न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 279, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् । २४५
प्रकाशः ।
यावद्विशेषध्वंसव्याप्यत्वादेकविशेषवति सामान्यध्वंसस्याभावेन तदुपपत्तेरित्याहुः ।
यथा प्रतियोगिभेदेनाभावभेदः, तथा तदवच्छेदकभेदेनाऽपीति संयुक्तघटस्याभावस्तत्र, स चान्य-
विशिष्टाभाववदुत्पादविनाशशीलोऽन्य एवेत्यन्ये ।
यथाऽनादिसंसर्गाभाववैधर्म्येऽप्यभावबुद्धेरनन्यथासिद्धत्वादुत्पादशीलो ध्वंसः स्वीकृतः, तथा
तत एवोत्पादविनाशशीलस्तुरीयः संसर्गाभावो घटस्येत्यपरे ।
ननु घटसंयोगाभावो योग्यानुपलब्ध्या ग्राह्यः, सा च प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भक-
सत्त्वेऽनुपलब्धिः, अत्र च संयोगस्योपलम्भको घट एव नास्तीति न संयोगाभावः प्रत्यक्षः । मैवम् ।
प्रकाशिका ।
सस्यापि प्रतियोगितावच्छेदकभेदेन बाधकाभावे सति भेदादित्याशयः । प्रतियोगितावच्छेदकाश्रय-
चरमप्रतियोगिजन्यश्चायमभाव इत्यवधेयम् । सामान्यध्वंसानङ्गीकारे च संयोगसमानकालीनसंयोग-
ध्वंसस्य सम्बन्धत्वमिति मन्तव्यम् । ननु संयोगध्वंसस्य सम्बन्धत्वे गुणादौ घटाभावप्रतीत्यनुदया-
पत्तिरिति तत्र स्वरूपस्यैव सम्बन्धत्वेऽत्रापि तथैवास्तु कालविशेषावच्छिन्नस्वरूपश्च संबन्ध इति
तत्कादाचित्कत्वेनैव कादाचित्कत्वप्रतीतिरित्यरुरुचेराह । यथेति । यद्यप्यत्र कल्पे “संयोगो
ही” त्यादिमूलासङ्गतिरेव, तथापि घटो नास्तीति प्रतीतिमुपेक्ष्य संयोगो नास्तीत्येव प्रतीतिरुदाह-
रणं, येति मूलतात्पर्यमिति भावः । एवमुत्तरत्रापि । नन्वेवं घटत्वावच्छिन्नघटज्ञानाद् घटो
नास्तीति प्रतीतिः कदापि न स्यात्, संयुक्तत्वस्य प्रतियोगितावच्छेदकस्याज्ञानादित्यनुभवविरोध
इत्यरुचेराह । यथेति । अत्रापि कालविशेषावच्छिन्नस्वरूपसम्बन्धेनैव कादाचित्कप्रतीत्युपपत्तौ
मकरन्दः ।
भावान्तरवद् ध्वंसस्यापि सामान्याभावत्वमिति मतेनेदम् । न च ध्वंसस्य प्रतियोगिजन्यत्वनियमात्
कथं तथेति वाच्यम्, चरमप्रतियोगिजन्यतया तथात्वात्, यावत्प्रतियोगिजन्यत्वे गौरवात् । ननु संयो-
गध्वंसस्य घटात्यन्ताभावसम्बन्धरूपत्वे गुणादौ तदत्यन्ताभावसम्बन्धो न स्यात्, यदि च तत्र
स्वरूपमेव सम्बन्धः, तदा प्रकृतेऽपि तथाऽस्तु, तत्कादाचित्कत्वाभ्युपगमाच्च प्रतीतेरपि तथात्वोप-
पत्तेः । किञ्च, सामान्यध्वंसस्य तद्धटसंयोगसामान्यं वा, तद्भूतलघटसंयोगसामान्यं वा प्रतियोगी ?
नाद्यः, व्यधिकरणस्थानागतस्य च संयोगस्य तदा तत्र भूतले ध्वंसासम्भवेनात्यन्ताभावसम्बन्धा-
पपत्तेः । नान्त्यः, यत्र भूतले कदापि न तद्धटसंयोगस्तत्र प्रतियोग्यप्रसिद्ध्या तादृशध्वंसाभावेना-
त्यन्ताभावसम्बन्धानुपपत्तेः, अनागतसंयोगमादाय पूर्वदोषापत्तेश्चेति पूर्वास्वरसादाह । यथेति ।
यथा दण्डोपनयानयनाभ्यां दण्डावच्छिन्नपुरुषविरहः कादाचित्कः, संयोगावच्छिन्नघटविरहोऽपि
तथेत्यर्थः । नन्वेवं संयुक्तत्वेनैव घटोपस्थितिरभावप्रतीत्यङ्गं स्यात्, न तु घटत्वमात्रेण, तस्य प्रति-
योगितावच्छेदकत्वात्, न चेष्टापत्तिः, तत्प्रकारकतदुपस्थित्यनन्तरमपि भूतले तद्धटाभावप्रतीतेरनु-
भवसिद्धत्वादित्यरुचायादाह । यथाऽनादीति । समयविशेषसंसर्गेणा नित्याभावेनैवोपपत्तौ न
तुरीयकल्पनमित्यनभिमतिबीजमत्रापि द्रष्टव्यम् ।
तदुपलम्भकं = प्रतियोग्युपलम्भकं, तस्य सत्त्वे समवधाने मेलने इति यावत् । उपलम्भो =
लौकिकप्रत्यक्षम् । तथा च प्रतियोगितद्व्याप्याभ्यामितरद् यावत् तदुपलम्भकं, तत् सत्त्वे अनुपल-
टिप्पणी ।
सत्त्वासत्त्व इति व्याख्यानदर्शनात् नाशस्य ध्वंसेऽसम्भवाच्च, तथा च भाविघटसंयोगे भूतलेऽत्र घटो
नास्तीति प्रतीतेर्घटाभावविषयकत्वस्य सम्बन्धविरहेण वक्तुमशक्यत्वेन घटसंयोगध्वंसविषयत्वमेव,
घटाभावविषयकत्वे तु यत्र संयोगसमानकालीनः संयोगध्वंसस्तत्रैव जायमानायाः प्रतीतेः,
एतच्च “संयोगो ह्यत्रे” त्यादिमूलस्यापि नासङ्गतिरिति बोध्यम् । अन्य इति । अत्रा-