न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३१६
करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते । अकल्पिते तु तस्मिन्नयं न्यायः । प्रतिपत्तुर्-
करणात्वाच्चक्षुरादीनामनेकत्वादिति चेत् ।
नन्वेवमपि युगपज्ज्ञानानि मा भूवन्, युगपज्ज्ञानं तु केन वार्यते ।
बोधनी ।
करणानां च क्रमेण क्रियाकरणस्वभावत्वात् ज्ञानक्रम उपपद्यत इति । ननु कल्पितेऽपि मनसि यदि
करणधर्मत्वादेव ज्ञानक्रमः तर्हि क्लृप्तस्यैवात्मनो बाह्येन्द्रियाणां चानेन न्यायेन क्रियाक्रमोऽस्तु
किं मनःकल्पनेत्यत्राह—अकल्पिते तु इति । कुत इत्यत आह—प्रतिपत्तुः इति ।
करणधर्मोऽयं न तु कर्तृधर्मः कर्ता चात्मा करणत्वेऽपि चक्षुरादीनामनेकत्वादेकस्य चैकैकज्ञानो-
त्पादनाविरोधात् पञ्चभिरपीन्द्रियैर्युगपच्च ज्ञानान्युत्पद्येरन् । कल्पिते तु मनसि तस्यैकत्वात्करणत्वाच्च
न युगपज्ज्ञानानुत्पत्तिरुपपन्नेति निराकरोति—नन्वेवम् इति । मा नाम भूत् पञ्चानां ज्ञानानां
युगपदुत्पत्तिस्तथापि गन्धादिसंयुक्तघ्राणादिपञ्चेन्द्रियव्यापिना मनसा गन्धादिपञ्चकविषयैकज्ञानोत्पत्ति-
प्रकाशः ।
जनयति, न त्वनेकाम् । एकत्रेत्यादिविशेषणात् कुठाराग्निशब्देषु युगपदनेकच्छिद्दारूपादिनानादिगव-
च्छिन्नानेकशब्दजनकेषु न व्यभिचार इति करणधर्मत्वेन क्रियाक्रमः स्यादित्यर्थः ।
न च तथापि चक्षुराद्यवच्छेदेन शब्दवद्भिन्नादेशां परमाण्वाविव विजातीयमग्निसंयोगवदनेकां
क्रियां कुर्यादेवेति वाच्यम् । ज्ञानकरणमेकत्रात्मनि एकदैकमेव ज्ञानं जनयति । समूहालम्बनकरण-
वत् । कथमम्यथा सामग्रीसत्त्वे समूहालम्बनमेकज्ञानम् । नन्वन्यज्ञानसामग्रीसत्त्वे कार्य्यावश्यम्भावः,
तदसत्त्वे किं करणधर्मत्वेन । तस्य सहकार्यन्तरमात्रपर्यवसायित्वात् । न । ज्ञानकरणस्यैकत्रैकदैकज्ञा-
नमात्रजनकतया तत्र नानाज्ञानकारणाभावेनैव सामञ्जस्यत्वात् । प्रतिपत्तुरिति । तस्यानेककरणो-
पेतस्यानेककार्यकर्तृत्वादिति भावः । चक्षुरादीनामिति । एषां यौगपद्यात् पुनः स एव ज्ञानयौग-
पद्यप्रसङ्गः । करणधर्मत्वेनापि प्रत्येकमविशेषादिति भावः ।
नन्वेवमिति । एवमप्येकदा बहूनां ज्ञानानामनुत्पत्तावप्येकदा नानेन्द्रियकरणकं रूपादिज्ञान-
मेकं स्यादेव, एकेन्द्रियजन्यसमूहालम्बनज्ञानवदित्यर्थः । न च चाक्षुषत्वादिसङ्करापत्तेर्नैकं ज्ञान-
मिति वाच्यम् । तथा सति फलविरोध्येनैकस्यापि ज्ञानस्याजननापत्तेः, चित्ररूपवच्चाक्षुपादिविजातीय
प्रकाशिका ।
संयोगजनके श्येनकर्मणि व्यभिचारवारकत्वात् । एकत्वं चाधिकरणस्य सर्वस्य विवक्षितमन्यथोक्तव्य-
भिचारावारणात् । नचावच्छेदक एव यावत्त्वविवक्षास्त्वितिवाच्यम् । प्रकृतव्यासौ वैयर्थ्याभावात् । नानेति । यत्र नानादिगवच्छिन्नेति पाठो युज्यते अन्यथानन्वयात् । ज्ञानकरणमिति । अत्राप्येकमिति
मकरन्दः ।
प्रत्यक्षप्रकाशे द्रष्टव्यम् । नानेति । यत्र नानादिगवच्छिन्नेति पाठो युज्यते, अन्यथानन्वयात् ।
टिप्पणी ।
यदि उपलब्ध्रिक्रियासकरणकत्वानुमानमुपजीव्यमङ्गीकरणीयं तदापि द्रव्यत्वरूपहेतुघटकसिद्धयर्थत्वेने-
न्द्रियजन्यत्वानुमानमप्युपजीव्यमित्येतदप्युपजीव्यत्वेन तत्तुल्यमित्येतद्दोषोऽपि दोष इति भावः ।
कुठाराग्निशब्देष्विति । पङ्क्तिवृत्तानेकपत्रेष्वेक्रेन कुठारेण युगपच्छिदाजननाद् व्यभिचारवारणाय
एकत्रापि कालभेदेनानेकच्छिदोत्पत्त्या व्यभिचारवारणाय एकदेति । अग्निसंयोगेनैकदैकधर्मिणि
विजातीयरूपरसादिजननाद् व्यभिचारवारणायैकजातीयामिति । शब्दे व्यभिचारवारणाय
एकावच्छेदेनेति विवेकः । ज्ञानकरणमेकत्रेति । कायव्यूहस्थले युगपदेकत्रात्मनि नाना-
ज्ञानकल्पनाद् व्यभिचारः स्यादित्येकमिति पूरणीयम् । ज्ञानकारणस्यानेकस्यानेकात्मन्येकदानेकज्ञानज-
नकत्वाद् व्यभिचारवारणायैकत्रेति । ज्ञानकरणस्यैकत्रैकदेति । अदृष्टस्य दृष्टमात्रोपहारकत्वाद्
३२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
भवत्येव समूहालम्बनमेकं ज्ञानमिति चेन्न। एकेन्द्रियग्राह्येष्विव नानेन्द्रिय-
ग्राह्येष्वपि प्रसङ्गात्। तेष्वपि भवत्येवेति चेन्न। व्यासङ्गकाले ज्ञानक्रमेण विवाद-
विषये क्रमानुमानात्। बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेन्नैवम्।
बोधनी।
भवन्ती गीर्वाणशापेनापि वापयाति, तच्चानिष्टमीति। उक्तमर्थं यथावदजानानश्चोदयति—भवत्येव
इति। इष्यत एतत्सेना वनादिवदनेकालम्बनमेकं ज्ञानमतो नादिष्टमिति स्वाभिसन्धिमुद्घाटयन्नाह—न
इति। अनेकेन्द्रियग्राह्यगन्धरसादिविषयकज्ञानोत्पत्तिरापद्यते, तच्चानिष्टमीति। अत्र सांख्यः
शङ्कते—तेष्वपि इति। दीर्घशष्कुलीं भक्षयतः पुरुषस्य तद्गतगन्धरसस्पर्शशब्दादिविषयमेकसमुत्प-
द्यत एव ज्ञानं ततो नेदमप्यनिष्टमिति। न तत्राप्यनेकविषयमेकं ज्ञानमुत्पद्यते भिन्नानां क्रमवतामेव
ज्ञानानां कालभेदः सूक्ष्मत्वान्नोपलभ्यत इत्येवाङ्गीकर्तव्यमिति। कुत इत्याह—व्यासङ्ग इति।
आत्मेन्द्रियविषयसमवधाने सत्यपि यदा कस्मिंश्चिदेव विषये ज्ञानमुत्पद्यते, न सर्वेषु तस्मिन्व्यासङ्ग-
काले ज्ञानक्रमदर्शनादन्यदापि मनसः क्रमकरणस्वभावोऽनुमीयत इति तत्रान्यथासिद्धिमाशङ्कते
बुभुत्सा-इति। व्यासङ्गकाले ज्ञानक्रमो बुभुत्सातत्क्रमप्रयुक्तो न तु मनसः क्रमकरणस्वभावप्रयुक्त
इति। मैवम्-इति। न हि बुभुत्साया एष महिमाऽस्ति यत्स्वव्यतिरेके ज्ञानव्यतिरेक इति, किन्तु
प्रकाशः।
स्यैव ज्ञानस्य सामग्रीसत्त्वेनोत्पत्त्यापत्तेर्वा। न च तत्र फलबलात्तथा। अत्र फलाभावे हेतोः कल्प्य-
त्वापत्तेः। अन्योन्यप्रतिबन्धस्य तत्त्वे वाऽज्ञानमेव स्यान्न त्वेकस्य ज्ञानमित्युक्तम्। वस्तुतः पञ्चसु
यदेकं करणं ज्ञानं जनयति नापराणि, तत्र नियामकमास्थेयम्। अन्यथा ज्ञानजनने तेषां कलहं कः
समादध्यादिति भावः। आशयमविद्वानाह। भवत्येवेति। एकैकेन्द्रियेण स्वस्वविषये समूहाल-
म्बनमेकैकं जन्यत एवेत्यर्थः। आशयमुद्घाटयति। एकेति। तेष्वपीति। दीर्घां शष्कुलीं भक्षयतो
गन्धादिज्ञानमेकमनेकेन्द्रियजन्यमुत्पद्यते इत्यर्थः। व्यासङ्गेति। एकेन्द्रियासक्तमनसोऽणुना मनसा
युगपदनेकेन्द्रियासन्निकर्षात्तत्र ज्ञानक्रमस्य सर्वसिद्धत्वात् तद्दृष्टान्तेन तत्रापि गन्धादिज्ञानोत्पादः
क्रमेण भवतीत्यनुमीयते। कालसौक्ष्म्याच्च क्रमो न लक्ष्यत इत्यर्थः। ननु दृष्टान्ते नानेकेन्द्रियमनः-
संयोगाभावः क्रमप्रयोजकः, किन्तु बुभुत्साप्रयुक्त इत्याह। बुभुत्सेति। बुभुत्सा न रूपादिग्रहहेतुर्न
प्रकाशिका।
पूरणीयम्। अन्यथा कायव्यूहस्थले व्यभिचारात्। न चैकत्रेत्यधिकम्। आलोकादौ कारणे व्यभि-
चारवारकत्वात्। ननु रूपादिषु मध्ये रूपमात्रव्यञ्जकत्वं हेतुस्तैजसत्वसाधने चाक्षुष उक्त इति रूपान्य-
साक्षात्कारे चक्षुःस्वरुपायोग्यं (संयोगजन्यं) कथं तं जनयेदत आह। वस्तुत इति। नचादृष्टमेवात्र
नियामकं गोगोत्वोभयविषयकनिर्विकल्पकानन्तरं गोविशेष्यकज्ञान इवेति वाच्यम्। अणुना मनसा
दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात्, अन्यथा मनस एवासिद्धेः। अणुना मनसेति। यद्यपि मनो-
ऽणुत्व एव विवादः, तथापि व्यासक्तमनसो ज्ञानक्रमस्य सर्वसिद्धत्वादणुत्वं तदुपपादकतया मनसः
कल्पनीयमिति भावः। ननु दृष्टान्त इति। आलोकेन्द्रियमनः संयोगास्याभावो ज्ञानजनकत्वाभावः,
मकरन्दः।
ननु रूपादिषु मध्ये रूपादिमात्रग्राहकत्वेनैव चक्षुरादिसिद्धेस्तदन्यगुणग्रहे तदसामर्थ्याच्चि-
त्रज्ञानमसम्भवतीत्यरुचेराह वस्तुत इति। ननु गोगोत्वनिर्विकल्पकानन्तरमन्यतरविशेष्यकज्ञानोत्पत्ता-
विवादृष्टमेवात्र नियामकमस्तु, यथा च तत्र नोभयविशेष्यकसमूहालम्बनं तथाऽत्र न युगपज्ज्ञानमिति
चेत्। न, अणुना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात्। अन्यथा स एव न कल्प्येतेति
भावः। सर्व्वसिद्धत्वादिति। यद्यपि युगपदनेकेन्द्रियसन्निकर्षो न सर्वसिद्धः, तथापि ज्ञानक्रमस्य
तत्र सर्व्वसिद्धत्वात् अत्रापि क्रम इत्यत्रैव तात्पर्यम्। तदस्यः शङ्कते नन्विति। मद्धा, गूढामि-
तृतीयस्तवके ] अनुपलब्धेर्र्वाहकत्वनिराकरणम् । ३२१
न ह्येष बुभुत्साया महिमा यद्बुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानमपि तु
बोधनी ।
सामग्रीव्यतिरेकादेव ज्ञानव्यतिरेक इति । कस्तर्हि बुभुत्साया महिमेत्याह - अपि तु इति ।
प्रकाशः।
वा इतरज्ञानप्रतिबन्धिका, किं त्वन्यथा उपयुज्यते इत्याह । न हीति ।
ननु बुभुत्साया अतन्त्रत्वे कथं मनोऽणुत्वपक्षे मन्दोऽपि बुभुत्सितः शब्दो गृह्यते, नान्यः ।
तन्त्रत्वेऽपि कथं दशभिः पठ्यमानासु गाथासु तावद्गोचरबुभुत्सायां प्रणिधाने च सर्वेषामज्ञानमेक-
ज्ञानञ्च । न च श्रोत्रमनःसंयोगविशेषः कार्योन्नेयोऽस्ति, स एव किञ्चिच्छब्दग्रहहेतुस्तदन्यग्रहप्रति-
बन्धक एवेति वाच्यम् । विभुत्वेऽपीन्द्रियमनःसंयोगविशेषस्य तथात्वे व्यासङ्गोपपत्तेः । अथ प्रत्यक्षा-
नुकूलेन्द्रियमनःसंयोगद्वारा बुभुत्साप्रणिधानयोः प्रत्यक्षहेतुत्वमिति चाक्षुषादिबुभुत्सितग्रहे कृतत्वात्ताभ्यां
श्रोत्रे बुभुत्सितशब्दावच्छेदेन मनःसंयोगः कृत इति स एव गृह्यते, नान्य इति चेन्न ! युगपत्यठ्य-
मानासु विंशतिगाथासु तावद्गोचरबुभुत्साप्रणिधानयोः सत्त्वे तावद्गाथावच्छेदेन मनःसंयोगाद्
युगपत्तासामुपलम्भप्रसङ्गात् । प्रत्येकसामग्रीसत्त्वात् ।
उच्यते । यद्यपि बुभुत्साप्रणिधाने न शब्दग्रहमात्रे सहकारिणी, न वेतरग्रहप्रतिबन्धके, तथापि
नानाशब्दसमवायदशायां यः शब्दग्रहस्तत्र तयोस्तथाभावः । तथैव तेषामन्वयव्यतिरेकनियमात् ।
प्रकाशिका ।
किञ्च बुभुत्साप्रयुक्त इत्यर्थः । गूढाभिसन्धिः पृच्छति । नन्विति । अभिसन्धिमुद्घाटयति विभुत्वेऽ-
