस्ति तावद्विद्यमान एव वस्तुनि नास्तीति विपर्ययात्मं-
कोऽभावप्रत्ययः यस्मिन् दुष्टे सति भवति तदेवाद्दुष्टं समीचीनाभावज्ञानकारणं भवितुं युक्तमिति ।
ततः किमायातमिन्द्रियकरणत्वस्येत्यत्राह न च इति । न तावदनुपलब्धेरभावात्मिकाया दोषाश्रयत्वं
संभवति । न चाधिकरणग्रहणस्य प्रतियोगिस्मरणस्य वा स्वगतो दोषः संभवति । कार्यप्रतिबन्धको
हि दोषः, तयोस्तावदुत्पन्नयोरर्थप्रकाशात्मनः कार्यस्य केनापि प्रतिबन्धाग्रोगात् अनुत्पन्नयोश्च
कार्याभावस्य स्वभावानिवन्धनत्वेन दोषानधीनत्वात्तस्मादिन्द्रियदोषादेवाभावविपर्यय इति शिष्यत
इति भावः । दुष्टं हेत्वन्तरमाशङ्कते असंस्पृष्टयोरिति । अभावे भावविपर्ययो दृष्टान्तार्थ इति ।
नन्वेवम् इति । तथा प्रतिभानमेव विपर्ययो न त्वन्यस्तावत्साध्यः, तथा च ततो विपर्ययोत्पत्तौ
विपर्ययादेव विपर्यय इति स्यादिति परिशेषसिद्धमुपसंहरति तस्मात् इति । उक्तमर्थं प्रयोगमा-
रोपयति तथा च इति ।
प्रकाशः ।
क्रियया व्यापारेणेत्यर्थः । संयोगवदिति, व्यतिरेकदृष्टान्तः । यथा संयोगं व्यापारं विना चक्षुषो
वह्निशाक्षात्कारकरणत्वं न निर्वहति, न तथा धूमपरामर्शं विनेत्यर्थः । न च वह्निज्ञानमात्रे तस्य
व्यापारत्वाभावेऽपि वह्न्यनुमितौ व्यापारत्वं स्यादिति वाच्यम् । शाब्दलिङ्गपरामर्शादपि वह्न्यनु-
मानादिति भावः । न चेति । न चानुपलब्धेर्लिङ्गाभासादिवद् दोषस्वभावत्वाभावेऽपि पित्तादि-
दोषसाहित्यमेवेन्द्रियस्येव दुष्टत्वं स्यादिति वाच्यम् । लिङ्गाभासाद्यजन्यभ्रमत्वेन इन्द्रियकरणकत्वा-
नुमानादित्यर्थात् । अनुत्पत्तीति । अधिकरणादिज्ञानाभावकाले स्वाभावादेव दुष्टत्वाभावात्,
तदुत्पत्तिक्राले तु स्वार्थविषयत्वमवावितमेवेत्यर्थः । आत्माश्रय इति । दोषाद् भ्रमो भ्रमस्यैव
दोषत्वमिति तस्मादेव स स्यादित्यात्माश्रय इत्यर्थः ॥ तद्विपर्य्येयेति । न च यद् यद्विपर्ययजनकं
तत्तत्प्रमांजनकमिति पित्तादिदोषेऽनैकान्तिकम् । इन्द्रियत्वेन दोषान्यत्वेन वा हेतुविशेषणात् । किं
प्रकाशिका ।
जातिपरमित्यवधेयम् । इन्द्रियत्वेनेति । अत्र प्रमास्वरूपयोग्यत्वं साध्यमतो न फलानुपहितव्यक्तौ
४४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २१ कारिकाव्याख्यायां
विकल्पनात् खल्वपि । अघटं भूतलमिवि हि विशिष्टधीरवश्यमिन्द्रियकरणिका
स्वीकर्त्तव्या प्रमाणान्तरं वा सप्तममास्थेयम् । यथा हि विशेष्यमात्रोपक्षीणमिन्द्रि-
यमकरणमत्र, तथा विशेषणमात्रोपक्षीणा अनुपलब्धिरपि न करणं स्यात् । स्वस्व-
विषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेन्न । विषयभेदे फलवैजात्ये
