न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 207, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १७३
पुरुषे कर्त्तृत्वाभिमानस्तस्मिन्नचेतनेऽपि चेतनाभिमानः । तत्रैव कर्मवा-
सना । पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपः । आलोचनं व्यापार इन्द्रि-
याणां, विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो बुद्धेः ।
सा हि बुद्धिरंशत्रयवती । पुरुषोपरागो, विषयोपरागो, व्यापारावेश
श्चेत्यंशाः । भवति हि मयेदं कर्त्तव्यमिति । तत्र मयेति चेतनोपरागो दर्प-
णस्येव मुखोपरागो भेदाग्रहाद्वात्त्विकः । इदमिति विषयोपराग
बोधनी ।
तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्त्तृत्वे च तथा कर्तेव भवत्युदासीनः ( सां० का० २० ) इति ।
लिङ्गं = बुद्धिः । प्रकृत्यनुमापकत्वात्, धर्माधर्मयोरप्यन्तःकरणमेवाश्रय इत्याह-तत्रैव-
इति । यदि धर्मादयो बुद्धेर्गुणाः कीदृशस्तर्ह्यात्मेत्याह-पुरुषस्तु-इति । सर्वथा-इति । अनु-
भवतद्वासनातत्फलैः कर्मतद्वासनातत्फलैश्चेत्यर्थः । बुद्धितत्त्वस्यासाधारणं व्यापारं दर्शयिष्यन्
सर्वेषां तावत् कारणानां यथास्वमसाधारणान् व्यापारान्राह-आलोचनम्-इति । संमुग्धवस्तु-
मात्रदर्शनमालोचनं, तच्च चक्षुरादीनामिदमिति बाह्यप्रावण्यात्मकः परिणतिभेदः यत् नैयायिकै-
र्निर्विकल्पकमित्युच्यते । विकल्पस्तु संमुग्धदृष्टस्य विशेषणविशेष्यभावेन विवेचनं तन्मनसो व्या-
पारः । अभिमानः अहं जानाम्यहं करोमीत्यादिरूपः, सोऽहङ्कारस्य । कृत्यध्यवसायः स बुद्धे-
रिति । नन्वीदृशः कृत्यध्यवसायः कृतिसमवायं विषयसम्बन्धं चैतन्यं वापक्षते, स कथमेनवं-
विधाया बुद्धेर्धर्मो भवेदित्यत आह-सा हि-इति । तानेवांशान् विभजते-पुरुषोपरागः-
इति । कथमेतत्त्रयं बुद्धेर्धर्म इत्याशङ्क्य संमुग्धमुदाहरणं दर्शयति-भवति हि-इति । भवतु,
कथं तावता अंशत्रयसिद्धिरित्यत्र निष्कृष्यांशान् दर्शयति-तत्र-इति । दर्पणमुखयोरिव बुद्धि-
चेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपराग इति । इदमा प्रतिनिर्दिष्टस्य विषयस्य यद्ग्राहिकैव
बुद्धिराभाति स चेतनोपराग इत्यर्थः । तेन मयेत्यभिमानः कथं बुद्धेर्धर्मः स्यादिति शङ्का निरस्ता
भवति । चेतनोपरागश्चेतनसम्बन्धः, स च परिणामविशेषः, तत् कथं चेतनोऽपरिणामी बुद्ध्या
सम्बन्त्स्यत इत्यत्रोक्तं-दर्पणस्य-इति । कथं दूरस्थेन विषयेण बुद्धिरुपज्यत इत्यत्रोक्तम्-
प्रकाशः ।
एवे । बुद्धिपुरुषयोर्भेदाग्रहाच्चैतन्यकृत्यभिमानौ । यथा भवतां गौरोऽहं सुखीत्यर्थः । कर्मवासना =
कर्मजनितमपूर्वम् । ननु पुरुषधर्म एव किन्नापूर्वमित्यत आह । पुरुषस्त्विति । सर्वथेति । ना-
पूर्वतत्फलाभ्यां लिप्यते कौटस्थ्यादिश्रुतेरित्यर्थः। इन्द्रियादीनां मिथो भेदकमसाधारणं व्यापारमाह।
आलोचनमिति । निर्विकल्पकमित्यर्थः । ननु बुद्धेः कृत्यध्यवसायो न व्यापारः, कृतिविषयस्य
घटादेर्जडायां बुद्धौ प्रतिभासासम्भवात् । न च कर्तव्येन घटादिना सम्बन्धान्तरमस्ति । न
चासम्बन्धे, करोमीत्याद्यव्यवसायोऽतिप्रसङ्गादित्यत आह । सा हीति । चेतनोपरागवशेन
जडाया अपि बुद्धेरिन्द्रियप्रणालिकया परिणतिभेद एव ज्ञानरूपः कर्तव्येन घटादिना सम्बन्ध इत्य-
र्थः । पुरुषेति । बुद्धिचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः । नीलेन्द्रियसन्निकर्षान्नी-
लाकारज्ञानरूपपरिणतिभेदोत्पादः पारमार्थिको विषयो रागस्ताभ्यां कर्तव्यविषयस्य प्रति-
भासात्तज्जन्यः करामीत्यध्यवसायो व्यापारावेश इत्यर्थः । दर्पणस्येवेति । दर्प प्राय बुद्ध्याः ।
तस्मिन्नचेतने=बुद्धितत्त्वे ।