सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 392, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 392

३६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां

प्रकाशः।
उपाधिः स्यात्। द्व्यणुकस्य सावयवत्वे सिद्धे, द्व्यणुकं द्रव्यसमवेतं जन्यमहत्त्वानाधारद्रव्यत्वादित्यत्र
निःस्पर्शद्रव्यसमवेतत्वं चोपाधिः स्यात् । नित्यद्रव्यसमवेतत्वस्य पर्यवसितस्य साध्यस्य व्यापकत्वात् ।
साधनाव्यापकत्वाच्च ।
अथ साध्यसाधनसम्बन्धव्यापकत्वे सति साधनाव्यापक उपाधिः, तेन ध्वंसस्य जन्यत्वेनानि-
त्यत्वे साध्ये यद्यपि भावत्वं प्रागभावे साध्यव्यापकं तथापि जन्यत्वे सति यदि नित्यत्वं तद्व्यापक-
त्वादुपाधिरिति । न । इदमसाधकं साध्यसाधनसम्बन्धव्यभिचारित्वादित्यत्र साध्यव्यभिचारित्वा-
दित्यस्यैव गमकत्वे शेषवैयर्थ्यापत्तेः । सम्बन्धव्यभिचारानुमानेऽर्थान्तरत्वापत्तेश्च । यद्विशिष्टे साधने
साध्यसामानाधिकरण्यं स उपाधिरिति चेन्न । रासभादीनामप्युपाधित्वापत्तेः । तद्विशिष्टेऽपि साधने
साध्यसम्बन्धात् । यद्विशिष्ट एवेति चेत् । न । प्रमेयत्वादेरप्युपाधित्वापत्तेः । यद्विशिष्टे साधने
साध्यसामानाधिकरण्यमस्त्येवेति चेत् । न । गुरुत्वेन रसवत्त्वे साध्ये गन्धवत्त्वादेः साध्याव्यापकस्या-
प्युपाधित्वापत्तेः ॥
अथोपाधिमात्रस्य व्यतिरेकिधर्मत्वं, क्वचित् बाधोन्नीतस्य पक्षेतरत्वस्याप्युपाधित्वात् । तत्तदु-
पाधेश्च तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं, वह्निधूमोपाधेस्तु न लक्षणं लक्ष्याभावात् ।
न च पर्वतेतरत्वं वह्निधूमसम्बन्धोपाधिः स्यात् । आपाद्याप्रसिद्धेः । न च पक्षेतरत्वं वह्निव्यापकं
कुतो न भवतीति वाच्यम् । एतस्योपाधिलक्षणप्रस्तावे अर्थान्तरत्वादिति मतम् । तन्न । अनुमिति-
प्रतिबन्धकज्ञानविषयतावच्छेदकसमुपाधित्वमिह निरूपयितुमुपक्रान्तम्, अन्यस्याप्रयोजकत्वात् ।
तच्च न व्यतिरेकिधर्मत्वम् । अतिप्रसङ्गात् । किन्तु साधनाव्यापकत्वे सति साध्यव्यापकत्वम् । तच्च
पक्षेतरेऽतिव्याप्तमेवेत्युक्तम् ॥
अत्राहूः। यद्व्यावृत्त्या यस्य साधनस्य साध्यं पक्षे व्यावर्त्तते, स धर्मस्तत्र हेतुरुपाधिः । स च
धर्मः कतमो भवति, यस्य व्यावृत्तिः साध्यसाधनसम्बन्धविरोधिनी । यथाऽऽर्द्वेन्धनवत्त्वं वह्निमत्त्वे ।
व्यावर्त्तते हि तद्व्यावृत्त्या धूमवत्त्वं तप्तायःपिण्डे । व्यावर्त्तते च भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानि-

प्रकाशिका।
असमवेतत्वपर्यवसानवारणायाह । सावयवत्व इति । जन्येति । जन्यमहत्त्वं महत्त्वावान्तरजाति-
र्व्वेति न वैयर्थ्यम् । वस्तुतः परमाणुसिद्धौ मनसोऽणुत्वासिद्धौ चासाधारण्यं स्यादिति जन्यपदम्
तथा सति च गगनमेव दृष्टान्त इति भावः । निःस्पर्शोति । द्रव्यपदमत्र समव्याप्तोपाध्यभिप्रायकम् ।
रासभादीनामिति । रासभविशिष्टे धूमे वह्निसामानाधिकरण्यादित्यर्थः । रासभादावतिप्रसङ्गे सत्येव
दोषान्तरमाह । गुरुत्वेनेति । रसवत्त्वे रसयोग्यत्वे । अन्यथा हरीतक्यादौ व्यभिचारेण नियमा-
सिद्धेः । यद्व्यावृत्त्येति । यद्व्यावृत्त्या सङ्गिङ्गीभूतमा साधनवति क्वचिदपि साध्यव्यावृत्तिरनुमातुं

मकरन्दः।
भावः । असमवेतत्वपर्यवसानवारणायाह । सावयवत्वे इति । जन्येति । परमाणुसिद्धिदशायां
मनसोऽणुत्वादिसिद्धिदशायाञ्च गगनादौ व्याप्तिग्रहार्थं जन्यपदम् । अखण्डाभावे न वैयर्थ्यमिति ।
निःस्पर्शोति । अत्र द्रव्यपदं समव्याप्तत्वाभिप्रायेण । रासभादावतिप्रसङ्गे सत्येव दूषणान्तरमाह
गुरुत्वेनेति । रसवत्त्वे = रसयोग्यत्वे । अन्यथा विशिष्टस्यापि हरीतक्यादौ व्यभिचारेण नियमा-
सिद्धेः । यद्व्यावृत्त्येति । पक्षे यद्व्यावृत्त्या यस्य साधनस्य साध्यव्यावृत्तिरनुमीयते इत्यर्थः ।
साध्यसाधनसम्बन्धव्यापकत्वाभिप्रायेण भावत्वेनेति । नन्वेवं सम्बन्धाभावसाधनेऽर्थान्तरं साध्या-

टिप्पणी।
जन्यमहत्त्वानाधारद्रव्यत्वादित्यत्रेति । परमाणुसिद्धदशायां मनसोऽणुत्वासिद्धिदशायामाकाशादौ
व्याप्तिग्रहार्थं जन्येति । अखण्डाभावघटकतया च सार्थक्यम् । पर्यवसितसाध्यस्य व्यापकत्वा-