पीति । तथापीति । यद्यपि नानेन्द्रियनानाविषयसन्निकर्षकालीन्यान्यतरबुभुत्साया रूपादिग्रा-
मकरन्दः ।
स्रन्धिः शङ्कते नन्विति । अत एवाभिसन्धिमुद्घाटयति विभुत्वेऽपीति । तथैव तेषामिति ।
टिप्पणी ।
दृष्टेऽनेकज्ञानकारणे सम्भृते सहसैवादृष्टविलम्बेन कारणाभावस्य वक्तुमशक्यत्वात् , कारणधर्मत्वे चा-
स्थिते प्रामाणिकतन्निर्वाहाय, तत्कल्पनस्य सम्भवादिति भावः । प्रणिधाने चेति । संयोगविशेषानुकूलो
मनःकर्मविशेषः प्रणिधानम् । श्रोत्रमनःसंयोगविशेष इति । विशेषश्च कालदेशेन्द्रियविषयादि-
सम्बन्धः । स एव गृह्यते नान्य इति । स एवेत्येकवचनं बुभुत्सितसाकल्यव्यवच्छेदार्थम् ।
तथा च बुभुत्सितेत्यनन्तरं कियदिति लभ्यते एवञ्च बुभुत्साया अनेकशब्दगोचरत्वेऽपि स्वातन्त्र्येण
तस्या अहेतुत्वानमनसोऽणुत्वाद् यद्यच्छब्दावच्छेदेन श्रोत्रमनःसंयोगस्तेषामेव ग्रहणं न बुभुत्सितानां
सर्वेषां नाप्यबुभुत्सितानामिति भवति प्रकटित आशयः । एतेन तन्त्रत्वेऽपीत्यन्तेन ग्रन्थेन यः
कृतो निरासः स एव न युगपदित्यादावपि प्रतीयते इति कथमयेत्यादिशङ्कोन्मेष इति निरस्तम् ।
कर्णशष्कुल्यवच्छिन्नमाकाशं श्रोत्रं न तत्सावयवं यत्र तत्तदवयवरूपावच्छेदकभेदेन विद्यमानशब्दस्या-
णुमनःसंयोगं प्रत्यवच्छेदकत्वे विशेषः स्यादिति । श्रोत्रशब्देषु विद्यमानेषु तत्र च मनःसंयोगे
तत्तत्प्रत्यवच्छेदकत्वतदभावौ तेषु केषुचिद् व्यवस्थितौ न भवत एवेति न प्रसङ्गस्य वारणम् । न च
कर्णशष्कुल्यवयवस्य श्रोत्रावच्छेदकत्वम् । न चाकाशे विद्यमानेषु शब्देषु तत्संबन्धाना मवयवानां
कस्यचिदवच्छेदकत्वं कस्यचिन्नेत्यपि वक्तुं शक्यमिति भावः ॥ शब्दसमवायदशायामिति ।
ननु शब्दसमवायस्याविशेषे बुभुत्सायाश्चाविशेषे कस्यचिदेव शब्दस्य ग्रहः, कस्यचिन्नेत्यत्रैव
मानाभावात् कथमेतत्संगच्छत इति चेन्न । कस्यचिदेव शब्दग्रहणेऽनुभवसिद्धे हि सर्वेषां ग्रहणप्रसङ्ग-
रूपो दोषः, अन्यथेष्टापत्तेः, तदर्थं कस्यचिद् विशेषोऽनुभवगोचरोऽपि शब्दे तद्द्वारा बुभुत्सायाञ्च
कल्प्यः, स चानेकभवीयानुस्यूतरागप्रभववासनाविशेषविषयत्वादिरूप्यस्ति सम्भावितः, तथापि
कार्यकारणत्वयोर्लाघवेन कार्यकारणवृत्ति तद्व्यक्तित्वयोरेवावच्छेदकत्वं द्व्यक्तीतरप्रतिबन्धकत्वे च
कारणतावच्छेदकतद्व्यक्तित्वस्य चावच्छेदकत्वमिति कल्प्यते । न चैवम्मनोविभवेऽप्येवमेवास्तु कल्प-
४१ न्या० क०
३२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात्। यदि त्वबुभुत्सिते विषये साम-
ग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापी-
न्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपज्ज्ञानानुत्पत्ता-
वुपयुज्यते, न तु स्वरूपतः। विभुनोऽपि मनसो व्यापारक्रमात् क्रम इति चेन्न।
बोधनी।
स्वसामग्र्या जायमानः प्रत्ययो बुभुत्सया दृढतरसंस्काराधानसमर्थो भवतीति। ज्ञानमात्रोत्पत्तावपि
बुभुत्सोपयोगेऽनिष्टमाह-यदि तु इति। यदि बुभुत्सा न कारणं तर्हि बुभुत्सिताबुभुत्सितयोर-
विशेषेण ज्ञानं जायेत। न च मधुरतरसङ्गीतमादरेणाकर्णयतः सन्निहितेष्वपि विषयान्तरेषु युगपदेव
ज्ञानोत्पत्तिर्दृश्यत इत्याशङ्क्याह-तस्मात् इति। यतो ज्ञानोत्पत्तौ बुभुत्सायाः साक्षादनुपयोगस्त-
स्मात्तत्रापि मनःसंयोगक्रमादेव ज्ञानक्रमस्तत्संयोगक्रम एवं बुभुत्साया उपयोग इत्यर्थः। पुनरपि
ज्ञानक्रमवादी शङ्कते-विभुनोऽपि इति। न इति। तस्य व्यापारस्य संयोगरूपत्वे तावन्न क्रमः
संभवति विभुत्वान्मनसः, तदतिरेकेण तु कल्प्यमानस्य कर्मत्वेऽपि विभुत्वव्याघातः, गुणत्वेऽपि
प्रकाशः।
न चाणावपि मनसि रसनसंयुक्ते त्वक्संयोगस्यापि सत्त्वाद् रसगुडद्रव्यज्ञानयौगपद्यापत्तिः। रसनसंयोग-
काले मनस्त्वक्संयोगे मानाभावात्। तस्माच्चाक्षुषज्ञानवतो मैत्रस्य स्वविषयसंबद्धानि त्वगादीनि
स्वविषयसाक्षात्कारहेतुसंयोगशून्यानि, तदा स्वविषयसाक्षात्कारजनकत्वात्, पटवत्, अन्यथा
सामग्रीसत्त्वे युगपज्ज्ञानोत्पादप्रसङ्गः।
प्रकाशिका।
णुकत्वमिति समः समाधिः। तथाप्यणुनेव मनसोपपत्तौ नैवं हेतुता गौरवादित्यभिसन्धिः। मिश्रास्तु
तादृशबुभुत्सापि न प्रयोजिका, असत्यामपि तस्यामुत्कटसूचीसर्पादिव्यथाऽनुभवेन व्यभिचारादित्याहुः।
तच्चिन्त्यम्। शब्देऽपि, सत्यामपि तादृशबुभुत्सायां निकट आहन्यमानढक्कादिशब्दस्य तारतम्यस्या
बुभुत्सितस्यापि ग्रहेण तस्या व्यभिचारात्। वस्तुतो विभुत्वे मनस आत्मसंयोग एव कारणाभावा-
न्न स्यादित्येव बाधकम्। न च नित्य एव स संयोगः। संयोगत्वस्यैव लाघवेन द्रव्यजन्यतावच्छेदकत्वा-
दिति दिक्। रसनसंयोगेति। न च त्वङ्मनस्संयोगस्य ज्ञानमात्रजनकत्वादिदमयुक्तमिति वाच्यम्।
त्वचस्तथात्वेऽपि त्वङ्मनःसंयोगस्य तथात्वे मानाभावात्। न च सुषुप्त्यनुपपत्तिरेव मानम्। शरीर-
मनःसंयोगेनैव तदुपपत्तेः। न चैवं "मनसोऽनिन्द्रियप्रत्यासन्नतये"त्यादि मूलविरोध इति वाच्यम्।
इन्द्रियपदस्येन्द्रियाश्रयपरत्वात्। चाक्षुषेति। सामान्यतः साक्षात्कारजनकत्वं स्वरूपासिद्धमत उक्तं
चाक्षुषज्ञानवत इति। तेन तदानीमित्यनेन चाक्षुषज्ञानकालपरामर्शन्नासिद्धिरिति भावः। विषय
सम्बन्धव्यतिरेकमादायार्थान्तरमिति संवद्धानीत्यन्तं पक्षविशेषणम्। साध्ये संयोगेति पक्षधर्म-
मकरन्दः।
नन्वेवं वैभवेऽपि रूपादिसकलगोचरबुभुत्साया अहेतुत्वेऽपि तदन्यतमबुभुत्सा तद्ग्राहिका अन्य-
ग्रहप्रतिबन्धिका चास्तामिति तुल्यः समाधिः। न च तादृशबुभुत्सायामपि सूचीसर्गादिवेधाद्यनुभवेन
तादृश्या अपि व्यभिचारान्नैवमिति वाच्यम्। शब्देऽपि तादृशबुभुत्सायां निकठाहन्यमानढक्का शब्दा-
नुभवेन तुल्यत्वात्। अत्रापि यदि विशेषकल्पनं, तदा तदपि तुल्यमिति। मैवम्। अणुना
मनसैवोत्तौ तादृशबुभुत्साहेतुत्वादिकल्पनायामेव गौरवात्। रसनसंयोगकाल इति। न च
त्वङ्मनोयोगस्य ज्ञानमात्रहेतुत्वे तदवश्यकमिति वाच्यम्। त्वचस्तथात्वमतेऽपि तत्तन्मनोयोगस्य तथा-
त्वे मानाभावात्। न च सुषुप्तौ ज्ञानानुत्पत्तिरेव मानं, शरीरमनःसंयोगाभावात्तदुपपत्तेः। चाक्षुषेति।
टिप्पणी।
नेति वाच्यम्। अणुत्वपक्षेऽल्पतरप्रतिबन्धकत्वस्य कल्पनीयत्वात्। इन्द्रियान्तरजन्यानन्त-
ज्ञानस्य मनःसम्बन्धाभावेनैवोपपत्तेः, वैभवे चानन्तप्रतिबन्धकत्वस्यैव कल्पनीयत्वादिति भावः॥
तृतीयस्तवके ] अनुपलब्धेरधिकत्वनिराकरणम्। ३२३
तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात्। गुणरूपत्वे नित्यस्य
क्रमानुपपत्तेः। अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन
तदन्तरेणानुपपत्तेः। तदपि कल्पयिष्यते इति चेत्, तदेव तर्हि मनःस्थाने निवेश्यतां
लाघवाय। तस्मादण्वेव मन इति॥
तथा च, तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपाधानत्वादात्मनः सुषुप्त्यवस्थायामस-
नुपलम्भः। एतदेव मनसः शीलमिति कुतो निर्णीतमिति चेत्, अन्वयव्यतिरेका-
भ्याम्। न केवलं तस्य, किन्तु सर्वेषामेवेन्द्रियाणाम्। न हि विशेषगुणमनपेक्ष्य
चक्षुराद्यपि द्रव्ये प्रवर्त्तते। स्वापावस्थायां कथं ज्ञानमिति चेत्, तत्तत्संस्कारोद्बोधे
बोधनी।
तस्य नित्यत्वाभ्युपगमे क्रमोत्पत्तिरीति न संभवति अनित्यत्वे तु विभुद्रव्यैकगुणस्याप्यविभुद्रव्य-
संयोगासमवायिकारणकत्वेन व्याप्तेराकाशैकगुणे शब्दे भेर्याद्यविभुद्रव्यसंयोगासमवायिकारणकत्व-
दर्शनेनावधारणाद्विभुद्रव्यमन्तरेण तदनुपपत्तेरससमवायिसंयोगाधिकरणं किञ्चिदविभुद्रव्यं कल्प-
नीयम्। यदि तदपि कल्प्येत तर्हि कल्पनालाघवाय तदेवाऽस्तु मन इत्युपसंहरति-तस्मात् इति।
उपपादितमर्थमुपजीव्य पूर्वप्रकृतमेवोपक्रम्याह-तथा च इति। यथोक्तमार्गेणाणुनि मनसि
तस्यानिरिन्द्रियप्रदेशावस्थानापत्तौ मनःसहकारिविधुरैरिन्द्रियैः ज्ञानादिविशेषगुणानुत्पादादात्मनो
निरुपाधानत्वात् सुषुप्तावस्थायामनुपलम्भः सिध्यतीति। एतत् इति। विशेषगुणोपहितमेवात्मानं
गृह्णातीत्येतदेवेति। विशेषगुणोपधानानुपधानायोरात्मनो ग्रहणाग्रहणाभ्यां तन्निश्चितमित्याह-अन्वय
इति। न केवलं मनस एवेदं शीलं किन्तु सर्वेन्द्रियाणामपीत्याह-केवलम् इति। एतदेवोप-
पादयति-न हि इति। अन्यथा वाय्वादिकमपि चक्षुः प्रवर्त्तेतेति भावः। स्वप्ने वा कथं सुषुप्तिवन्मनसो
प्रकाशः।
नित्यैकगुणस्येति। नित्यपदं स्नेहे, एकपदञ्च द्वित्वादौ व्यभिचारवारणाय। नित्यवृत्त्येक-
वृत्त्यनित्यगुणत्वेन मूर्त्तसंयोगासमवायिकारणगुणवृत्तित्तिगुणत्वव्याप्यजातिमत्त्वं साध्यमित्यर्थः।
ननु मनोऽवयव्यस्तु तस्य संकोचविस्ताराभ्यां ज्ञानक्रमयौगपद्ययोरुपपत्तेः। शष्कुलीभक्षणानन्तरं
गन्धादीन् युगपद् प्रत्येमीत्यनुव्यवसायस्य बाधकं विना प्रमात्वात्। मैवम्। यदि संकोचविस्तारहेतु-
रदृष्टं, तदा तत एव तदुभयमस्तु, किं मनसा। नाप्येकपञ्चबुभुत्सा तौ भवतः। बुभुत्साया अहेतु-
त्वात्, हेतुत्वे वा लाघवादिषु मनोऽस्तु। एतेनाणुमनःपञ्चकमस्तु अवयविनो लघूत्वाद् बुभुत्सा-
वशात्तेषामेकपञ्चेन्द्रियसम्बन्धादुभयोपपत्तेरित्यपास्तम्। पञ्चबुभुत्सायां पञ्चेन्द्रियसम्बन्धे व्यासङ्गा-
नुपपत्तेरित्यभिप्रेत्याह। तस्मादिति॥
एवमौपोद्घातिकं मनोवैभवनिराकरणं समाप्य प्रकृते योजयति।
तथा चेति। एतदेवेति। विशेषगुणोपहितात्मग्राहकत्वमित्यर्थः। अनिन्द्रियप्रत्यासन्नतवा-
न्मनसः स्वप्नप्रत्यया अपि न स्युरित्याह। स्वापेति। सर्वेन्द्रियप्रत्यासत्तिविरहे मनसो ज्ञानाजनकत्वं,
न तु त्वगादिप्रत्यासत्तिमतोऽपीत्याह। **तत्तदिति। उद्बोधः=**सहकारिसाकल्यम्। विषयस्मृति-
दोषादृष्टादिसाचिव्यान्मनसा स्वप्नानुभवो जन्यत इत्यर्थः। सदृशदर्शनाद्युद्बोधकस्याभावात् संस्कारा-
प्रकाशिका।
तावदत्यन्तोत्कीर्त्तनं व्यारकता तु तदनन्तर्भावेनैव। अन्यथाऽनुद्भूतरूपतया साक्षात्काराजनके
