न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 77, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४५
न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति, तदा हि स्या-
देव न स्यादेव वा, न तु कदाचित् स्यात् ॥ ४ ॥
बोधनी ।
त्मसमवेतं, भोगं प्रति नियमदर्शनात् । तथा च तस्यास्मदादिभिरशक्यज्ञानत्वात् तदुपदेष्टा
तदधिष्ठाता जगत्कर्त्ता चेश्वरः सिध्यतीति प्रथमपरिच्छेदार्थसंग्रहश्लोकतात्पर्यार्थः ॥ ४ ॥
तत्र तावत् सापेक्षत्वादित्येतदुपपादयन् विवृणोति—न ह्ययमिति । संसारः=कार्यवर्गः ।
नैकविधः सर्वकालं नैकरूपः, कादाचित्क इति यावत् । अनेकविध इति पाठे वक्ष्यमाणहेतु-
वैचित्र्योपयुक्ततया कार्यवैचित्र्यमुक्तम् । दुःखमयत्वं स्वतन्त्रप्रसिद्ध्या सर्वस्यापि दुःखत्वभावना-
र्थमुक्तं, न तु साधनोपयोगितया । यद्वा, दुःखमयत्वात् तथापि हेयं हानं हेतुनिवृत्त्या । तथाच
प्रकाशः ।
तदुपपादकं प्रतिभोक्तृनियतमेवादृष्टं कल्प्यत इति, अस्ति हेतुरलौकिक इत्याद्यस्तवकार्थसंग्रहः ॥४॥
यथोक्तप्रत्यक्षानुमानयोरन्यथासिद्धिनिरासाय तर्कमाह । न ह्ययमिति । अनेकविधेति
मुमुक्षुवैराग्यार्थं कार्यवैचित्र्यस्फोरणार्थं वा । तच्च विचित्रादृष्टसाधनोपयुक्तम् । निरपेक्षत्वञ्च कि-
ञ्चित्पदार्थावधिकोत्तरत्वान्याप्यकालसम्बन्धित्वम् । न च प्रतियोग्यप्रसिद्धिः । तस्यासत्ख्यातिवा
दिनः सांव्यवहारिकस्य सापेक्षत्वस्यापि स्वीकारात् ।
ननु, निरपेक्षत्वेनैकेन व्याप्येन स्यादेव, न स्यादेवेति द्विरूपं व्यापकद्वयं विरुद्धं कथमापाद्यते?
न ह्येकं मिथोविरुद्धद्वयव्याप्यम् । तुशब्दश्चासङ्गतः, कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवानि-
ष्टापादनार्थत्वात् । अत्राहुः । निरपेक्षत्वेन कादाचित्कत्वव्यतिरेक एवाऽऽपाद्यः । स च स्यादेव, न
स्यादेवेति पक्षद्वये पर्यवस्यति, अत एव तुशब्दोऽपि सङ्गच्छते । यद्वा, कार्यं यदि निरपेक्षं
प्रकाशिका ।
घवादित्यर्थः । वस्तुतः कृतहानाकृताभ्यागमदोषप्रसङ्गादेवाद्दष्टस्य प्रत्यात्मनियतत्वमिति ॥ ४ ॥
किञ्चिदिति । अनन्यथासिद्धकिञ्चिदित्यर्थः । असमानाधिकरणेति कृतेऽसम्भव इत्यत उक्तम-
व्याप्येति । अत्र च स्वपूर्ववर्तित्वमप्यवधौ विशेषणम् , अन्यथा परमाण्ववधिकोत्तरत्वव्याप्य-
कालसम्बन्धसत्वादाकाशे निरपेक्षत्वाभावापत्तेः । न चेति । तथा चापादकाप्रसिद्धिः परमते पराभ्यु-
पगतस्यैव चापादकत्वात् स्वमते प्रत्यक्षेणैव प्रसिद्धिरिति परमते तामाह । तस्येति । तुशब्द इति
परस्पराङ्गाङ्गिभावापन्नतवस्य तुशब्दवाच्यत्वात् प्रकृते च कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवापादना-
दिति भावः । अत एवेति । पर्यवसितेऽङ्गाङ्गिभावसत्त्वादिति भावः । ननु नित्यत्वालीकत्वान्यतर-
मकरन्दः ।
हेतोर्भिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः । हेत्वोरिति पाठेऽप्यर्थः स एवेति ॥ ४ ॥
किञ्चिदिति । अनन्यथासिद्धकिञ्चित्पदार्थावधिकोत्तरत्वव्याप्यकालसम्बन्धित्वाभाव इत्यर्थः ।
न चेति । परसिद्धमापादकं भवति, न च कारणत्वपर्यवसन्नप्रतियोगिनस्तन्मते प्रसिद्धिरित्यर्थः । स्व
मतेप्रत्यक्षेणैव तत्प्रसिद्धेरूक्तत्वादिति भावः । अत एव तन्मतेनैवोत्तरमाह । तस्येति । तुशब्द इ-
ति । परस्पराङ्गाङ्गिभावस्य तुशब्दार्थत्वादिति भावः । पक्षद्वय इति । नित्यत्वालीकत्वान्यतरपक्ष
इत्यर्थः ।
टिप्पणी ।
धर्म इत्यर्थः । द्वितीये प्रमेयत्वे, प्रथमे प्रागभावत्वत्वे प्रसिद्धिरिति केचित् ॥ ४ ॥
किञ्चित्पदार्थावधिकोत्तरत्वाव्याप्येति । असमानाधिकरणेत्युक्तौ आकाशादिनिष्ठकि-
ञ्चित्कालसम्बन्धित्वस्यापि तादृशोत्तरत्वसमानाधिकरणत्वादप्रसिद्धिः स्यादिति तादृशव्याप्यत्वपर्य-
न्तानुधावनम् । न चाकाशादिनिष्ठकालसम्बन्धित्वस्य परमाणूत्तरत्वव्याप्यतयाऽप्रसिद्धितादवस्थ्य-
मिति वाच्यम् । किञ्चित्पदार्थरूपवाधौ किञ्चित्काला सम्बन्धित्वस्य विशेषणीयत्वात् । स्वतन्त्रस्यै-
चानिष्ठापादनत्वादिति ।