सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 596, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 596

५६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां
अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः—
इत्यतो नात्मानं हन्यादिति । कुर्याः कुर्यामित्यत्र विधिविहितैव लिङ् नेष्टा-
भ्युपायतामाह, किन्तु वक्तृसङ्कल्पम् न हीष्टाभ्युपायो ममायमिति कुर्यामिति
पदार्थः, किन्तु तत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः—कुर्यामिति, स एव । सर्व्वत्र
चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिङेत्यवधृतम् । तथा ह्याज्ञाऽध्येपणाऽनुज्ञासंप्रश्न-
प्रार्थनाऽऽशंसालिङि नान्यत् चकास्ति ।
यां वक्तुरिच्छामनुविदधानस्तत्तक्षोभाद्बिभेति, सा आज्ञा । या तु श्रोतुः
पूजासम्मानव्यञ्जिका, सा अध्येपणा । वारणाभावव्यञ्जिका अनुज्ञा । अभिधान-
प्रयोजना सस्प्रश्नः । लाभेच्छा प्रार्थना । शुभाशंसनमाशीरिति ।
न च विधिविकल्पेषु निषेध उपपद्यते । तथाहि—यदाऽभिधा विधिः, तदा न
हन्यात् हननभावना नाभिधीयते इति वाक्यार्थो व्याघातान्निरस्तः । यदा काल-
त्रयापरामृष्टा भावना, तदा नेति सम्बन्धोऽत्यन्ताभावोमिथ्या । यदा कार्यं, तदा न
हन्यात् न हननं कार्यमित्यनुभवविरुद्धम् । क्रियत एव यतः । न हननेन कार्यं
हननकारणं कार्यं नास्तीत्यर्थ इत्यपि नास्ति । दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य
प्रकाशः।
कुर्या इति । तवेदमिष्टसाधनमतः कुर्याः, ममेदमिटसाधनमतः कुर्यामिति व्यवहारान्मध्यम-
पुरुषादौ सङ्कल्प एव लिङर्थ इत्यर्थः । अन्यत्र क्लृप्तसामर्थ्यादिति विवृणोति सर्वत्रेति । अन्तिमं
हेतुं व्याचष्टे न चेति ।
न हन्यादिति निषेधेन सह हननान्वये हननाभावविषया भावना तदर्थः स्यात् । तत्र च
विधिद्वैयर्थ्यं, हननप्रागभावात्यन्ताभावयोरसाध्यत्वात् । हननभावना नास्तीत्यन्वयस्तु न सम्भ-
वति, बाधात् । ततो हननविषयभावनाऽभिधाय निषेधो वाच्यः, तत्राह व्यापारादिति । अभि-
धाविधिवादिनां हन्यादिति पदं हननभावनाऽभिधायकमैवेति तन्निषेधे व्याघात इत्यर्थः । यद्यपि
भटानामभिधा न सङ्केतः किन्तु शक्यनिष्ठं धर्मान्तरं, तथापि सिद्ध्यासद्धिव्याघाताभ्यां तन्निषेधो
न शक्य इति भावः ।
यदा कालत्रयापरामृष्टा भावनेत्यत्र विधिरित्यनुषज्यते । एवमुत्तरत्र । कदाचिद्धननभावनायाः
सत्त्वात्तन्निषेधस्यात्यन्ताभावरूपत्वं नास्तीत्याह तदा नेतीति । कार्यताविधिपक्षे निषेधानुपपत्तिमाह
यदा कार्यमिति । यद्याख्यातेन नञन्वयः, तदा हनने कृतिसाध्यत्वकृत्युद्देश्यत्वयोरुभयोरपि
सत्त्वान्निषेधो बाधित इत्यर्थः । हननस्य कार्यमाह दुःखनिवृत्तीति ।
प्रकाशिका ।
स्त्वितयत आह न हन्यादिति निषेधेनेति । असाध्यत्वादिति । तथा च न तत्र विषयतया
भावनान्वय इति भावः । अभिधाविधिवादिनामिति । हननभावनया समं वाच्यवाचकभावलक्षणो
लिड्सम्बन्धोऽभिधा, तन्निषेधश्चाशक्यः, तथा सति तद्बोधानुपपत्तेरिति भावः । यद्यपीति ।
तथा च न व्याघातः, वाच्यवाचकभावलक्षणाभिधानपक्ष एव तत्सम्भवादिति भावः । शक्यनिष्ठं
धर्मान्तरमिति । यद्यपि भट्टानां शब्दनिष्ठा भावना न शक्यनिष्ठा, तथापि तथासति सिद्धसाधन-
मकरन्दः ।
यद्यपीति । तथा च नोक्तव्याघातः, वाच्यवाचकभावसम्बन्धात्मकाभिधापक्ष एव तत्सम्भ-
वादिति भावः ।