सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 356, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 356

विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः । उद्बोध एव कथमिति चेत् । मन्दतर-
तमादिन्यायेन वाह्यानामेव शब्दादीनामुपलम्भाद् , अन्ततः शरीरस्यैवोष्मादेः
प्रतिपत्तेः, यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्त्तते, तदा सुषुप्तिः ।
स्यादेतत् । परमात्मा तु कथं परस्यायोग्यः । न हि साक्षात्कारिज्ञानविषय-
तामेवार्थं न प्राप्नोति। स्वयमप्यदर्शनप्रसङ्गात् । नापि ग्रहीतुरेवायमपराधः । तस्या-
पि हि ज्ञानसमवायिकारणतयैव तद्योग्यता। नापि करणस्य। साधारणत्वात् । न ह्या-
बोधनी ।
व्याप्रीयमाणेन्द्रियसंयोगाभावात् ज्ञानोत्पत्तिरित्याह—स्वप्न इति । तत्तद्विषयेन्द्रियव्यापाराभावेऽपि
पूर्वानुभवजनितसंस्कारोद्बोधप्रभाविततत्तद्विषयस्मरणसहकृतं मनः स्वप्नभ्रमानुत्पादयतीत्याह—तत्तत्
इति । तदानीं बाह्यविषयानुपलम्भे संस्कारोद्बोध एव कुत इत्याह—तदुद्बोधः इति। मन्द इति ।
तदापि बाह्येन्द्रियाणां मन्दतरतमादिभावेन व्यापाराऽनुवृत्तेः शब्दाद्युपलम्भात्तदनुपलम्भेऽप्यन्ततो गत्वा
शरीरोष्मादेस्त्वगिन्द्रियेणोपलम्भासंभवात् संस्कारोद्बोधोपपत्तिरित्याह—अन्त इति । यदा तु
मनस्त्वगिन्द्रियेणाप्यसंयुक्तं पुरीतति, तदा स्वप्नस्याप्यभावात् सुषुप्तिरेव स्यादित्याह—यदा तु इति ।
एवं तावद्योग्यस्यापि स्वात्मनोऽनुपलब्धिकारणमुक्तम् । इदानीं तु कुतस्त्वयोग्यः परमात्मेत्यत्र
शङ्कते—स्यादेतदिति । न कथञ्चिदयोग्य इत्यर्थः । न तावत्स्वरूपयोग्यता नास्तीत्याह—न हि
इति । अयं परमात्मा, स्वयं स्वेन परमात्मनाऽपीति । न च प्रमातृत्वरूपसहकारियोग्यता नास्तीत्याह—
नापि इति । तद्योग्यता = गृहीतत्वयोग्यतेति । न च करणरूपसहकारियोग्यताविरह इत्याह—
नापि इति । न चास्ति एकाकीयस्य मनसः परमात्मानं प्रत्ययोग्यत्येत्याशङ्कथाह—साधारणत्वात्
प्रकाशः ।
रोद्बोधो न स्यादित्याह । उद्बोध एवेति । न तदेवोद्बोधकं, किं त्वदृष्टादिकमपि यथासम्भव-
मित्याह । मन्देति । मन्दत्वं = गत्वादिव्याप्यजातिः । ऊष्मादेरिति । अनुद्भूतरूपोद्भूतस्पर्श-
तेजसः स्पर्शादेरित्यर्थः । स्वापमुक्त्वा सुषुप्तिमाह । यदा चेति । आत्मनो निरिन्द्रियप्रदेशः =
पुरीतत् । किञ्चिन्मनः कश्चिदेवात्मानं गृहातीत्यपि नास्तीत्याह । नापीति । एकस्यापि मनसोऽने-
कात्मग्राहकत्वादित्यर्थः । न हीति । नैयायिकमत इति शेषः । भट्टानां तु ज्ञानार्थयोरिवात्ममनसोरपि
प्रकाशिका ।
न तदेवेति । न सदृशदर्शनमेवेत्यर्थः । अदृष्टादिकमिति । आदिपदेन शब्दादिज्ञानसंग्रहः । मन्दत्वं
तारधीनिरूप्यमिति कथं ताराग्रहे मन्दत्वविशिष्टग्रह इत्यत आह मन्दत्वमिति । तथा च जातेर्न सा-
वधित्वमपितु तन्निष्ठधर्मस्येति भावः । यद्यपि बाह्यानामेव शब्दादीनामुपलम्भादिति मूलानुरोधेनादि-
पदग्राह्यः प्रकाशे शब्दोपलम्भ एव वाच्यः स च न मानसो बहिरर्थे मनसोऽस्वातन्त्र्यात्, नापि श्रौत्रः
मनसस्तदा स्वप्नवहननाडीप्रविष्टतया श्रोत्रसंयोगाभावात् । तथापि स्वप्नवहननाड्याः शरीरव्यापक-
तया श्रोत्रावच्छिन्नदेशेऽपि सत्त्वेन स्वप्नकाले श्रोत्रमनःसंयोगो न विरुद्ध इत्यत्र तात्पर्यम् । यदि च
नैवं तदा तत एवास्वरसादान्ततः शारीरस्यैवोष्मादेरिति मूलं स्वप्नकाले च शरीरमनःसंयोगस्यावश्य-
कतया त्वङ्मनः संयोगोऽपि न विरुद्ध इति तस्याशयः । ऊष्मणोऽप्रत्यक्षतया ऊष्मादेरित्यत्रातद्गुण-
संविज्ञानबहुव्रीहिणा स्पर्शादिकमेवोक्तमित्याह । अनुद्भूतरूपेत्यादि । भट्टानामिति । तथा च
मकरन्दः ।
न तदेवेति । न सदृशदर्शनमेवेत्यर्थः । अदृष्टादिकमपीति । अपि पदात्तद्वि-
ज्ञशब्दाद्युपलम्भपरिग्रहः । तथा च क्व चिददृष्टं क्व चिज् ज्ञानान्तरमुद्बोधकमिति भावः । ननु-
मन्दत्वं तारत्वनिरूप्यमिति तदज्ञाने तदसम्भवीत्यत आह मन्दत्वमिति । जातिज्ञाने च नेतरज्ञाना-
पेक्षेति भावः । ननूष्मा तेजस्तच्चातीन्द्रियमित्युत आह अनुद्भूतरूपेति । ऊष्मादेरित्यतद्गुण-
संविज्ञानबहुव्रीह्याश्रयणादिति भावः । भट्टानामिति । तथा च तेषां तथा नियम एवेत्यर्थः ।