च तदनुपपत्तेः । न हि मृत्सु तन्तुषु च व्याप्रीयमाणयोः कुलालकुविन्दयोः समा-
हारः स्यात् । नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते ।
तत्र कर्तुरकार्याभावान्न तथा, प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य
दर्शनात्तथेति चेन्न । विरुद्धजातिसमावेशाभावात् । भावे वा करम्बित एव कार्ये
द्वयोरपि शक्तिरभ्युपगन्तव्या दर्शनबलात्, न हि नियतविषयेण सामर्थ्येन कर्तु-
रकार्यसिद्धिः । अन्यत्रापि तथा प्रसङ्गात् । ननूभयोरप्युभयत्र सामर्थ्ये कोऽर्थो
मिथःसन्निधानेनेति चेन्न । तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति । एतेन सुरभि
बोधनी ।
चतुर्थं हेतुं व्याचष्टे विकल्पनात् इति । नन्विन्द्रियस्य विशेष्यभूतभूतलोपक्षेप्याभावप्रमाणेन
विशिष्टधीः सेत्स्यति किं समेनेत्याह यथा हि इति । अत्र इति । अघटं भूतलमिवि विशिष्टबुद्धा-
विर्त्यर्थः । ननु प्रत्येकसामर्थ्ये तयोः समाहारः कारणमस्तु न तु सप्तमस्यावकाश इत्याह स्वस्व-
विषय इति । न इति । भावाभावरूपविषयभेदे परोक्षापरोक्षलक्षणफलवैजात्ये च सति येनेन्द्रिया-
नुपलब्ध्योः समाहारः संभवतीति विषयभेदे फलवैजात्ये च समाहाराभावमेवोदाहरणेन दर्शयति
न हि इति । ननु तत्रोदाहरणे कर्बुरस्य घटपटात्मकस्य कार्यस्याभावान्समाहाराभावः न तु विषय-
भेदात्फलवैजात्याद्वा, इह त्वभावविशिष्टभावविषयस्यानुपलब्धीन्द्रिययोर्युगपत्परोक्षापरोक्षात्मनः
प्रत्ययस्य दर्शनाद्युक्तः समाहार इत्याह तत्र इति । न इति । न हि मिथोविरुद्धे परोक्षापरोक्षत्वे
एकत्र ज्ञाने समाविशत इति दर्शनबलात्समावेक्षाङ्गीकारे तत्र विशिष्टकार्येऽनुपलब्धेरिन्द्रियत्वद्वयो-
रपि शक्तिरङ्गीकार्या, तदा च प्रत्यभिज्ञानवत् प्रत्यक्षफलमेव ज्ञानं भवेदिति भावः । ननु स्वस्वविष-
यमात्रपर्यवसितयोरेव समाहारः कारणमस्तु किं शक्त्यन्तरकल्पनयेत्याह न हि इति । प्रत्यभि-
ज्ञादावपि नियतविषययोरेव संस्कारेन्द्रिययोः समाहारादेव सिद्धेरिन्द्रियशक्तिकल्पनं न स्यादिति ।
नन्वनुपलब्धीन्द्रिययोः प्रत्येकं भावाभावविषयशक्त्यभ्युपगमेऽन्यतरेणैव विशिष्टधीसिद्धेः किं परस्प-
रसाहित्येनेत्याह ननु इति । न इति । अनुपलब्धिसहितस्यैवेन्द्रियस्य तत्र शक्तिर्न केवलस्य, न
चान्यसाहित्येनेन्द्रियकत्वविरोधः प्रत्यभिज्ञानादिवदिति । सुरभि चन्दनमित्यादिप्रत्ययेष्विवात्रापि
समाहारः कारणं स्यादित्याशङ्कयाह एतेन इति । अन्यसहितस्येन्द्रियस्य विशिष्टधीहेतुत्वप्रतिपा-
प्रकाशः ।
प्रमाणयोः समाहारः, समाहृतयोर्वा प्रामाण्यम् ? तत्र नाद्य इत्याह विषयभेदे इति । भिन्न-
