न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 51, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] ईशवरनिरूपणाक्षेपसमाधानम् । २१
प्रकाशः ।
ग्रन्थस्य परार्थानुमानरूपत्वाच्च । यथा अग्निहोत्रं जुहोति, यवागूं पचतीत्यत्राऽर्थेन क्रमेण
शाब्दः क्रमो लङ्घ्यते, तथा "श्रोतव्यो मन्तव्य" इत्यत्रापि मननानन्तरं श्रवणे श्रुतेस्तात्पर्य्यमिति
चेद् । न । दृष्टान्ते, होमे द्रव्यान्तरसाधनत्वं यवागूपाकस्यादृष्टार्थत्वञ्च कल्प्यमिति गौरवात्तथाऽस्तु,
प्रकृते त्वनुपपत्त्यभावः , श्रवणानन्तरं मननस्यान्वयोपपाद्यत्वात् , श्रवणानन्तरागतेति ग्रन्थ
विरोधाच्च । "श्रोतव्यः श्रुतिवाक्येभ्य" इति बहुवचनं, कपिञ्जलानालभतेतिवत् त्रित्वपरम्, अतो
रूपान्तरेण मननमविरुद्धमिति चेन्न । "श्रोतव्यो मन्तव्य" इति सामानाधिकरण्यश्रुतेर्लाघवाच्च येनैव
प्रकाशिका ।
सिद्धसाधनं दोष इति ब्रूयात्तन्नाह-ग्रन्थस्येति । शाब्दत्वं पाठिकत्वं न तु शब्दप्रतिपाद्यत्वं "अध्व-
र्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति" इतिवत्तादृशशब्दाभावात् । ननु श्रवणानन्तरं मननासम्भव
एवानुपपत्तिरत आह । श्रवणानन्तरमिति । अन्यथेति । सिषाधयिषयेत्यर्थः । नन्वेवं सिद्धसाध-
नात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह-श्रवणेति । कपिञ्जलानालभतेतीति ।
यावत्कपिञ्जलानामालम्भनाशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघवाद्वहुवचनं तत्र यथा त्रित्व-
परं तथात्रापीत्यर्थः । धर्मिमात्रमादाय सामानाधिकरण्यं स्यादत आह । लाघवाच्चेति । मननस्य
प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवान्वयात् , अन्यथाऽनुपस्थितकल्पनागौरवादिति भावः ।
ननु सिद्धसाधनभिया प्रामाणिकं गौरवादर्तव्यं रूपान्तरेण मननसम्भवादित्यत आह ।
मकरन्दः ।
भयत्र तुल्यत्वादित्यर्थः । ननु नोक्तरीत्या सिद्धसाधनस्य दोषत्वं, किन्त्वर्थान्तरतया , तच्च
शब्ददोषतया स्वार्थानुमाने न दोष इति यदि ब्रूयात् तत्राह । ग्रन्थस्येति । क्रमे शाब्दत्वं,
पाठिकत्वं न तु शब्दप्रतिपाद्यत्वम् , क्रमप्रतिपादकाभावात् । ननु सिद्धसाधनान्मननानुपपत्तिरेवे-
त्यत आह । श्रवणेति । अन्यथेति । सिषाधयिषयेत्यर्थः । ननु सिद्धसाधनात् कथमनुमि-
तिरिति स्वपक्षः साधु समर्थित इत्यरुचेराह । श्रवणेति । कपिञ्जलेति । यावत्परत्वासम्भवेन
कतिपयपरतया बहुवचनस्य प्रथमोपस्थितत्रित्वपरत्वं यथा, तथा प्रकृतेऽपीत्यर्थः । धर्मिमात्रवि-
षतयापि सामानाधिकरण्यसम्भव इत्यरुचेराह । लाघवाच्चेति । श्रवणप्रकारस्योपस्थितत्वे-
नानुत्थितप्रकारकत्पनायां गौरवमिति भावः । ननु सिद्धसाधनादेव प्रामाणिकं गौरवं न्याय्य-
टिप्पणी ।
घटकत्वेन दूषकत्व उभयत्राप्यविशेषाद्विनिगमकाभावादित्यर्थः । ननु पक्षताया अनुमितौ स्वार्थे हे-
तुतायाम्मानाभावः यावत्परामर्षमनुमितिर्जायत एवेत्युद्धतं प्रत्याह । ग्रन्थस्य परार्थानुमाने-
ति । तस्य समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यत्वेन परार्थानुमानत्वं, परार्थानुमाने चावश्यं सिद्ध-
साधनं दोषः, सन्दिग्ध एव हेत्वादेराकाङ्क्षितत्वादिति भावः । श्रवणानन्तरं मननस्यान्थेति ।
सिषाधयिषयेत्यर्थः । अन्यथोपपाद्यत्वादिति । तथा चोक्तकल्पनासम्भवादिति शेषः। ननु
सिद्धसाधनात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह । श्रवणानन्तरागतेति । कपि-
ञ्जलानालभतेतिवदिति । यथा यावदालम्भस्याशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघ-
वाद्बहुवचनस्य त्रित्वपरत्वन्तथेत्यर्थः । ननु धर्म्मिमात्रमादाय सामानाधिकरण्यं स्यादित्यत आह ।
लाघवाच्च । येनैव रूपेण श्रवणमिति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवा-
न्वयात् , अन्यथानुपस्थितकल्पने गौरवादिति भावः । ननु सिद्धसाधनभिया गौरवं प्रामाणिकमिति