न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 511, कुल 608 में से
संदर्भ में पढ़ेंश्रीगणेशाय नमः ॥
न्यायकुसुमाञ्जलौ
पञ्चमः स्तबकः ।
तत्साधकप्रमाणाभावादिति पञ्चमीं विप्रतिपत्तिं निराकर्त्तुमुपन्यस्यति—
नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति
चेत् । न ह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति । तथाहि—
कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ॥
वाक्यात् संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ॥ १ ॥
क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति ॥ १ ॥
प्रकाशः ।
नन्विति ॥ सर्वमिति ॥ प्रागुक्तान्यथासिद्ध्यादिनिरासरूपमित्यर्थः ॥ स्थाणोरीश्वरस्य,
अर्थं च दारुविशेषस्य ॥ अन्धस्तत्र प्रमाणाऽदर्शी, चक्षुर्हीनश्च । कारिकायां संगृहीतं कार्यत्वं हेतुं
विवृणोति । क्षित्यादीति ॥
नन्वत्र प्रत्येकं क्षित्यादि न पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात् । नापि मिलितम् ,
एकरूपाभावात् । न च शरीरीजन्यं जन्यं पक्षः । वेदाद्यव्याप्तेः, अदृष्टद्वारा शरीरिणोऽपि क्षित्या-
दिकर्तृत्वात् । नाप्यदृष्टजनककृत्यजन्यं जन्यम् , ईश्वरकृतेरदृष्टजनकत्वेन क्षितौ तदभावात् । नापि
प्रकाशिका ।
कार्येत्यादिमूलं तदर्थश्च कार्यपदम् भावपरं तेन क्षितिः सकर्तृका कार्यत्वादित्यनुमानमुक्तम् ।
आयूज्यते संयुज्यते ऽनेनेत्यायोजनं = परमाणुकर्म । अत्रापि भावपरतया परमाणुकर्म प्रयत्नजन्यं
कर्मत्वादित्यनुमानमुक्तम् । धृतिपदमपि भावपरं, तेन ब्रह्माण्डधृतिः प्रयत्नवत्संयोगसाध्या धृति-
त्वादित्यनुमानमुक्तम् । आदिपदेन च संहरणं विवक्षितम् , तथा च ब्रह्माण्डादि प्रयत्नविनाश्यं
संहारात् = संहारप्रतियोगित्वादित्यनुमानमुक्तम् । पदं = वृद्धव्यवहारः, पद्यते गम्यतेऽर्थोऽनेनेति व्युत्प-
त्तेतदपि भावपरम् , तथा च घटादिव्यवहारो स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वादित्यनुमानमुक्तम् ।
प्रत्ययशब्देन प्रामाण्यं विवक्षितम्, तथा च प्रमा गुणजन्या प्रामाण्यादिनुमानमुक्तम् । श्रुतेरिति भाव-
परं, तथा च वेदाः सर्वज्ञप्रणीताः श्रुतित्वादित्यनुमानमुक्तम् । वाक्यपदमपि भावपरं, तेन वेदाः
पौरुषेयो वाक्यत्वाद् भारतवदित्यनुमानमुक्तम् । संख्यापदमपि परमाणुद्वयणुकवृत्तिद्वित्वत्रित्वपरं
भावपरमेवं, तेन परमाणुद्वित्वं द्वयणुकत्रित्वं वा अपेक्षाबुद्धिजम् अनेकवृत्तिसंख्यात्वादित्यनुमान-
मुक्तमिति ।
यद्वा कार्यपदं तात्पर्यपरम् , तथा च वेदप्रामाण्यसम्पादकतात्पर्याधारतया परमेश्वरसिद्धिः ।
आयोजनं = व्याख्यानम् , तथा च वेदव्याख्यातुतया भगवतः सिद्धिः । धृतिरवधारणम् , तथा
चार्थोवधारकोऽपि वेदस्य परमेश्वर एव । आदिपदग्राह्यमध्ययनम् , तथा चाध्येतापि वेदस्य प्रथम-
मीश्वर एव । पदमीश्वरप्रणवादिपदम् , तद्वाच्यतयापि परमेश्वरसिद्धिः । प्रत्ययपदं लिङ्प्रत्ययपरम्,
तथा च लिङभिधेयाप्ताभिप्रायाधिकरणतया परमेश्वरसिद्धिः । श्रुतेर्वेदादेव शब्दविधया परमेश्वर-
टिप्पणी ।
वेदाद्यव्याप्तेरिति । पक्षतावच्छेदकेन तस्यासङ्ग्रहात् । क्षित्यादिकर्तृत्वाच्चेति । ईश्वर-