भिन्नप्रमाजनकत्वेन तयोः पर्यवसितयोः प्रमान्तरजनकत्वानुपपत्तेरित्यर्थः । विषयभेदफलभेदयोः
क्रमेण समाहाराभावमुदाहरति न हीति । तत्रेति । इन्द्रियजन्यत्वेन साक्षात्कारित्वे सत्यनुप-
लब्धिकरणकत्वेन परोक्षत्वे कर्बुरत्वमित्यर्थः । अन्त्ये त्वभावज्ञानेऽपीन्द्रियस्य सामर्थ्यं सिद्धमि-
त्याह भावे चेति । अन्यत्रापीति । घटपटसामग्रीतोऽपि करम्बितकार्यं स्यादित्यर्थः ॥
एतेनेति । घ्राणजसौरभज्ञानसहकृतेन चक्षुषा सुरभि चन्दनमिति ज्ञानं सौरभविशेषणकं
प्रकाशिका ।
व्यभिचारः । भिन्नभिन्नेति । अन्यथा जातिसङ्करापत्तेरिति भावः । घ्राणजेति । तथा च न
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४५
चन्दनमित्यादयो व्याख्याताः । तथाचाभावविप्रषेऽपोन्द्रियसामर्थ्यस्य दुरपह्नवत्वा-
दलमसद्ग्रहहेतेरिति ॥ २१ ॥
स्यादेतत्, नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् । न च
विशिष्टसामर्थ्ये केवलविशेषणेऽपि सामर्थ्यं, केवलसौरभेऽपि चक्षुषो वृत्तिप्रस-
ङ्गात् । अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः ।
अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येत ? । न च मानान्तरस्या-
प्येषा रीतिः । अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् । अप्राप्तेश्च । न
ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति । न च विशेषणत्वं, सम्बन्धन्तरपूर्वक-
बोधिनी ।
दनेन तेऽपि प्रत्यया गन्धज्ञानसहकृतया त्वचा वा चक्षुषा वा जायन्ते न त्विन्द्रियसमाहारेणेति
व्याख्यात इति । एवमुक्तप्रकारेण विशिष्टज्ञान इवेन्द्रियस्याभावेऽपि सामर्थ्यमवर्जनीयमित्युपसंहरति
तथा च इति ॥ २१ ॥
अथानुपपत्तितुष्टयेनाभावप्रत्यक्षत्वं पूर्वपक्षी प्रतिक्षिपति स्यादेतत् इति । अघटं भूतलमिवि
विशिष्टबुद्धेः पूर्वमेव विशेषणस्याभावस्य ग्रहणं वक्तव्यं विशेषणग्रहणकार्यत्वात् विशिष्टबुद्धेर्न च
विशिष्टे सामर्थ्यमस्तीति विशेषणेऽपीन्द्रियस्य सामर्थ्यमतिप्रसङ्गात् , तस्मादभावात्मनो विशेषणस्य
ग्रहणाय षष्ठं प्रमाणमास्थेयम् । यदि वा भाव ऐन्द्रियकः सविकल्पको ग्राह्यः, ततो निर्विकल्पकेनासौ
पूर्वं ग्रहीतव्यः निर्विकल्पपूर्वकत्वात् विकल्पस्य । न चाभावे निर्विकल्पकसंभवः प्रतियोग्यवच्छेदेनैव
तस्य स्फुरणात् । न च षष्ठप्रमाणवादिनोऽप्ययं प्रसङ्गः ऐन्द्रियकविकल्पस्यैव तत्पूर्वकत्वनियमात् ।
न चाभावस्येन्द्रियेण प्राप्तिः संभवति संयोगादीनां भावधर्मत्वात् , विशेषणविशेष्यभावलक्षणस्य च
