सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 433, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 433

तृतीयस्तबके ] शब्दस्य बाधकत्वखण्डनम् । ४०१
प्राभाकरास्तु—लोकवेदसाधारणव्युत्पत्तिबलेनाऽन्विताभिधानं प्रसाध्य वेदस्या-
पौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमा-
स्थितवन्तः । लोके त्वनुमानत एव वस्तुज्ञानापसर्जनतया संसर्गस्य सिद्धेरन्विताभि-
धानवलायातेऽपि प्रतिपादकत्वेऽनुवादकतामात्रं वाक्यस्येति-निर्णीतवन्तः । तदति-
स्थवीयः —
निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये ॥
व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता ॥ १४ ॥
यावती हि वेदे सामग्री, तावत्येव लोकेऽपि भवन्ती कथमिव नार्थं गमयेत् ,
बोधनी ।
संप्रति ये वैदिकस्य पृथक्प्रमाणत्वमङ्गीकृत्य लौकिकस्यानुमानान्तर्भावमतिष्ठन्ते तेषां मतमुप-
न्यस्य निरस्यति प्राभाकरास्तु इति । स्थूलतामेवाह निर्णीतशक्तेरिति । लोकवेदसाधारणव्युत्प-
त्तिबलेन वाक्यार्थप्रतिपादने निर्णीतशक्तेर्वाक्यादेव वेदवल्लोकेऽपि वक्तृज्ञानानुमानात् प्रागेव वाक्यार्थ-
निर्णये जाते सति व्याप्तिस्मृतिसव्यपेक्षत्वेन विलम्बितप्रवृत्तेः वक्तृज्ञानस्यैवानुवादत्वं भवेन्न वाक्य-
स्येति व्याचष्टे यावती इति । आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थाभिधानशक्तिप्रतिसन्धानमेव हि
वेदवाक्यार्थप्रतिपादनसामग्री, सा च लौकिकानामप्यविशिष्टेति कथमिव तानि न वाक्यार्थं प्रतिपाद-
येयुः । वक्तृज्ञानलिङ्गे तु वाक्ये सति स्वार्थविषयज्ञानानुमानायार्थाभिधानशक्तिं तावत् प्रतिसंधाय
वाक्यस्य वक्तृज्ञानेन व्याप्तिरनुसंधातव्या । ततश्च विलम्बकारिणो लिङ्गस्य निर्णेतव्यं नावशिष्यते ।
यथाहुः 'अश्वैश्चपहृतं को हि गर्दभैः प्रार्थितुं क्षमः' इति । लोके वक्तुराप्तिनिश्चयः सामग्रीति वाच्यं
प्रकाशः ।
अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यता । प्रमेयमभिधेयमित्यत्र प्रमेयेनि
ष्ठात्यन्ताभावप्रतियोगिप्रम विशेष्यत्वं गोत्वे प्रसिद्धम्, अभिधेयत्वसंसर्गे च तदभावः । आसत्तिश्चा-
व्यवधानेनाऽन्वयप्रतियोगिस्मृतिरिति सङ्क्षेपः ॥ १३ ॥
प्रसङ्गसङ्गतेराह—प्राभाकरास्त्विति । लोकेति । य एव लौकिकास्त एव वैदिका इति
भावः । व्युत्पत्तिबलेनेति । व्यवहारेणैतरान्वितपदार्थज्ञानस्यैव स्वकारणस्यानुमितेरित्यर्थः ।
वेदे क्लृप्तसामग्रीतो लोकेऽपि संसर्गानुभवादन्यथा त्वनुवादकताऽपि न स्यादित्याह
निर्णीतेति । आकाङ्क्षादिमत्तया ज्ञानात् प्राग् लिङ्गज्ञानाभावात् तद्गत्या च ज्ञाने वेदतुल्यतयाऽ-
न्वयबोधे विलम्बाभावादन्यथा वैदिकवाक्यादपि स न स्यात् , तस्य लौकिकोपजीवकत्वादिति
प्रकाशिका।
लौकिकोपजीवकत्वादिति । लोकस्थस्य एव व्यवहारेण शक्तिग्रहादित्यर्थः । लौकिकतु
ल्यत्वात् य एव लौकिका इति न्यायादित्यर्थ इत्यन्ये ॥ १४ ॥
मकरन्दः ।
उपजीवकत्वात् तुल्यत्वात् । य एव लौकिकास्त एव वैदिका इत्याशयात् । लोके व्युत्पत्तिग्रहो
व्यवहारादिति तस्योपजीव्यत्वमित्यप्याहुः ॥ १४ ॥
टिप्पणी ।
परायोग्यत्वात् । प्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यतेति । न च योग्यताज्ञानकारण-
त्वमुक्त्वा पदार्थे तत्र तद्वत्स्वरूपाया योग्यताया एवास्तु ज्ञानकारणत्वं लाघवादिति वाच्यम् । अपूर्व-
वाक्यार्थस्थले तदसम्भवात् । नचानिश्चयेऽपि संशय एवास्तु कारणं, सर्वत्र तत्सामग्रीसम्पत्तौ माना-
भावातथात्वे च स्यादेव तस्याहेतुत्वंमुच्यते न तत् कैश्चिदिति ॥ १३-१४ ॥
५१ न्या० कु०