सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 238, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 238

२०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां
स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात् प्रमाणात्। अन्यथा
कार्यात् कारणानुमानं क्वापि न स्यात्। तेन तस्यानुविधानानुपलम्भात्। उप-
लम्भे वा कार्यलिङ्गानवकाशात्, प्रत्यक्षत एव तत्सिद्धेः। तज्जातीयानुविधानद-
र्शनात् सिद्धिरन्यत्रापि न वार्यते। तथापि वस्तुगत्यानुविहितान्वयव्यतिरेकमेव
कार्यात् कारणं सिद्ध्येत्, अन्यत्र तथा दर्शनादिति चेन्न। बाधेन सङ्कोचात्।
विपक्षे बाधकाभावेन चाव्याप्तेः। दर्शनमात्रेण चोत्कर्षसमत्वात्। अस्य चेश्वरे
विस्तरे वक्ष्यते। सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गे
बोधनी।
दित्यादिकं व्याचष्टे-स च-इति। तुरीयपादं व्याचष्टे-अन्यथा-इति। कुत इत्यत आह-
न-इति। येन कार्येण लिङ्गेन कारणमनुमीयते तेन तत्सिद्धेः, तस्य कारणस्य सिद्धेरिति। यद्यप्यनु-
मित्सिते विशेषे अन्वयव्यतिरेकयोरनुपलम्भस्तथापि तज्जातीयेषु विशेषान्तरेषु तदुपलम्भादन्य-
त्रापि तज्जातीयदर्शनेन तज्जातीयकारणविशेषानुमानं सिध्यतीत्याशङ्क्याह-तज्जातीय-इति।
अन्यत्रापि व्यतिरेकविरहिण्यपि आत्मादावपि समवायिकारणवद् रूपादिषु गृहीतान्वयव्यतिरे-
कस्य तज्जातीयज्ञानादिकार्यदर्शनात्समवायिकारणत्वेनात्मनोऽनुमानं सुकरमिति भावः। यद्यप्य-
नुपलब्धान्वयव्यतिरेकस्यापि कारणस्यानुमानं स्यात्। तथापि वस्तुगत्यानुविहितान्वयव्यतिरेक-
मेव कारणं कार्यात् अनुमीयते रूपज्ञानादिना चक्षुराद्यनुमाने तथादर्शनादित्याह-तथापि-इति।
न-इति। अन्वयव्यतिरेकवतः कारणत्वमिति व्याप्तेरदृष्टचरस्य धर्मिणः सिद्धिर्न स्यादिति बाधक-
तर्केण नित्यविभुकारणव्यतिरिक्तविषयत्वेन संकोचादिति। न परं संकोचः व्याप्तिरेव नास्ति,
व्यतिरेकविरहिणः कारणत्वे बाधकाभावादित्याह-विपक्ष-इति। अन्यत्र तथा दर्शनादिति
यदुक्तं तत्राह-अन्यत्र-इति। विपक्षे बाधकमन्तरेण साहचर्यदर्शनमात्रेण साध्यधर्मिणि
धर्मान्तरापादन उत्कर्षसमा नाम जातिरिति। एतदेव कथमित्यत आह-अस्य च-इति। क्षित्या-
दिकं सकर्तृकं कार्यत्वाद्वटवदितीश्वरानुमाने तत एव शरीरिकर्तृकं स्यादिति प्रसङ्ग उत्कर्षसमा जा-
तिरिति प्रतिपादयद्भिर्व्याप्तिमन्तरेण साहचर्यमात्रदर्शनेन धर्मान्तरोत्कर्षस्य जातित्वं तत्र विस्तरेण
वक्ष्यत इति नेदानीं प्रपञ्च्यत इति। यद्वा, किमिदानीमयं न प्रपञ्च इत्यत्राह-अस्य-इति।
नन्वस्ति बाधकं नित्यविभूनां सर्वकार्यं प्रति कारणत्वप्रसङ्गः, अन्वयमात्रस्याविशेषात्, तेन
प्रकाशः।
ज्ञनीयम्। तन्निश्चये हेतुमाह-धर्मिधीरिति। बुद्ध्यादिभिः कार्यैः समवायिकारणतयाऽऽ-
त्मादयोऽवगम्यन्त इति धर्मिग्राहकमानादेव तेषां कारणत्वग्रह इत्यर्थः। तेनेति। कार्यव्यक्त्या-
ऽनुमेयकारणव्यक्तेरन्वयानुविधानादर्शनादित्यर्थः। अथ कार्यकारणव्यक्त्योरन्वयव्यतिरेका-
भ्यान्न तयोः कारणत्वं गृह्यते। तत्तज्जातीयस्यान्वयव्यतिरेकाभ्यामिति स्वगुणान् प्रति घटादे-
रन्वयव्यतिरेकज्ञाने घटत्वादिकं न प्रयोजकम्, किन्तु द्रव्यत्वमेव। तच्चान्वयव्यतिरेकवज्जा-
तीयत्वं गुणान् प्रति नित्यविभोरप्यस्तीत्याह--तज्जातीयेति। बाधेनेति। धर्मिग्राहकमाने-
नात्मादीनां स्वनिष्ठकार्यगुणेषु कारणत्वग्रहाद् बाधोन्नीतपक्षेतरत्वोपाधेर्व्याप्यत्वाभावादिति भावः।
विपक्षेति। दृष्टान्ते तथात्वदर्शनेऽपि तद्रूपं न प्रयोजकं गौरवादित्यर्थः। अन्यत्र तथा दर्शना-
दित्यत्राह--दर्शनमात्रेणेति। नन्वबाधकाद् गुरोरपि प्रयोजकत्वमित्याशयेन बाधकमाह-
सर्वेति। व्यतिरेकासम्भवेऽन्वयमात्रस्यैव कारणताग्राहकत्वे तदविशेषात् सर्वत्र कार्ये नित्य-
उत्कर्षसमत्वात्। उत्कर्षसमजात्युत्तरत्वात् दृष्टान्तधर्मस्य व्याप्तिं विना पक्षे प्रसञ्जन-
मुत्कर्षसमा जातिः, शब्दो यदि कृतकत्वेनानित्यः स्यात् कृतकघटादिवदेव रूपवान् स्यादित्यत्र सा
अस्याश्च व्याप्तिं विना प्रसञ्जनीयत्वेनादोषत्वम्।
इति धर्मदत्तोपाध्याय (प्रसिद्धबच्चाझा) कृतकुसुमाञ्जलिप्रथमस्तबकटिप्पणी समाप्ता ॥