न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 60, कुल 608 में से
संदर्भ में पढ़ें२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ का० अव० अवतरणिकायां
प्रकाशः ।
कमानाभावो न्यायाङ्गमिति चेन्न । तथापि संशयस्यातत्त्वात् । संशययोग्यतायास्तदङ्गत्वात् ।
विशिष्टस्य तद्ग्राहकमानेन विशेषणस्यापि तत्त्वं विषयीकृतमिति चेन्न । मिलिताभावस्य प्रत्येक-
सत्त्वेऽपि सत्त्वात् । प्रत्येकञ्च न योग्यता । केवलान्वयिनि बाधकाप्रसिद्धेश्चेत्यन्यत्र विस्तरः ।
तथापि संशयस्यानुमितिमात्राहतुत्वेऽपि जिज्ञासाहितार्थानुमितौ जिज्ञासाद्वारा संशयस्यानुमिति-
हेतुत्वम् । यद्वा(१) सङ्कुसुकतानिवृत्तये न्यायोपासने संशयोऽङ्गमिति संशयं विना यो न परितुष्येत्
तं प्रति श्रोतव्यो मन्तव्य इति श्रुतेरनन्यगत्या भिन्नविषयक एव धर्मविषयकसंशयो धर्मिविष-
प्रकाशिका ।
सत्येवाह मिलितेति । प्रत्येकमिति । अभावद्वयमित्यर्थः । लाघवात् साधकाभावस्यैव तथा-
त्वम् , अन्यथा पक्षताविरहादेव बाधस्थलेऽप्यनुमित्यनुत्पत्त्या तस्य हेत्वाभासान्तरतानुपपत्तेरिति
भावः । केवलेति । साध्याभावसाधकस्यैव बाधकत्वमित्यभिप्रायेणेदम् । यदि च पक्षनिष्ठात्य-
न्ताभावप्रतियोगिताग्राहकमेव बाधकपदार्थः, तदा लाघव एव तात्पर्यं, तदेवाभिसन्धायाह
अन्यत्रेति । ननु जिज्ञासाद्वारा संशयस्यानुमितिहेतुत्वमत्रेत्ययुक्तम् । जिज्ञासा च द्वयी द्विकोटी-
का, एककोटिका च, तत्राद्या यद्यपि संशयमपेक्षते, तथापि द्वितीया विनैव संशयमिष्टसाधनताज्ञा-
नमात्रात् सा चात्र पक्षताघटिका । किञ्च जिज्ञासापि संशयवन्न तावत्कालस्थायिनीत्यरुचेराह यद्वे-
ति । तथा च निवर्त्यत्वेनात्र संशयो न्यायाङ्गमित्यर्थः । य इति । तथा च दुर्द्दुरूढस्य तस्य प्रबो-
धार्थं संशयबीजविप्रतिपत्तिप्रदर्शनं न तु तं विना मननासम्भव एवेति भावः । अनन्यगत्येति ।
ननु सर्वत्र धर्मकोटिक एव संशयो धर्मिणि न्यायाङ्गम् , न हि धर्मे क्वापि संशयकोटिः तत्र कुतोऽ-
नन्यगतिकत्वोपवर्णनम् ? किञ्च न वा तद् रूपमस्तीश्वर इत्यादिग्रन्थेनासङ्कोचात् श्रुतिवाक्येभ्य
इत्यनेन सर्वेषामेव श्रवणबोधनमित्यभिप्रायेण धर्मेऽपि सन्देहाभावोपपादनात् क्व धर्मेऽपि सन्देह
इति चेन्न । अत्र हि विषयपदं विशेष्यपरं तथाच धर्मविशेष्यक एव संशयो धर्मिविषयकन्याय-
प्रवृत्त्यङ्गमिति पङ्क्त्यर्थः । अत एव तत्तद्धर्मविशेष्यकविप्रतिपत्तिमेवोदाहरन्ति स्म ग्रन्थकृतः ।
एवं च धर्मविशिष्टधर्मिविशेष्यकनिश्चयेऽपि धर्मविशेष्यकधर्मविशेषणकसंशये बाधकाभाव
इत्यापाततस्तात्पर्यम् । वस्तुविचारे त्विदमप्ययुक्तमेव, समानविशेष्यतया निश्चयसंशययोर्विरोधित्वे
कथं धर्मिन्यायप्रवृत्त्या धर्मसंशयो निवर्तनीय इति शङ्कुकतानिवृत्तये न्यायोपासनमित्याकर-
विरोधात् । समानविषयतामात्रेण च तयोर्विरोधे कथं धर्मिविशेष्यकनिश्चये सति धर्मविशेष्यक-
मकरन्दः ।
णत्वं, किन्तूपलक्षणत्वमिति दोषे सत्येवाऽऽह । मिलितेति । ननु प्रत्येकाभावद्वयं योग्यता,
तच्च प्रत्येकसत्त्वे नास्तीत्यत आह । प्रत्येकमिति । प्रत्येकाभावद्वयमित्यर्थः । साधकमाना-
भावमात्रस्य तथात्वे लाघवादिति भावः । अन्यथा पक्षताविरहादेवानुमितिप्रतिबन्धे बाधो हेत्वा-
भासो न स्यादित्यपि बोद्धव्यम् । केवलेति । साध्याभावसाधकस्य बाधकत्वमित्यभिप्रायेणेदम् ।
यद्यपि पक्षनिष्ठात्यन्ताभावप्रतियोगित्वग्राहकमानाविषयत्वं बाधकाभाव इति विवक्षिते तन्न नाप्र-
सिद्धिः, तथापि लाघव एव तात्पर्यम् । एतदेवाभिसन्धायोक्तम् , अन्यत्रेति ।
संशयवज्जिज्ञासाऽपि न तावत्कालस्थायिनीति मतान्तरमाह । यद्वेति । तथा च निवर्त्य-
त्वेन संशयस्य न्यायाङ्गत्वमिति । य इति । तथाच प्रबोधनार्थं संशयबीजविप्रतिपत्तिप्रदर्शनम् ,
(सं० १) “सङ्कुसुकोऽस्थिरे” इति कोशात् सङ्कुसुकता=अस्थिरता अश्रद्धा मिथ्याज्ञा-
नजन्यवासनामूलाऽप्रामाण्यशङ्केति यावत् तन्निवृत्तय इत्यर्थः ।