सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 293, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 293

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २५९
एवं स्थिते अनुमानमप्युच्यते । शब्दोऽनित्यः उत्पत्तिधर्मकत्वाद् घटवत् । न
चेदं, प्रत्यभिज्ञानबाधितम् । तस्य ज्वालादिप्रत्यभिज्ञानेनाऽविशेषात् । नैवमवाधि-
तस्य तस्य स्वतः प्रमाणत्वादिति चेत्तुल्यम् । ज्वालायां तन्नास्ति, विरुद्धधर्माध्यासेन
बाधितत्वात् , अन्यथा वेदव्यवहारविलोपप्रसङ्गो निमित्ताभावात्, आकस्मिकत्वे
वाऽतिप्रसङ्ग इति चेत् तुल्यम् ? । शब्देऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भा
वात् तदिह न स्वाभाविकमिति चेन्न । स्वाभाविकत्वावधारणा्यायस्य तत्र तत्र
सिद्धस्यात्रापि तुल्यत्वात् । न ह्यपां शैत्यद्रवत्वे स्वाभाविके तेजसो वा औष्ण्यभा-
बोधनी ।
एवं प्रध्वंसस्य प्रत्यक्षत्वाहप्रध्वंसाभावोपलक्षितवस्तुणलक्षणमनित्यत्वं प्रत्यक्षसिद्धमेवेति व्यवस्थि-
ते तत्रानुमानमस्तीत्याह-एवम् इति । ननु स एवायं गकार इति प्रत्यभिज्ञानेन पूर्वापरकालयोः
स्थिरत्वं "तावत्कालं स्थितं चैनं कः पश्चान्नाशयिष्यती"ति न्यायान्नित्यत्वमपि सेत्स्यति । तेनानि-
त्यत्वानुमानं बाधितविषयं स्यादित्याह—न चेदम् इति । ननु शब्दप्रत्यभिज्ञानस्यावाधितत्वात्स्व-
तः प्रामाण्याच्च न भ्रान्तत्वमित्याह—नैवम् इति । तदेतदुभयं ज्वालाप्रत्यभिज्ञानेऽपि तुल्यमित्या-
ह-तुल्यम्इति । ननु ज्वालाप्रत्यभिज्ञानेऽपि तदबाधितत्वं नास्ति, अपचयोपचयलक्षणविरुद्धधर्माध्य-
स्तविषयत्वादित्याह-ज्वालायाम् इति । अन्यथा इति । यदि विरुद्धधर्माध्यस्तं स्यादिति । ततश्च
भेदग्राहिविरुद्धधर्म संसर्गग्राहिणा प्रत्यक्षेणानन्यथासिद्धेन प्रत्यभिज्ञानमन्यथासिद्धं वाध्यत इति चोद्या-
भिप्रायः । तदेतद्विरुद्धधर्माध्यस्तंविषयत्वं शब्दप्रत्यभिज्ञानेऽपि तुल्यमित्याह-तुल्यम् इति । कुत
इत्याह-शब्देऽपि इति । ननु तीव्रादिकमिह शब्दे न स्वाभाविकं व्यञ्जकध्वनिधर्मस्यैव तस्य
शब्द आरोप्यमाणत्वादित्याह-तदिह इति । न इति । यदि हि यतः कुतश्चिन्न्यायस्य कस्य चि-
द्धर्मस्य यं कंचिद्धर्मिणं प्रति स्वाभाविकत्वमवधार्येत तर्हि तेनैव न्यायेन तीव्रत्वादीनामपि शब्दं प्रति
स्वाभाविकत्वमवधार्यतामिति तमेव न्यायमाह-न हि इति । तद्धर्मसामानाधिकरण्येन प्रत्यक्षमेव
प्रकाशः ।
ग्राह्यत्वात् पटैकत्वपरिमाणवदिति प्रतिनियतव्यञ्जकव्यङ्ग्यत्वानुपपंत्या वायोर्व्यञ्जकत्वनिरासात् ।
एवमिति । प्रत्यक्षेणानित्यत्वे साधित इत्यर्थः । उत्पत्तिमत्त्वात् , स्वसमानकालीनप्रति-
योगिध्वंसानाधारक्षणाधारत्वादित्यर्थः । भावत्वेन विशेषणान्न ध्वंसेन व्यभिचारः । न चेदमिति ।
यद्यपि स एवायं गकार इति प्रत्यभिज्ञानं नित्यत्वं न गोचरयति किन्तुभेदमात्रं, तथापि नाश-
कत्वाभिमतशब्दान्तरमपि शब्दं गोचरयद् नित्यतायामेव पर्यवस्यति, आश्रयनाशस्याभावादिति
भावः । स्वत इति । स्वयमप्रामाण्यशङ्काविरहादित्यर्थः । विरुद्धेति । परिमाणभेदाध्यासेने-
प्रकाशिका ।
भिचारिप्रमापकप्रामाण्येनेति साध्यार्थः । तेन एकत्वद्वित्वभ्रमजनकेन परिमाणग्राहिणा परिमाणभ्रम-
जनकेनैकत्वग्राहिणा च न व्यभिचारः, न च क्रमोत्पन्नगन्धाभ्यां व्यभिचारः, एककालीनत्वस्य
साध्ये प्रतियोगिविशेषणत्वात्, हेतावेव एकावच्छेदस्य देशकालोभयपरत्वाद्वा । न च प्रागभावमादा-
य बाधः तदन्यत्वेन व्यञ्जकविशेषणात् । समानदेशत्वञ्च समवायिनमादाय, तेन पटैकत्वपरिमाणा-
भावयोर्न व्यभिचारः । तेन पटान्योन्याभावपटत्वात्यन्ताभावयोर्न व्यभिचार इति केचित् । वस्तुतः
पटत्वात्यन्ताभावग्रहकाले पटान्योन्याभावोऽपि गृह्यत एवेति साध्यमेव तत्रेति पूर्वमेवोक्तं
पृथक्त्वग्रहकाले च दीर्घत्वं गृह्यत एवावधेस्तद्वृत्तित्वातिप्रहे प्रयोजकत्वादिति न तत्र व्यभि-
चारः। न च स्वमते सर्वशब्दानां समानदेशत्वेन सिद्धमेवेतिवाच्यम् । वर्णा यदि प्रतिनियतव्यञ्जक-
व्यङ्ग्याः स्युरेकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्या न स्युरिति परं प्रत्यनिष्टापादने
तात्पर्यादित्यन्यत्र विस्तरः । उत्पतिपदेनात्र विशिष्टक्षण एवोक्त इति न मतुबर्थसम्बन्धरूपवि-
शेष्यवैयर्थ्यमित्याशयेन व्याचष्टे । स्वसमानेति । हेतुप्रविष्टोत्पत्तेश्च निर्वचनसिद्धिमिति न चरम