सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 418, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 418

३८६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां
लक्षणन्तत्त्वस्य - अनवगतसङ्गतिसंज्ञासमभिव्याहृतवाक्यार्थस्य संज्ञिन्यनुसन्धा-
नमुपमानम् । वाक्यार्थश्च क्वचित् साध्यर्म्यं क्वचिद्वैधर्म्यमतो नाव्यापकम्, तस्मान्नि-
यतविषयत्वादेव न तेन बाधो, न त्वनतिरेकादिति स्थितिः ॥ १२ ॥
बोधनी ।
एवमुपमानस्य प्रमाणान्तरेभ्यो विषयभेदाद् भेदं दर्शयित्वा लक्षणतोऽप्याह लक्षणं तु इति ।
अनवगतस्वार्थसम्बन्धया गवयादिसंज्ञया समभिव्याहृतं यद्वाक्यमतिदेशवाक्यमिति यावत्, तस्य
योऽर्थस्तस्य संज्ञिनि गवयादिपिण्डे यदनुसंधानमयमसो गोसदृश इत्यादि प्रत्यभिज्ञानं तदुपमानमिति।
नन्वव्यापकमेतत्, कीदृगश्व इति हि प्रश्ने गवयादिविलक्षणः केसरादिमानश्व इति वैधर्म्यरूप-
वाक्यार्थप्रत्यभिज्ञानस्याप्युपमानत्वेनेष्टत्वादित्यत्राह वाक्यार्थश्च इति । ननु तथाप्यव्यापकं
'कीदृक्करभ' इति पृष्टेनोदीच्येनोदीरितं 'दीर्घग्रीवः प्रलम्बोष्ठः कठोरतीक्ष्णकण्टकाशी पशुः करभ'
इति वाक्यं श्रुतवतो दाक्षिणात्यस्योत्तरपथे पुनस्तादृशपिण्डे तांस्तान् धर्मान् प्रत्यभिजानानस्यायं
करभशब्दवाच्य इति । यथोक्तं तार्किकरक्षायाम्-
अत्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते । साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः ॥ इति ।
परमप्रकृतमुपसंहरति तस्मात्-इति । नियतविषयत्वात्संज्ञासंज्ञिसंबन्धमात्रविषयत्वादिति ॥१२॥
प्रकाशः ।
एवमुपमानस्य क्लृप्तमानातिरेकं प्रसाध्याव्याप्तिं परिहर्तुं लक्षणमाह लक्षणन्त्विति ॥ अनव-
गतसङ्गतिकासौ संज्ञा चेति कर्मधारयः । न च गोविसदृशो न गवयपदवाच्य इत्यत्र अर्थादापद्यते
-गोसदृशो गवयपदवाच्य इति, तथा च नात्र वाक्यार्थानुसन्धानमस्तीति वाच्यम् । परम्परया तत्रापि
-वाक्य तात्पर्यात् । वस्तुतस्तु उपमितिकरणत्वमुपमानत्वम्, उपमितित्वञ्च जातिः । न च तदसिद्धिः।
-सामग्रीविशेषे कार्यवैजात्यमावश्यकमिति कारणव्यङ्ग्यत्वात्, सैव सामग्री अनवगतसङ्गतिरित्यादिना
-दर्शिता । क्वचिद्वैधर्म्यमिति ॥ धिक्करभमतिदीर्घग्रीवमित्यादौ ॥ प्रकृतमुपसंहरति तस्मादिति ॥१२॥
प्रकाशिका ।
तदनवतारदशायां सामान्यतोदृष्टे पर्यवसिते यत्रोत्तरकालं तर्कावतारः, तत्रोपमानं मानान्तरं
सामान्यतोदृष्टपुनरनुसन्धानस्यानुभवकलहग्रस्तत्वादिति भावः । वस्तुतोऽनुमितेर्व्यापकतावच्छे-
दकप्रकारेकेत्यादिपूर्वोक्तबाधकमेव सम्यगिति । अत्र वदन्ति-प्रमाणान्तरकल्पनापेक्षया सामा-
न्यतोदृष्टानुसन्धानकल्पनमेव लघु, अन्यथा प्राङ्नास्तितास्थले लिङ्गानुसंधानकल्पनं न स्यादि-
त्यनुपलब्धेर्मानान्तरतापत्तिः । न चानुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमः, क्षित्यादौ लाघवेनैक-
मात्रकर्तृकत्वानुमानाभावापत्तिः । न चेष्टापत्तिः, एकानककर्तृकत्वसंशयापत्तेः, तस्मात् सप्रवृत्तितिनिमि-
त्तिकत्वानु ( रोधेन ) मानमेवेतरप्रवृत्तिनिमित्तकत्वं विषयीकरोति, पक्षादुक्तव्यतिरेकिणा गवयत्व-
मकरन्दः ।
यदि च गवयत्वं किञ्चित्पदप्रवृत्तिनिमित्तं जातिविशेषत्वादित्यादिना तस्य तुल्यवित्तिवेद्यतया
किञ्चित्पदे तत्प्रसिद्धिसम्भवात्तथात्वं, तदा प्रकृतेऽपि तुल्यम् । व्यतिरेक्यन्तरेऽपीयमेव गतिः ।
किञ्च यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टं तर्कसहकृतं पुनरनु-
सन्धीयमानं जीवित्वप्रकारकं ज्ञानं जनयति, तथा गवयपदं गवयत्वतदितरान्यतरप्रवृत्तिनिमित्तकं
पदत्वादिति सामान्यतोदृष्टं तर्कसहकृतमनुसन्धीयमानं गवयत्वप्रवृत्तिनिमित्तकत्वं परिच्छिनत्तु, कृतं
मानान्तरेण । तदाह गङ्गेशः- 'विचित्रसहकारिवलेनैकस्यापि विचित्रफलजनकत्वादिति' । अन्यथा
टिप्पणी ।
चेण परत्वोपस्थितौ तर्कसाम्राज्ये पुनः परिच्छेदकत्वासम्भवादिति भावः ।