न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 232, कुल 608 में से
संदर्भ में पढ़ें१६८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १७ कारिकावतरणिकायो
वर्त्तमानत्वमेकस्य विरुद्धमिति चेत् । यदि सदसत्त्वं तत् , तन्न । अनभ्युपगमात् ।
ताद्रूप्येणैव प्रत्यभिज्ञानात् । सदसत्संबन्धश्चेत्, किमसंगतं ? ज्ञानवत्तदुपपत्तेः ।
क्रमेणानेकसंबन्ध एकस्यानुपपन्न इति चेत् । न । उपसर्पणप्रत्ययक्रमेणैव तस्याऽ-
प्युपपत्तेः । प्रत्यभिज्ञानमप्रमाणमिति चेत् । अस्ति तावदतो निरूपणीयं, क्षण-
प्रत्ययस्तु भ्रान्तोऽपि नास्तीति विशेषः ॥ १६ ॥
स्यादेतत् । मा भूदध्यक्षमनुमानं वा क्षणिकत्वे, तथापि सन्देहोऽस्तु । एतो-
बोधनी ।
भेदं ब्रूमः, किन्तु वर्त्तमानत्वावर्त्तमानत्वलक्षणविरुद्धधर्मसंसर्गादिति दूषयति-यदि-इति । सद-
सत्त्वरूपं तावद्वर्त्तमानत्वावर्त्तमानत्वमेकस्य धर्मिणो नाभ्युपगच्छाम इति । कुत इत्याह-
ताद्रूप्येण-इति । शङ्कते-सदसत्-इति । सता वर्त्तमानेन कालेन संबन्धो वर्त्तमानत्वम् ,
असताऽतीतेनानागतेन वाऽवर्त्तमानत्वमिति किमसंगतमिति । यथा प्रत्यभिज्ञानमेकमेव वर्त्तमा-
नत्वं सच्च विषयीकरोति असच्चातीतत्वम् , यथा वा अघटं भूतलमिति ज्ञानं भावाभावौ,
तथैक एव धर्मो सदसद्भ्यां संभन्त्स्यते, को विरोध इति । नन्वस्तु युगपदेकस्यानेकसंबन्धो न
तु क्रमेण, तथा हि यद्येकसम्बन्धक्षणे भावः संबन्धन्तरेणापि संबद्धुं समर्थः, तर्हि तदानीमेव
तेनापि संबध्येत, समर्थस्य क्षेपायोगात् । असमर्थश्चेन्न पश्चादपि । तदन्यदेव पश्चात्संबध्यत
इति सिद्धः क्षणभङ्ग इत्याशयेन शङ्कते क्रमेण-इति । प्रत्यभिज्ञया तावदेकत्वं प्रतीयत इत्युक्तं, न
चैकस्यानेकसंबन्धोऽनुपपन्न इति केवलमत्र सम्बन्धक्रमे कारणं वक्तव्यं, तच्च संबन्धिसन्नि-
धापकानां क्रम एवेत्याह-उपसर्पण-इति । ननु प्रत्यभिज्ञायाः प्रामाण्ये सति सर्वमेतदेवं
स्यात् , तदेवासिद्धमित्याह-प्रत्यभिज्ञानम्-इति । मा भूत् प्रामाण्यसिद्धिस्तथापि भवन्तं वि-
जयामह इत्याह-अस्ति तावत्-इति । स्थैर्यसाधकं प्रत्यभिज्ञानं तावदस्ति, अन्यथा धर्मिण
एवासिद्धौ तत्राप्रामाण्यविधानायोगात् । तेन धर्ममात्रप्रामाण्यमेव तस्य निरूपणीयम् । क्षणि-
कत्वे तु प्रमाणाभासोऽपि नास्तीति ॥ १६ ॥
एवं सौगतसमयसिद्धक्षणिकत्वावलम्बिनि चार्वाकस्य प्रत्यवस्थाने दूषिते स एवान्यथा प्रत्य-
वतिष्ठते-स्यादेतत्-इति । न खलु क्षणिकत्वे प्रमाणाभावमात्रेण स्थिरत्वं सिद्ध्यति किन्तु संदेह
एव, तथापि भूतचैतन्यसंभावनया न तद्व्यतिरिक्तश्चेतनः सिद्ध्यतीत्युच्यत इति । किमयं सन्देहः
प्रकाशः ।
धर्मभेदेऽपि न तद्धर्मिभेद इत्याह । किमत्रेति । ताद्रूप्येणैवेति । द्वितीयादिक्षणेऽपि प्रत्य-
भिज्ञानाद् वर्त्तमानत्वमेवेत्यर्थः । ननु पूर्व्वापराभ्यां सदसत्क्षणाभ्यां सम्बन्ध ॰एकस्य विरुद्ध
इत्याह । सदसदिति । सदसदद्विषयकज्ञाने तदुभयसम्बन्धो यथा न विरुद्ध्यते तथा बाह्येऽ-
पीत्याह । ज्ञानवदिति । ज्ञाने तदुभयसम्बन्ध एकदैवेति न विरुद्धः । क्रमिकस्तु विरुद्ध इत्या-
ह । क्रमेणेति । तत्सम्बन्धकारणक्रमादेव सोऽप्यविरुद्ध इत्याह । उपसर्पणेति । प्रत्ययः=कार-
णम् । ताद्रूप्येणैव प्रत्यभिज्ञानादित्याक्षिपति । प्रत्यभिज्ञानमिति । विरुद्धधर्मवद्विषयत्वादिति
भावः । परिहरति । अस्तीति । प्रमाणत्वाप्रमाणत्वाभ्यामिति शेषः । वस्तुतो विरुद्धधर्माध्यासा-
भावात् प्रमाणत्वमपि निरूपितमेवेति भावः । तदनेन स्थैर्ये प्रमाणमुक्तम् ॥ १६ ॥
प्रकाशिका ।
सम्बन्धकारणेति व्याख्यानं प्रत्ययेति मूलविरुद्धमत आह । प्रत्ययः कारणमिति । प्रत्यभिज्ञा-
नमप्रमाणमित्यत्र हेतुं पूरयति । विरुद्धेति । सन्देहेऽपि स्थैर्यसिद्धिरित्येत आह * वस्तुत
इति । विरुद्धयोरसंसर्गात् संशयोश्चाविरोधादिति भावः ॥१६॥