संबन्धस्य संयोगसमवायादिसम्बन्धान्तरपूर्वकत्वेनैव दण्डिनीलोत्पलादिषु दृष्टत्वात् । किंच
अभावप्रत्यक्षत्ववादिनापि प्रतियोगिनोऽनुपलब्धिरवश्यमिन्द्रियसहकारित्वेनाप्यङ्गीकर्त्तव्या, तथा
चोभयसिद्धा सैवाभावज्ञानहेतुरस्त्विति ।
प्रकाशः ।
चन्दनविशेष्यकं जन्यते, चन्दनसौरभमिति ज्ञानं चक्षुरुपनीतचन्दनविशेषणकं सौरभविशेष्यकं
घ्राणेन जन्यते, यदिन्द्रियजन्यं यज्ज्ञानं तत्तदिन्द्रिययोग्यविशेष्यकमिति व्याप्तेरित्यर्थः ॥ २१ ॥
ननु घटाभाववद्भूतलमित्यपि धीरनुपलब्ध्युपनीताभावविशिष्टबुद्धिरिन्द्रियेण जन्यते, तथाच
विशिष्टज्ञानस्यैन्द्रियकत्वेऽपि विशेषणज्ञानायानुपलब्धिर्मानान्तरं सौरभज्ञानाय घ्राणमिवेत्याह-
नागृहीतेति । प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वेन व्याप्तेर्नाभावे सविकल्पकैकवेद्ये
तदस्तीति नाभावज्ञानं प्रत्यक्षमित्याह अपि चेति । अनुपलब्धिजन्याभावज्ञाने तु न तज्जन्यत्व-
मसाक्षात्कारित्वाच्छब्दादाविवैत्याह न चेति । अप्राप्तेश्चेति । इन्द्रियाणां प्राप्यार्थग्राहकत्वाद्वि-
त्यर्थः । न च तत एव संयोगादिवाधेनैहैव विशेषणताप्राप्तिः कल्प्येत्याह न चेति । विशेषण-
तायाः समवायादिसम्बन्धान्तरव्याप्तत्वात्तद्वाधे विशेषणत्वस्यापि बाधादित्यर्थः । सम्बन्धस्य
सम्बन्धिभिन्नत्वनियमेण ग्राह्यस्वरूपस्यासम्बन्धत्वनिश्चयात् समवायानानभ्युपगमेनान्यत्र तदकल्प-
नाच्च । न चाभावस्येन्द्रियग्राह्यत्वसिद्धाविहैव तत्कल्पनम् । विशेषणताकल्पने सत्यभावः प्रत्यक्षः,
तत्सिद्धौ च तत्कल्पनमित्यन्योन्याश्रयादिति भावः । एवमभावबुद्धौ इन्द्रियाणां करणत्वं निरस्या-
प्रकाशिका ।
तत्रापि प्रमाणसमाहार इति भावः । यदिन्द्रियेति । बहिरिन्द्रियजन्ये चायं नियम इत्यवधेयम् ॥
ननु समवायस्थल एव विशेषणता कॢप्तेत्यत आह समवायेति । समवायस्य तत्तत्प्रत्य-
४४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्याया-
त्वात् तस्य । अवश्यमभ्युपगन्तव्यत्वाच्चानुपलब्धेः, न हि तदुपलब्धौ तस्याभा-
वोपलम्भ इति चेत् । उच्यते—
अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात् ॥
प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः ॥ २२ ॥
स ह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेद् यस्यावच्छेदकज्ञानं न व्यञ्ज-
बोधनी ।
समाधत्ते उच्यते इति । अवच्छिद्यतेऽनेनेति अवच्छेदः प्रतियोगी, तद्ग्रहणस्याभाव-
निरूपणोऽवश्यंभावः । प्रतियोगिनिरूपणाधीननिरूपणोऽभाव इति यावत् । तस्माद्विशेषणत्वे-
ऽपि न केवलस्याभावस्य पूर्वग्रहणं, नापि विकल्पवेद्यत्वेऽपि पूर्वमालोचनमास्थेयम् । एतदुक्तं
