न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 235, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] कारणत्वस्य स्वाभाविकत्वव्यवस्थापनम् । २०१
नन्वेतत् कारणत्वं यदि स्वभावो भावस्य नीलादिवत् तदा सर्वसाधारणं स्या-
त् । न हि नीलं किञ्चित् प्रत्यनीलम् । अथौपाधिकं, तदा उपाधेरपि स्वाभावि-
कत्वे तथात्वप्रसङ्गः । औपाधिकत्वे त्वनवस्था । अथाऽसाधारणत्वमप्यस्य स्व-
भाव एव, तत उत्पत्तेरारभ्य कुर्यात् , स्थिरस्यैकस्वभावत्वादिति चेत् । उच्यते-
हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तु सत् ॥
तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् ॥१८॥
बोधनी ।
संप्रति चार्वाकः स्थिरपक्षे कारणत्वानुपपत्त्या प्रत्यवतिष्ठते—नन्विति । स्थिरस्य भाव-
स्य कारणत्वं यदि स्वभावतः स्वतःसिद्धं यथा नीलस्य नीलत्वं तर्हि तद्वत्साधारणं स्यात् , तत्र
चैकस्मात्कारणात्सर्वकार्योत्पत्तिः प्रसज्यत इति नीलादीनां साधारण्यं दर्शयति—न हि—इति ।
शङ्कते-अथ-इति । औपाधिकत्वे ह्यसाधारण्यमुपपद्यते यथा तस्यैव नीलस्य प्रत्यक्षत्वादेरिति ।
विकल्प्य निराचष्टे-तदा उपाधेः-इति । येनोपाधिना भावः कारणं भवति स चौपाधिर्मा-
वस्य स्वभावो वा स्यादौपाधिको वा ? पूर्वत्र पूर्ववत्तस्यापि तथात्वं साधारण्यं प्रसज्येत, उत्तरत्र
तस्यापि तथात्वप्रसङ्गादनवस्था, तस्मात्पारमार्थिकनीलादिवैधर्म्यात्काल्पनिकोऽयं कार्यकार-
णभाव इति । अथेति । यथा कारणत्वमस्य स्वभावः तथा किंचिदेव कार्यं प्रति न
सर्वमिति कारणत्ववदसाधारण्यमप्यस्य स्वभावः, ततश्च नोक्तप्रसङ्ग इति । तर्हि यं यं कार्यविशेषं
प्रति कारणत्वमस्य स्वतः सिद्धं तं तं सर्वदा कुर्यात्स्थिरस्यैकस्वभावत्वात्कालभेदेन स्वभावभेदा-
नुपपत्तेरित्याशयेनाह-उत्पत्तेः-इति । उच्यत-इति । हेतुशक्तिं कारणत्वमनादृत्य पारमार्थि-
कत्वेनाभ्युपगम्यमानं नीलाद्यपि वस्तु न पारमार्थिकं सद्भवति कुतश्चित्कारणाल्लब्धस्वरूपं पार-
मार्थिकं स्यात् । इतरथा नित्यत्वेनासत्त्वप्रसङ्गात् । तेन नीलादेः पारमार्थिकत्वं वदता कारण-
स्यापि पारमार्थिकत्वं वक्तव्यम् , अन्यथा नीलादेरप्यपारमार्थिकत्वापत्तेः, तथा च कथं तद्वैधर्म्येण
कारणत्वस्यापारमार्थिकत्वं सिध्येदिति । प्रतिनियतमेव कारणत्वं भावानां स्वभावः । न च तत्र
कार्यविशेषाणां सततोत्पादकत्वप्रसङ्ग इत्याह—तद्युक्तम्-इति । तैस्तैः सहकारिभिर्युक्तं तत्त-
त्कारणं तत्र तत्रान्वयव्यतिरेकवस्तु कार्यविशेषेषु शक्तं, तस्मात्कार्यविशेषाणामेव सहकारिक्रम-
वशात् क्रमेणैवोत्पत्तिरुपपन्नेति । कथं तर्हि पारमार्थिकत्वे कारणत्वस्य नीलादिवैधर्म्यं तत्राह-
इति-इति । कार्यविशेषनियतं सहकार्याधीनं च कारणत्वं किं न साधारणं, साधारणमेव सर्वैस्त-
थोपलम्भनियमात् । न हि नीलादेरन्यत्साधारण्यम् । अतो न नीलादिवैधर्म्यं कारणत्वस्येति ।
प्रकाशः ।
तदेवमलौकिकं परलोकसाधनं सिद्धम् । तत्र शङ्कते—
नन्विति । यथा नीलं सर्वेण निरूप्यमाणं नीलं, तथा सर्वेण निरूप्यमाणं कारणं स्यादित्यर्थः ।
तथात्वे=सर्वसाधारण्यम् । औपाधिकत्व इत्यत्रोपाधेरित्यनुषजनीयम् । अथेति । नियतकार्यप्र-
तियोगिककारणत्वमेव स्वभाव इत्यर्थः । तत इति । यस्य स्वाभाविकं तत्तदुत्पत्तित एवारभ्येति
बीजस्य बीजत्वमिवाङ्कुरकारित्वमप्युत्पत्तित एव स्यादित्यर्थः । ततः कार्यत्वमस्य न साधारण-
मसारणं वेति भावः ॥
परस्य कार्यकारणभावस्य साधारणत्वापादनेन हेतुशक्तिरेव निरस्तत्वेन मता । तथा च
नीलाद्यपि परमार्थसन्न स्यात् । नित्यत्वप्रसङ्गात् । ततो वैधर्म्यदृष्टान्ताभावात्स्वपक्षो न सिद्ध्य-
तीत्याह-हेतुशक्तिमिति । तद्युक्तमिति । सहकारियुक्तम् । तत्र=कार्ये तत्तत्=कारणं शक्तं=
निर्वर्तकमिति सर्वैरेव प्रतीयत इति सर्वसाधारण्यमस्त्येव । नीलादेरपि तदेव सर्वसाधारण्यमित्यर्थः ।
प्रकाशिका ।
कारणं स्यादिति । तथा च सर्वं सर्वत्र कारणं स्यादित्यर्थः । ततः कारणत्वमिति ।
२६ न्या० कु०