न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 513, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तबके ] ईश्वरसिद्धिः । ४८१
प्रकाशः।
जन्यत्वदर्शनादीश्वरेऽनुमितिः सिद्ध्येत् । यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे,
तथाऽनुमितेर्लिङ्गजन्यत्वेऽपि नित्यैव सा तत्र स्यात् । द्वेषयोनिकृतिसाध्ये चिकीर्षाविरहाद्व्यभिचारश्च ।
तद्दृष्टान्तेन क्षित्यादौ द्वेषसाध्यत्वानुमानादीश्वरे द्वेषोऽपि सिद्ध्येत् । द्वेषवत्त्वश्च संसारित्वे भगद-
तोऽपि(२) तथा स्यात् । कथं वा उपादानगोचरा चिकीर्षा, असिद्धत्वात् ।
किञ्च कार्यत्वं न योगोपस्थितकृत्यर्हत्वम् , असिद्धेः । नापि कदाचित्कत्वं, प्रागभावे व्यभि-
चारात् । नापि प्रागभावप्रतियोगित्वं, ध्वंसे व्यभिचारात् । न च सत्त्वेन हेतुविशेषणम् । सत्ताजातेः
परं प्रत्यसिद्धेः, स्वरूपसत्त्वस्य ध्वंसेऽपि सत्त्वात् । नापि पूर्वकालसम्बन्धित्वत्वे सत्युत्तरकाल-
सम्बन्धः, सकलपूर्वकालस्याप्रसिद्धेः, तत्तत्पूर्वकालस्य चाननुगमात् ॥
घटादिरपि दृष्टान्तः साध्यविकलः , अन्वयव्यतिरेकाभ्यां ज्ञानादेव जनकत्या तदाश्रयस्या-
जनकत्वात् , धर्मिप्राहकस्यान्वयव्यतिरेकस्य वा तद्ग्राहकस्यानुकूलाभावात् । न च ज्ञानवत्कार्यत्वेनात्म-
जन्यत्वमनुमेयम् , आत्मसमवेतत्वस्यैवोपाधित्वात्, अन्यथ। शब्दवदाकाशजन्यत्वानुमानापत्तेः ।
एतेन-सर्गाद्यकालीनद्व्यणुकं ज्ञानेच्छाकृतिसमानकालीनसामग्रीजन्यं, कार्यत्वात् , अदृष्टसामग्री-
प्रकाशिका।
रागवत इति । चिकीर्षावत इत्यर्थः । कचित्तु भगवत इति पाठः । तत्र च द्वेषवत्त्वे इष्टा-
पत्तौ संसारित्वं मिथ्याज्ञानलक्षणं प्रसज्येत भगवत इत्यर्थः । यद्वा द्वेषवत्त्वे संसारित्वं नोपाधिः,
तस्याव्याप्यत्वादित्यर्थः । आत्मसमवेतत्वस्येति । आत्मवृत्तित्वस्येत्यर्थः । तेन न सुखादिध्वंसे
साध्याव्यापकत्वम् । नन्वदृष्टद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टसामग्रीजन्यत्वेनार्थान्तरमत आह
अदृष्टेति । नचाधिकस्यादृष्टस्यैव कारणतया न तदापत्तिरिति वाच्यम्, तथा सत्यदृष्टसामग्र्यामधिका-
नुप्रवेशेन जायमानस्य द्व्यणुकस्यादृष्टविशेषत्वापत्तेः, वृक्षसामग्र्यामधिकानुप्रवेशेन जायमानायाः
शिंशपाया वृक्षविशेषत्ववत् लाघवेनादृष्टसामग्रीजन्यत्वस्यैवादृष्टत्वनियामकत्वाच्च , तथा चादृष्ट-
मकरन्दः।
रागवत इति चिकीर्षावत इत्यर्थः ।
ननु ज्ञानेच्छाकृतिसमानकालीनसर्गान्तरीयादृष्टजनकसामग्र्याैवादृष्टद्वारा द्व्यणुकजनकतायाऽर्था-
न्तरमत आह अदृष्टसामग्रीजन्यत्वे चेति । न चादृष्टमधिकं कारणमिति न तदापत्तिरिति
वाच्यम् । तथात्वे क्षित्यादेरदृष्टविशेषत्वापत्तेः, यथा शिंशपावृक्षविशेष इत्याशयात् , लाघवाददृष्ट-
सामग्रीजन्यत्वस्यैवादृष्टत्वप्रयोजकत्वाच्च, तथा चादृष्टसामग्री अदृष्टप्रागभावादिघटिता नान्यत्र
जनिकेति भावः ।
टिप्पणी ।
न योगोपस्थितेति । अन्वयगृहीतेत्यर्थः । अवयवव्युत्पस्थितस्य वा । असिद्धेरिति ।
पक्ष इति शेषः । कालस्याप्रसिद्धेरिति । असम्बन्धित्वस्येत्यादि । न च ज्ञानवत्कार्य-
त्त्वेनेति । ज्ञानवत्कृतिसाधनत्वेन । ननु दृष्टान्तद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टोत्पाद-
कंसामग्रीजन्यत्वमादायार्थान्तरमाह अदृष्टेति । अदृष्टद्वारेकेति । वीणादिगोचरकृतिजन्ये शब्दे
संग्राद्ये वीणाया अपि स्वकीय रूपाद्युपादानतया तद्गोचरकृतिजन्यत्वात् पक्षतावच्छेदकस्त्वं स्यादिति
स्वोपादानेति वाच्यम्, तथा सति पृथिव्याद्युपादानगोचरकृतौ जन्यत्वाभावादप्रसिद्धिरिति स्वोपादान-
गोचरकृतिजन्यं यत्तद्भिन्नत्वं विवक्षणीयम्, तत्र चैहिकपुष्टशरीरकामनाकृतप्रयागस्नानजन्यपुष्ट-
शरीरस्येश्वरकर्तृकस्य प्रयागस्नानानुकूलशरीरावयवगोचरकृतिजन्यत्वात् तत्संग्रहो न स्यादित्यदृष्टा-
( २ ) रागवत इति प्रकाशिकामिमतोऽत्र पाठो द्रष्टव्यः ।
६१ न्या० कु०