भवति—न हि पूर्वग्रहणे विशेषणत्वं प्रयोजकं, नाप्यालोचनीयत्वेन विकल्पवेद्यत्वं किन्तु प्रतियोगि-
निरपेक्षनिरूपणीयत्वं ज्ञानसमवायादौ तथावसायात् । अथाभावज्ञानस्यावच्छेदग्रहो ध्रुवो नाङ्गीक्रियेत
तर्हि केवलस्याभावस्य पूर्वग्रहणमालोचनं च को नाम नाङ्गीकुर्यात् । विशेषणविशेष्यरूपस्य
संबन्धस्य संबन्धान्तरपूर्वकत्वनियमाभ्युपगमे च संबन्धान्तरस्यापि सम्बन्धपूर्वकत्वप्रसङ्गेऽनवस्था-
प्रसङ्गः । न चेदयमस्मदुक्तप्रकारोऽङ्गीक्रियेत ततः प्रमाणान्तरपक्षोऽपि दुर्घटः स्यादिति । तत्राद्यचो-
द्योत्तरतयाद्यं पदं व्याचष्टे स हि इति । एषां हि दण्डकुण्डलादीनामर्थानाम् अर्थान्तरज्ञाननिरपेक्षैः
स्वविषयैरेव ज्ञानैरितरेतरव्यवच्छेदः सिद्ध्यति, त एव विशेषणीभवन्तः केवला अपि स्फुरेयुः ।
येषां तु ज्ञानसमवायाभावादीनां स्वस्वगोचरं ज्ञानव्यञ्जकमात्रं न तु व्यवच्छेदकं, न हि ते प्रतियो-
गिज्ञाननिरपेक्षैरेव स्वविषयज्ञानैः स्वेतरव्यवच्छिन्नाः प्रतीयन्ते तेषां केवलस्फुरणमन्तरेणैव
प्रकाशः ।
नुपलब्धेः करणत्वमनन्यगतिकतयोपपादयति अवश्येति । शुक्तौ रजतानुपलब्धेरभावादिनिन्द्रियसंब-
द्धस्यापि रजताभावस्याग्रहेणावश्यकत्वादित्यर्थः ॥
विशिष्टज्ञानमात्रस्य न विशेषणज्ञानजन्यत्वनियमः, अवच्छेदग्रहानियतज्ञानविषयत्व-
स्योपाधित्वादित्याह अवच्छेदेति । ध्रौव्यं नियमः । अभावत्वेन अभावज्ञानस्य प्रतियोग्या-
दिज्ञानजन्यतया विशिष्टज्ञानसामग्र्यस्त्येवेति न केवलमभावो भासते, अतो न निर्विकल्पकविषय
इत्यर्थः । अथाभावज्ञानं प्रतियोग्यादिज्ञानानपेक्षं, तर्ह्यभावोऽपि निर्विकल्पकविषय एवेति सिद्धसाध-
नमित्याह अध्रौव्ये इति । अभावंश्च सम्बन्धन्तरं विनाऽपि स्वरूपेणैव विशेषणं, सम्बन्धन्तर-
सत्त्वे तत्रापि तत्कल्पनादनवस्थापत्तेः । यदि च नैवं, तदा त्वन्मतेऽपि वक्ष्यमाणो दोष इत्याह
प्राप्त्यन्तरे इति ॥
स हीति । अवच्छेदकस्य प्रतियोग्यादेर्विशेषणस्य जन्यज्ञानं विना यत्र विशिष्टज्ञानसामग्री
प्रथमतोन भवति, स एवार्थोऽग्रे विशिष्टज्ञानविषयः पूर्वं निर्विकल्पकविषय इति विपयमुखी व्याप्ति-
प्रकाशिका ।
क्षत्वस्य चानभ्युपगमनेत्यर्थः । विशिष्टज्ञानमात्रस्येति । विशिष्टप्रत्यक्षमात्रस्य न विशे-
षणनिर्विकल्पजन्यत्वनियम इत्यर्थः । अवच्छेदग्रहेति । अवच्छेदग्रहनियतं ज्ञानं यस्य तन्मात्र-
विषयकत्वस्येत्यर्थः । अभावत्वेनेति । सामान्याप्रकारकाभावज्ञानस्येत्यर्थः । तेन प्रकृतसंगतत्वम् ।
अवच्छेदकस्येति । विशेषणज्ञानाभावेन विशिष्टज्ञानसामग्रीविरहेऽपि यत्र ज्ञानसामान्यसामग्री
