न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 587, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरसाधनम् । ५५५
अस्तु तर्हि करणधर्म्मः । न । करणं हि शब्दः, तद्धर्मोऽभिधा वा स्यात्,
तदर्थो भावनादिर्वा, तद्धर्म्म इष्टसाधनता वा ? न प्रथमः,-
असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी ।
बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥ १३ ॥
सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात् । अन्यसमवेतस्यापूर्ववदन्य-
व्यापारत्वेनाप्युपपत्तेः । विषयतयाऽपि च स्वव्यापारं प्रति लिङ्गवद्धेतुभावाविरो-
प्रकाशः ।
पराभिमतशब्दधर्मस्वरूपामिधायां मानाभावादित्याह असत्त्वादिति । तत्सत्त्वेऽपि पदान्त-
रेण तदुपस्थितौ ततोऽपि न प्रवृत्तिरित्याह अप्रवृत्तेश्चेति । सर्वत्रान्यत्र पक्षेषु बाधक सत्त्वात्
परिशेषेणामिधा लिङर्थ इत्यपि नास्ति, तत्रापि बाधक सत्त्वादित्याह बाधकस्येति ।
ननु शब्दस्य वाक्यार्थधीकारणत्वात् तस्य व्यापारेण भाव्यमवश्यमित्यभिधैव तद्व्यापारः ।
किञ्च पदानां प्रत्येक मर्थज्ञानाजनकत्वादामुविनाशितया च तन्मेलकस्याभावादर्थज्ञा-
नानुषपत्त्या अभिधा कल्प्यते इत्यत आह सङ्गतीति । सङ्गतिस्मृतिरेव पदस्यावान्तर-
व्यापारः, एकस्मृतिविषयानुपूर्वीविशेषविशिष्टपदमालैव पदार्थस्मृतिव्यापारा वाक्यार्थधीकरणमिति
न तत्र मानमित्यर्थः ।
ननु सङ्गतिस्मृतिर्न शब्दव्यापारः, व्यापारिणं विहायान्यत्रात्मनि तत्समवायात्, ततो यः शब्द-
सम्बन्धस्तद्व्यापारः साऽभिधा स्यादित्यत आह अन्येष्विति । यथाऽऽत्मसमवेतमपूर्वं यागादेः करणस्य
व्यापारः, तथा सङ्गतिस्मृतिरपि तादृशी शब्दव्यापार इत्यर्थः । अतएव-यद्व्यापारे कर्तृ तदेव
करणं, यथा पाककरणानि काष्ठानि ज्वलनावान्तरव्यापारकर्तॄणि, न च स्वविषयज्ञाने शब्दः कर्त्ता
किन्तु कर्म-इत्यपास्तम् । कर्तृपदस्य मुख्यार्थतायामचेतनस्य व्यापारासम्भवात्, हेतुमात्रविवक्षायाञ्च
प्रकृतेऽप्यदोषादिति भावः ।
ननु व्यापारी व्यापारकारणं भवति, न च सङ्गतिस्मृतौ पदं कारणम्, अतः शब्दजन्याभिधा
मन्तव्येत्यत आह विषयतयाऽपीति । यथा लिङ्गस्य स्वविषयपरामर्शे विषयतया हेतुत्वं, तथा
शब्दस्यापि सङ्गतिस्मृतावित्यर्थः । अस्मन्मते स्मृतेर्विषयजन्यत्वेऽपि परसतेनेदमुक्तम् । अस्तु वा
प्रकाशिका ।
स्वविषयज्ञान इति । सङ्गृहीतग्रहरूपे शब्दव्यापारतयाभिमत्यर्थः । प्रकृतेऽप्य-
दोषादिति । विषयतया कथञ्चिल्लिङ्गवद्धेतुत्वादिति मूले एवोक्तत्वादिति भावः । तदेव
दर्शयितुं शङ्कते नन्विति । पुरुषार्थसुखादिप्रतिसन्धानस्यैव प्रवर्त्तकत्वादिति भावः ।
मकरन्दः ।
स्वविषयज्ञाने-सङ्गतिग्रहरूपशब्दव्यापारतया अभिहिते इत्यर्थः । प्रकृतेऽपीति । विषयतया
कथञ्चित् लिङ्गवद्धेतुत्वादिति मूल एवोक्तत्वादित्यर्थः । तदेव दर्शयितुं शङ्कते नन्विति ।
टिप्पणी ।
अनिष्ठसाधनताज्ञानकालेऽपि कार्यताज्ञानसंभवात् प्रवृत्त्यापत्तेरित्यर्थः । लिङादिशब्दात्मककरण-
वृत्तिधर्मरूपा याऽभिधा तज्ज्ञानं प्रवर्त्तकमिति, लिङार्थो यो भावनादिः स एव करणं तद्धर्मस्येष्ट-
साधनत्वस्य ज्ञानं प्रवर्त्तकमिति वा विकल्प्य दूषयति करणं हीति । गरीयसी लिङर्थता उचिता ।
नन्वन्यस्य बाघात् लिङर्थत्वं परित्यक्तं ततः परिशेषात् भावनेवास्तु लिङर्थ इत्यत आह
बाधकस्येत्यादि । इच्छादेर्लिङर्थत्वे यथा बाधकमूक्तं तथाऽत्रापि समानमित्यर्थः ।