सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 295, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 295

[ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २६१
पारात् । न च श्रवणेनैव तद्ग्रहणम् । अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात्
चक्षुर्वत्, तारतारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत् । वायुर्वा न
श्रवणग्राह्यधर्मा मूर्त्तत्वात् पृथिवीवत् ।
यदि च नैवं, कादीनामपि वायवीयत्वप्रसङ्गः । ततः किम् ? अवयविगुणत्वेऽ-
नित्यत्वम्, परमाणुगुणत्वेऽग्रहणम्, द्वयमप्येतदनिष्टं भवतः । अवश्यञ्च श्रवसा
बोधनी ।
व इति । तर्हि श्रोत्रेण गृह्यतामित्यत्राह-न च इति । न ह्यवायवीयस्य श्रोत्रस्य वायुधर्मतारत्वा-
दिग्राहकत्वं संभवति चक्षुर्वदिति । दृश्यत एव श्रोत्रेण ग्रहणमिति चेत्, तत एव तर्हि न वायुधर्मा
इत्याह—तारतारतरत्वादयः इति । तेषामवायवीयत्व एवानुमानान्तरमाह-वायुर्वा इति ।
तेषां वायुधर्माङ्गीकारेऽनिष्टप्रसङ्गमाह-यदि च नैवम् इति । श्रोत्रग्राह्याणामेव वायवीयत्व-
दर्शनादिति भावः । सन्तु कादयो वायवीयाः । उक्तं च-‘वायुः शब्दतामापद्यत’ इत्याशयेन
पृच्छति-ततः किम् इति । उत्तरम्-अवयविगुणत्वे इति । वायुधर्मा भवन्तः कादयः किमव
यविनस्तस्य भवेयुः वायुपरमाणोर्वा; पूर्वत्र कादीनामनित्यत्वप्रसङ्गः, उत्तरत्रेन्द्रियग्राह्यता न स्यात्
तद्गतस्पर्शवदिति । न चैवमस्त्विति वाच्यमित्याह-द्वयम् इति । न परं वायुधर्मत्वे बाधकमा-
प्रकाशः।
गृह्यन्ते इति न गृह्यमाणारोप इत्यर्थः । अग्रहे हेतुमाह स्पर्शादीति । अवायवीयत्वेनेति ।
श्रोत्रं न वायुमात्रधर्ममात्रग्राहकम्, अवायवीयवहिरिन्द्रियत्वात् चक्षुर्वदित्यर्थः । अतो न सत्ता-
द्रव्यत्वग्राहकेण चक्षुषा मनसा वा व्यभिचारः ।
ननु चाप्रयोजकमिदम् । न हि यदिन्द्रियं यद्द्रव्यजातीयं तत् तज्जातीयस्यैव धर्मं गृह्णाति ।
तैजसेन चक्षुषा नीलाद्यग्रहप्रसङ्गात् । न, यद्वहिरिन्द्रियं यद्विशेषगुणग्राहकं तत्तज्जातीयगुणवदेवेति
नियमेन श्रोत्रस्य वायुगुणतारत्त्वादिग्राहकत्वे तद्गुणवत्त्वप्रसङ्गे वायवीयत्वप्रसङ्गात् । श्रावणत्वात्=
श्रवणमात्रवहिरिन्द्रियग्राह्यत्वादित्यर्थः । तेन न सत्तायां व्यभिचारः । श्रवणग्राह्येति । श्रवण-
मात्रग्राह्यधर्मेत्यर्थः ।
अत्र विपक्षे बाधकमाह--
प्रकाशिका ।
ध्वंसोत्पत्तावव्याप्तिर्दोषः । स्वतः प्रामाण्यग्रहस्य पूर्वं निरस्तत्वान्नान्यथा व्याचष्टे । स्वत इतीति ।
ननु चेति । यद्यपि विशेषव्याप्त्यैवात्रानुमितिरिति सामान्यव्याप्तिदूषणमकिञ्चित्करम् । तथापि
विशेषव्याप्तावपि विपक्षबाधकत्वेन सामान्यव्याप्तिरेव वक्तव्येति सैवाशङ्क्य निरस्तेति भावः। यद्वहिरि-
न्द्रियमिति । स्नेहग्राहकचक्षुषि व्यभिचार इति विशेषपदं तद्वहिरिन्द्रियव्यवस्थापकपरं तज्जातीय-
त्वञ्च गुणत्वव्याप्यजात्येति न संख्यादीनां गुणत्वमादायार्थान्तरत्वम्। श्रवणमात्रेति । सत्तायां व्यभि-
चार इति मात्रेति । मनसस्सर्वत्र ग्राहकतयाऽप्रसिद्धिरिति बहिरिति । सत्तामादाय बाध इति व्याचष्टे ।
मकरन्दः ।
व्यभिचारः । अधिकं शब्दप्रकाशे विपश्चितम् । उत्पत्तेस्तादृशसम्बन्धरूपतया तद्वत्त्वस्य हेतुत्वे
व्यर्थविशेष्यत्वमित्यत आह स्वसमानेति । ननु चेति । यद्यपि सामान्यव्याप्तौ दुष्टायामपि
विशेषव्याप्तेरबैकल्यमेव, तथा च किं तन्निरासेन, तथापि विशेषव्याप्तेरेवाप्रयोजकत्वशङ्कायां सामा-
न्यव्याप्तिस्तत्प्रयोजकत्वमाशङ्कय निरस्तेति नोक्तदोषः । यद्वहिरिन्द्रियमिति । ननु स्नेहग्रा-
हकचक्षुरादौ व्यभिचारो विशेषपदवैय्यर्थ्येति चेत्, न, विशेषपदस्यैव बहिरिन्द्रियव्यवस्थापक-
परतयोभयदोषनिरासात् । तज्जातीयत्वञ्च गुणत्वव्याप्यजात्या, अतो न सङ्ख्यादिमत्तयाऽर्थान्तरम् ।
श्रवणमात्रेति । सत्तायां व्यभिचारवारकं मात्रपदं, बहिःपदञ्चाप्रसिद्धिवारकम् । सत्तावत्त्वाद्बाध-