न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 314, कुल 608 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the image:
२८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकापतरणिकाब-]
ष्टत्वमपि तेषां नित्यम्, तस्मात्तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च
संबध्यन्ते नातोऽन्येथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति ।
यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णस-
मूहभूतानां पदानां, कुतस्तराञ्च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य, कुत-
स्तमां तत्समूहस्य वेदस्य ॥ १ ॥
परतन्त्रपुरुषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत् ।
एतदपि नास्ति । सर्गप्रलयसम्भवात् ।
अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयता युगपद्
वृत्तिनिरोधायुपपत्तेर्वर्णादिव्यवस्थाऽनुपपत्तेः, समयानुपलब्धौ शाब्दव्यवहारविलो-
पप्रसङ्गाद्, घटादिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेव मिति चेत् ।
बोधनी ।
दर्शयंन्नुपसंहरति-तस्मात् इति । एतदनुरोधेन = संगतिग्रहानुरोधेनेति । तदेवं वर्णानामपि नित्यत्वं
प्रसाध्य वेदानित्यत्वमाह-यदा वर्णाः इति । एवं तावत्प्रमायाः परतन्त्रत्वादिति व्याख्यातम् ॥१॥
अथ द्वितीयं पादं व्याचिख्यासुः शङ्कते-परतन्त्र इति । पूर्वपूर्वोच्चारयितृपुरुषपरतन्त्रोत्तरो-
च्चारयितृपरम्पराप्रवाहस्याविच्छेदो नित्यता सा च प्रत्युच्चारणविनाशिनोऽपि संभवतीतिः।
एतदपि इति। एवत्प्रवाहाविच्छेदलक्षणमपि नित्यत्वमिति । सर्गप्रलययोरसंभवे पराभिमतसाधना-
न्याशङ्कते-अहोरात्रस्य इति । विप्रतिपन्नमहोरात्रमव्यवहिताहोरात्रपूर्वकम् अहोरात्रत्वात् अद्य-
तनाहोरात्रवत्, अन्यथाऽद्यतनमपि तथा न स्यात् नियामकाभावात् । किञ्च, कर्मणां धर्माधर्माणाम्
विषमोऽनेकः फलकालः तेनैकस्मिन् भुक्तफले कर्मणि क्षीयमाणे कर्मान्तरमुपतिष्ठते फलान्तरोत्पा-
दनेनेत्येककर्मिणः कियन्त्यपि कर्माणि युगपन्निरुद्धवृत्तीनि न संभवन्तीति किमुतानन्तानां कर्मि-
णामनन्तानि कर्माणि, तदापि कस्यचित्कर्मणो विपाकावश्यंभावात् । प्रयोगश्च-विवादाध्यासि-
प्रकाशः ।
वर्णस्य, ज्ञानं चानित्यमिति तद्घटितं पदमपि तथेत्यर्थः । अभिमतमुपसंहरति । तस्मादिति ॥१॥
ननु कूटस्थनित्यतां वेदस्य न ब्रूमः, किन्तु प्रवाहाविच्छेदरूपामित्याह । परतन्त्रेति ।
तज्जातीयानुपूर्वीज्ञानजन्यत्वव्याप्यज्ञानविषयत्वं परतन्त्रपुरुषपरम्पराधीनत्वम् । तथा च काल-
त्वस्य वेदाधिकरणत्वव्याप्यत्वमेव वेदस्य नित्यतेत्यर्थः । प्रलये बाधकमाह । अहोरात्रेस्येति ।
साम्प्रतिकाहोरात्रे तथा दर्शनादित्यर्थः । विपाकः = सहकारिलाभः । वर्णादीति । वर्णा = ब्राह्म-
णादयः, तेषां व्यवस्था ब्राह्मणादिमातापितृजत्वेन, सर्गादौ तदभावात् सा न स्यादित्यर्थः । आ-
दिपदाद्वादिगृह्यते । समयेति । सर्गादौ प्रयोज्यप्रयोजकवृद्धव्यवहाराभावान्नच्छदसङ्केतग्रहो न
स्यादित्यर्थः । सर्वशब्दानाम्गृहीतसङ्केततयेश्वरेण शब्दतोऽपि व्युत्पादनस्याशक्यत्वादिति भावः ।
घटादीति । सम्प्रदायः = प्रवाहस्तस्य भङ्गो विच्छेदः । यथा घटादिः क्रियते, तद्रूपस्यादर्शना-
दित्यर्थः ॥
प्रकाशिका ।
प्रलयसंभवेऽपि सर्गादित एवारभ्य-परतन्त्रपुरुषपरम्पराधीनत्वं स्यान्न चैतावता प्रवाहाविच्छेदसि-
द्धिरत आह । तज्जातीयेति । ज्ञानविषयत्वमानुपूर्वी रूपं, प्रलयसम्भवे च सर्गादावेव व्यभिचा-
रान्न, नैतदस्तीति भावः । कालत्वस्येति । कालोपाधित्वस्येत्यर्थः ।
मकरन्दः ।
ननु पूर्व्वविच्छेदेऽपि तदुत्तरं परतन्त्रपुरुषपरम्पराधीनत्वसम्भवान्न तावन्मात्रेण प्रवाहावि-
च्छेदसिद्धिरित्यन्यथा व्याचष्टे तज्जातीयेति । विच्छेदे सर्गाद्यवेदस्य तज्जातीयानुपूर्वीज्ञानजन्य-
त्वाभावान्द्व्याप्यसिद्धिरिति भावः । ज्ञानविषयत्वं तद्गत्वमित्यर्थः ।