ऊष्मादौ व्यभिचारापत्तेः। यद्विषयसाक्षात्कारजनकत्वं तद्विषयसाक्षात्कारहेतुसंयोगशून्य-
त्वमिति व्याप्तिलाभाय साध्यहेत्वोः स्वविषयपदमिति दिक्। शब्दजशब्दे व्यभिचारवा-
रणाय साध्यं जातिगर्भतया व्याचष्टे मूर्त्तेति। गुणपदं पूर्ववद्दैशिकव्याप्तिलाभाय।
मकरन्दः।
प्रत्यक्षप्रकाशो विप्रञ्चितम्। शब्दजशब्दे व्यभिचारवारणाय साध्यं व्याचष्टे मूर्त्तेति। गुणपदं स्पष्टार्थम्।
विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः । उद्बोध एव कथमिति चेत् । मन्दतर-
तमादिन्यायेन वाह्यानामेव शब्दादीनामुपलम्भाद् , अन्ततः शरीरस्यैवोष्मादेः
प्रतिपत्तेः, यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्त्तते, तदा सुषुप्तिः ।
स्यादेतत् । परमात्मा तु कथं परस्यायोग्यः । न हि साक्षात्कारिज्ञानविषय-
तामेवार्थं न प्राप्नोति। स्वयमप्यदर्शनप्रसङ्गात् । नापि ग्रहीतुरेवायमपराधः । तस्या-
पि हि ज्ञानसमवायिकारणतयैव तद्योग्यता। नापि करणस्य। साधारणत्वात् । न ह्या-
बोधनी ।
व्याप्रीयमाणेन्द्रियसंयोगाभावात् ज्ञानोत्पत्तिरित्याह—स्वप्न इति । तत्तद्विषयेन्द्रियव्यापाराभावेऽपि
पूर्वानुभवजनितसंस्कारोद्बोधप्रभाविततत्तद्विषयस्मरणसहकृतं मनः स्वप्नभ्रमानुत्पादयतीत्याह—तत्तत्
इति । तदानीं बाह्यविषयानुपलम्भे संस्कारोद्बोध एव कुत इत्याह—तदुद्बोधः इति। मन्द इति ।
तदापि बाह्येन्द्रियाणां मन्दतरतमादिभावेन व्यापाराऽनुवृत्तेः शब्दाद्युपलम्भात्तदनुपलम्भेऽप्यन्ततो गत्वा
शरीरोष्मादेस्त्वगिन्द्रियेणोपलम्भासंभवात् संस्कारोद्बोधोपपत्तिरित्याह—अन्त इति । यदा तु
मनस्त्वगिन्द्रियेणाप्यसंयुक्तं पुरीतति, तदा स्वप्नस्याप्यभावात् सुषुप्तिरेव स्यादित्याह—यदा तु इति ।
एवं तावद्योग्यस्यापि स्वात्मनोऽनुपलब्धिकारणमुक्तम् । इदानीं तु कुतस्त्वयोग्यः परमात्मेत्यत्र
शङ्कते—स्यादेतदिति । न कथञ्चिदयोग्य इत्यर्थः । न तावत्स्वरूपयोग्यता नास्तीत्याह—न हि
इति । अयं परमात्मा, स्वयं स्वेन परमात्मनाऽपीति । न च प्रमातृत्वरूपसहकारियोग्यता नास्तीत्याह—
नापि इति । तद्योग्यता = गृहीतत्वयोग्यतेति । न च करणरूपसहकारियोग्यताविरह इत्याह—
नापि इति । न चास्ति एकाकीयस्य मनसः परमात्मानं प्रत्ययोग्यत्येत्याशङ्कथाह—साधारणत्वात्
प्रकाशः ।
रोद्बोधो न स्यादित्याह । उद्बोध एवेति । न तदेवोद्बोधकं, किं त्वदृष्टादिकमपि यथासम्भव-
मित्याह । मन्देति । मन्दत्वं = गत्वादिव्याप्यजातिः । ऊष्मादेरिति । अनुद्भूतरूपोद्भूतस्पर्श-
तेजसः स्पर्शादेरित्यर्थः । स्वापमुक्त्वा सुषुप्तिमाह । यदा चेति । आत्मनो निरिन्द्रियप्रदेशः =
पुरीतत् । किञ्चिन्मनः कश्चिदेवात्मानं गृहातीत्यपि नास्तीत्याह । नापीति । एकस्यापि मनसोऽने-
कात्मग्राहकत्वादित्यर्थः । न हीति । नैयायिकमत इति शेषः । भट्टानां तु ज्ञानार्थयोरिवात्ममनसोरपि
प्रकाशिका ।
न तदेवेति । न सदृशदर्शनमेवेत्यर्थः । अदृष्टादिकमिति । आदिपदेन शब्दादिज्ञानसंग्रहः । मन्दत्वं
तारधीनिरूप्यमिति कथं ताराग्रहे मन्दत्वविशिष्टग्रह इत्यत आह मन्दत्वमिति । तथा च जातेर्न सा-
वधित्वमपितु तन्निष्ठधर्मस्येति भावः । यद्यपि बाह्यानामेव शब्दादीनामुपलम्भादिति मूलानुरोधेनादि-
पदग्राह्यः प्रकाशे शब्दोपलम्भ एव वाच्यः स च न मानसो बहिरर्थे मनसोऽस्वातन्त्र्यात्, नापि श्रौत्रः
मनसस्तदा स्वप्नवहननाडीप्रविष्टतया श्रोत्रसंयोगाभावात् । तथापि स्वप्नवहननाड्याः शरीरव्यापक-
तया श्रोत्रावच्छिन्नदेशेऽपि सत्त्वेन स्वप्नकाले श्रोत्रमनःसंयोगो न विरुद्ध इत्यत्र तात्पर्यम् । यदि च
नैवं तदा तत एवास्वरसादान्ततः शारीरस्यैवोष्मादेरिति मूलं स्वप्नकाले च शरीरमनःसंयोगस्यावश्य-
कतया त्वङ्मनः संयोगोऽपि न विरुद्ध इति तस्याशयः । ऊष्मणोऽप्रत्यक्षतया ऊष्मादेरित्यत्रातद्गुण-
संविज्ञानबहुव्रीहिणा स्पर्शादिकमेवोक्तमित्याह । अनुद्भूतरूपेत्यादि । भट्टानामिति । तथा च
मकरन्दः ।
न तदेवेति । न सदृशदर्शनमेवेत्यर्थः । अदृष्टादिकमपीति । अपि पदात्तद्वि-
ज्ञशब्दाद्युपलम्भपरिग्रहः । तथा च क्व चिददृष्टं क्व चिज् ज्ञानान्तरमुद्बोधकमिति भावः । ननु-
मन्दत्वं तारत्वनिरूप्यमिति तदज्ञाने तदसम्भवीत्यत आह मन्दत्वमिति । जातिज्ञाने च नेतरज्ञाना-
पेक्षेति भावः । ननूष्मा तेजस्तच्चातीन्द्रियमित्युत आह अनुद्भूतरूपेति । ऊष्मादेरित्यतद्गुण-
संविज्ञानबहुव्रीह्याश्रयणादिति भावः । भट्टानामिति । तथा च तेषां तथा नियम एवेत्यर्थः ।
तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३२५
संसार्येकस्यैव मनः एकमेवात्मानं गृह्णातीत्यत्र नियामकम् अस्ति । स्वभाव इति
चेत्, तर्हि मुक्तौ निःस्वभावत्वप्रसङ्गः । तदेकार्थताया अपायादिति । न । भोजका-
दृष्टोपग्रहस्य नियामकत्वात् । यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृ-
ष्टानि, तानि तस्यैवेति नियमः । तदुक्तं प्राक्—प्रत्यात्मनियमाद्भुक्तेरिति । एतेन पर-
बुद्ध्यादयो व्याख्याताः ॥
तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति, तदितरा तु न बाधिकेति तवापि
सम्मतम् । अतः किमधिकृत्य प्रतिबन्धिः । न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चि-
न्निषेधति । न च प्रकृते योग्यानुपलब्धिं कश्चिन्मन्यते । अथायमाशयः । अयोग्य-
बोधनी ।
इति । सर्वेषां मनसां सर्वात्मनः प्रति साधारणत्वादिति । साधारण्यमेवाह—न हि इति । न ह्येक-
स्यात्मनः सर्वदैकमेव मन इत्यत्र नियमहेतुरस्तीति । नन्वस्ति मनःस्वभाव एव नियामक इत्याह-
स्वभावः इति । यदि तदेकात्मसम्बन्धित्वमस्य स्वभावस्तर्हि मुक्तात्मनां मनःसम्बन्धाभावात्
स्वभावहानिः स्यादित्याह-मुक्तौ इति । सिद्धान्ती नियमहेतुमाह—न इति । यस्यात्मनो
यद्भोजकमदृष्टमसाधारणं तेनोपनीतं मनस्तस्यैव ज्ञानहेतुर्नान्यस्य शरीरादीनामप्यसाधारणादृष्टा-
कृष्टत्वमेवासाधारण्या हेतुः, व्युत्पादितं चैतदन्यत्रेति । एतेन मनसोऽसाधारण्याेन परात्मवत्परदुःखा-
दयोऽप्यप्रत्यक्षा इति व्याख्याता इत्याह—एतेन इति ।
तदेवं "योग्यादृष्टिः कुतोऽयोग्ये" इत्येतद् व्याख्यायोपसंहरति—तदेवम् इति । द्वितीयं
पादं व्याचष्टे—तदितरा इति । तृतीयं व्याचष्टे—न हि इति । किन्तु योग्यानुपलब्ध्येति ।
न च प्रकृते परमात्मनीश्वरे योग्यानुपलब्धिरस्तीत्याह-न च इति । तस्मान्न प्रतिबन्धिरिति परा-
शयमाशङ्कते-अथ इति । यद्ययोग्यस्य शशशृङ्गस्यानुपलब्धिर्न बाधिका स्यात् ततो बाधकाभाव-
प्रकाशः ।
स्वाभाविक एव सम्बन्धो, यतो मुक्तावप्यात्मनो नित्यनिरतिशयानन्दसन्दोहाभिव्यक्तिः । एका-
त्ममात्रज्ञानजनकत्वं मनसः स्वभाव इत्याह । स्वभाव इतीति । एकस्यात्मन एकमेव मन इति
स्वभावः, एकं मन एकमेवात्मानं गृह्णातीति वा, द्वयमपि जीवन्मुक्तौ नास्ति, तत्र कायव्यूहे बहुत-
रमनःस्वीकाराद्योगिनामप्यात्मसाक्षात्कारजननादित्याह । मुक्ताविति । जीवन्मुक्तौ । यदीयादृष्टा-
कृष्टं यन्मनस्तत्तस्यैव ग्राहकं, योगिनामपि तत एव तदीयं तस्य । अदृष्टस्यापि तदीयत्वं तदीय-
मनोनिष्पन्नत्वेन, बीजाङ्कुरवच्च नानवस्थादोष इत्याह । भोजकेति । यथा परात्मनि परमनसो न
साक्षात्कारजनकत्वं तथा परबुद्ध्यादावपि, तुल्यत्वादित्याह । एतेनेति ।
यत्र प्रतिबन्धिः स्यात् तदुभयमपि नेष्यते इत्याह । न हीति । न हि तेन ईश्वरसाधने किञ्चिद्
प्रकाशिका ।
तेषां तथा नियम एवेति भावः । एकात्ममात्रेति । नियामकान्तराभावेऽपि स्वभाव एव नियामक
इति भावः । एकस्यात्मन इति । एकमेव मन एकत्रात्मनि ज्ञानादिजनकम् , एकं मन एकात्मगो-
चरमेव ज्ञानं जनयतीति वा विकल्पार्थः, निर्वाणमुक्तौ ज्ञानजनकत्वमसम्भवीति व्याचष्टे । जीवन्मुक्ता-
विति । वस्तुतो मुक्ताविति मूलं निर्वाणाभिप्रायकमेव तथा च स्वभावो वस्तूनां यावद्द्रव्यभावीति एका-
त्मग्राहकत्वरूपस्वभावहानिर्निर्वाणदशायां स्यादिति मूलार्थ इति प्रतिभाति । तस्यैवेति । तत्रैवात्मनि
ज्ञानजनकमित्यर्थः । देवदत्तमनसा समस्तात्मसाक्षात्कारविरहेण यथाश्रुतस्यासङ्गतेः । ननु प्रत्यक्षं यो-
मकरन्दः ।
एकात्ममात्रेति । तथा च नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः । अयोग्यस्यैव
३२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्यायां
शशशृङ्गादावनुपलब्धिर्न बाधिका स्यादिति । ततः किं? तत् सिद्ध्येदिति चेत् । एव
मस्तु यदि प्रमाणमस्ति । पशुत्वादिकमिति चेत् । परसाधने प्रतिवन्धिस्तर्हि न तद्-
बाधने । तत्रैव भविष्यतीति चेत् । तत् किं तत्र प्रतिबन्धिरेव दूषणम् । अथ कथ-
ञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयस्ते च बाधिता एवेत्यपहृतविषय-
त्वम् ? । न प्रथमः । अव्याप्तेः । न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः
कर्तृमत्त्वादिसाधकत्वं व्याप्तं, येन तस्मिन्नसति तत्प्रतिषिध्येत । न द्वितीयः ।
मिथोऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात् । तथापि पशुत्वादौ को दोष
इति चेत् । न जानीमस्तावत्तद्विचारावसरे चिन्तयिष्यामः ।
बोधनी ।
मात्रात् किं तच्छृङ्गं सिध्यति । अयमत्राभिसन्धिः-अयोग्यानुपलब्धिप्रतिपादनेन बाधकाभावमी-
श्वरस्य सिध्यति न तु सद्भाव इति । केचित्तु व्याचक्षते यदि शशशृङ्गमप्ययोग्यं तदा तस्यानुप-
लब्धिर्न बाधिका स्यादिति ! उत्तरं-ततः किम् इति । बाधकाभावात्किमायातं शशशृङ्गस्येति
शङ्कितुर्भावाविष्करणं तत्सिद्ध्येदिति । बाधकाभावादीश्वरवन्न शशशृङ्गं सिद्ध्येदिति । निराकरोति-
एवमस्तु इति । स्यादेवं यदि शशशृङ्गस्यास्तित्वे प्रमाणं स्यात्, तत्तु नास्ति । न हि वयं बाधका-
