सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 50, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 50

२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
“श्रोतव्यो मन्तव्यः" इति श्रुतेः ,
आगमेनानुमानेन ध्यानभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥
इति स्मृतेश्च ॥ ३ ॥
बोधनी ।
प्रज्ञा=साक्षात्कारः, योगं=योगफलं निःश्रेयसमिति ॥ ३ ॥
प्रकाशः ।
उपयोग उक्तः । उत्तमो योगः = आत्मतत्त्वसाक्षात्कारः ॥ ३ ॥
ननु भगवति सन्देहाभावेन सिद्धसाधनात् कथमनुमितिः ? । सिद्धसाधनं हि
स्वार्थानुमाने न दोषः प्रमाणसंप्लवस्य संस्थापनादिति चेद् । न । विनिगमकाभावात् ,
प्रकाशिका ।
ऽपि, अन्यथाऽदृष्टमेव तत्रापि द्वारमिति किमिति पाठिकक्रमत्यागः । एवं च स्त्रीशूद्रादीनामपि
पुराणादिना श्रवणे मोक्षाधिकार इति वदन्ति । तच्चिन्त्यम् । (१)अदृष्टकल्पनाभिया श्रुतार्थपरित्यागे
रथकारशब्देऽपि लक्षणापत्तेः । 'द्रष्टव्य' इत्यादौ तु क्रमत्यागमात्रं, तत्त्यागद्वारा श्रुतार्थपरित्यागः
(१)अदृष्टकल्पनाभियाऽसिद्ध एव, “अग्निहोत्रं जुहोति” यवागूं पचतीत्यादावाद्यप्रतिपत्तिरूपद्वारवति
उत्तरोत्तरप्रतिपत्तिर्द्वारमित्यदृष्टद्वारकत्वेऽपि विशेषणज्ञानत्वेन द्वारत्वायुुक्तमिति । अत एव त्रिसूत्री
टीका ‘तपःप्रभाव एव हि तादृशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त” इति । अन्यथा
शूद्रादीनामप्यधिकारे तदुपदेशेन पापाननुत्पत्या तद्विरुद्धेतेति । निबन्धेऽप्येवमेवेति । योगो निदिध्या-
सनमेवेत्यन्वय इत्यत आह । आत्मतत्त्वसाक्षात्कार इति ॥ ३ ॥
विनिगमकेति । सिद्धेः पक्षताविघटकतया दूषणत्वस्योभयत्राविशेषादित्यर्थः । ननु सिद्धेर-
नुमितिप्रतिबन्धकत्वे मानाभावः, यावत् परामर्शमनुमित्यविरोधादिति परार्थानुमान एवार्थान्तरतया
मकरन्दः ।
पूर्वप्रतिपत्तौ हि उत्तरोत्तरप्रतिपत्तिद्वारकता । सा च श्रुतिमात्रजनितश्रवणसाध्यतायां नियमापूर्व-
कल्पनया भज्येत । द्रष्टव्य इति अदृष्टद्वारकत्वाभयेन पाठिकक्रमोल्लङ्घनमपि नोचितं तस्य स्या-
दिति पुराणस्मृत्यादिना श्रुते मननादभिमतसिद्धिर्भवत्येवेत्याहुः । ननु योगो निदिध्यासनमेवेत्य-
न्वय इत्यत आह । उत्तम इति ॥ ३ ॥
विनिगमकेति । सिद्धयभावरूपायाः पक्षताया अनुमितिहेतुत्वे तदभावादनुमित्यभावस्यो
टिप्पणी ।
“श्रोतव्यः श्रुतिवाक्येभ्य” इत्यादिनियमविध्यवष्टम्भेन, अन्यथा स्मृतेरपि श्रवणे प्रतिपत्तेरविशेषात्
तस्या अपि प्रामाण्याच्च श्रुतिमूलकत्वादित्युपादानमफलं स्यात् , तथापि मुख्यतया श्रुतिवा-
क्येभ्य एवायं श्रोतव्यः । अवबोधदार्ढ्यार्थं श्रुतिमूलायाः स्मृतेरपीति भावः ॥ ३ ॥
नन्वित्यादिग्रन्थे शङ्कते सिद्धसाधनं हीत्यादि । ननु सिद्धसाधनस्यादोषत्वात्
ज्ञानधाराप्रसङ्ग इत्यत आह--प्रमाणसंप्लवेत्यादि । यावत् प्रमाणं प्रत्यक्षस्थल
इवात्रानुमानस्थलेऽपि ज्ञानाधारा सम्पद्यत एव, प्रमाणसंप्लवकारणाभावान्नेष्यत इत्यर्थः । यद्वा
सिद्धसाधनस्यादोषत्वे ग्रन्थकारसम्मतिमाह । प्रमाणेति । संप्लवः = सङ्करः । व्यवस्था-
पनाद् भाष्यकारेणेति शेषः । इति चेन्न विनिगमकाभावादिति । सिद्धेः पक्षतावि-
( १ ) अक्लृप्तेत्यादर्शपुस्तके पाठः ।