न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 277, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] | शब्दानित्यत्वोपपादनम् । | २४३
योग्यतात्वापत्तेः । न चैवमेव, धर्मादिप्रध्वंसग्रहप्रसङ्गात् । दृश्याधारत्वं दृश्यप्रति-
योगिता चेति द्वयमप्यस्य योग्यतेति चेन्न । उभयनिरूपणीयत्वनियमानभ्युपगमात् ।
प्रतियोगिमात्रनिरूपणीयो ह्यभावः । अन्यथेह भूतले घटो नास्तीत्येषाऽपि प्रतीतिः
प्रत्यक्षा न स्यात् । संयोगो ह्यत्र निषिध्यते, तदभावश्च भूतलबद् घटेऽपि वर्त्तते,
तत्र यदि प्रत्यक्षतया भूतलस्योपयोगो, घटस्यापि तथैव स्यादविशेषात् । अथ घट-
बोधनी
इति । नन्वापद्यतामैन्द्रियकाधारतैव योग्यतेत्यत्राह । न चैवम् इति । ऐन्द्रियकाऽऽत्माधारो हि
धर्मादिप्रध्वंस इति । दृश्याधारत्वम् इति । ततश्च न धर्माद्यभावस्य प्रत्यक्षत्वापत्तिरदृश्यप्रति-
योगिकत्वात्, नापि शब्दाभावस्यातीन्द्रियाधारत्वात् तस्येति । न इति । न ह्याधारेणापि निरूपणीय
इति । कथं तर्ह्यभ्युपगम इत्यत्राह । प्रतियोगि इति । आधारनिरूप्यत्वेऽनिष्टमाह । अन्यथा
इति । किमिति न स्यादत आह । तत्र इति । तयोर्यदि भूतलमाधारोऽभावनिरूपणे प्रत्यक्षतयोप-
युज्यते घटोऽपि तथा स्यात् आधारत्वाविशेषात्, तथा च परोक्षे घटे इह घटो नास्तीति प्रतीतिर्न
स्यादिति भावः । अथ इति । प्रकारभेदं सूचयन्नार्थस्तुशब्दः प्रतियोगिनः संसर्गस्य निरूपणाय
प्रकाशः ।
तम् , न चैतद् धर्मादिध्वंसस्यास्तीत्याह । दृश्येति । तद्विरहश्च नोपाधिः, साधनव्यापकत्वात् ।
नाऽप्युभयस्य साध्यप्रयोजकत्वेनाप्रयोजकत्वम् । ऐन्द्रियकत्वरूपसाध्यसामान्याव्यापकत्वेनानुपाधि-
त्वादिति भावः । विपक्षे बाधकमाह । अन्यथेति । यद्द्युभाभ्यां प्रत्यक्षाभ्यामेवाभावः प्रत्यक्ष
इत्यर्थः । ननु भूतलमात्रमत्राऽऽधारः, तच्च दृश्यमेवेत्यत आह । संयोगो हीति । न चात्र माना-
प्रकाशिका ।
नेनेति । प्रयोजकत्वसेवेति । साधनाव्यापकत्वरूपमुपाधिरिति शेषः । नापीति । दृश्याधार-
त्वस्य दृश्यप्रतियोगिकत्वस्य च मिलितस्य प्रत्यक्षप्रयोजकत्वेनाप्रयोजकत्वं केवलस्य दृश्यप्रतियो-
गित्वस्य स्यात् तत्र च लाघवादावश्यकत्वाच्च केवलमेव प्रयोजकमिति भवति तदभाव उपाधिः साध्य-
नाव्यापक इत्यर्थः । ऐन्द्रियकत्वेति । एवं च नैन्द्रियकत्वसामान्यप्रयोजकं दृश्यप्रतियोगिकत्वं
मकरन्दः ।
नाप्युभयस्येति । दृश्याधारत्वसमानाधिकरणदृश्यप्रतियोगित्वसाध्यप्रयोजकतया उपाधि-
त्वेन स्थापना हेतोरप्रयोजकत्वं नेत्यर्थः । ऐन्द्रियकत्वरूपेति । न चाभावत्वपक्षधर्मावच्छिन्नसा-
टिप्पणी ।
ग्राहकमित्यर्थः । ननूभयनिरूप्यत्वं मास्तु योग्यत्वं किन्तुभयदृश्यत्वमेव तथा च स्थापना-
नुमान इन्द्रियाधारत्वमुपाधिरित्याशयावानाह । उभयस्येति । ऐन्द्रियकाधारत्वैन्द्रियक
प्रतियोगित्वयोरित्यर्थः । साध्यस्य = इन्द्रियग्राह्यत्वस्य । प्रयोजकत्वेनेत्यर्थः । अप्रयोज-
कत्वं स्थापनानुमानस्येति शेषः । इन्द्रियाधारत्वस्योपाधिसद्भावादिति भावः । ऐन्द्रिय-
कत्वेति । तस्य शब्दे सत्त्वेन तत्रोपाध्यभावादन्यापकत्वम् । अभावत्वावच्छिन्नसाध्यव्या-
पक्त्वमपि नष्टाश्रयद्रव्यगुणादिनाशे व्यभिचारेणासम्भवीति न स्थापनानुमानस्याप्रयोजकत्व-
मिति भावः । एवञ्च नोभयं प्रयोजकमुरुनशास्याप्रत्यक्षापत्तेरित्यवधेयम् । केचित्तु तदेतन्नि-
राकरोतीति पूर्वमेव नापीति पठन्ति । तेषामयमाशयः, उभयस्येत्यनन्तरं प्रत्येकस्येति शेषः । तथा
च लाघवादावश्यकत्वाच्च प्रत्येकस्यैन्द्रियकप्रतियोगिकत्वस्य प्रयोजकत्वेनोभयस्याप्रयोजकत्वात् योग्य-
त्वाभावः साधनाव्यापकत्वाद् भवत्येवोपाधिरिति भावः । ऐन्द्रियकत्वेति । ऐन्द्रियकत्वं प्रति
तस्याव्यापकत्वे तदभावं प्रति तदभावस्याप्रयोजकत्वेन साध्यप्रयोजकस्यैव पूर्वसाधनव्यतिरेकस्यो-
पाधित्वेनाप्यनुपाधित्वमिति भावः । भूतलमात्रमत्राधार इति । अत्र भूतले घटो नास्ती-