सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 79, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 79

प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४७
प्रकाशः ।

  • देतत्पूर्वकालवृत्तिः स्यात् । यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः
    स्यात् । यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्न-
    स्याद् , घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादनं स्यादेवेत्य-
    स्यर्थः । अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न
    प्रकाशिका ।
    यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष-
    विषय इत्यर्थः । घटो यदीति । घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः
    तन्निरूपितोत्तरत्वव्याप्योत्पत्तिर्नो न स्यादित्यापादकार्थः । घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः ।
    अत्र च घटान्यवहितकालाधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्य-
    वहितकालानधिकरणत्वं पदार्थविशेषणम् , आकाशादे श्चव्यवहितकालवृत्तितया न तमादायापादकासि-
    द्धिः। न चान्यव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिर्भयेनानन्यथासिद्धेः प-
    दार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरा-
    सभादिवारक्यान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि
    विरहाणामप्रवेशात् । आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा
    नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् । आपादने घटसमानकालवृत्तियते व्यभिचाराच्च ।
    विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् । अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्का-
    लोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् । न चानन्यथासिद्ध-
    पदेनैव तद्वारणं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेशा-
    वैयर्थ्यात् । प्रतियोगी च परस्यासत्ख्यात्युपनीत इति ध्येयम् । तत्कालेति । घटव्यवहितकाले-
    त्यर्थः । तत्रतत्रेति पूर्वकालादावित्यर्थः । एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्त्वापादनं न
    स्यादेवेत्यस्यार्थ इति विभाग इति भावः । अन्यकालेति । अन्यकालोत्पत्तिक इष्टापत्तिवारणाय
    पक्षविशेषणम् । तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् ।
    अयमिति प्रत्यक्षोपन्यासः । पूर्ववद् दृष्टान्तश्च अन्यकालोकात्पत्तिकः । आपादके चोत्पत्तिपदमखण्डाभा-
    वतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् । आपादके च पूर्वकालपदमव्यवहितपूर्व-
    कालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाद्य
    उत्पत्तिपदम् । वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य-
    मकरन्दः ।
    यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । घटोयदीति । घटव्यवहितकालाऽ
    नधिकरणत्वं घटान्यवहितकालाधिकरणत्वं पर्य्यवस्यति । यत्तु आकाशादेरपि तथात्वे तदादायापादका-
    सिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति । तन्न । अनन्यथासिद्ध-
    त्वस्य पदार्थविशेषणस्यावश्यकत्वात् । अन्यथा दण्डरूपादिकमादाय दोषतादवस्थ्यापत्तेः तस्मा-
    दुभयथाऽप्यदोष इति । रासभाद्युत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्धयेदिति
    व्याप्यत्वपर्य्यन्तम् । न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् । रासभादेरपि तथात्वात् ।
    अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् । तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि
    तथाऽस्त्विति । प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् । घटव्यवहितकालत्वं घटानधिक-
    रणकालवृत्तित्वमापाद्यम् । अन्यति । अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । उत्त-