भावमात्रेणेश्वरमभ्युपगच्छामः किन्तु साधकसद्भावादेवेति भावः । शृङ्गेऽपि प्रमाणमाशङ्कते-पशु-
त्वादिकम् इति । शशः शृङ्गवान् पशुत्वात् गवादिवदिति । हन्तैवमश्वारूढोऽश्वस्यैवास्मार्षीरित्याह-
परसाधने इति । प्रथममीश्वरस्यानुपलब्ध्या बाधकमभिधाय तद्बाधे शृङ्गस्याप्यबाधः तद्बाधे
तस्यापि बाध इति बाधने प्रतिबन्धिमुद्भावयितुमुपक्रान्तः संप्रति परसाधने प्रतिबन्धिमुद्भावयसि परेण
हीश्वरसाधने कार्यत्वादिति हेतौ प्रयुक्ते शशोऽपि शृङ्गवान् पशुत्वादित्यादि वक्तु संगच्छत इति । तर्हि
परसाधन एतत्प्रतिबन्धिर्भविष्यतीत्यत्राह-तत्र इति । तदेतद्विकल्प्य निराकरोति-किं तत्र इति ।
यदि कार्यत्वं कर्त्तारं साधयेत् पशुत्वमपि शृङ्गं साधयेदिति किं प्रतिबन्धिरेव दूषणं किं वा योग्या-
नुपलब्ध्या पशुत्वस्येव कार्यत्वादेरपि बाधितविषयत्वमिति । तस्मिन् व्यापके पशुत्वादेः शृङ्गादि-
साधनत्वेऽसति तत्कार्यत्वादेः कर्तृत्वसाधनं व्याप्यभूतं प्रतिषिध्येतेति । मिथोऽनुपलभ्य इति ।
यदि परात्मादेर्योग्यानुपलब्धिर्वाधिका स्यात् तदा परस्परमनुपलभ्यमानयोरेव वादिप्रतिवादिनोः
परस्पराङ्गीकारो न स्यादिति । ननु मा भूदिदं परसाधने दूषणं, तथापि शृङ्गसाधनतया प्रयुक्ते पशु-
त्वादौ को दोष इत्याह-तथापि इति । पृच्छतोऽयमाशयः-य एवात्र दोषः स एवेश्वरानुमाने
भविष्यतीति । अनवसरत्वान्नेदमिह वक्तव्यमित्याह-न जानीमस्तावत् इति ।
तदेवं प्रत्यक्षस्य बाधकत्वं निराकृतम्, इदानीं तु व्यापक्यानुपलब्धिलक्षणमनुमानमङ्कुरादिषु
; प्रकाशः ।
दूष्यत इत्यर्थान्तरं निग्रहस्थानमित्याह । तत इति । आशयमविद्वानाह । तदिति । तत्सिद्धावपि
न प्रकृते दूषणमित्याह । एवमिति । मानमाह । पशुत्वादिकमिति । पक्षसत्त्वादेव नाश्वादौ
व्यभिचार इति भावः । आशयं स्फुटयति । परेति । यदीश्वरः सिद्धयेत, तदा शशशृङ्गमपि
सिद्धयेदितीश्वरसाधने प्रतिबन्धिस्तथा चार्थान्तरमित्युक्तम् । नन्वनुपलब्धिमात्रेण यथा शशे शृङ्गा-
भावस्तथा क्षित्यादौ कर्तुरप्यभाव इति बाधनेऽपि प्रतिबन्धिः स्यात्, इष्टापत्तेरभावादित्याह ।
तत्रैवेति । मिथ इति । परात्मादेः परायोग्यत्वस्योभयवादिस्वीकारात् प्रत्यक्षानुपलम्भमात्रं,
नायोग्ये बाधकमित्यर्थः । अर्थान्तरं हि पुरुषदोषो, न तु साधनदोष इत्याशयेन पृच्छति । तथा-
पीति । शशे शृङ्गस्यात्यन्ताभाव इति सर्वैणसवाधितप्रत्यक्षबाधः ।
तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३२७
स्यादेतत् । यत्प्रमाणगम्यं हि यत्, तद्भाव एव तस्याभावमावेदयति । यथा
रूपादिप्रतिपत्तेरभावश्चक्षुरादेरभावम् । कायवाग्व्यापारैकप्रमाणकश्च पराऽऽत्मा,
तदभाव एव तस्याभावे प्रमाणमङ्कुरादिषु । तन्न । तदेकप्रमाणकत्वासिद्धेः । अन्यथा
सुप्तोऽपि न स्यात् । श्वाससन्तानोऽपि तत्र प्रमाणमिति चेन्न । निरुद्धपवनोऽपि
न स्यात् । कायसंस्थानविशेषोऽपि तत्र प्रमाणमिति चेन्न, विषमूच्छितोऽपि न
स्यात् । शरीरोष्मापि तत्र प्रमाणमिति चेन्न। जलावसिक्तविषमूर्च्छितोऽपि न स्यात्।
तस्माद् यद्यत् कार्यमुपलभ्यते तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति । न च
कार्यमात्रस्य क्वचिद् व्यावृत्तिरिति । न च त्वदभ्युपगतेनैव प्रमाणेन भवितव्यं
नान्येनेति नियमोऽस्ति । न च प्रमेयस्य प्रमाणेन व्याप्तिः । सा हि कात्स्न्र्येन
बोधनी ।
कर्तृबाधकमाशङ्कते—स्यादेतत् इति । तन्नेति । परमात्मन इति शेषः । कायवाग्व्यवहारैकप्रमाण-
कत्वेऽनिष्टमाह-अन्यथा इति । न हि तस्य कायिको वाचिको वा व्यापारोऽस्तीति । निरुद्धपवनः
प्राणानायम्य तूष्णीमासीनः । शेषं सुगमम् । यस्मान्न कायवाग्व्यापारैकप्रमाणकः परमात्मा तस्मा-
देवमङ्गीकर्त्तव्यमित्याह-तस्मात् इति । तथापि विश्वकर्त्तुः कथं सिद्धिरित्यत्राह-न च कार्यमात्रस्य
इति । न वयं कार्यप्रमाणकत्वं चेतनस्याभ्युपगच्छाम इत्याह-न च इति । किं चास्तु त्वदभ्युपगमे
तदेव प्रमाणं तथापि तदभावान्नाभावश्चेतनस्येत्याह-न च प्रमेयस्य इति । व्याप्त्यभावमेव विक-
ल्प्याह— सा हि इति । प्रमेयस्य प्रमाणव्याप्तिः सर्वैः प्रमाणैरिति प्रमाणकात्स्न्र्येनाभ्युपगम्येत किं
वा येन केनचित्प्रमाणैकदेशेन ? तत्र कृत्स्नप्रमाणव्याप्तौ प्रत्यक्षाद्यन्यतमन्निवृत्तावपि प्रमेयं निवर्त्तेत,
न चैतदस्ति । द्वितीयेऽपि यदि नियतस्यैकस्य पुरुषस्य तर्ह्येकस्य सर्वप्रमाणनिवृत्तावपि प्रमेयं निव-
र्त्तेत, अथानियमेन सर्वेषां न हि तदा सर्वपुरुषाणां यत्किञ्चिदपि प्रमाणं नास्तीति निश्चेतुं शक्यत
प्रकाशः ।
शृङ्गत्वस्य जातेर्योग्यसंस्थानव्यङ्ग्यत्वेनायोग्येष्वङ्कितुमप्यशक्यत्वात् अन्यथा तद्व्यतिरेकाप्र-
सिद्ध्या अनुमानानवकाशात्, अन्वयिनश्चानङ्गीकारात् । परात्मनश्चायोग्यस्यापि कर्तृत्वान्न कर्तृत्वं
योग्यत्वनियतमित्याशयवत उत्तरं, नेति ।
यत्प्रमाणेति । यदेकप्रमाणगम्यमित्यर्थः । अतो न धूमाभावेऽपि अग्निसत्त्वाद् व्यभिचारः ।
अत एव "तदेकप्रमाणत्वासिद्धेरिति वक्ष्यति । कार्यमात्रप्रमाणो ज्ञेयस्तद्विशेषनिवृत्तिमात्रेण न निव-
र्त्तते । कार्यमात्रस्य च न व्यावृत्तिरित्युपसंहरति । तस्मादिति । तथा च, प्रमाणविशेषनिवृत्तावपि
प्रमाणसामान्यसत्त्वात्तदेकप्रमाणगम्यत्वमसिद्धमित्यर्थः । न च प्रमाणप्रमेययोर्व्याप्तिर्यतः प्रमाणविशेषाभावे
प्रकाशिका ।
व्यङ्ग्याभावविषयकमिति कथं तेन लाभ इत्यरुचेराह शृङ्गत्वस्येति । अत्राप्रयोजकत्वमाशङ्कयाह
अन्यथेति । अन्वयिनश्चेति । केवलान्वयिनश्चेत्यर्थः । ननु कार्यत्वावच्छिन्नं प्रति कर्तृत्वेनेव
पशुत्वेनैव शृङ्गजन्कत्वमिति तुल्यमित्यत आह । परात्मनश्चेति । तथा च कर्तृत्वेनायोग्य-
तानियतमतियोग्येश्वरसिद्धौ न किञ्चिद्बाधकम् शृङ्गत्वं तु योग्यसंस्थाननियतमिति नायोग्यशृङ्गसिद्धि-
रिति भावः ।
मकरन्दः ।
बाध इत्याशङ्कयाह शृङ्गत्वस्येति । अप्रयोजकत्वमाशङ्कयाह अन्यथेति । अन्वयिनः =
केवलान्वयिनः ॥ १ ॥
टिप्पणी ।
अन्यथा तद्व्यतिरेकेति । सर्वत्राप्ययोग्यस्य शृङ्गसम्भावनया अभावस्यानिश्चयात् ॥ १ ॥
३२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
वा स्यादेकदेशेन वा स्यात् ? । न प्रथमः । प्रत्यक्षाद्यन्यतमासद्भावेऽपि तत्प्रमेयाव-
स्थितेः । न द्वितीयः । पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः । अनि-
यमेनासिद्धेः । न हि सर्वस्य सर्वदा सर्वथाऽत्र प्रमाणं नास्तीति निश्चयः शक्य
इति । कथन्तर्हि चक्षुरादेरभावो निश्चयः ? । व्यापकानुपलब्धेः । चरमसामग्री-
निवेशिनो हि कार्यमेव व्यापकं, तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः । योग्यतामा-
त्रस्य कदाचित् कार्यं, तन्निवृत्तौ तथाभूतस्याऽपि निवृत्तिः । अन्यथा, तत्रापि
सन्देहः। प्रकृतेऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधोऽस्तु, न । आश्रयासिद्धत्वात् । न ही-
बोधनी ।
इति । ननु यदि न प्रमेयस्य प्रमाणव्याप्तिः कथं तर्हि रूपादिज्ञानाभावात्तदेकप्रमाणकस्य चक्षुरादेर-
भावनिश्चय इत्याह-कथं तर्हि इति । उत्तरं-व्यापक इति । न हि तत्रापि प्रमाणाभावान्निश्चयः ।
किं तर्हि ? व्यापकानुपलब्धेरिति । कथं रूपादिज्ञानं चक्षुरादेर्व्यापकं, न हि कार्यं कारणस्य व्यापकं
वैपरीत्यादित्यत्राह-चरमं इति । चरमसामग्रीत्वेन निविशमानस्य हि कारणस्य कार्यमेव व्यापकं
यथा अन्त्यतन्तुसंयोगस्य पटस्तेन तस्य व्यापकस्य कार्यस्य निवृत्तौ व्याप्यभूतस्यैव कारणस्य निवृ-
त्तिरवसीयते, न तु प्रमाणनिवृत्त्या प्रमेयनिवृत्तिरित्यर्थः । किञ्चित्तु कारणमस्मिन्सत्येव भवति नास-
तीति कार्यं प्रति योग्यतया निविशते यथा तन्त्वादयस्तस्यापि कदाचिद्भवत्कार्यं व्यापकं न हि सर्वदा
कार्यानन्वितं कारणमिति शक्यं वक्तुम् । तस्मात्तस्य कादाचित्कस्यापि कार्यस्य निवृत्तौ तथाभूतस्य
योग्यतामात्रेणाविष्टस्यापि निवृत्तिः । अन्यथा इति । यदि विधाद्वयमपि चक्षुरादौ नास्ति तदा रूपादि-
ज्ञानाभावान्न तत्राप्यभावनिश्चयः किंतु संदेह एव स्यादिति । यद्वा, योग्यतामात्रस्य कदाचित् कार्यं
न तु व्यापकं तेन कारणस्य निवृत्तौ कादाचित्कस्यापि कार्यस्य निवृत्तिस्तद्व्यतिरेकेणास्य निवृत्तिर-
न्यथा कार्यनिवृत्तौ तत्रापि कारणेऽपि संदेहो नाभावनिश्चय इति । केचित्तु न तन्निवृत्तौ तथाभूत-
स्यापि निवृत्तिरिति नञ्प्रश्लेषेण पठन्ति । तत्रायमर्थः । ननु चरमसामग्रीनिवेशिन इति विशे-
षणं योग्यस्यैवोच्यतामित्यत्राह-योग्यतामात्रस्य इति । तस्य कार्यं न व्यापकं । तस्मात्कार्य-
निवृत्तौ योग्यतामात्रस्य निवृत्तिः । अन्यथा इति । चक्षुरादेश्चरमसामग्रीनिवेशाभावे तत्रापि नाभा-
वनिश्चयः, संदेह एवेति ।
चक्षुरादिवत्प्रकृतेऽपीश्वरे व्यापकस्य प्रयोजनादेरनुपलब्ध्या व्याप्यस्य कर्तुः प्रतिषेधोऽस्तु न
प्रमाणाभावेनेत्याह-प्रकृतेऽपि इति । न इति । प्रतिषेधाधिकरणस्य सिद्धिमेवाह-न हि इति । न
प्रकाशः ।
प्रमेयासत्त्वं स्यादित्याह । न चेति । अनियमेनेति । सर्वपुरुषापेक्षयेत्यर्थः । व्यापकेति । तत्तद्व्या-
पकनिवृत्तौ तत्तद्व्याप्यनिवृत्तेरित्यर्थः । कार्यविशेषस्य कारणविशेषव्यापकत्वमाह । चरमेति । कार्यरूप-
ज्ञानादि । योग्यतामात्रस्येति । व्यापकमित्यनुषज्ज्यते । न च भक्षितविनष्टबीजे व्यभिचारः ।
यत्सामान्यं यत्कारणावच्छेदकं तदवश्यं तज्जनकवृत्तीत्यर्थात्, नित्ययोग्याभिप्रायकत्वाद्वा ।
अन्यथेति । कदाचित्कार्यव्यतिरेके योग्यतायामपि सन्देह इत्यर्थः । प्रकृतेऽपीति । ईश्वरो
न कर्ता तद्व्यापकस्वार्थादिशून्यत्वाद् व्योमवदिति व्यापकाभावलिङ्गकमनुमानमित्यर्थः ।
प्रकाशिका !