तत्रैव निर्विकल्पकमित्यर्थः । पौनरुक्त्यं परिहरति विपयमुखीति । विशेष्येति । ययोक्त-
मकरन्दः ।
विशिष्टज्ञानमात्रस्येति । विशिष्टप्रत्यक्षमात्रस्य न विशेषणनिर्विकल्पकजन्यत्वनियम इत्यर्थः ।
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ५४७
कम् । स च विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञा-
प्यते । यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव
सामर्थ्यान्नायं विधिः । स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपा-
दावभ्युपगता, इह त्वनवस्थादुःस्थतया न तदभ्युपगमो, न तु स्वभावप्रत्यासत्ति-
रेतावत्तैव विफलायते । न चेदेवं, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात् । तथाहि—
बोधनी ।
विशिष्टज्ञानगोचरत्वमिति द्वितीयस्यापि चोद्यस्य तमेवोत्तरतया व्याचष्टे स च विकल्पयितव्य
इति । तैरेव विकल्पवेद्यैः भवद्भिः पूर्वमालोचनविषयैर्भवितव्यं ये प्रतियोगिनिरपेक्षैरेवेन्द्रियैः
ज्ञाप्यन्ते यथा घटादयः, ये तु प्रतियोगिज्ञानपुरःसरमेव जायन्ते यथा ज्ञानादयः तेषां निर्विकल्पक-
वेद्यत्वासंभवात् न तत्पूर्वकत्वमिति ।
अथ पाठक्रममनादृत्यार्थक्रमेण द्वितीयं पादमवसरे व्याख्यास्यंस्तृतीयचोद्योत्तरतया
तृतीयं व्याचष्टे स्वभावेति ॥ स्वाभाविके हि विशेषणविशेष्ये सम्बन्धे सत्यपि रूपा-
दिष्वधिकः समवायादिसम्बन्धो दृष्टत्वादेव स्वीक्रियते, तद्धेतुकत्वेनाभावे तु स्वभावतः
प्राप्तिरस्ति न च सम्बन्धान्तरं दृश्यत इति भावः । तथापि तदभ्युपगमोऽनवस्थादुस्थ
इत्याह इह तु इति ॥ एतावता संबन्धान्तराभावमात्रेणेति तुरीयं पादं व्याचष्टे न चेदेवम्
इति । दौर्घट्यमेवाह तथाहि इति । प्रत्यक्षं साक्षादनुमानादीनि तु परम्परया निर्विकल्पकपूर्वकाणि
प्रकाशः ।
रित्यर्थः । स चेति । जन्यविशेषणज्ञानासत्कृतेन्द्रियजन्यज्ञानगोचरत्वं निर्विकल्पकप्रयोजकमिति
प्रमाणमुखी व्याप्तिरित्यर्थः । अभावस्तु प्रतियोग्यादिविशेषणज्ञाननियतज्ञानविषयत्वेन विशिष्टज्ञाने-
कविषयत्वान्न तथेत्याह यस्त्विति । प्राप्त्यन्तरे इति व्याचष्टे स्वभावेति । यद्यपि घटे रूप-
समवाय इति नानुभवः, तथापि रूपादेः प्रत्यक्षत्वेनेन्द्रियसन्निकर्षाश्रयत्वात् संयोगावाधेनेन्द्रियसम्ब-
न्धघटकतया संयुक्तसमवायादिकल्पनादित्यर्थः । ननु ज्ञानघटयोरिव द्रव्येण रूपादिभिः स्वरूपस-
म्बन्धे नार्थान्तरम् , इन्द्रियसंयुक्तविशेषणतयैव रूपादिभानोपपत्तेः । मैवम् । सम्बन्धानुमितौ हि न
स्वरूपसम्बन्धो विषयः, तत्स्वरूपाणामनन्तत्वेन गौरवात् , किन्तु पक्षधर्मतावलादेक एव सम्ब-
