सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 337, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 337

सुतरां व्यग्रत्वात् । नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् । नापि कुह-
कवञ्चना, प्रकृते तदसम्भवात् ।
सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे । तथा हि। भूयस्तत्र कर्मलाघव-
मित्यलसाः । इतः पतितानामप्यनुप्रवेश इत्यनन्यगतिकाः । भक्ष्याद्यनियम इति
रागिणः । स्वेच्छया परिग्रह इति कुतर्काऽभ्यासिनः । पित्रादिक्रमाभावात् प्रवृत्ति-
रिति पाषण्डसंसर्गिणः । “उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते” इत्यादिश्रव-
णाद्व्यग्रताऽभिमानिनः । सप्तघटिकाभोजनादिसिद्धेर्जीविकेत्ययोग्याः । आदित्य-
स्तम्भनं, पाषाणपाटनं, शाखाभङ्गो, भूतावेशः, प्रतिमाजल्पनं, धातुवाद इत्याद्युप-
न्यसात् कुहकवञ्चिताः । ततस्तान् परिगृह्णन्तीति सम्भाव्यते । अतो न ते महाजन-
परिगृहीता इति विभागः ।
स्यादेतत् । यद्येवं सर्वकर्मणां वृत्तिनिरोधो न किञ्चिदुत्पद्यते, न किञ्चिद्विन-
श्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः ? । प्रकृतिपरिणते-
रिति साङ्ख्यानां शोभते । ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते । वासनापरि-


⁘ बोधनी।
इत्यनेन निरस्तत्वादित्याह-नापि इति । नापि कुहकानां वञ्चकानां वञ्चना प्रवृत्तेर्निमित्तं वेदागमे
वञ्चनाया असम्भवादित्याह-नापि इति । न ह्यत्रादित्यस्तम्भादीनामुपाया उपदिश्यन्त इति ।
अत्रासंभवन्तः सर्व एवैते दृष्टहेतवो बौद्धाद्यागमपरिग्रहे संभवन्तीत्याह-संभवन्ति तु इति ।
संभवमेव दर्शयति-यथा हि इति । बौद्धादयोऽपि विहारकुहरकोटरेषु चक्षुषी निमील्य निर्व्यापारा
आसत इत्यलसास्तान् बौद्धाद्यागमान् परिगृह्णन्तीति संबन्धः । इतः वैदिकात् पथः, रागिणः
सोज्यायद्वेतरागिणः स्वेच्छया परिग्रहः पित्रादीनां नियामकानामभावात् ।
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ।
आदित्यस्तम्भनादीनामुपायस्य बौद्धाद्यागमेषूपदिष्टत्वात् कुहकवञ्चिताः परिगृह्णन्ति । अतः'
यत एव दृष्टहेतवः संभवन्तीति ।
तदेवं प्रसङ्गाद्वेदप्रामाण्यहेतोर्महाजनपरिग्रहस्य स्वरूपं दर्शयित्वाऽधिकृतयोरेव सृष्टिप्रलययो
र्किचनाशङ्कते-स्यादितत् इति । विश्वोत्पत्तिनाशयोर्निमित्तानां कर्मणां प्रलयावस्थायां युगपन्निरुद्धवृ-
त्तित्वेन कस्यचिदपि वस्तुन उत्पत्तेर्विनाशस्य चासंभवात् स्तिमिताकाशसदृशं जगदवतिष्ठते, तदा
चागन्तोः कुतो हेतुविशेषात् पुनः सर्गः ? न हि तदा हेतुविशेषः कुतश्चिदस्ति, न हि तमन्तरेणा-
हेतुकः सर्गः संभवतीति । प्रकृतेर्महदादिरूपेण परिणतेः पुनः सर्गोऽस्त्वित्यत्राह-प्रकृतिपरिणतेः
इति । मातुलदुहितेव दाक्षिणात्यानां न तु प्रामाणिकानाम्, प्रकृतिनित्यत्वयोरप्रामाणिकत्वात्त-
त्परिणतिहेतोरागन्तुकस्याभावाच्चेति । ब्रह्मपरिणतेरिति भास्करगोत्र एव युज्यते कुलवधूरिव
श्रोत्रियगोत्रे । वासना नाम = आलयसंततिपतितानां ज्ञानक्षणानां पूर्वं पूर्वं विज्ञानं, तस्य परिपाकः
प्रकाशः ।
योगवहिर्भावादित्यर्थः । प्रागुक्तेन = विफला विश्ववृत्तिर्न-इत्यादिना ॥
बौद्धाद्यागमपरिग्रहे अन्यथासिद्धिमाह-सम्भवन्तीति ।
उभयोरिति । "अत्यन्तमलिनः कायो देही चाऽत्यन्तनिर्मलः"-इति पूर्वार्द्धम्। साङ्ख्या-
नामिति । प्रकृतिपरिणतावपि प्रयोजनाकाङ्क्षायाः सत्त्वात् तेषामेव शोभते, न त्वस्माकमित्यर्थः ।
एवमग्रेऽपि । भास्करः = त्रिदण्डिमतभाष्यकारः । ननु वर्तमानापाद्यभावेऽप्यतीतसूर्यस्पन्दा