रूपज्ञानादीति । तथा च सामग्र्यन्तरसमवधानदशायां रूपानुपलब्ध्येव चक्षुरभावोऽनु-
मीयत इत्यर्थः । यत्सामान्यमिति । कस्य चिदुद्भूतरूपस्य विषयसाक्षात्कारकारणतावच्छेदकस्य न
फलोपहितवृत्तित्वमिति सामान्यपदम् । तेन तत्रापि परम्परासम्बन्धेनावच्छेदकस्य सामान्यस्य
तेनैव सम्बन्धेन फलोपहितवृत्तितया न व्यभिचार इति भावः ॥ १ ॥
तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम्। ३२६
श्वरस्तज्ज्ञानं वा क्वचित् सिद्धम्। आभासप्रतिपन्नमिति चेन्न। तस्याश्रयत्वानु-
पपत्तेः। प्रतिषेध्यत्वानुपपत्तेश्च ॥ १ ॥
व्यावत्र्त्याभाववत्तैव भाविकी हि विशेष्यता ॥
अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ २ ॥
न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं
निषेध्यता वेति । कथं तर्हि शशशृङ्गस्य निषेधः । न कथञ्चित् ।
बोधनी ।
ज्ञानाश्रय एव सर्वकर्त्तृत्वस्य विषयत्वस्य वा प्रतिषेधः संभवतीति । आभास इति ॥ तेनाश्रयत्वोपप-
त्तिरिति । न इति । न परस्माभासप्रतिपन्नाश्रयत्वानुपपत्तिः । प्रतिषेधप्रतियोगित्वं च नोपपद्यत इति ॥१॥
उभयमप्यनुपपत्तिमपपादयति व्यावत्र्त्ये-इति । व्यावत्र्त्यस्य=निषेधस्य । अभाववत्ता=तत्संबन्धिता ।
भाविकी=पारमार्थिकी । विशेष्यता नामाभावाधिकरणतेति । यावत्पारमार्थिकी चाभाववत्ता पारमार्थिक-
स्यैव भावस्य न चाभासप्रतिपन्नस्येति भावः । निषेध्यस्य प्रतियोगिनः परमार्थतोऽभावविरुद्धात्मत्वं हि
प्रतियोगिता निषेध्यत्वमिति यावत्, न चैतदप्याभासप्रतिपन्नस्यास्तीति । यथाहुः "लब्धरूपे क्वचि-
त्किञ्चित्तादृगेव निषिद्ध्यते" इति । न चैतत् इति ॥ विशेष्यप्रतियोगिनोर्दर्शितं रूपमिति । कथं
तर्हि-इति । यद्यसद्वस्त्वैतन्नास्तीति । उत्तरं न कथञ्चित्-इति । शशशृङ्गप्रतियोगिको निषेधो न .
प्रकाशः ।
आभासेति । असत्ख्यात्युपस्थितमित्यर्थः । यदीश्वरे कर्त्तृत्वनिषेधः साध्यते तदाऽऽश्रयत्वमीश्वरस्य,
यदा तस्यैवाभावः, तदेश्वरस्य प्रतियोगितात्वम्, उभयमपि नास्तीत्याह । तस्येति । ॥ १ ॥
कुत इत्याह । व्यावत्र्त्येति । व्यावत्र्त्यः = प्रतियोगी, तदभाववत्ता भाविकी पारमार्थिकी
विशेष्यता आश्रयता, वस्तुनः प्रामाणिकस्य, स्वाभावविरहरूपत्वं च प्रतियोगितात्वम् । असत्ख्यातेः
कारणाभावेन निरासादित्यर्थः ।
नन्वनुमितिरैव पक्षः । तथा हि इयमनुमितिरयथार्था, अशरीरे कर्तृत्वज्ञानत्वात्, ज्ञाने
नित्यत्वज्ञानत्वाद्वा । घटः कर्त्ता, चैत्रज्ञानं नित्यमिति ज्ञानवदित्यस्तु । न चोपजीव्यविरोधः । अनु-
मितिर्हि उपजीव्या, न तु तन्मथार्थत्वमपि । न । अप्रयोजकत्वात् । अन्यथा, पर्वते वह्न्यनुमि-
तिरयथार्था उभयसिद्धाग्निमद्भिन्नोऽग्निमत्त्वज्ञानत्वात्, ह्रदोऽग्निमानितिवदित्यापत्तेः । अपि चानु-
मितेरयथार्थत्वं दोषादुत्पन्नमनेन ज्ञाप्यं, न त्वनेनोत्पाद्यम् । तत्र चायमेव दोषो दोषान्तरं वा ?
नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् ।
न चेति । आभासानाभाससङ्करापत्तेरिति भावः । कथमिति । यदि नासतो निषेध्यत्वमिति
शेषः । न कथञ्चिदिति । नात्रापि कल्पितस्य निषेध्यत्वं, शशेऽधिकरणे शृङ्गस्यैव निषेधा-
प्रकाशिका ।
अयमेवेति । प्रकृतानुमानरूप एवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वे वास्तवव-
स्तुनोरभेदापत्तिरित्यर्थः । तर्हीत्यस्य तदेत्यर्थः । तत्त्व च यदीतिशब्दसापेक्षतया शेषं पूरयति । यदीति ।
मकरन्दः ।
अयमेवेति । प्रकृतानुमानमेवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे
वस्तुत्वावस्तुत्वसङ्करापत्तिरित्यर्थः । यदीति । यद्यपि तर्हीत्यस्य तदेत्यर्थः, तस्य च नित्यसापे-
क्षतया शेषदानं विनाऽपि तदर्थलाभः, तथापि नित्यसापेक्षतया अध्याहारात् तदपेक्षया शेषस्य
टिप्पणी ।
अप्रयोजकत्वादिति । कृतिं प्रति शरीरस्य कारणत्वे सिद्धे सप्रयोजकत्वं स्यात्, नित्यकृत्यभ्युपग
मेन तदभावादिति भावः । आभासानाभाससङ्करेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे
४१ न्या० कु०
३३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
स ह्यभावप्रत्यय एव। न चायमपारमार्थिकप्रतियोगिकः परमार्थाभावो नाम। न
चापारमार्थिकविषयं प्रमाणं नामेति(१) ॥ २ ॥
अपि च—
दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता ॥
न तस्यां नोपलम्भोऽस्ति नास्ति साऽनुपलम्भने ॥ ३ ॥
केन च शशशृङ्गं प्रतिषिध्यते। सर्वथाऽनुपलब्धस्य योग्यत्वासिद्धेः। तदि-
तरसामग्रीसाकल्यं हि तत्। ननूक्ताभासोपलब्धं हि तत्। अत एवाशक्यनिषे-
बोधनी।
कथञ्चित्संभवतीति। कुत इत्याह स हि इति। स हि निषेधोऽभावप्रत्यय एव प्रतीयते। न-इति।
प्रत्ययः प्रमाणं प्रमाणत्वेनैव,स हि निषेधोऽभ्युपगम्यत इत्यर्थः। ततः किमित्याह न च-इति। मा
भूदभावः पारमार्थिकः, ततोऽपि किमित्यत आह तथा-इति। न चेत्यनुषञ्जनीयमिति ॥ २ ॥
न केवलमाभासप्रतिपन्नस्य पारमार्थिकप्रतिषेधप्रतियोगित्वमेव नास्ति प्रतिषेधमात्रविषयत्वमपि
न संभवतीत्याह अपि च-इति। यद्यपि तदतिरिक्तसामग्रीसाकल्यमेव योग्यता, तथापि कल्पितस्य
शशशृङ्गस्य दुष्टैव सामग्री योग्यता, अन्यथोपलम्भस्याप्यदुष्टत्वेनोपलम्भस्यापि तात्त्विकस्य प्रसङ्गात्।
ततः किम् ? तस्यां तादृश्यां योग्यतायां सत्यां शशशृङ्गादेर्नोपलम्भोऽस्ति, अपि तूपलम्भ एव
स्यात्तस्या आभासोपलम्भव्याप्तेः, अत एवानुपलम्भकाले योग्यता नास्ति।
तस्माद्योग्यतानुपलम्भयोरेकतरसंनिधानेऽन्यतरस्याभावात् समुदायसाध्यमभावावधारणं दुष्कर-
मिति व्याख्यातुमुपक्रमते केन-इति। योग्यानुपलम्भेनेति चेत्तत्राह सर्वथा-इति। कदाचिदुपलम्भे
ह्यन्वयव्यतिरेकाभ्यां शक्यज्ञाना सामग्रीति। आभास-इति। तेन सर्वथानुपलब्धिरसिद्धेति।
प्रकाशः।
दित्यर्थः। स हीति। पारमार्थिकाभावप्रत्यय एवेत्यर्थः। प्रतियोग्यधिकरणयोर्वस्तुत्वादिति भावः।
न चेति। प्रामाणिकनिषेधव्यवहारे प्रामाणिकस्यैव निषेध्यत्वादित्यर्थः ॥ २ ॥
किञ्चानुपलब्धिमात्रान्निषेधसिद्धेऽतीन्द्रियोच्छेदाद् योग्यानुपलम्भात् स वाच्यः। योग्यता
च प्रतियोगितावच्छेदकेतरप्रमापकसांकल्यरूप्रा अलीके नास्तीति दोषसचिवतज्ज्ञानसामग्रीरूपा सा
वाच्या तस्यां च सत्यां नालीकस्थानुपलम्भः उपलम्भस्यैव सत्त्वात् अनुपलब्भदशायाञ्च तज्ज्ञानसाम-
ग्रीरूपा योग्यतैव नास्तीत्याह—
अपि चेति। केन चेति। न केनापीत्यर्थः। सर्वथेति। प्रमाणत इति शेषः। नन्वा-
भासोपलब्धस्यापि नेदं रजतमिति निषेधादुपलब्धमात्रस्य निषेधो, न तु प्रमितस्यैवेत्यत आह।
तदितरेति। रजतादेः प्रामाणिकत्वेन योग्यस्यैवानुपलम्भात्प्रतिषेधो, न त्वाभासोपलब्धस्येत्यर्थः।
तथैव किं न स्यादित्याह। नन्विति। आभाससामग्रीकालेऽनुपलम्भाभावार्दनुपलम्भकाले च तद्रू-
पयोग्यताया असत्त्वादित्याह। अत एवेति।
प्रकाशिका।
शश इति। कार्यकारणभावेन सम्बन्धेनायमभावो वोद्धव्यः, अन्यथा संयोगेन शृङ्गस्य सत्त्वादभा-
वासम्भवः, समवायेन गव्यपि शृङ्गाभाव इति तद्वैलक्षण्यं न स्यादिति ॥ २ ॥
मकरन्दः।
त्वरितप्रतिपत्तिकरत्वमिति भावः। शशे इति। यद्यपि शशे गवादिश्टङ्गस्य संयोगवृत्त्या सत्त्वात्
कथं शृङ्गाभावः, समवायवृत्त्या च तदभावो गवादावपि शृङ्गस्य संयोगित्वात्, तथापि जन्यजनक-
भावसंबन्धेन तदभावो बोध्यः ॥ २ ॥
टिप्पणी।
वस्तुत्वावस्तुत्वसङ्करापत्तेरित्यर्थः ॥ २ ॥
(१) अपारमार्थिकविषयं प्रमाणं तथा नामेति बोधनीकारसम्मतः पाठः।
तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३३१
र्धमित्युक्तम् । अनुपलम्भकाले आभासोपलम्भसामग्र्या अभावात्तत्काले चानुपल-
म्भाभावादिति । कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः ? । शशे अधिकरणे विषाणाभा-
वोऽस्तीति ॥ ३ ॥
बोधनी ।
तदुत्तरत्वेन श्लोकार्थं विवृणोति अत एव-इति । कस्तर्हि-इति । यद्यशवयनिषेधम् इति ।
सुहृद्भावेनाह शश इति । प्रमाणसिद्धमेव विषाणं निषिध्यते न त्वाभासप्रतिपन्ने तादृशमेवेति ॥३॥
प्रकाशः ।
नन्वेवं घटादावपि दोषस्योपलम्भकारणत्वात्तदभावोऽपि न गृहीत । प्रमापकसाकल्यस्य च विव-
क्षितत्वे गुणस्यैव प्रमापकस्याभावात् तत्साकल्यासिद्धेः । अत्राहूः । प्रत्यक्षप्रमायामिन्द्रियार्थसन्नि-
कर्षस्य गुणत्वात्तस्य च तद्व्याप्यत्वादेव । तदन्यगुणस्य च तत्राकारणत्वात् । घटादौ गुणा-
न्यप्रमाकारणत्वेन योग्यता । शशशृङ्गे च न दोषान्यज्ञानकारणत्वेन योग्यता । दोषान्यप्रमापक-
स्याभावादित्यन्ये ।
शश इति । ननु गवि शशशृङ्गं नास्तीतिप्रतीतिवलात् प्रतियोग्यवृत्तित्वेन शशीयत्वेनाव-
च्छिन्नः शृङ्गाभावः प्रतीयते । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् ।
मैवम् । प्रतियोगितावच्छेदकधर्मविशिष्टप्रतियोगिज्ञानस्याभावीहेतुतया तादृशप्रतीतेरसिद्धेः ।
अन्यथा प्रतियोगिनिर्विकल्पकादपि व्यतिरेकप्रतीत्यापत्तेः ॥ ३ ॥
प्रकाशिका ।
प्रत्यक्षप्रमायामिति । तथा च तत्, तद्व्याप्येतरयावत्तत्प्रमापकसाकल्ये सत्यनुप-