न्धस्तद्विषयो लाघवादिति भावः । इह त्विति । यद्यपि सम्बन्धद्वयसिद्धौ नानवस्था, तथात्वे वा
समवायोऽपि न स्यादनवस्थाऽऽपादकत्वात् , तथाप्याभावो यद्यतिरिक्तसम्बन्धवान् स्यात् सत्तावान्
स्यादित्यव्यवस्थैवानवस्थेत्यर्थः । इन्द्रियञ्च नाप्राप्तग्राहकमिति संयोगादिवाधेनैहैव तत्प्राप्तिर्विशेष-
णता कल्प्येति भावः ॥ प्रमाणान्तरेऽपीति । अनुपलब्ध्याख्यमानान्तरस्वीकारेऽपीत्यर्थः । निर्वि-
प्रकाशिका ।
ज्ञानगोचरमात्रगोचरत्वनिर्विकल्पकजन्यत्वं प्रयोजकमित्यर्थः । घटे रूपसमवाय इति । सर्वसिद्ध
इति शेषः । सम्बन्धघटकतयेति । सम्बन्ध्ररूपतयेत्यर्थः । तथात्व इति । अनवस्थामूलत्वेन
द्वितीयसमवायत्याग इत्यर्थः । सत्तावानिति भावः स्यादित्यर्थः । तेन न सामान्यविशेषाभ्यां व्यभि-
चारः, तदुभयभिन्नत्वेनापादकविशेषणाद्वा संयोगादिवाधेनेति । अद्रव्यत्वेन संयोगावाधात् ध्वंसस्य
समवायिकारणनाशान्नाशप्रसङ्गेन च समवायवाधादित्यर्थः । निर्विकल्पकविश्रान्तत्वं यदि साक्षात्कारप-
मकरन्दः ।
सम्बन्धघटकतयेति । सम्बन्ध्रूपतयेत्यर्थः । सत्तावानिति । न च सामान्यविशेषाभ्यां
व्यभिचारः, तद्भिन्नतवे सतीत्यापादकविशेषणात् । वस्तुतो भावः स्यादित्यर्थः, तेन नोक्तदोषः । ननु
साक्षात्कारत्वावच्छिन्नमालोचनपूर्वकंऽनुमानादिवदभावज्ञानेऽप्यस्त्येव, तद्धेतुप्रतियोग्यादिज्ञानस्य
४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्या-
सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् । न ह्यनुमानादिकमप्य-
नालोचनपूर्वकम् । ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत । न च
तया तदालोचनमेव जन्यते, प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात्,
शक्यत्वे वा किमपराद्धमिन्द्रियेण । तथा सम्बन्धन्तरगर्भत्वनियमेन विशेषण-
त्वस्य, मानान्तरेऽपि कः प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् । परस्य
तादात्म्यमस्तीति चेत् । ननु यद्यसावस्ति, अस्त्येव, न चेन्नैव । न ह्यभ्युपगमेनार्थाः
क्रियन्ते, अनभ्युपगमेन वा निवर्त्तन्ते इति । अवश्यमभ्युपगन्तव्यत्वे कारणत्वं
सिद्धयेद्, न तु मानान्तरत्वम् । अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं
स्याद्, नेन्द्रियम् । अभावोपलम्भे भावानुपलम्भवद् भावोपलम्भे अभावानुपलम्भ-
स्यापि वज्रलेपायमानत्वादिति ॥ २२ ॥
बोधनी ।
तेषां प्रत्यक्षपूर्वकत्वात् तस्य च निर्विकल्पकपूर्वकत्वादिति ॥ यतः सर्वस्यापि प्रमाणस्यायं स्वभावः
तस्मादनुपलब्ध्या प्रमाणान्तरभूतयाप्यालोचितपूर्व एवाभावो विकल्पनीय इत्याह तत इति । अस्तु
