न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 281, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २४७
यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत्। न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं
सन्निकृष्यते। इतरेतराश्रयप्रसङ्गात्।
तस्मात् सन्निकर्षे सति योग्यत्वाद् भूतलमप्युपलभ्यते, न तु तस्योपलभ्यमान-
त्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः। प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुप-
योगः। तस्य संयोगवदाधारानिरूप्यत्वात्। नाऽपि सन्निकर्षार्थं, तदभावस्य साक्षा-
दिन्द्रियसन्निकर्षादिति। न चेदेवं, कुत एषा प्रतीतिरिदानीं श्रुतपूर्वः शब्दो नास्तीति।
अनुमानादिति चेन्न। शब्दस्यैव पक्षीकरणे हेतोरनाश्रयत्वात्। अनित्यत्वमात्र-
· बोधनी ।
इति । न तावदिन्द्रियेण साक्षात्सन्निकर्षः संयोगः समवायो वाऽभावस्यास्ति । येन भूतलेन विशे-
षणविशेष्यभावेन सन्निकर्षोऽस्ति तेनापि यदीन्द्रियं न सन्निकृष्येत तदाऽव्यवहितस्यापि सम्बन्धा-
भावात्कथमिव तमभावं गमयेदिति । ननु सन्निकर्षार्थत्वेऽपि भूतलस्य प्रत्यक्षत्वेनोपयोगः अनुपलब्ध-
स्यानुपलभ्यमानस्य चेन्द्रियसन्निकर्षाभावादित्यत आह । न च इति । इन्द्रियसन्निकर्षादुपलम्भ
उपलम्भादिन्द्रियसन्निकर्ष इतीतरेतराश्रयप्रसङ्गादिति ।
यदि भूतलसन्निकर्ष एवोपयुज्यते न तु तदुपलम्भः, कथं तर्हि भूतले घटो नास्तीति भूतलो-
पलम्मेनैवाभावोपलम्भ इतीमामाशङ्कां निराकुर्वन्नुपसंहरति—तस्मात् इति । तर्हि शब्दाभावेऽ-
प्युभयार्थमेवाधिकरणमपेक्षणीयम्, न च तत्सम्भवतीत्यप्रत्यक्षत्वमेव तस्येत्यत्राह—प्रकृते तु-
इति । तस्य = प्रतियोगिनः शब्दस्येति । अथेदानीमैन्द्रियकत्वानुमानस्थानुग्राहकं तर्कमाह । न
चेदेवम् इति । न चेच्छब्दाभावः श्रोत्रेण गृह्यते ततः कारणाभावेषा प्रतीतेर्न स्यादिति ।
नन्वस्त्वनुमानादियं प्रतीतिरित्याह । अनुमानात् इति । नास्तीदानीं शब्दः अनुपलभ्यमानत्वा-
प्रकाशः ।
पलब्धौ सत्यामेव सन्निकर्ष इत्यत्राह । न चेति । अत्रोपलब्धेनेत्यत्रे न्द्रियसन्निकर्षे भूतलोपलम्भ-
स्तस्मिन् सतीन्द्रियसन्निकर्ष इति इतरेतराश्रयत्वम् । उपलभ्यमानेनेत्यत्र यद्युपलब्धिसम्बन्धिने-
त्यर्थः, तदा पूर्ववदितरेतराश्रयत्वम् ।
यदि तु सन्निहितोपलम्भकारणेनेत्यभिमतं, तदैकसामग्रीप्रसूतत्वेनाव्यभिचारेऽपि भावप्रतीत्य-
ङ्गत्वमवर्जनीयसन्निधेरन्यथासिद्धत्वादित्याह—
तस्मादिति । न च शब्दध्वंसग्रहेऽपि शब्दन्निरूपणार्थमाधारग्रहस्योपयोग इत्याह । प्रकृते
त्विति । तस्य = शब्दस्य । संयोगवदिति व्यतिरेकदृष्टान्तः । तदभावस्येति । शब्दध्वंसस्य
प्रतियोगिदेशाकारो विशेषगतत्वादित्यर्थः । न चेदेवमिति । यदि योग्यप्रतियोगिकत्वमात्रं नाभाव-
योग्यतावच्छेदकमित्यर्थः । शब्दस्यैवेति । शब्दं पक्षीकृत्य यदि ध्वंसवत्त्वं साध्यं, तदा शब्द-
प्रकाशिका ।
तथापि निरुक्तानुपलब्धौ शब्दाभाव एव प्रत्यक्षोऽपि न स्यादित्याशङ्कामात्रनिराकारणायेदम् । तदै-
केति । यद्यप्येषं समसमयत्वेन पूर्ववर्तित्वाभावान्नङ्गत्वमित्यन्यथासिद्धथुपवर्णनं व्यर्थम् । तथापि
दैवाद् पूर्ववर्तित्वेऽप्यनङ्गत्वमिति विभावयितुं तत्कृतम् । तदपि संयोगरूपप्रतियोगिसमवायिनिह-
मकरन्दः ।
तदैकेति । यद्यप्येवं समसमयत्वात् पूर्ववर्त्तित्वाभावेनानङ्गत्वमित्यन्यथासिद्धयुपदर्शनमयुक्तं, तथापि
यत्रापि पूर्ववर्त्तित्वं तत्रापि तदनङ्गत्वमिति दर्शयितुमन्यथासिद्धत्वादित्युक्तम् । एतदपि संयोगरूप-
प्रतियोगिसमवायितया भूतलस्य न निरूपकत्वमित्येवं परं, अधिकरणनिरूपकत्वस्याग्रेऽभ्युपगमादिति ।
टिप्पणी
अन्यथासिद्धत्वादिति । यद्यप्युपलब्धेः समानकालत्वेन पूर्वत्वाभावादेवानङ्गत्वम्, तथापि