लब्धिरभावग्राहिका । गुणस्यार्थनियतत्वेन व्याप्यपदादेव व्यवच्छेदान्नासम्भवः । सा च न
शशशृङ्गे तत्प्रमाकासिद्धेः । न च दोषान्यज्ञापकसामग्रीसाकल्यमेव योग्यता तत्साकल्यं
चात्मादिकमादाय तत्राप्यस्त्येवेति वाच्यम् । तत्तद्व्याप्येतरस्यावश्यकत्वे गौरवादित्यर्थः ।
प्रमापकस्येति । ज्ञापकस्येत्यर्थः। अन्य इत्युक्तौ तद्वीजन्तु आत्मादिकमेव दोषान्यज्ञापकमस्ती-
ति । वस्तुतोऽसत्ख्यातेः कारणवाधेन निरासे प्रतियोगिज्ञानाभावारोपादेव नालीकाभावप्रतीतिरित्युत्र
बाधकं स्मर्त्तव्यम् । प्रतियोगितेति । इदञ्चाभावप्रत्यक्षे एव कारणं प्रमेयोऽभाव इति शब्देन
तद् विनापि अभावग्रहात् । वस्तुतोऽभावप्रतीतौ यो धर्मः प्रतियोगिनिष्ठत्वेन भासते तत्प्रकारकप्रतियो-
गिज्ञानं कारणं, विशिष्टवैशिष्ट्यज्ञाने सामान्यत एव विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्य कारण-
मकरन्दः ।
प्रत्यक्षप्रमायामिति । तथा च प्रतियोगितद्व्याप्येतरयावत्प्रमापकसमवधाने सति अनुपलब्धि-
रभावग्राहिका, गुणस्य चार्थनियतत्वेन तद्व्याप्यपदेनैव व्यवच्छेदान्नासम्भवः । सा च न शशशृ-
ङ्गाभावे, तत्प्रमापकाप्रसिद्धेः, न च दोषान्यज्ञापकसाकल्यं विवक्षितं, तच्चेन्द्रियाद्येव तत्रापि प्रसि-
द्धमिति वाच्यम् । गौरवादित्याहुः । वस्तुतोऽसत्ख्यातेः कारणाभावेनानभ्युपगमादलीकस्य नोप-
लब्धत्वमपीति न तन्निषेधमिति भावः । प्रमापकस्येति । प्रज्ञापकस्येत्यर्थः । अत्रेदमरुचि-
मतिवीजम् । असत्ख्यातिपक्षे दोषान्यज्ञापकमिन्द्रियाद्येव, अन्यथा दोषोऽपि न तज्ज्ञापक इति
दोषान्यविशेषणं व्यर्थमिति । प्रतियोगितेति । यद्यपि तादृशज्ञानं विनापि प्रमेयाभाव इति शब्दा-
दिनाऽभावग्रहान्न तस्याहेतुत्वं, तथापि प्रत्यक्षे तथात्वं बोध्यम् । यद्यप्याहार्यादिरूपं तादृशज्ञानं
प्रकृते सम्भवत्येव, तथाप्यनुमानप्रकाशे मदुक्तमनुसन्धेयम् ॥ ३ ॥
टिप्पणी ।
दोषान्यप्रमापकस्याभावादित्यन्य इति । असत्ख्यातिपक्षे दोषान्यमिन्द्रियमेव ज्ञापकम् ,
अन्यथा दोषोऽपि ज्ञापको न स्यादिति दोषान्येति व्यर्थमित्यस्वरसः ॥ ३ ॥ ४ ॥
३३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
स्यादेतत् । यद्यपीश्वरो नावगतो, यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः
शक्यसम्पादनः, तथाप्यात्मानः सिद्धास्तेषां सार्वज्ञ्यं निषिध्यते, क्षित्यादिकर्तृत्व-
श्चेति। तथाहि। मदितरे न सर्वज्ञाश्चेतनत्वादहमिव, न च ते क्षित्यादिकर्त्तारः पुंस्त्व-
त्वादहमिव। एवं, वस्तुत्वादेरपीति। तदेतदपि प्रागेव परिहृतम्। तथाहि—
इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे ॥
नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥ ४ ॥
प्रमाणप्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम्। ततोऽन्येषामसिद्धौ हे-
तोराश्रयासिद्धत्वम्। आत्मत्वमात्रेण सोऽपि सिद्ध इति चेत्। कोऽस्यार्थः ?। किं
बोधनी ।
प्रकृतेऽपि प्रमाणसिद्धं निषेधाधिकरणं दर्शयन्नाह । स्यादेतत्-इति । तस्यामेव प्रतिज्ञायां
वस्तुत्वद्रव्यत्वादयोऽपि हेतव इत्याह एवम्-इति । यथाहुः—
"प्रत्यक्षायविसंवादि प्रमेयंत्वादि यस्य च । अभावकरणे शक्तं को नु तं कथयिष्यति"
( श्लो० वा०, पृ० ८५ )।
एतदप्याश्रयासिद्धत्वादिनो दत्तोत्तरमित्याह तदेतत्-इति ।
तदेव विकल्प्योपपादयति इष्टसिद्धिः-इति । उभयवादिसिद्धेषु पक्षीकृतेषु सिद्धसाधनं तेषाम-
सर्वज्ञत्वासर्वकर्तृकत्वयोः अस्माकमपि सिद्धत्वात् भवतामगोचरेऽपीश्वरे पक्षीकृते हेतोराश्रयतोऽसिद्धिः।
नन्वात्ममात्रे पक्षीकरणे सोऽपि तत्तया गृहीत इत्यस्ति सामान्यतः सिद्धिरित्यत उक्तम् नान्या
सामान्यतः सिद्धिः-इति । उभयसिद्धयनुभयसिद्धिभ्यामन्यतः सिद्धिर्नाम न काचिदस्ति । न
ह्युभयीमपि विधामतिक्रम्य विधान्तरमस्ति ।
आत्मत्वजातावपि पक्षीकृतायां यथेष्टसिद्ध्या पक्षत्वानिपातेनाश्रयासिद्धिः तथा सैवाश्रयासिद्धिः
स्यात् । निषेध्यस्य सर्वज्ञत्वादेः क्वचिदप्यसिद्धेरप्रसिद्धविशेषणत्वात्पक्षस्येति व्याचष्टे प्रमाणेन-इति ।
तृतीयं पादं व्याचिख्यासुः शङ्कते आत्मत्वमात्रेण-इति । विकल्प्य दूषयति कोऽस्यार्थः-इति ।
भवतोऽसिद्धाप्यस्मदभिमतैव सर्वज्ञसर्वकर्तृव्यक्तिरात्मत्वेनोपलक्षिता किं पक्षीक्रियेत तस्या अप्यात्मत्वो-
पलक्षितत्वेन वस्तुगत्या सिद्धत्वात् । अथ तदन्या संप्रतिपन्नैव व्यक्तिः, अथ वात्मत्वमात्रमेव ।
प्रथमे हेत्वसिद्धिरगोचर इति स्यात् । द्वितीये त्विष्टसिद्धिरिति स्यात् । तृतीयेऽपि सैव, आत्मत्वस्यासर्वज्ञ-
प्रकाशः।
न सर्वज्ञा इति। परेषां सर्वज्ञाप्रसिद्धेः । अत्र किञ्चिदनभिज्ञत्वमेव साध्यम् ।
तत इति ॥ सामान्यलक्षणप्रत्यासत्तेस्तैरनभ्युपगमान्नात्मत्वेनापि तदुपस्थितिरिति भावः॥
प्रकाशिका ।
त्वात् । न चैवं शुद्धरूपाभावप्रतीत्यापत्तिः कारणवाधाभावादिति वाच्यम्। शुद्धरूपविशिष्टघटप्रतीत्याप-
त्तेस्त्वयापि समधेयत्वात् । न च विशिष्टधीसामग्री शुद्धव्यक्तिविशेषणज्ञानाजनिकेति तत्र समाधि-
रिति वाच्यम् । इहाप्यभावज्ञानसामग्री शुद्धप्रतियोगिकाभावज्ञानाजनिकेति समाधेः सत्त्वात्, ।
ननु तथाप्याहार्यमेव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानं व्यधिकरणधर्मावच्छिन्नाभावग्रहे कार-
णमस्त्विति चेन्न। अनाहार्यस्यैव तस्य कारणत्वादित्यन्यत्र विस्तरः। वस्तुतो विरोधिशून्येऽभावप्रसं-
ज्ञायाः पारिभाषिकतापत्तिः, विरोधि च प्रकृते न शृङ्गम्, तस्य तत्समानाधिकरणत्वात्, नापि
शशीयत्वविशिष्टं शृङ्गम् । तस्यालीकतया विरोधाप्रतियोगित्वादिति नैतादृग्भावस्वीकार इति ॥ ३ ॥
परेषामिति । सर्वगोचरप्रत्यक्षाभाव एवात्र साध्यः, अन्यथा शब्दे सर्वगोचरज्ञानसत्त्वेन
बाधापत्तेः, तथा सति प्रतियोग्यप्रसिद्धिरिति भावः । सामान्यलक्षणेति । इदमुपलक्षणम् । व-
मकरन्दः।
परेषामिति । यद्यपि शाब्दादिज्ञानमादाय तेषामपि तत्प्रसिद्धिरस्त्येव, तथापि तथा सति
तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३३५
मात्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्मत्व-
मेव वा पक्षः ? । सर्वत्र पूर्वदोषानतिवृत्तेः । अथायमाशयः । आत्मत्वं न सर्वज्ञसर्व-
कर्तृव्यक्तिसमवेतं, जातित्वात्, गोत्ववदिति । तदसत् । निषेध्यासिद्धेर्निषे-
ध्याशक्यत्वात् । तथा चाऽप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव
दोषः ॥ ४ ॥
त्वदभ्युपगमैर्लोकप्रसिद्धया च प्रसिद्धस्येनेश्वरस्यासर्वज्ञत्वमकर्तृत्वञ्च साध्यते
इति चेन्न ।
आगमादेः प्रमाणत्वे बाधनादानिषेधनम् ॥
आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता ॥ ५ ॥
बोधनी ।
त्यासर्वकर्तृकत्वयोः सिद्धत्वादिति । तुरीयपक्षव्यानिख्यासया शङ्कते अथायम्-इति । तन्नाश्रयासि-
द्धिसिद्धसाध्यते न स्यातामिति भावः । तदसत्-इति । न हि मीमांसकस्य सर्वज्ञादिधर्मी प्रसिद्ध-
द्धमिति । कियतोऽनुमानस्येत्यत आह तथा च-इति । साध्यविशिष्टस्य पक्षत्वाद् विशेषाप्रसिद्धावपि
विशेषाप्रसिद्धानपि विशिष्टस्यासिद्धेराश्रयस्य पक्षस्याभावेन हेतोराश्रयासिद्धिरो भवतीति ॥ ४ ॥
त्वदभ्युपगमैः-इति । नैयायिकाम्युपगमैर्लोकप्रसिद्धया चाश्रयः सेत्स्यतीति । न-इति ।
किमाश्रयग्राहकोऽयमागम(दिः प्रमाणमाभासो वा ? प्रमाणत्वे तत एव धर्मिग्राहकमप्रमाणात् बाधितवि-
षयं निषेधायुमानमात्मानमेव नासादयेत् । आभासे तु पूर्वोक्तैवाश्रयासिद्धिरागमदिपाङ्गाणोपङ्गारेण
तिरोभूता तत्परित्यागे पुनरुद्भूता स्यादिति ।
प्रकाशः ।
सर्वज्ञेति ॥ आत्मत्वपक्षेऽप्यसर्वज्ञत्वे शित्वाद्यकर्तृकत्वे च साध्ये सिद्धसाधनमित्यर्थः । न चात्मत्व-
मसर्वज्ञत्वव्याप्यं ज्ञानत्वमप्रानित्यत्वव्याप्यमिति वाच्यम् । विपक्षे बाधकाभावात् । अन्यथा, मूर्त्तत्वम-
प्यणित्वव्याप्यमिति परमाणुरपि न सिद्ध्येदिति भावः ॥ तथा चेति ॥ जिज्ञासितधर्मिणो धर्मिणः
पक्षत्वात्तदभावेनाश्रयासिद्धिरित्यर्थः ॥ ४ ॥
आगमादेरिति ॥ न चाऽऽगमादेर्धर्म्यंशे प्रामाण्येऽपि अन्यांशे न प्रामाण्यमिति वाच्यम् ।
तद्रूपेणाप्यस्मदादितदन्यपक्षत्वे सिद्धससिद्धिन्यायपातादिति भावः ॥ ५ ॥
प्रकाशिका ।
स्तुतस्त्वत्रापि तदुपस्थितौ तस्य सर्वज्ञत्वे बाधः, 'असर्वज्ञत्वे सिद्धसाधनमिति दूषणं द्रष्टव्यम् । जिज्ञा-
सितेति प्राचीनमतेनेदम् ॥ ४ ॥
तद्रूपेणापीति । सर्वज्ञत्वादिधर्मांशेऽप्रामाण्येऽपि धर्मिणः सर्वज्ञस्य सिद्धिरसर्वज्ञस्य वा,
मकरन्दः ।
व्यापारेत्तः, सर्वज्ञपदस्य सर्वविषयकप्रत्यक्षाश्रयपरतायामेव प्रसिद्धिरोच्या । जिज्ञासितेति । प्रा-
चीनमतेनेदम् ॥ ४ ॥
तद्रूपेणेति । यद्यपि धर्मिमात्रसिद्धौ न सिद्धयसिद्धिव्यापातः, तथाप्याप्तोक्तताविशेषाद्-
टिप्पणी ।
तद्रूपेणेति । आगमसिद्धधर्मिमात्ररूपेणेत्यर्थः । अभेदे तृतीया । यद्वा तद्रूपेणात्मत्वरूपेणा-
