सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 208, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 208

१७४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकावतरणिकायां
इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा
पारमार्थिकः। एतदुभयायत्तो व्यापारावेशोऽपि। तत्रैवंरूपव्यापारलक्षणाया
बुद्धेर्विषयोपरागलक्षणं ज्ञानम् । तेन सह यः पुरुषोपरागस्यातात्त्विकस्य
सम्बन्धो दर्पणेप्रतिबिम्बितस्य मुखस्येव मलिनिमा, सोपलब्धिरिति। तदेव-
मष्टावपि धर्मादयो भावा बुद्धेरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात्।
न च बुद्धिरेव स्वभावतश्चेतनेति युक्तं, परिणामित्वात्। पुरुषस्य तु कूटस्थनि-
त्यत्वादिति। तदेतदपि प्रागेव निरस्तम्।
तथापि—
कर्तृधर्मा नियन्तारश्चेतिता च स एव नः॥
अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः ॥ १४ ॥
बोधनी।
इन्द्रियप्रणालिकया-इति। सोऽपि किं स्वभावतश्चेतन इत्यत्राह-पुरुषस्य-इति। यद्वा,
चेतनसामानाधिकरण्येनाध्यवसीयमानत्वादिच्छादयः पुरुषधर्माः सन्तु, कृतं बुद्धयेत्याह-पुरु-
षस्य-इति। इच्छादिरूपेणात्मनः परिणामे कौटस्थ्यं हीयेत, ततश्च परिणामिनो घटादिवदचैत-
न्यप्रसक्तिरिति भावः। तदेवं सांख्यमतमुपन्यस्यैतेनैतन्निरस्तमिति पूर्वोक्तं स्मारयति-तदेतत्-
इति। भोक्तृधर्म एव भोगनियामको नान्यधर्म इति प्रागुक्तत्वान्निरस्तमिति। यथा निरस्तं तथाह-
तथा हि-इति। कर्तृधर्माधर्मादयो भोगस्य नियामका इति तावदविवादं, चेतनश्च
कत्र्तैव नः प्रामाणिकानां कृतिचैतन्ययोः सामानाधिकरण्यात्। अन्यथाऽकत्र्तैव चेतनोऽचेतनैव
बुद्धिः कत्र्त्री, तद्धर्मा एव भोगन्नियच्छन्तीति मते बुद्धिर्नित्याऽनित्या वा स्यात् पूर्वत्र पुंसो नाप-
प्रकाशः।
बुद्धितो ज्ञानोपलब्ध्योर्भेदमाह। तत्रैवंमिति। विषयोपरागो=विषयेन्द्रियसम्बन्धो बुद्धेर्विषयाकार-
परिणतिभेदोऽयं घट-इत्यादिः। तेनेति। तेन ज्ञानेन चेतनोऽहमिदं जानामीत्येवमाकारो बुद्धा-
वारोपितस्य चैतन्यस्य यः सम्बन्धोऽतात्त्विकः सोऽयमुपलब्धिरित्यर्थः। एवं व्यवस्थिते सिद्ध-
मर्थमाह। तदेवमिति। ज्ञानवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेवेत्यर्थः। संस्कारस्य
सांख्यैरनभ्युपगमाज्ज्ञानस्यैव स्मृतिहेतोरनभिव्यक्ततयाऽनुवृत्तेरिति स नोक्तः। तत्सामानाधि-
करण्येनेति। कृतिसामानाधिकरण्येनेत्यर्थः। यद्यप्यदृष्टस्यायोग्यतया तत्सामानाधिकरण्यं न
प्रत्यक्षं, तथापि धार्मिकोऽहमित्यनुव्यवसायादुपनीतस्य प्रत्यक्षत्वमिति भावः। परिणामि-
त्वादिति। अनित्यधर्माश्रयत्वादित्यर्थः।
कर्तृधर्मा इति। यत्र कृतिस्तददृष्टस्य तत्रैव भोगजनकत्वमित्यत्राविवादे कृत्याश्रय एव
चेतनः, तद्भिन्ने तत्र मानाभावादित्यर्थः। अन्यथेति। बुद्धेर्नित्यत्वे मोक्षाभावः। आत्मनो
प्रकाशिका।
वाचकत्वानुपपत्तेः। ननु पुरुषस्य कूटस्थत्वे सुखादयः कुत्रेत्यादिशङ्कानिरासाय मूलं तदेवमि-
ति। अतस्तदनुरूपमेव व्याचष्टे। ज्ञानवत् सुखेति। अनभिव्यक्त्येति। सूक्ष्मरूपतयेत्यर्थः।
अनित्यधर्माश्रयत्वादिति। बुद्धेश्चैतन्ये परम्परया तत्परिणामस्य घटादेरपि चैतन्यप्रसङ्ग
तत्रैवंरूपव्यापारेति। करोमीत्यध्यवसायः कृत्याध्यवसायः व्यापारावेशः स एव लक्षणं भेदको
यस्याः, इदं तस्याः परिचयमात्रम्। तदेवम्। एवम् ज्ञानवत् अष्टावपि ज्ञानेन सार्धमित्यर्थः।
नः=अस्माकम्मतम्। अन्यथा कर्तुरचेतनत्वे।