सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 246, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 246

[Page Header]
२१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या


प्रकाशः ।
प्रमात्वस्य नित्यानित्यवृत्तित्वात् । अनित्यप्रमात्वं कार्यतावच्छेदकं कार्यमात्रवृत्तित्वधर्मत्वात्, अप्र-
मात्ववदित्यपि नीलघटत्वादनाऽनैकान्तिकम् । तत्र विशेषद्वयकारणेनान्यथासिद्धत्वात् । प्रमा-
ऽप्रमाकार्यवैचित्र्यं च, यथैकजातीयसामग्रीव्यक्तिभेदाद् घटद्वयं जायते तद्वदेव ज्ञानसामग्रीव्य-
क्तिभेदादुपपन्नम् । वैजात्यमपि तुल्यजातीयसामग्रीजन्यत्वेऽपि यमजवैधर्म्यवत् स्यात् । न च
प्रमात्वावच्छिन्नकार्यत्वं कथमननुगतहेतुकमिति वाच्यम् । उक्तयुक्त्या तस्य कार्यतानवच्छेदक-
त्वात् । अनित्यप्रमा प्रमाऽप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वादप्रमावदिति चेन्न । कारणव्यक्ति-
भेदजन्यत्वेन सिद्धसाधनाद् , अप्रमायां तदसिद्धेश्च । न चाप्रमायां दोषजन्यत्वात्तथा । दोषस्य
पित्तादेः स्वविषयप्रमायामपि हेतुत्वात् । अनित्यप्रमा स्वविरोध्यनुभवप्रतिबन्धकजन्या अनित्या-
नुभवत्वात् , अप्रमावत् । यद्वा, अनित्यप्रमा प्रमाऽप्रमान्यतरप्रतिबन्धकजन्या प्रमाऽप्रमान्य-
तरत्वादप्रमावदिति चेद् , न । प्रमाजनकासाधारणव्यक्तिविशेषस्याऽप्रमाप्रतिबन्धकत्वं प्रमाजन-
कत्वं चेति सिद्धसाधनात् ।

अत्रास्मत्पितृचरणाः । एवमप्रमाऽपि स्वत एव स्याद् , न परतः, प्रमावदसाधारणाका-
रणादेव तदुत्पत्तौ दोषस्य तत्राहेतुत्वापत्तेः । यदि च ज्ञानसामग्र्यां सत्यां विशेषादर्शनादेर्दोष-
स्यान्वयायथनुविधानाद्दोषो हेतुः, तर्हि विशेषादर्शनादेर्गुणस्यानन्वयायथनुविधानात् प्रमायामपि गुणे
हेतुरिति तुल्यम् । अपि च, यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं, यथा
घटविजातीयः पटः, अन्यथा कार्यवैजात्यस्याकस्मिकत्वापत्तेः । घटज्ञानमपि कार्यं तद्विजातीय-
कार्यकारणविजातीयकारणजन्यमिति न व्यभिचारः । एवं प्रागुक्तानुमानेष्वपि न सिद्धसाधनम् ।
अनुगतस्य प्रमाहेतुत्वेनासाधारणव्यक्तिभेदस्याहेतुत्वात् । एवमनित्यप्रमात्वमनित्यज्ञानत्वावच्छि-
न्नकार्यताप्रतियोगिककारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , अनित्यज्ञानत्वव्याप्य-
कार्यतावच्छेदकधर्मत्वाद् , अप्रमात्ववदित्यनित्यप्रमायामप्रमासाधारणहेतुव्यावृत्तानुगतहेतुसिद्धिः।


प्रकाशिका ।
तदाऽभिमतं तदा ज्ञानपदममुभवपरमिति स्मर्त्तव्यम् । प्रमात्वस्येति । त्वन्मत इति शेषः तथा च
बाध इति भावः । इदं च दूषणं ज्ञानपदस्यानित्यज्ञानपरत्वे, यथाश्रुते ज्ञानत्वस्य नित्यवृत्तितया
कार्यतानवच्छेदकत्वेन साध्याप्रसिद्धिरेव दूषणम् पूर्वहेतोरत्र पक्षेऽसम्भवाच्च हेत्वन्तरमाह । कार्य-
मात्रेति । वैजात्यं=वैचित्र्यम् । दोषस्य=पित्तोदेरिति । वस्तुतोऽप्रमाया उभयरूपतया न
तादृशहेतुजन्यत्वमिति भावः । अप्रमाप्रतिबन्धकत्वमिति । अनेनानुमानेन सिद्धस्यैव प्रतिब-
न्धकत्वं विषयीक्रियतामित्यर्थान्तरमिति भावः। घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः।
न च तत्रानुगतकारणासम्भवः। अनुगतभोगजनकादृष्टसत्त्वात् न प्रकृतेऽपि तेनैवार्थान्तरं दृष्टस्यैव-
सम्भवाच्च उक्तव्याप्तिबलेन प्रमात्वस्य कार्यतावच्छेदकत्वे सिद्धे विशेषप्रकारकप्रतीत्यर्थमाह ।
एवमनित्यप्रमात्वमिति । अनित्यज्ञानत्वे , व्यभिचार इत्यनित्यज्ञानत्वव्याप्येति ।
व्याप्यत्वञ्च भेदमात्रम् । अन्यद्वैयर्थ्यादिति ध्येयम् । अनुगतहेतुसिद्धिरिति ।
यद्यपि प्रमामात्रेऽनुगतगुणोऽसम्भवी, एवमप्रमायामनुगतो दोषोऽसम्भवीति बाधदृष्टान्तासि-
द्धयादिः, न चानित्यसाक्षात्कारिप्रमात्वमेव पक्षः, तत्तत्प्रमात्वमेव दृष्टान्त इति वाच्यम् । तत्रा-
प्यनुगतस्य हेतोरभावाद् बाधतादवस्थ्यात् । न च भूयोऽवयवेन्द्रियसन्निकर्षादिरेवानुगतो गुण


मकरन्दः ।
इत्यपास्तम् । प्रमात्वस्येति । त्वन्मते इति शेषः ।
घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः । न च तदवच्छिन्नकार्यनिरूपितकारणा-
न्तरमेव । अनुगतभोजकादृष्टस्य सत्त्वात् । न चैवं प्रकृतानुमाने तेनैवार्थान्तरं , दृष्टस्यैव सम्भ-
वादित्याहुः । अनुगतहेतुसिद्धिरिति । ननु गुणत्वस्यानुगतस्य निर्वक्तुमशक्यत्वादिनिरत्य-