स्मदाद्यसमदाद्यन्यपक्षत्य इत्यर्थः । आगमस्य प्रामाण्येऽलौकिकधर्मिण्यो लौकिकधर्मेऽपि तत्
३३४ व्याख्यात्रयोपेतप्रकाशबोधनयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां
निगदव्याख्यातमेतत् ॥ ५ ॥
चार्वाकस्त्वाह, किं योग्यताविशेषाग्रहेण ? । यन्नोपलभ्यते तन्नास्ति, विपरीत-
मस्ति । न चेश्वरादयस्तथा । ततो न सन्तीत्येतदेव ज्यायः । एवमनुमानादिविलोप
इति चेत् । नेदम् अनिष्टम् । तथा च लोकव्यवहारोच्छेद इति चेन्न । सम्भावनामात्रेण
तत्सिद्धेः । संवादेन च प्रामाण्याभिमानादिति ।
अत्रोच्यते—
दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् ॥
अदृष्टिबाधिते हेतौ प्रत्यक्षपि दुर्लभम् ॥ ६ ॥
सम्भावना हि सन्देह एव । तस्माच्च व्यवहारस्तस्मिन् सति स्यात् । स एव
बोधनी ।
संग्रहस्याविवरणे कारणमाह—निगद-इति । निगदः पाठः, स एव व्याख्यानमस्येति ॥ ५ ॥
तदेवमनुपलब्धिमात्रं न बाधकं योग्यानुपलब्धिस्तु नास्तीति मीमांसके निरस्ते परमनास्तिकः
चार्वाकः प्रत्यवतिष्ठत इत्याह—चार्वाकस्तु-इति । सिद्धान्ती शङ्कते एवम्-इति । इतर आह नेदम्-
इति । प्रत्यक्षैकप्रमाणवादिनो हि वयमिति । तथा च-इति । प्रायशो व्यवहाराणामनुमानाधीनत्वादिति ।
न-इति । धूमादिदर्शनेऽग्निसंभावनामात्रेण व्यवहरन्ति न तु निश्चयात्, अतो न तदर्थमनुमानप्रा-
माण्यमङ्गीकर्त्तव्यमिति । कथं तर्हि व्यवहर्तॄणां प्रमाणमूलोऽयं व्यवहार इत्यभिमान इत्यत्राह संवा-
देन च-इति । संभावनामात्रेण प्रवर्त्तमाना यादृच्छिककार्यसंवादेन प्रवर्त्तकविज्ञानस्य प्रामाण्यमभि-
मन्यन्ते न तु निश्चायकत्वादिति ।
अत्रोच्यते—इति । संदेहात् प्रवृत्तिरिति तावन्न संभवति, भवत्पक्षे संदेहस्यैवासंभवात् ।
दृष्टौ सत्यामदृष्टौ वा सत्यां क्व कस्मिन्विषये दृष्टेऽदृष्टे वा, संदेहः स्यादुभयोरप्युभयत्रापि न संभवति ।
संशयस्य हेतुर्विषयश्च नास्तीत्यर्थः । कुतः भावाभावनिश्चयात् दृष्टादृष्टयोरित्येव दर्शनदशायां भावा-
वधारणादर्शनदशायां वाऽभावावधारणात् अतो व्यवहारार्थमनुमानादिकमेवाङ्गीकरणीयं, तच्चानुप-
लम्भमात्रेणाभावनिश्चये दुर्लभम् । न केवलम् अनुमानादिकमेव, प्रत्यक्षपि तद्धेतौ चक्षुरादावनुपल-
ब्धिमात्रेण बाधिते कारणाभावात् कार्याभाव इति न्यायेन दुर्लभमिति सर्वोपप्लव इति ।
ननु मा नाम भूत्संदेहः संभावनया व्यवहारमभ्युपगच्छतः किमायातमिति शङ्कामपनुदन्व्याचष्टे
प्रकाशः ।
सम्भावनेति ॥ उत्कटकोटिकसंशयमात्रेणेत्यर्थः ॥
दृष्ट्यदृष्टयोरिति, सप्तमीद्विवचनान्तम् । दर्शने तत्सत्त्वनिश्चयाद् अदर्शने चाभावनिश्चयान्न
सन्देहः प्रत्यक्षहेतौ गोलकादावदृष्ट्या अनुपलब्ध्या, बाधिते हेत्वभावात् प्रत्यक्षपि न स्यादित्यर्थः ॥
प्रकाशिका ।
असिद्धिरेव वा, आद्ये बाधो, द्वितीये सिद्धसानम्, तृतीय आश्रयासिद्धिरित्यर्थः । वस्तुत आप्तोक्त-
त्वादेर्धर्म्म्यंशवद् धर्म्मांशेऽपि तस्य प्रामाण्यमिति भावः ॥ ५ ॥
मकरन्दः ।
र्म्मांशेऽपि प्रामाण्यमन्यथा न धर्म्म्यंशेऽपीत्याश्रयासिद्धिरेवेति भावः । अस्मदादिपक्षत्वे सिद्धसा-
धनं बोध्यम् ॥ ५ ॥
टिप्पणी ।
स्यादिति सर्वज्ञत्वाभावसाधने व्याघातः, धर्म्यंशेऽप्रामाण्ये धर्मांशे तत्स्यादिति धर्मसिद्धौ व्याघात
इति भावः ॥ ५ ॥
तु कुतः ? । दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् । तथा
च गृहाद् बहिर्गतश्चार्वाको वराको न निवर्त्तेत । प्रत्युत, पुत्रदारधनाद्यभावावधार-
णात् सोरस्ताडं शोकविकलो विक्रोशेत् । स्मरणानुभवान्नैवमिति चेन्न । प्रतियोगि-
स्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति । सत्त्वादिति
चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् । तदैवोत्पन्ना
इति चेन्न । अनुपलभ्भेन हेतूनां बाधात् । अबाधे वा स एव दोषः । अत एव प्रत्य-
क्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् । उपलभ्यन्त एव
बोधनी ।
संभावना हि-इति । ततः किमित्यत आह तथा च-इति । गृहान्तर्वर्त्तिनोऽपि निर्गतस्याभावाव-
धारणात् विलीयेयुरिति भावः । स्मरण-इति । बहिर्निर्गतेनापि पुत्रादीनां स्मरणेनोपलम्भात् नोक्तः
प्रसङ्ग इति । न-इति । प्रतियोगिस्मरणसहकृतस्यैवानुपलम्भस्याभावविशेषपरिच्छेदहेतुत्वान्न स्मरणो-
पलम्भो न केवलमभावपरिच्छेदं प्रतिबध्नाति प्रत्युतोन्मूलातीति यदृच्छया परावृत्तोऽपि न पुनः
पुत्रादीनासादयेदित्याह परावृत्तोऽपि-इति । तेऽपि नासादयेयुरिति भावः । ननु परावृत्तिकाले तेषां
सत्त्वादासादयिष्यन्तीत्याह सत्त्वात्-इति । अनुपलम्भकाल इति स्पष्टः परिहारः नानुपलम्भकाले-
ऽपि सन्तः पुत्रादयः पुनरासाद्यन्ते । किन्तु यदोपलभ्यन्ते तदैवोत्पन्ना अन्य एवेत्याह तदैव-इति ।
न-इति । तदुत्पत्तिहेतूनां तदानीमनुपलम्भेन बाधितत्वात्तदुत्पत्तेरसम्भवाददुनुपलम्भेऽपि वा तेषामबाधे
स एवानुपलम्भमात्रेण नाभावावधारणमिति दोषः स्यादिति संग्रहस्योत्तरमर्धं व्याचष्टे अत एव-
इति । यत एवानुपलम्भमात्रेणासत्त्वाङ्गीकार इति । उपलभ्यन्ते-इति । स्पष्टम् । तन्मतमङ्गीकृत्यै-
प्रकाशः ।
तथा चेति ॥ पुत्रादिभिस्तस्यादर्शनात् स न स्यादिति गृहं न प्रत्यावर्त्तेतेत्यर्थः ॥ प्रत्युतेति ॥
पुत्रादेरदर्शनादित्यर्थः ॥
ननु नाप्रत्यक्षं प्रमाणमिति चार्वाकसिद्धान्तादनुपलब्धिः प्रत्यक्षसहकारिणी । न च गेहाद्बहिर्ग-
मनेऽधिकरणेन सहेन्द्रियसन्निकर्षोऽस्तीति न पुत्राद्यभावनिश्चयः स्यात् । सन्निकृष्टे देशे चाभाव-
निश्चयेऽपि ध्वंसानिश्चयान्न शोकः स्यात् । अत एव, पर्वते परभागेन सह इन्द्रियाऽसन्निकर्षाद्
वह्न्यभावनिश्चय इति तत्र संशयादनुमानप्रवृत्तिः । अत्राहूः । अधिकरणज्ञानमात्रमभावधीहेतुर्न
तु तदिन्द्रियसन्निकर्षोऽपि । अत एव, देवताद्यभावस्तदधिकरणसन्निकर्षेऽपि गृह्यते इति चार्वाक-
सिद्धान्तमाश्रित्योक्तम् ॥
पुत्रादेः स्मरणान्नैवं करोतीत्याह ॥ २॥ स्मरणेति ॥ स्मरणादिति वक्तव्ये अनुभवग्रहणं तत्र
प्रमाणसूचनार्थम् । पुत्रादिस्मरणं तदभावग्रहेऽनुकूलमेव, प्रतियोगिज्ञानं विना तदग्रहादित्याह ॥
प्रतियोगीति ॥ अनुपलम्भकाले इति ॥ तथा चानुपलब्धिमात्रमभावसंशये हेतुर्न तन्निश्चा-
यकमित्यर्थः । हेतूनां पुत्राद्युत्पादकानामित्यर्थः ॥ स एवेति ॥ नानुपरूब्धिमात्रेणाभावनिश्चय
इत्यर्थः ॥ अत एवेति ॥ हेतूनां बाधादेवेत्यर्थः । ननु चक्षुरादीनामपि स्वोपलब्धिक।ले सत्त्व-
प्रकाशिका ।
सप्तमोति । सति सप्तमीत्यर्थः । संशयादनुमानप्रवृत्तिरिति । भवतां नैयायिकानामिति
टिप्पणी ।
अनुमानप्रवृत्तिरिति । परैरभ्युपगतानुमानजन्यप्रवृत्तिः ।
३३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
गोलकादय इति चेन्न । तदुपलब्धेः पूर्वं तेषामनुपलम्भात् । न च यौगपद्यनियमः ।
कार्यकारणभावादिति ॥
एतेन, न परमाणवः सन्ति अनुपलब्धेः । न ते नित्या निरवयवा वा पार्थिव-
त्वात् घटादिवत् । न पाथसीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरू-
पादिवत् । न रूपत्वपार्थिवत्त्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्ग-
त्ववत् । नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः । अयोग्यानि च शशशृङ्गप्रतिबन्दिनि-
रसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् ।
मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति ॥ ६ ॥
यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि
बोधनी ।
वाह न-इति । गोलकादयः स्वोपलब्धेः पूर्वमनुपलम्भेनासन्तः कथं स्वस्वविषयोपलब्धिमुत्पादयेयु-
रिति । तर्हि स्वोपलम्भकाल एव सन्तः स्वविषयोपलम्भान्तरमारभेरन्नित्यत्राह न च-इति । न हि
चक्षुरादीनां स्वविषयोपलम्भस्य च कार्यकारणभावायौगपद्यं भवतीति ।
एवं तावदनुपलम्भमात्रेण ईश्वरनिषेधोऽशक्य इत्युक्तम्, इदानीमनेनैव मार्गेण तेषां परमाण्वा-
दिनियमोऽपि न सिध्यतीत्याह एतेन-इति । एतेन निरसनीयमिति संबन्धः । तत्र परमाणूनां पर-
मेश्वरस्येव योग्यानुपलम्भाभावेन प्रत्यक्षेण बाधः, तत्सर्वज्ञत्वसर्वकर्तृत्वयोरिव तेषां नित्यत्वनिरवयव-
त्वयोर्निषेधे धर्मिग्राहकप्रमाणबाधः । तज्ज्ञानं पक्षीकृत्य सर्वविषयत्वनिषेधवत् पाथःपरमाणुगतरूपा-
दिविशेषगुणानां नित्यत्वनिषेधे चाश्रयासिद्धिः, आत्मत्वं पक्षयित्वा तस्य सर्वज्ञसर्वकर्तृव्यक्तिसमवाय-
निषेधवद्रूपत्वादेरतीन्द्रियाश्रयत्वनिषेधे चाप्रसिद्धविशेषणः पक्षः, इन्द्रियासत्त्वहेतोर्योग्यानुपलम्भस्य
विशेषणासिद्धिः । यद्ययोग्यानीन्द्रियाणि सन्ति तर्हि शशशृङ्गमप्ययोग्यमस्ति चेति प्रतिबन्दिग्रहणेने-
मानि निरसनीयानि इत्येतदपि परमात्मयोग्यत्वप्रतिपादनेन निरसनीयम् । तथा स्वर्गादिनिराकरण-
मपि निरसनीयम् । स्वर्गादिनिराकरणप्रदर्शनेन मीमांसको भीषयितव्यः, तन्निषेधं दर्शयित्वा च
परितोषयितव्यः । यद्वा, ईश्वरनिराकरणनिषेधेन तस्य भीषणमितरनिराकरणनिषेधेन तोषणमिति ॥ ६॥
