सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 47, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 47

प्रथमस्तबके ] ईश्वरे संशयाभावेन तन्निरूपणाक्षेपः । २७
वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, सर्वज्ञ इति
सौगताः, निरावरण इति दिगम्बराः, उपास्यत्वेन देशित(१) इति मीमांसकाः,
लोकव्यवहारसिद्ध इति चार्वाकाः, यावदुक्तोपपन्न इति नैयायिकाः, किं
बोधनी ।
व्याख्यास्यति। पितामहः = जगतामुत्पादकः । यज्ञपुरुषः = यज्ञाधिष्ठातृदेवता । सर्वज्ञः = क्षणिक-
सर्वज्ञः । निरावरणः = सर्वविषयकचैतन्याच्छादकत्वेन स्वकर्मार्जितं शरीरमावरणम् ; यद्वा
वस्त्रादिभिरिव शरीरं धर्माधर्माभ्यामाश्रियते पुरुष इति तावेवावरणं, तद्रहितः । उपास्यत्वेन
चोदितः चोदनासिद्धमुपास्यत्वं हविःप्रतियोगित्वं स्तुतिप्रतियोगित्वं चैव तस्य रूपं, न तु सर्ववित्त्वसर्व-
कर्तृत्वादिकमिति । लोकव्यवहारसिद्धः = राजादिर्दृश्यमानः, चतुर्भुजादिरूपा प्रतिमा वा । याव-
प्रकाशः ।
पितामहो = जनकस्यापि जनकः । यज्ञे प्रधानमिज्यं यज्ञपुरुषः । सर्वज्ञः = क्षणिकसर्वज्ञः ।
निरावरण इति । आवरणमदृष्टमविद्या स्वकर्मोपार्जितञ्च शरीरमस्य नास्तीत्यर्थः । उपास्य-
त्वेनेति । वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरित्यर्थः । लोकेति । यथा लोके व्यवह्रियते
चतुर्भुजाद्युपेतदेहवान्, नत्वदृश्य इत्यर्थः । यावदुक्तेति । यावदुक्तेषु यदुपपन्नं युक्तिमत्
सर्वज्ञत्वादि, तेनोपपन्नः सम्पन्न इति मध्यपदलोपी समासस्तत्पुरुषः । यावदुक्तेषु उपपन्नः
प्रमाणिको धर्मो यस्येति बहुव्रीहिर्वा । न तु यावद्भिरुक्तैरुपपन्नः सहित इत्यर्थः , अद्वैता-
थनङ्गीकारेण यावद्यथाव्याख्याताथैस्य नैयायिकैरनङ्गीकारात् ।
यद्वा सन्देह एव कुत इत्युपसंहारात् सर्वाण्येव दर्शनान्येकार्थपरतया व्याख्यायन्ते ।
शुद्धधो = दोषहीनः, बुद्धधस्वभावो = घटादिभिन्नत्वे सत्यौपाधिकचैतन्यरहितः, आदौ =
प्रकाशिका ।
यतिस्मेति । पुरुषशब्दस्यार्थमात्रमतिप्रसक्तमत आह । प्रधानमिति । न्यायमतभेदाय व्याचष्टे ।
क्षणिकेति । एकार्थपरतयेति । अविरुद्धार्थतयेत्यर्थः । घटादीति । औपाधिकं चैतन्य-
मकरन्दः ।
इज्यत्वमात्रमतिप्रसक्तमत आह । प्रधानमिति । न्यायमतसाधारण्यमपाकरोति । क्षणि-
केति । एकार्थेति । अविरुद्धार्थेत्यर्थः । घटाद्वाविति । औपाधिकं चैतन्यमन्यत्रोपाधिभूतं
चैतन्यं घटादिभिन्नत्वसमानाधिकर णौपाधिकचैतन्यशून्यत्वमित्यर्थः, तथा च परमते विशेषणा-
भावात्, स्वमते च विशेष्याभावाद् विशिष्टाभावोऽविशिष्ट इति भावः । मिश्रास्तु औपाधिकं
चैतन्यं जन्यचैतन्यम् , एवं च विशिष्टाभावस्तन्मत उभयाभावादस्मन्मते च विशेष्याभावादिति
टिप्पणी ।
ऽसङ्गतिरत आह-प्रधानमिज्यं यज्ञपुरुष इति । न्यायमतभेदायाह । क्षणिकसर्वज्ञ
इति । वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरिति । तन्मते मन्त्रादिभिन्नाया इन्द्रा-
दिदेवताया अस्वीकारात् , यत इन्द्रोऽपीन्द्राय स्वाहेत्यादिना इन्द्रमुद्दिश्य यजते, स्वमुद्दिश्य
स्वकर्तृकत्यागासम्भवात् , इन्द्रान्तरस्वीकारेऽनवस्थानादतो मन्त्र एवोपासितः स्वरूपविशेष-
परिणतः फलाय कल्पत इत्यादि तेषाममतमिति । बुद्धस्वभावो घटादिभिन्नत्वे सत्यौपा-
धिकचैतन्यरहित इति । अन्यत्रोपाधिभूतचैतन्यात्मकत्वमौपाधिकचैतन्यं घटादिभिन्नत्वञ्च
विशेषणम् । तेन परमते घटादिभिन्नत्वे द्वैतापत्त्या विशेष्यवति तन्न; विशिष्टाभावो विशेषणा-
( १ ) उपास्यत्वेन नोदित इति मुद्रितबोधन्युद्धृतः पाठः ।
३ न्या० कु०