न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 330, कुल 608 में से
संदर्भ में पढ़ें२६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
यदि च शिष्टाचारात्त्वादिदं हितसाधनं कर्त्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थ-
स्यानुमानत एव सिद्धेः। न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः। प्रत्यक्ष-
सिद्धत्वात्। अशब्दत्वाच्च॥
अथ शिष्टाचारात् प्रमाणमूलोऽयमिति चेत्। ततः सिद्धसाधनम्। प्रत्यक्षमू-
बोधनी।
प्रामाण्यमपि निश्चित्य मन्वादयः स्मरिष्यन्ति अनुष्ठास्यन्ति चेत्यत्राह-यदि हिं इति। तदर्थस्य=
अनुमेयवेदप्रमेयस्य शिष्टाचारात्त्वानुमानेनैव सिद्धेरिति। धर्माधर्मावेदकत्वं हि वेदत्वं, तच्च शिष्टा-
च्चारानुमानस्यास्तीति तदेवानुमेयो वेदो भविष्यतीत्यत्राह-न च इति। शिष्टाचारस्य प्रत्यक्ष-
त्वान्न तावदनुमेयत्वम् अशब्दात्मकत्वादिति।
ननु यदि वयं शिष्टाचारत्वेन कर्तव्यत्वहितसाधनत्वे अनुमास्यामः, ततो वेदानुमानमनर्थकं
स्यात्। प्रमाणमूलमात्रमनुमीयत इत्याह-अथ इति। तत्र च पक्षधर्मतावलाद्वेदमूलत्वमेव सिध्य-
तीति भावः। ततः इति। आचारस्वरूपस्य प्रत्यक्षमूलत्वात्सिद्धसाधनमिति। ननु शिष्टाचार-
प्रकाशः।
अत्राहूः। उच्छिन्नवेदार्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः सामग्र्यन्तरकल्पने गौरवम्।
अत एव च न बाधाश्रयासिद्धी। स्मृत्याचारमूलस्य वेदस्यास्माभिरभ्युपगमात्, तथा च स्मृत्या-
चारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलेन प्रत्यक्षवेदमूलकत्वसिद्धिः। अननुभा-
वकस्य मूलत्वानुपपत्तेः। स्तुतिनिन्दार्थवादाभ्यामपि प्रवृत्तिनिवृत्तिपराभ्यां प्रवृत्तिनिवृत्तिहेतुरर्थ
एव कल्प्यते, लाघवात्। न तु विधिंनिषेधवाक्यं, गौरवादुक्तदोषाच्च। यत्र चार्यवादादेव तज्ज्ञानं,
तत्र "तरति मृत्यु" मित्यादौ न तत्कल्पनाऽपि। न च बहुभिर्मेधाविभिरध्यात्तिकशक्तिसम्प-
न्नैर्ध्रियमाणायाः शाखाया न शाखान्तरवदुच्छेदसम्भव इति वाच्यम्। एकस्य न समग्रशा-
खाऽध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने तदुच्छेदसम्भवात्। एकानधीतायास्तस्या अप-
राध्ययनविषयत्वनियमे मानाभावात्। न च शाखोच्छेदे वर्गादिवानिश्चङ्कया प्रत्यक्षवेदादपि
वाक्यार्थप्रयोगयोरनिश्चये वैदिकव्यवहारोच्छेदः, श्रूयमाणमात्रस्यैव महाजनपरिगृहीतत्वेन तत एव
तन्निश्चयात्, तस्माद् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत्। विपक्षे
च बाधकमुक्तं गौरवमिति सङ्क्षेपः।
दूषणान्तरमाह। यदि चेति। वेदेनापि हि प्रवृत्तिहेतुकार्यत्वज्ञानं तद्धेतुत्वज्ञानं वोत्पाद्य
प्रवृत्तिर्जन्येत्यावश्यकत्वान्नाघवाच्च तदेवानुमीयतां, किं तद्बोधकवेदेनेत्यर्थः। तदर्थस्य =
कार्यत्वज्ञानादेः। ननु धर्मवेदकत्वहेतुको वेदव्यवहारस्तच्च लिङ्गेऽप्यस्तीति तदेव नित्यनुमेयवेद-
शब्देनोच्यते इत्यत आह। न चेति। प्रत्यक्षसिद्धत्वान्न नित्यनुमेयत्वम् अशब्दत्वाच्च न वेदत्व-
मित्यर्थः।
प्रमाणसामान्यानुमानेऽपि पक्षधर्मतावलात् तद्विशेषवेदसिद्धिः स्यादित्याह-
अथेति। सामान्यबुद्धेरीश्वरप्रत्यक्षविषयत्वेनाप्युपपत्तेर्न सा विशेषमवगमयतीत्याह।
प्रत्यक्षेति। ईश्वरप्रत्यक्षानभ्युपगन्तृमतेऽपि भोजनादेरिव कर्त्तव्यताज्ञानेऽनुमानमेव मूलं स्यादि-
प्रकाशिका।
दादेवेति बलवदनिष्टाननुबन्धित्वज्ञानञ्च न प्रवर्तकमिति भावः। तदेवेति। कार्यत्वं हि तद्धेतु-
कत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। विशेषमिति। वेदमित्यर्थः। धर्मिग्राहकैनैव
मकरन्दः।
तदेवेति। कार्यत्वं तद्धेतुत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। प्रमाण-