न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 438, कुल 608 में से
संदर्भ में पढ़ें४०६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १५ कारिकान्याख्यायां
पादनं, वाक्यार्थस्यापूर्वत्वात् । नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्ष-
यात् । नापि सैव सङ्गतिरुभयं प्रतिपादिका, प्रतीतिक्रमानुपपत्तेः। यौगपद्याभ्युप-
गमे तु योग्यतादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवद् वाक्यार्थप्रत्ययप्रसङ्गात्।
नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्यार्थे तु पदार्थप्रतिपादनाऽवान्तरव्यापारेति
युक्तम् । तस्याः स्वयमकरणत्वात् । सङ्गतानि पदानि हि करणं, न तु सङ्गतिः।
तथापि तत्प्रतिपादनानुगुणसङ्गतिशालोनि पदानीति चेत्। न तावद्वाक्यार्थप्रतिपा-
दनानुगुणता सङ्गतेस्तदाश्रयत्वेन, सामान्यमात्रगोचरत्वात् तदन्मोगोचरत्वाद्
वा। नापि तदनुगुणव्यापारवत्त्वेन, अकरणत्वादित्युक्तम् । तदनुगुणकरणव्यापा-
रोत्थापकत्वासदनुगुणत्वे न नो विवादः।
अन्वित एव शक्तिरिति चेत् । उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुप-
पत्तेश्चेति । स्मृतक्रियान्विते कारके स्मृतकारकान्वितायाञ्च क्रियायां सङ्गतिरतो
प्रकाशः ।
प्रतीतिप्रयोजनकत्वस्याभिहितान्वयपक्षेऽप्युपगमादित्यर्थः । संगतिः-शक्तिग्रहः । सा किं प्रत्याय्ये
वाक्यार्थे पदार्थमात्रे वा ? । आद्ये, वाक्यार्थस्येति । उपस्थिते हि शक्तिग्रहः, न च शब्दानुभ-
वात् पूर्वं वाक्यार्थस्योपस्थितिरिति कुत्र शक्तिर्गृह्येतेत्यर्थः । अन्त्यमाशङ्क्य निराकरोति नापीति ।
पदार्थशक्त्या तन्मात्रमुपस्थापयेन्न त्वन्वितमित्यर्थः । न च स्वार्थसङ्गतिरेव स्वार्थतदन्वितयोः प्रति-
पादिकेत्याह नापीति । अपेक्षणीयाभावात् पदार्थस्मृतिकाल एवान्वितमपि प्रतिपादयेदित्यर्थः । न
चेष्टापत्तिः, पदार्थस्मृत्यनन्तरं तेषां योग्यतादिज्ञानापेक्षयाऽन्वितानुभवोत्पादात्; तदनपेक्षायाञ्चाति-
प्रसङ्गादित्याह यौगपद्येति । ननु पदार्थे सङ्गतिरन्वितज्ञाने कर्तव्ये पदार्थस्मृतिमपेक्षत इति क्रमः
स्यादित्याह नापीति । तस्य इति। करणानामवान्तरव्यापारयोगः । न च सङ्गतिः करणं, किन्तु
पदानि, तेषामन्वयानुविधानादित्यर्थः । तथापीति । करणमित्यनुषज्ज्यते । तथा च सङ्गतेः
करणकोटावन्तर्भाव इति तस्या अवान्तरव्यापारयोग इति भावः। सङ्गेतेर्वाक्यार्थज्ञानानुकूलत्वं
साक्षाद्वाक्यार्थधीजनकत्वं, वाक्यार्थज्ञानानुकूलव्यापारवत्त्वं, तदनुकूलपदार्थस्मृतिहेतुत्वं वा ? तत्र
नाद्य इत्याह न तावदिति । अस्य पदस्येदं वाच्यमिति पदार्थाश्रयत्वेन सङ्गतेर्ग्रहान्न वाक्यार्था-
श्रयत्वमित्यर्थः । न चान्याश्रया सङ्गतिरन्यद् बोधयत्यतिप्रसङ्गादिति भावः । सामान्यतदन्मात्रेति
मतभेदेन द्रष्टव्यम् । द्वितीयमाशङ्क्य निराकरोति नापीति । विशिष्टस्य करणत्वेऽपि विशेषण-
मात्रस्यातत्त्वादिति भावः । अन्त्ये तु विवादपर्यवसानमित्याह तदनुगुणेति ।
ननु वृद्धव्यवहारादन्वित एव पदानां शक्तिरित्याशङ्क्योक्तयुक्त्या निराकरोति अन्वित एवेति ।
नन्वन्वयविशेषे न शक्तिर्येनोक्तदोषः स्यात्, किन्तु क्रियाकारकयोरन्योन्याविनाभावादन्वयसामा-
न्यम् उपस्थितमिति तत्रैव शक्तिग्रह इत्याह स्मृतेति । क्रियाकारकान्वयविशेषस्य च वाक्यार्थत्वान्न
तदपूर्वत्वभङ्ग इत्यर्थः । नन्वेवं क्रियाकारकपदयोः पर्यायताऽऽपत्तिः ताभ्यां कारकक्रिययोरुपस्थ्या-
प्रकाशिका ।
विशिष्टस्येति । विशिष्टस्यापीत्यर्थः । तथा चाभ्युपगमवादोऽयमिति ध्येयम् ।
मकरन्दः ।
विशिष्टस्येति । विशिष्टस्यापीत्यर्थः । तथा चाभ्युपगमवादोऽयमिति भावः ।
टिप्पणी ।
धानद्वारेति । अन्वितत्वं विशेषणं तेन तत्र शक्तिस्वीकारेऽपि न क्षतिः । पदार्थाश्रयत्वेन