तर्ह्यनुपलब्ध्यैवालोचनमित्याह न च इति । आलोचनविषयत्वसंभवे चाभावस्यास्माकमपीन्द्रियेण
तदालोचनं भविष्यतीत्याह शक्यत्वे वा इति । एतेन द्वितीयः पादो व्याख्यातः । परेणापि
प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन वा ग्राह्यः, ततश्च सम्बन्धन्तरपूर्वकत्वनियमे विशेषणविशेष्यभा-
वस्यानवस्थाप्रसङ्गत्वपि तुल्य इत्याह तदभावस्य इति । ननु संयोगाद्यभावेऽपि तादात्म्यात्मक-
सम्बन्धन्तरमभ्युपगम्यते भाट्टैस्ततो न तुल्यत्वमित्याह परस्य इति । यदि हि तादात्म्यं प्रमाण-
तोऽस्ति ततोऽस्तीति स्यात् न चैवं प्रमाणाभावादित्याशयेनाह ननु इति । नन्वस्माभिस्तथाचेदेतद-
भ्युपगम्यत इत्यत्राह न हि इति । न ह्यभ्युपगमसदभावमात्राभ्यां वस्तुनः सदसत्त्वसिद्धिरिति ।
यत्त्ववश्याभ्युपगन्तव्यत्वादनुपलब्धेः सैव प्रमाणमस्त्विति तत्राह अवश्येति । यदावश्याभ्युप-
गम्यत्वमात्रेणानुपलब्धेः प्रमाणान्तरत्वमपि सिद्धयेत् तर्हि भावोपलम्भेऽपि तदभावानुपलब्धिरेव
प्रमाणं भवेत् भावोपलम्भसमयेऽभावानुपलब्धेरवर्जनीयत्वादित्याह अन्यथा इति ॥ २२ ॥
प्रकाशः ।
कल्पकेति । प्रमाणविषयत्वं निर्कल्पकविषयत्वव्याप्यमित्यर्थः । तदभावस्य सम्बन्धन्तराभावस्य ।
तदानीमपि मानान्तरस्वीकारेऽपि । परस्येति । भट्टानामधिकरणे विशेषणत्वं नाभावस्य, किन्तु
तादात्म्यमित्यर्थः । भावाभावयोर्विरोधान्न तादात्म्यं, तथात्वे वा संयोगादिनेवाभावग्रहः स्यादित्या-
शयेनाह नन्विति । यद्यभावोऽस्ति तदा विशेषणत्वमस्त्येवेत्यर्थः । अवश्यमभ्युपगन्तव्यत्वादि-
त्यत्राह अवश्येति । अन्यथेति । अभावज्ञाने यथा भावोपलम्भः प्रतिबन्धकस्तथा भावज्ञानेऽप्य-
प्रकाशिका ।
रम्परासाधारणनिर्विकल्पकप्रयोज्यत्वमुच्यते तदभावज्ञाने(१)ऽस्त्येवेति प्रत्यक्षविषय इत्यपीति
भावः । लिङ्गासङ्गतेराह यद्यभावोस्तीति । अभावत्वे च संयोगादिनेव ग्रहापत्तेरुक्तत्वादिति भावः ।
अभावोपलम्भः प्रतिबन्धक इत्यनन्तरमिति तदभाव एव प्रमाणमिति शेषः । इयञ्च युक्तिरसमी-
मकरन्दः ।
तत्पूर्वकत्वनियमादिति परस्य नानिष्टमित्यत आह प्रमाणविषयत्वमिति । तथा चाप्रयोजकत्वादिना
यथा नेयं व्याप्तिस्तथा प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वव्याप्तिरपीति भावः । लिङ्गासङ्गतेराह
यद्यभावोऽस्तीति । भावरूपत्वे च तस्य संयोगादिनैव ग्रहापत्तेरित्युक्तत्वादिति भावः । तथेति ।
(१) प्रतियोग्यादिनिर्विकल्पप्रायोज्यत्वादिति प्रकृतेऽनिष्टमत आह प्रमाणविषयत्वमिति । तथा-
चेयं व्याप्तिरप्रयोजिका तथा निर्विकल्पकविषय एव ।