न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 45, कुल 608 में से
संदर्भ में पढ़ेंनिर्म्माणकायमधिप्राय (१)सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः, लोकवेद-
बोधनी ।
तत्साधनविषयौ प्रसिद्धौ । प्राप्तेश्वर्यभङ्गभीतिरभिनिवेशः । धर्माधर्मसाधनमश्वमेधादिब्रह्महत्यादि
कर्म । जात्यायुर्भोगा विपाकाः । तत्र जातिर्देवत्वमनुष्यत्वादिः। प्राणाख्यस्य वायोः कायावच्छिन्नः
सम्बन्ध आयुः । स्वसमवेतसुखदुःखान्यतरसाक्षात्कारो भोगः । आफलनिष्पत्तेरात्मनि शेत
इत्याशयो धर्माधर्मरूपमपूर्वम् । एतैरपरामृष्टः सर्वदा सर्वथाऽसंसृष्टः । कथं तर्हि
कर्माद्यभावे शरीरसम्बन्धः, कथं वा तदभावे सम्प्रदायप्रवर्त्तकत्वं, कथं वानुग्राहकत्वमित्यत
उक्तं—निर्माण इति । जगन्निर्माणार्थं स्वेच्छामात्रनिर्मितानि संसारिचेतनवर्गनिर्मितानि वा
शरीराणि व्युत्पाद्यव्युत्पादकभावेनाधितिष्ठति । सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो =
वेदो घटपटव्यवहारश्च, तत्प्रवर्त्तको वक्ता प्रवक्ता च वेदे कर्त्ता ग्राहयिता चान्यत्र,
अनुग्राहकः = स्वर्गापवर्गादिफलप्रदानादिनेति । लोकवेदविरुद्धैः = चिताभस्मोद्धूलन
देवदारुवनद्विजवधूविप्लवादिभिरनुष्ठितैरलेपः लोकगर्ह्याऽधर्मेण रहितः । क्लेशसलिलाव-
सिक्तायामात्मभूमौ उप्तं कर्मबीजमधर्माङ्कुरमारभते, न च नित्यसर्वज्ञस्य क्लेशसम्भवः ।
प्रकाशः ।
र्भावनासाध्यं यागहिंसादि । विपाको=जात्यायुर्भोगाः । फलपर्य्यन्तमाशेरत इत्याशया = धर्मा-
धर्म्माः । तैरपरामृष्टोऽसम्बद्ध इत्यर्थः । शरीरैकनिष्पाद्यवेदादिनिर्म्माणार्थं कायो निर्माण-
कायः । सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो वेदः । स चानादिरेव भगवता द्योत्यते ।
भगवतश्चादृष्टाभावेऽपि तच्छरीरसाध्यघटादिजन्यभोगजनकास्मदाद्यदृष्टैरेव तन्निष्पाद्यते । अनु-
ग्राहको घटादिनिर्माणे शिक्षाद्वारेत्यर्थः । लोकेति । लोकविरुद्धैः = सर्पदहनधारणादिभिः, (२)
प्रकाशिका ।
येति । एकदण्डित्रिदण्डीत्यर्थः । यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदास्याङ्गीकारात् ।
तथाप्यभेदोऽपि तेन स्वीक्रियत एवेत्यभिप्रायेणेदमुक्तम् । बुद्धत्वमात्राभिप्रायेण वा साधारण्यमुक्तम्।
एतदुभयमिति क्वचित् पाठः । तत्र केवलोपनिषदुपजीवी औपनिषदशब्दार्थः, तन्मूलकवेदान्त-
सूत्रोपजीवी वेदान्तिपदार्थ इति बोध्यम्। लेपपदस्य पापपरतायां तृतीयायाः करणार्थत्वमसम्भवि
निर्लेपत्वप्रतियोगिनि लोकविरुद्धहेतुकस्यानन्वयादनुयोगिनि चोभयस्यैवानन्वयादित्यपलक्षणं
मकरन्दः ।
इत्यन्ये । वेदे नित्यपाल्यत्वमुच्चार्यत्वं, न तूह्याद्यत्वम् । स चेत्याद्यग्रिमग्रन्थानुरोधात् । ननु लेप
शब्दस्य पापपरत्वे तृतीयायाः करणार्थत्वमयुक्तम् । लोकविरुद्धहेतुकलेपस्याप्रसिद्धेरित्यत आह ।
टिप्पणी ।
एकदण्डित्रिदण्डिसाधारणम् । यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदाङ्गीकारात् , तथाप्य-
भेदोऽपि तेनाङ्गीक्रियत एवेत्यभिप्रायोक्तिः । जात्यायुर्भोगा इति । जातिः ब्राह्म-
ण्यादि । आयुः = श्वासप्रश्वासपरिच्छिन्नकालविशेषावधिकप्राणशरीरसंयोगः । भोगः =
सुखदुःखादिः । फलपर्य्यन्तमाशेरते इत्याशया धर्माधर्मा इति तैरपरामृष्टोऽसम्बद्ध इत्यर्थः ।
( १ ) सम्प्रदायप्रवर्तक इति वरदराजाभिमतः पाठः । ( २ ) सर्पदहनेत्यत्र द्वन्द्वः ।