चार्वाकः सिद्धान्तिनं प्रत्याह यद्येवम्-इति । मा भूत्प्रत्यक्षानुपलभ्यपिशाचाद्युपाधिनिषेधः, ततः
प्रकाशः ।
मन्यदा त्वसत्त्वमिष्यत एवेत्यत आह । न चेति । उपलम्भेन्द्रिययोर्युगपदुत्पत्तयोः पौर्वापर्या-
भावादित्यर्थः । एतेनेति ॥ अनुपलब्धमात्रस्याऽसाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्ध्यादिनेत्यर्थः॥
मीमांसकश्चेति । अनुपलब्धमात्रस्याभावासाधकत्वादपूर्वादिसिद्ध्या तोषणम् । योग्यानु-
पलम्भस्य बाधकत्वेनाऽयोग्यपरमात्माऽबाध इति भीषणम् ॥ ६ ॥
यद्यनुपलम्भमात्रान्नाभावनिश्चयः, तदाऽतीन्द्रियोपाधिशङ्कया व्याप्तिनिश्चयान्नानुमानमिति न तत-
ईश्वरसिद्धिरित्याह—
यद्येवमिति । अनुमानाभावे तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमित्याह ।
प्रकाशिका ।
शेषः । मम तु चार्वाकस्यात एव तत्र संशय इति भावः । उपलम्भेन्द्रिययोरिति । प्रत्यक्षज्ञानस्य
विषयजन्यत्वात्तदन्यज्ञानस्य च त्वयानभ्युपगमादिति भावः ॥ ६ ॥
मकरन्दः ।
उपलम्भेन्द्रिययोरिति । प्रत्यक्षस्य विषयजन्यत्वनियमात्तदन्यज्ञानस्य त्वयानभ्युगमादिति
भावः ॥ ६ ॥
टिप्पणी ।
अयोग्यपरमात्माऽबाध इति भीषणमिति । ईश्वरसिद्धेरीश्वरानङ्गीकर्तुस्तस्य भयम् ॥ ६ ॥
तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमिति । अनुपलभ्यमानार्थे ॥
·तृतीयस्तवके ] अनुमानाप्रामाण्याशङ्कोपपादनम्। ३३७
नैपुण्यः। तथा च कथं तथाभूतार्थसिद्धिरपि अनुमानबीजप्रतिबन्धासिद्धेः । तद-
भावे शब्दादेरप्यभावः । प्रामाण्यासिद्धेः । सेयमुभयतःपाशा रज्जुः ॥
अत्र कश्चिदाह । मा भूदुपाधिविधूननं, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्ध-
निर्वाहात्। तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात्। यत्र तु तद्भङ्गः, तत्र
प्रमाणभङ्गो ऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोर्विप्लवे हेतुरूपप्लवत
इति । अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयोदर्शनाविप्लवे कोऽयमप्रयो-
जको नाम ? । न तावत् साध्यं प्रत्यकार्यमकारणं वा । सामान्यतो दृष्टानुमानस्वी-
कारात् । नापि सामग्र्यां कारणैकदेशः। पूर्ववद्भवदुपगमात् । नापि व्यभिचारी ।
तदनुपलम्भात् । व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कितव्यभिचारः ।
बोधनी ।
किमित्यत्राह तथा च-इति । तथाभूतस्य = यथाज्ञानमवस्थितस्य । यद्वा, अनुमित्सितस्य । यद्वा
अनुमित्सितस्य जगत्कर्तुरिति । कथमसिद्धिरित्यत्राह अनुमान-इति । निरुपाधिको हि संबन्धः
प्रतिबन्ध इति । अनुमानाभावे शब्दादेरपि प्रमाणस्याभाव इत्याह तदभावे-इति । प्रामाण्यग्राहि-
णस्तज्जातीयानुमानादेरपि प्रामाण्याभावापराधेन शब्दादिप्रामाण्यासिद्धेरिति । एवं चानुपलम्भ-
मात्रस्यानिषेधकत्वेऽनुमानायुच्छेदादीश्वरो न सिध्येत्, निषेधकत्वे तु तत एव निषिध्येतेति । सेयं
शिरोद्वयेऽपि पाशवती रज्जुरित्याह सेयम्-इति ।
अत्रैकदेशिनः परिहारं दूषयितुमुपन्यस्यति अत्र कश्चित्-इति । किमनेनोपाधिविधूननव्यस-
नेन केवलान्वयिकेवलव्यतिरेकिणोश्च रूपसंपत्तिमात्रेण प्रतिबन्धसिद्धेर्न हि तयोर्विपक्षसपक्षाभावेन
तद्व्यावृत्त्यनुवृत्ती संभवतः । अन्वयव्यतिरेकिणस्तु पञ्चरूपसंपत्तिमात्रेण तस्य सपक्षविपक्षयोरखिल
तदनुवृत्तिव्यावृत्त्योः संभवादिति । न च रूपसंपत्त्यवधारणेऽप्युपाधिविधूननमुपयुज्यत इत्याह तस्या-
श्च-इति । कथं तत्प्रमाणकत्वं तस्या इत्यत्राह यत्र तु-इति । तयोर्भङ्गे प्रमाणभङ्गस्यावश्यकत्वादि-
ति । कस्मादेवमित्यत्राह न हि-इति । हेतोर्धतुःपञ्चानां रूपाणां विप्लवो हेतुरूपप्लवः । प्रमाणवि-
प्लवाविप्लवयोर्र्हि प्रमेयविप्लवाविप्लवौ भवत इति भावः । यदि दर्शनादर्शनाभ्यामेव प्रतिबन्धसि-
द्धिस्तर्हि मैत्रैीतनयत्वादिरपि हेतुः स्यादित्याह अप्रयोजकः-इति । तयोरविप्लवे तु नाप्रयोजको
नाम कश्चिदस्तीत्याह भूयोदर्शन-इति । स एवाप्रयोजकत्वेन संभावितानाशङ्कय निराकरोति
न तावत्-इति । अनुमानसूत्रे पूर्ववच्छेषवदिति कार्यकारणानुमाने परिगृह्य सामान्यतो दृष्टमित्य-
कार्याकारणभूतस्य सलिलादिविषयवलाकाद्यनुमानस्यापि स्वीकारादिति । नापि-इति । सामग्री
कार्यलिङ्गं तदेकदेशोऽप्रयोजकः स्यादित्यपि न युक्तम् । पूर्वं = कारणं यस्यास्ति लिङ्गत्वेन तत्पूर्वव-
दिति । पूर्ववतोऽपि तत्र सूत्रेऽनुमानत्वेन स्वीकारादिति । नापि व्यभिचारी-इति । न हि मैत्री-
तनयत्वादेर्व्यभिचार उपलभ्यते तदुपलम्भे वा व्यभिचार एव दोषः स्यान्नाप्रयोजकत्वमिति । न च-
प्रकाशः ।
तदभाव इति । चतुःपञ्चेति । पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितानि चत्वारि रूपाणि केव-
लान्वयिनि, सपक्षसत्त्वाभावे विपक्षासत्त्वं केवलव्यतिरेकिणि, उभयन्तु रूपमन्वयव्यतिरेकिणीति तत्र
पञ्चरूपाणि । तद्भङ्ग इति । यत्र उक्तरूपसम्पत्तिभङ्गस्तत्र दर्शनादर्शनात्मकप्रमाणभङ्गोऽप्यावश्यकः,
अन्यथा तयोर्निर्विषयतापात इत्यर्थः । सामान्यत इति । रूपरसोयोरकार्यकारणभूतयोरपि व्या-
प्त्यभ्युपगमादित्यर्थः । पूर्ववदिति । पूर्वं कारणं तद्यस्यास्ति विषयतया लिङ्गज्ञानस्य, तत्तथा ।
४३ न्या० कु०
३३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां
निर्बीजशङ्कायाः सर्वत्र सुलभत्वात्। नापि व्याप्यान्तरसहवृत्तिः। एकत्रोपि साध्ये-
ऽनेकसाधनोपगमात्। नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात्। ननु धूमो
वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्द्रन्धनवन्तं वह्निविशेषं
प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्ययुक्तम्। सामान्याप्रयोजक
तायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धिनियमात्। सिद्धौ वा सामान्य-
विशेषाभावानुपपत्तेः। नापि क्लृप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः,
नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति ॥
बोधनी ।
इति। तथा च सर्वोऽपि हेतुरप्रयोजकः स्यादिति। नापि व्याप्यान्तर-इति। स्पष्टम्।
नाप्यल्पविषय-इति। न हि धूमादिः सपक्षव्यापक इति। स एव तत्र किंचिदाशङ्क्य निराकरोति
ननु-इति। न हि धूमः स्वनिवृत्तावप्यनिवर्त्तमाने वह्नौ प्रयोजको नामेति। कुत्र तर्हि प्रयोजक
इत्यत्राह आर्द्रन्धनवन्तम् इति। तस्यैव वह्निविशेषस्यैवेति। कुतो युक्तमित्यत्राह सामान्य-
इति। न हि संभवति वह्निविशेषं साधयति न तु सामान्यमिति सामान्यासिद्धौ विशेषस्यासिद्धेर्निय-
तत्वात्। यदि वा तदापि विशेषः सिध्येन्न तर्हि सामान्यविशेषाभावः स्यात्, न हि तस्मिन्नसिद्धेऽपि
सिध्यतस्तद्विशेषकत्वमिति। सकलसपक्षवर्त्तिनि हेत्वन्तरे सत्येकदेशवृत्तिरप्रयोजको यथा निषिद्धत्वे
सति हिंसात्वम्। निषिद्धत्वं हि सकलभक्षणादेरप्यधर्मत्वसिद्धयर्थं क्लृप्तसामर्थ्यमिति। तदेव
सर्वत्राधर्मत्वे प्रयोजकं हिंसात्वं च नैवंविधमप्रयोजकमित्याशङ्क्याह नापि क्लृप्त-इति।
प्रकाशः।
कारणैकदेशस्यापि तदितराशेषकारणव्याप्यस्यान्यतन्तुसंयोगादेः पटादौ लिङ्गत्वाङ्गीकारादित्यर्थः।
निर्बीजेति। साध्याभावसहचारदर्शनस्य शङ्काबीजस्याभावात्, भावे वा व्यभिचार एव स्फुटो
दोष इत्युक्तमित्यर्थः। अल्पविषय इति। व्यापकवनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः। तन्निवृत्ता-
विति। धूमनिवृत्तावपि वह्नयनिवृत्तेरित्यर्थः। तस्यैवेति। आर्द्रन्धनप्रभववह्नेरित्यर्थः। सामा-
न्येति। वह्निसामान्याव्याप्यत्वे तद्विशेषव्याप्यतैव न स्यात्, सामान्यस्य विशेषव्यापकत्वादित्यर्थः।
तथा च, विशेषव्याप्यत्वे सामान्यव्याप्यत्वं ध्रुवमिति भावः। नाश इति। गुणादिनाशे भावकार्य-
त्वस्य प्रयोजकत्वे क्लृप्तेऽपि द्रव्यनाशे तद्व्याप्यसावयवत्वस्यापि तत्त्वाङ्गीकारादित्यर्थः।
प्रकाशिका।
ननु कारणं व्यापकं तत्कथं व्याप्ये लिङ्गमत्त आह। कारणैकदेशस्यापीति। साध्या-
भावसहचारदर्शनस्येति। यद्यपि साध्याभावसहचारो व्यभिचार एवेति तद्दर्शनं न तत्तच्छङ्का-
बीजम्। तथाप्युपाधिशङ्काबीजं तत्, उपाधेर्व्याप्त्यभावात्मकत्वादिति मन्तव्यम्। ध्वंसेऽतिप्रसक्तं-
कार्यत्वमिति भावपदेन पूरयित्वा व्याचष्टे। भावकार्यत्वस्येति। यद्यपि कल्पनायां पौर्वापर्य्यनियमे
मकरन्दः।
ध्वंसे व्यभिचारेण भावपदमन्तर्भावयति। भावकार्यत्वस्येति। यद्यप्यत्र पौर्वापर्य्यनियमे
मानाभावः, तथापि सामान्यविशेषयोः प्रथममुत्सर्गंतः सामान्यस्योपस्थितिरित्याशयेन तथोक्तम्।
टिप्पणी।
साध्याभावसहचारदर्शनस्य शङ्काबीजस्येति। हेतुतावच्छेदकाश्रये यत्किञ्चिद्धर्मिणि साध्या-
भावसहचारग्रहस्य व्यभिचारशङ्काप्रयोजककोटिद्वयसहचरितहेतुतावच्छेदकरूपसाधारणधर्मदर्शनसम्पा-
दकतया पक्षदृष्टहेतौ व्यभिचारशङ्काप्रयोजकत्वमिति भावः॥ भावे वा व्यभिचार एवेति। पक्षधर्म्मि-
हेत्वसाधारणधर्मेण हेतुत्वस्य सहचारग्रहाभावेनासम्भवात् सामान्यधर्मेणैव हेतुत्वमभ्युपेयं तत्र व्यभि-