न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 61, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् । २६
तदिह सङ्क्षेपतः पञ्चतयी विप्रतिपत्तिः । अलौकिकस्य परलोकसाधनस्या-
बोधनी ।
ननु प्रमाणायत्तं मननं, प्रमाणं त्वीश्वरविषयं तत्तदादिविप्रतिपत्तिदूषितं कथं मननसाधनमि-
त्याशङ्कां निरसितुं परिच्छेदपञ्चकनिराकरणीया विप्रतिपत्तीस्तावद्दर्शयति-तदिहेति । तदिति
वाक्योपक्रमे, प्रकरणाद्यारभ्यत्वादिति हेतौ वा । इह-प्रकरणे, जगत्कर्त्तरि, तद्विषये प्रमाणयुगले
वा । निरस्यत इति शेषः । तत्र परमनास्तिकचार्वाकविप्रतिपत्तिं प्रथममाह-अलौकिकस्येति ।
अयमाशयः-अलौकिकहेतुसिद्धौ तस्य साधनानुमानायत्तसिद्धित्वात् , तदनुमानस्य च ज्ञानमन्तरे-
णानुपपत्तेस्तस्य चास्मदादीनामसम्भवादुपदेशमूलेन भवितव्यम् ; उपदेशश्च न विशिष्टमुपदेष्टारं
विनेति लोकोत्तरः कल्प्येतापि न त्वेवं सम्भवति, अलौकिकस्य परलोकसाधनस्यैवाभावात् तद्-
प्रकाशः ।
यक्न्यायप्रवृत्तिहेतुरित्यास्थेयमिति विभावयंस्तत्कारणं विशेषविप्रतिपत्तिमादर्शयति—
तदिहेति । तदिति वाक्योपक्रमे । संक्षेपोऽवान्तरविप्रतिपत्त्यविवक्षा । विरुद्धा प्रतिपत्ति-
र्ज्ञानमभिलापो वा विप्रतिपत्तिः । विप्रतिपत्तौ विषयिण्यां विषयस्य प्रयोजकत्वं विवक्षित्वा पञ्चमी-
निर्देशः । तत्राऽलौकिके तावत् , साक्षात्कारकारणेन्द्रियसन्निकर्षाश्रयत्वं प्रमेयत्वव्यापकं न वा ?
इन्द्रियस्य तु न सन्निकर्षाश्रयत्वं, किन्तु प्रतियोगित्वमिति न विप्रतिपत्तिः । य एव चक्षुषा रूप-
प्रकाशिका ।
संशय इति विरोधादिति । धिंघञ्चित्वेति । शब्दात्मकविप्रतिपत्तौ विषयस्याहेतुत्वादिति भावः ।
वस्तुतो ल्यब्लोपे पञ्चमी अभावं प्राप्य ज्ञात्वा विप्रतिपत्तिरिति मूलव्याख्या । यदपेक्षया संक्षेपस्त-
माह साक्षादिति । इन्द्रियसन्निकर्षाश्रयत्वमलौकिकेऽपीति साक्षात्कारकारणत्वं विशेषणम् , शरी-
रप्राणसंयोगस्य साक्षात्कारकारणतया प्राणेऽतिप्रसङ्ग इति तद्वारणायेन्द्रियपदम् , न च गर्भोत्पन्नविनष्टे
व्यभिचारः, तन्मते प्रमाणान्तराभावेन सति प्रमेयत्वे साक्षात्कारविषयत्वात् । सन्निकर्षे च लौकिकत्वं
विशेषणं तच्च संयोगाद्यन्यतमत्वाश्रयत्वम् । न च व्यावत्र्त्याप्रसिद्धिः पक्षे उपरजकस्यापि स्वीकारात् ।
अभिधेयत्वघटत्वयोश्च विधिनिषेधप्रसिद्धिः । ननु चक्षुर्घटसंयोगमादाय घट इव तादृशसंयोगाश्रयत्वं
चक्षुषोऽपीत्यत आह इन्द्रियस्येति । इन्द्रियविशिष्टसंयोगाश्रयत्वं नेन्द्रिये अंशत आत्माश्रयात् ,
तच्चात्र विवक्षितमिति भावः । य एवेति । यथाश्रुते दूषणमिदम् । यदा तु स्वसाक्षात्कारकारणेति
मकरन्दः ।
न तु तद्विना मननासम्भव एवेति तात्पर्यम् । प्रयोजकत्वमिति । शब्दात्मकविप्रतिपत्तौ
विषयस्य हेतुत्वाभावादिति भावः । यस्या अविवक्षा तामवान्तरविप्रतिपत्तिमाह । साक्षादिति ।
अलौकिकपरमाण्वादावतिप्रसक्तिर्व्यतिरेके च बाध इत्यत उक्तं साक्षात्कारकारणेति । संयो-
गाद्यन्यतमप्रत्यासत्तिजन्यसाक्षात्कारकारणेत्यर्थः । न च तन्मते व्यावत्र्त्याप्रसिद्धिः । पक्षे उपरज-
कस्यापि दानात् । अत एव साक्षात्कारत्वपर्य्यन्तमपि तज्जातित्वे वैयर्थ्यमपि नेति ध्येयम् ।
न च गर्भर्वार्तनष्टे व्यभिचारादिदमुक्तमिति वाच्यम् । तन्मते प्रमाविषयत्वस्याप्यभावात् ।
भावे वाऽवश्यमिन्द्रियसन्निकृष्टत्वम् । प्रमाणान्तरात्तदसम्भवात् । योग्यतापरत्वे वा सन्निकर्षत्वे-
ऽपि तथेति भावः । विधिनिषेधकोटिप्रसिद्धिः, अभिधेयत्वघटत्वयोः सुलभेति । ननु घटसाक्षा-
त्कारकारणघटचक्षुःसंयोगरूपसन्निकर्षाश्रयपं चक्षुष्यपि, न च तल्लौकिकमित्यत आह । इन्द्रि-
यस्येति । यद्यपि संयोगस्य द्विष्ठत्वादिदमुक्तं, तथापि नेन्द्रियविशिष्टसन्निकर्षाश्रयत्वमिन्द्रियस्य
अंशत आत्माश्रयात् , किन्तु तदुपलक्षितसन्निकर्षाश्रयत्वम् । तदिदमुक्तं, किन्तु प्रतियोगि-
त्वमिति । तत्र तत्प्रतियोगिकसन्निकर्षाश्रयत्वेऽपि तस्योपलक्षणत्वमित्यर्थः । य एवेति । एतच्च