न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 271, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] { शब्दानित्यत्वोपपादनम् । २३७
व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा? न प्रथमः, स्वरूपयोग्यतां प्रति सहकारियोग्यताया
बोधनी
सत्प्रतिपक्षत्वम्-इति । तत्र न तावदुपाध्युद्भावनपक्षः संभवतीत्याह-प्रथमः इति । इन्द्रियसन्नि-
कर्षस्य तावदनुपाधित्वमाह-स्वरूप इति । शब्दप्रध्वंसस्येन्द्रियग्रहणं प्रति स्वरूपयोग्यता तत्र
प्रकाशः ।
प्रत्यक्षतापत्तेरिति वाच्यम् । उपाधेरधिकदेशत्वेऽपि दूषकताबीजसाध्यव्यापकत्वानपायात् ।
अथ नायमुपाधिः, व्यतिरेकोपसंहारसामर्थ्याभावात् । तथा हि । अभावत्वे सत्यतीन्द्रियांधा-
रत्वादिति यद्यपि नैन्द्रियकाधारत्वस्य व्यतिरेकः, उभयाधारत्वेऽप्यविरोधात् । तथाप्यभावत्वे
सत्यैन्द्रियकाऽनाधारत्वादिति सम्भवति, किन्तु योग्यताविरहस्तत्रोपाधिः । न च साधनव्यापकत्वं;
न ह्यतीन्द्रियाधारत्वमेव योग्यताविरहः, पृथिवीत्वाभावादेर्योग्यतापत्तेः । नाप्यैन्द्रियकाधारत्वा-
भावः सः । तदर्थसहिततदभावस्य योग्यतात्मकत्वे धर्माभावस्य योग्यतापत्तेः । मैवम् । ऐन्द्रि-
यकाभावमन्तर्भाव्याभावस्य योग्यतेत्युक्तेऽपि साधनव्यापकताया अपरिहारादिति भावः ।
व्यापकेति । प्रत्यक्षव्यापकैन्द्रियकाधारत्वेन्द्रियसन्निकर्षानुपलब्धेरित्यर्थः । यद्यपि शब्दध्वंसो न
प्रत्यक्षोऽतीन्द्रियाधारत्वादिति पृथिवीत्वाद्यौ व्यभिचारि, तथाप्यैन्द्रियकानाधारत्वादिति हेतूकर्त्त-
व्यम् । तत्र प्रथममुपाधिनिरस्यति । स्वरूपेति । स्वरूपयोग्यतां प्रत्यक्षोपहितस्वरूपसम्पत्तिं
प्रकाशिका ।
तद्बीजन्तु गुणादावुपपत्तिकाभावज्ञानेऽपि न सामान्याभावः प्रत्यक्षः प्रतियोगिसत्त्वविरोध्यनुपलम्भा
विषयत्वादू द्रव्ये न तादृशानुप्लम्भो गुणादौ तु स इत्यस्य राजनिशेत्वादिति । ऐन्द्रिय-
काधारत्वं चेति । अभावत्वावच्छिन्नसाध्यव्यापकोऽयमुपाधिः, अतो न शब्दादौ साध्या-
व्यापकत्वमिति ध्येयम् । एवञ्चातीन्द्रियाधारत्वादिति मूलस्यैन्द्रियकानाधारत्वादित्यर्थः । तेन
तद्व्यतिरेकत्वमुक्तरूपधमुपपद्यत इति न "स्वव्यतिरेकेणेति शेष" इति प्रकाशविरोधः । अत एवाग्रे
तथैव विभावयिष्यतीति । उभयाधारत्वेऽपीति । तथा च विरोधाभावे न परस्परविरहरूपता-
शङ्कापीति भावः । पृथिवीत्वात्यन्ताभावादौ व्यभिचाराच्चेत्यपि द्रष्टव्यम् । योग्यताविरह इति ।
यद्यपि योग्यताविरहमुपाधिं मुक्तकृदेवाग्रे वक्ष्यति । तथापि सत्प्रतिपक्षनिराकरणावसरे तथा-
मूलम्, अत्र तूपाधिप्रस्तावे तदेवाशङ्क्य दूषणं समाहितमिति द्रष्टव्यम् । तथापीति । वायुस्पर्शे
व्यभिचार इति सत्यन्तम् । ऐन्द्रियकाभावत्वमिति ऐन्द्रियकप्रतियोगिकत्वे सत्यैन्द्रियकाधारत्वं
योग्यता तथा च न धर्मध्वंसस्य योग्यता न वोपाधिः साधनव्यापक इत्यर्थः । अपदार्थव्या-
मकरन्दः ।
न्यास एवोपाधिः स्यात् न चैवम् विषमव्याप्तस्यापि तथात्वादित्याह उपाधेरिति । तथाऽ-
पीति । आत्मादौ व्यभिचारवारणाय सत्यन्तम् । ऐन्द्रियकप्रतियोगिकाभावत्वे सत्यैन्द्रियकाधा-
रत्वं योग्यत्वम् । तथा च न धर्माभावस्य योग्यता, तद्विरहश्च साधनव्यापक एवेत्याह ऐन्द्रिय-
काभावमिति ।
टिप्पणी ।
'धारत्वं शब्दे साध्याव्यापकत्वान्नोपाधिः, तद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति तद्धर्मावच्छिन्नसा-
धनान्यापकत्वस्यैवोपाधिरूपत्वेनाभावत्वावच्छिन्नसाध्यव्यापकत्वात् । व्यतिरेकोपसंहारसा-
मर्थ्याभावादिति । स्वाभावेन साध्यव्यतिरेकानुमायकत्वादित्यर्थः । उभयाधारत्वेऽप्यविरो-
धादिति । ऐन्द्रियके पृथिवीत्वाद्यभावे वृत्तित्वेन व्यभिचार इति भावः । तथाप्यभावत्वे स-
तोति । वाय्वस्पर्शे व्यभिचारवारणाय सत्यन्तम् । अपरिहारादिति । ऐन्द्रियकप्रतियोगिकत्वे