सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 75, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 75

प्रथमस्तबके ] कारणत्वव्यवस्थापनम् । ४३
प्रकाशः ।
क्षितत्वाद्वा। अपि च, इदमस्मान्नियतपूर्वसदित्यपि प्रत्यक्षं तत्र मानम् । प्रत्यक्षे चानन्यथासि-
द्धिनियमंशावधारणे हेतुशङ्कानिवर्त्तकतकॊ दर्शयिष्यत इति भावः । यद्वा, प्रत्यक्षसहकारित्वेना-
ऽनुमानमेवोपन्यस्तम् । यद्वा, प्रथमतॊऽनुमानप्रामाण्यं प्रसाध्य, कार्यं सहेतुकं कादाचित्कत्वात्
यन्नैवं तन्नैवम् , यथाऽऽकाशम् । न च साध्याप्रसिद्धिः । कियद्भागे प्रत्यक्षेणैव तत्सिद्धौ तद-
विषयेऽनुमानात् । नचोत्पत्तेः कादाचित्कत्वेऽपि न सहेतुकत्वम्, तथात्वे वोत्पत्तिमत्त्वापत्तावनव-
स्थेति वाच्यम् । कार्य्यस्याद्यक्षणेन सह स्वरूपसम्बन्ध एव ह्युत्पत्तिः, कार्य्यक्षणस्वरूपयोश्चोत्प-
त्तिमत्त्वेन हेतुमत्त्वात् । यद्वा, उत्पत्तिगर्भः किञ्चित्समयसम्बन्धः कादाचित्कत्वम् । अत एव न
प्रागभावे व्यभिचारः । न चोत्पत्तेरुत्पत्तिमत्त्वेन हेतुमत्त्वात् स इति न तया व्यभिचारः । एतेना-
नुमानपक्षे, हेतुरस्ति सापेक्षत्वाद्-इत्यत्र हेतोरसिद्धावाश्रयासिद्धिः । सापेक्षत्वस्य कार्य्यधर्मत्वेन
हेताववृत्तौ स्वरूपासिद्धिश्च । कार्य्यस्यैव पक्षत्वे, सापेक्षत्वादित्यस्य हेतुमत्त्वादित्यर्थे साध्याविशेषः,
कादाचित्कत्वादित्यर्थे च प्रागभावेन व्यभिचार इत्यपास्तम् ।
प्रकाशिका ।
अपि चेति। नियतेति। अनन्यथासिद्धेत्यपि विशेषणम् । नन्वेवं कादाचित्कत्वोपन्यासमयुक्तमेवे-
त्यत आह । प्रत्यक्षसहकारित्वेनेति । सहकारिता च संवादेन प्रामाण्यग्रहद्वारा वा, अन्यथा
प्रत्यक्षत्वानुमितित्वसङ्करापत्तेः । ननु अनुमानसम्भवे किं प्रत्यक्षेण ? वादिनं प्रति तस्याप्यनुमान-
च्छाययैव प्रवृत्तेरित्यस्वरसादाह यद्वेति । प्रसाध्येत्यनन्तरमित्थं प्रयोग इति शेषः । अन्वयि-
सम्भवेऽपि व्यतिरेकिणः सामर्थ्यमित्यभिप्रेत्याह । यन्नैवमिति । स्वरूपसम्बन्ध एवेति ।
सूर्य्यस्पन्दात्मककालोपाधिना समं सम्बन्धान्तराभावादिति भावः । ननु यथाश्रुतं कादाचित्कत्वं
प्रागभावे व्यभिचारि प्रागसत्त्वविशेषणे च व्यर्थविशेषणतेत्यरुचेराह । यद्वेति । उत्पत्तिगर्भः=
उत्पत्तिरूपः । अन्यथा व्यर्थविशेषणत्वादिति । विसर्गशून्यपाठपक्षे तु उत्पत्तिगर्भः=उत्पत्तिघ-
टको य आद्यसमयस्तत्सम्बन्ध इत्यर्थः । तथाप्युत्पत्तिमत्त्व एव पर्य्यवसानम् । नचोत्पत्तेरिति ।
यद्यप्युत्पत्तेः क्षणघटोभयरूपत्वे उभयोः सहेतुकत्वमेवेति साध्यसत्त्वादेव न व्यभिचारः । तथापि
मिलितस्योत्पत्तिरूपत्वं न च तत्र सहेतुकत्वमर्थवशसम्पन्नत्वादिति हेत्वसत्त्वमेवोक्तम् । उत्पत्तिरपि
स्वरूपसम्बन्धात्मिका यद्यप्युत्पत्तौ, तथापि मिलिते तादृशसम्बन्धोऽपि नास्तीत्यभिप्रायेणेदमु-
क्तम् । स्वरूपातिरिक्तसम्बन्धस्यैवोत्पत्तिरूपत्वं स चानवस्थाऽऽत्माश्रयादिदोषभयादुत्पत्तौ ना-
मकरन्दः ।
वृत्तं प्रत्यक्षमाह । अपि चेति । अनन्यथासिद्धनियतपूर्वसदित्यर्थः । नियमानन्यथासिद्धयोरि-
त्यत्र समाधिमाह । प्रत्यक्षे चेति । ननु परं प्रति प्रत्यक्षमुपन्यासानर्हमेव, अनुमानच्छाययैव
तत्र तस्य गमकत्वाङ्गीकारात् । किञ्च कादाचित्कत्वमुपन्यस्तमलग्नकमेवैवं स्यादित्यत आह ।
यद्वा प्रत्यक्षेति ।
नन्वनुमानप्रामाण्ये किं सहकारितया ? स्वतन्त्रस्यैव समर्थत्वात् । अप्रामाण्ये सहकारित्वमपि
न स्यात् । किञ्चैवं प्रत्यक्षानुमितित्वयोः सङ्करापत्तिरित्याशयेनाह । यद्वेति । सूर्य्यस्पन्दात्मक-
क्षणेन समं घटादेः सम्बन्धाऽन्तराभावादाह । स्वरूपेति । ननु यथाश्रुतं कादाचित्कत्वं
प्रागभावे व्यभिचारि, प्रागसत्त्वविशेषितञ्च व्यर्थविशेषणत्वग्रस्तमित्यरुचेराह । यद्वेति । नन्वे-
वमुत्पत्तिमात्रमेव हेतुरस्तु, अधिकस्य व्यर्थत्वादिति चेन्न । इष्टत्वात् । उत्पत्तिपदेनोत्पत्तिरूप-
त्वस्य विवक्षितत्वात् । तथाचाद्यसमयसम्बन्धस्य हेतुत्वपर्य्यवसानम् । यद्वा, उत्पत्तिगर्भ उत्पत्ति-
घटकः किञ्चित्समय आद्यसमयस्तत्सम्बन्ध इत्यर्थः । तत्रैव पर्य्यवसानं विसर्गशून्यपाठादित्याहुः ।