न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 590, कुल 608 में से
संदर्भ में पढ़ेंतया-इति । यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्त्तते, असाध्येषु व्यभिचारात् ।
प्रकाशः ।
विषभक्षणादौ व्यावर्त्तककृतिवृत्तित्वबलवदनिष्टाजनकचिकीर्षाधीनत्वमेव, न त्विष्टसाधनत्वम् ।
कृतिवृत्तित्वधर्मापेक्षया बहिरङ्गत्वात् जीवनयोनिकृतिजन्यप्राणादिसञ्चारनिवृत्त्यर्थमावश्यकत्वात्
भोगचिकीर्षायां व्यभिचाराच्च ।
न चौपायिकीच्छेष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावदिति वाच्यम् । साध्यत्वसाधन-
त्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् । असिद्धतां सिद्धताञ्चादाय तयोर्व्यवस्थितेः । न च यद्वस्तुतः
कृतिसाध्यं तदिष्टसाधनमिति ज्ञायते इति युक्तम् । कृतिसाध्यतोत्तीर्णज्ञानात् चिकीर्षानुत्पत्तेः ।
अपि च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि, न हि कश्चित्कृतिसिद्धमि-
च्छति, अतोऽसुन्दरे वृष्टादौ चेच्छा तत्साध्येष्टज्ञानात् ।
अथ तादृशकृतिसाध्यत्वे कृतिर्न विशेषणम्, असत्त्वात्, सत्त्वे वा कृतौ सत्यां कृतिसाध्यताज्ञानं,
तथा ज्ञाने च कृतिश्चेत्यन्योन्याश्रयः । नोपलक्षणम्, अनतिप्रसक्तोपलक्ष्याभावादिति चेत् । न । ज्ञाने
विषयतया कृतेर्विशेषणत्वात् , साध्ये च प्रवृत्तिविषये परिचायकतयोपलक्षणत्वात् , अन्यथेष्टसाधन-
ता Grant पक्षेऽपीष्टस्य तथाविधविकल्पग्रासात् ।
प्रकाशिका ।
बलवदनिष्टजनकत्वस्य चिकीर्षाविशेषणत्वेऽपि न क्षतिरित्याह बलवदनिष्टाजनकचिकीर्षा-
धीनत्वमिति । बलवदनिष्टाजनकत्वस्य पूर्वं कृतिविशेषणतयोक्तस्यायमुपसंहारो, न तु
पक्षान्तरमिति ध्येयम् । केचित्तु बलवदनिष्टाजनकचिकीर्षाजन्यचिकीर्षाधीनत्वमिति पाठः ।
तत्र बलवदनिष्टजनिका या चिकीर्षा तज्जनकं यच्चिकीर्षाधीनत्वमुक्तं रूपन्तदेव विशेषणमिति
योजनया पूर्वोक्त एवार्थः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्व-
मित्यत आह जीवनयोनिकृतीति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं बलवदनिष्टा-
जनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजनव्यावृत्तये तदप्यावश्यकमिति भावः । भोगेति । तस्य
स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुतः कृतिसाध्यमिति । यदा कदापीति शेषः ।
कृतिसाध्यतोत्तीर्णेतीति । सिद्धत्वज्ञानादित्यर्थः । अन्यथा साधनत्वस्यैव अप्रहादित्यर्थः ।
मकरन्दः ।
यद्यपि बलवदनिष्टाजनकत्वं कृतौ विशेषणीकृतं प्राक् , तथापि चिकीर्षाविशेषणत्वेऽपि न दोष
इत्याशयवानाह बलवदनिष्टाजनकचिकीर्षाधीनत्वमिति । वस्तुतो बलवदनिष्टाजनकत्वे सति
चिकीर्षाधीनत्वमित्यर्थः, तथा च न पूर्वविरोधः । क्वचित्तु बलवदनिष्टाजनकचिकीर्षाजन्ययत्नचिकीर्षा-
धीनत्वमिति पाठः । तत्र बलवदनिष्टाजनकचिकीर्षाजन्ययत्ने यच्चिकीर्षाधीनत्वमुक्तं रूपं, तदेव विशेष-
णमिति योजनया तादृशार्थलाभ इत्याहुः ।
ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्वमत आह जीवनयोनिजेति ।
यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं न तु बलवदनिष्टाजनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजन-
व्यावृत्त्यर्थं तदावश्यकमिति भावः ।
भोगेतीति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुत इति—यदा कदा-
पीत्यर्थः ।
कृतिसाध्यतोत्तीर्णेति । सिद्धत्वज्ञानादित्यर्थः, अन्यथा साधनत्वस्यैवाप्रहादिति भावः ।
शेषं शब्दप्रकाशे प्रपञ्चितमनुसन्धेयम् ।
अत एवेदं मत्तोऽभूतमित्यत्राकारप्रश्लेषः, अभवनस्य प्रागभावरूपत्वादित्यर्थः । अत एव क्वचित्
मत्तो न भूतमित्येव पाठः ।