सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 307, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 307

द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् । २७३
स्यादेतत् । यद्येवमस्थिरः शब्दः कथमर्थेन सङ्गतिरस्योपलभ्यते इति चेत् ।
यथैवार्थस्यास्थिरस्य तेन ।
बोधनी ।
शब्दानित्यत्ववादी प्रकारान्तरेण प्रत्यवतिष्ठते-स्यादेतत्-इति । प्रत्युच्चारणं भिन्नानां शब्दा-
नामानानन्त्यव्यभिचाराभ्यां दुर्ग्रहः संबन्ध इति । यथा-इति । यथा ह्यस्थिरस्यैवार्थस्य शब्देन
संबन्धग्रहणं तथा शब्दस्याप्यस्थिरस्यार्थेनेति । येन हेतुनाऽस्थिरस्य व्यक्तिरूपस्यार्थस्य संगतिर्दु-
र्ग्रहेति तेनैवास्माकं जातिरेव पदार्थ इति सिद्धान्त इत्याह-तेन-इति । यदि जातिरेव पदार्थः
प्रकाशः ।
नाशः स्यात् , न चैवमित्यर्थः । एवं, शब्दोऽनित्यः, व्यापकप्रत्यक्षविशेषगुणत्वात्, सुखवत् ।
बहिरिन्द्रियव्यवस्थाहेतुगुणत्वाद् , भूतप्रत्यक्षविशेषगुणत्वाद्, इन्द्रियविशेषगुणत्वाद् , अस्म-
दादिप्रत्यक्षविशेषगुणत्वाद् , गन्धवदित्याद्यूहनीयम् । हेत्वाभासानां निरासादिति ।
ननु वर्णानित्यत्वे गृहीतसङ्गतिकपदनाशे कालान्तरे पदादगृहीतसङ्गतिकादर्थप्रतीतिर्न स्यादि-
त्यर्थप्रतीत्यन्यथानुपपत्त्या शब्दनित्यत्वं स्यादित्याह--
यद्येवमिति । तथा सति गृहीतसङ्गतिघटनाशे तदन्यघटव्यक्तेः पदात् प्रतीतिर्न स्यात् ।
अथानित्येऽपि घटादावेकधर्मोपग्रहेण शक्तिग्रहस्तर्ह्यनित्ये पदेऽपि स तथैवास्त्वित्याह यथैवेति ।
तेन = शब्देनेत्यर्थः ।
ननु यद्यपि आनयादिव्यवहाराद् , व्यक्तावेव शक्तिरुचिता, तथाप्यानन्त्यव्यभिचाराभ्यां
शक्तिग्रहस्तत्र न सम्भवति । सर्वव्यक्तेः शक्यत्वे, गां दयादित्यादौ सर्वोपादानासामर्थ्यादननुष्ठा-
नापत्तिरेकशक्यत्वेऽनध्यवसायः । नापि गोत्वेनोपलक्षिता व्यक्तिः शक्येति न शक्यानन्त्यव्यभि-
चारौ । रूपान्तरेण ज्ञातस्यैवान्येन रूपेण लक्ष्यत्वात् , काकेन गृहविशेषस्येव । न च व्यक्तीनां-
प्रकाशिका ।
व्यापकेति । आशुविनाशित्वमत्र साध्यमिति घटादिरूपे व्यभिचारवारणाय व्यापकेति
विशेषणम्। ईश्वरज्ञानादौ व्यभिचार इति प्रत्यक्षेति । आत्मैकत्वे व्यभिचार इति विशे-
षेति । बहिरिति । बहिरिन्द्रियान्तराग्राह्यवहिरिन्द्रियग्राह्यगुणत्वादित्यर्थः । प्रथमबहिःपदम
प्रसिद्धिवारणाय । द्वितीयबहिःपदमात्मैकत्वे व्यभिचारवारणाय । गुणपदं रूपत्वे व्यभिचारवारणाय,
जातिभिन्नार्थकं तेन समवाये व्यभिचारवारणाय ग्राह्यान्तम् । भूतेति । आत्मैकत्वे व्यभि-
चार इति भूतेति । जलपरमाणुरूपे व्यभिचार इति प्रत्यक्षेति । द्रव्यत्वे व्यभिचार इति
गुणेति । ईश्वरज्ञाने व्यभिचार इतीन्द्रियेति। श्रोत्रैकत्वे व्यभिचार इति विशेषेति। अस्मदादीति।
योगिप्रत्यक्षे परमाणुगुणे व्यभिचार इति प्रथमविषणं तस्य लौकिकेत्यर्थः । गन्धवदिति ।
मकरन्दः ।
व्यापकेति । आशुविनाशित्वं यदि साध्यं तदाऽयं हेतुर्बोध्यः। एवञ्च घटरूपादौ व्यभिचारवा-
रणाय व्यापकेति । ईश्वरज्ञानादौ व्यभिचारादाह प्रत्यक्षेति । आत्मैकत्वस्य प्रत्यक्षत्वे तत्र
व्यभिचारादाह विशेषेति । हेत्वन्तरं शब्दप्रकाशे व्याख्यातम् ।
टिप्पणी ।
एवं शब्दोऽनित्यो व्यापकप्रत्यक्षविशेषगुणत्वादिति आशुविनाशित्वं यदि साध्यं तदा
घटरूपादौ व्यभिचारवारणाय व्यापकेति देयं नान्यथा, आत्मैकत्वस्य प्रत्यक्षत्वे प्रत्यक्षघटितहेतौ तत्र
व्यभिचारवारणाय सर्वत्र विशेषपदसार्थक्यं द्रष्टव्यम् । भूतप्रत्यक्षविशेषगुणत्वादिति ।
आत्मैकत्वे व्यभिचारवारणाय भूतेति । अस्मदादिप्रत्यक्षविशेषेति । अत्र सामान्यतोऽनित्यत्वं
साध्यमतो न घटरूपे व्यभिचारः ।
३५ न्या० कु०