सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 204, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 204

१७० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकावतरणिकायां
आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः। न हि चितिरेव विष-
यबन्धनस्वभावा, मनिर्मोक्षप्रसङ्गात्। नापि प्रकृतिरेव तदीयस्वभावा, तस्या अपि
बोधनी।
भ्यां विधर्मेत्यर्थः। "अपरिणामिन्यप्रतिसङ्क्रमा चितिशक्तिरिति कथं तस्याकारणत्वे सर्ग इत्यत्र
कारणं तत्स्वरूपं चाह-आदिकारणम्-इति। सर्वमपि तया क्रियते, न तु सा केन चित्। तदा-
हुः-'मूलप्रकृतिरविकृतिः' (सां० का० ३) इति। अचैतन्यादेव परिणामित्वम्। तच्चाहुः-
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानम्' (सां का० ११) इति।
केन रूपेण तस्याः परिणाम इत्याह-ततः-इति। ततः=प्रकृतेः। महदहङ्कारेन्द्रियतन्मात्रम-
हाभूतात्मनां त्रयोविंशतेस्तत्त्वानां सर्गः। यद्यपि प्रकृतेर्महान् महतोऽहङ्कार इत्यादिक्रमात् परिणामः,
तथापि प्रकृतेर्मूलकारणत्वात् तत इत्युक्तम्। ननु पुरुषार्थाय हि प्रवर्तते प्रकृतिः, पुरुषार्थश्च भोगे
ऽपवर्गश्च, भोगो विषयानुषङ्गस्तद्वियोगश्च यैः पुरुष उपयुज्यते विभज्यते च त एव शब्दादयः परि-
णामभेदाः सन्तु, कृतमितरेण महदादिपरिणामेन। न च विषयसम्बन्धार्थः तत्संसर्गः, नित्यचैतन्यरू-
पस्य पुरुषस्य स्वभावतः तत्सम्बन्धोपपत्तेरित्याशङ्कयाह-न हि-इति। चितिश्चैतन्यमात्ररूपः
पुरुषः, यदि पुरुषस्वभावानुबन्धी विषयानुषङ्गो भवेत् ततः स्वभावस्यानुच्छेद्यत्वेनानिर्मोक्षः स्या-
दिति। तर्हि प्रकृतेरेवैष स्वभावोऽस्तु यद्विषयपाशैः पुरुषं बध्नाति तत्राह-नापि-इति।
तदीयत्वं तदर्थ्यं, तदीयभोगोपकरणसम्पादकत्वमिति यावत्। तत्स्वभावत्वे प्रकृतेर्नित्यत्वेन
कदाचिदपि निरुपाधित्वानुपपत्तेरनिर्मोक्ष एव पुंस इति। तर्ह्यनित्यस्य घटादेर्विषयस्यैव चैतन्यस-
प्रकाशः।
नुपपत्त्या तत्कल्पनादिति भावः। आत्मनोऽकारणत्वेऽपि सर्गमुपपादयति। आदीति। आदि-
पदाद् महदादिव्यवच्छेदः, तस्य प्रकृत्यनन्तरमुत्पादात्। कारणमिति पुरुषव्यव-
च्छेदः। पुरुषाद्भेदकमाह। अचेतनेति। तत्र हेतुमाह। परिणामिनीति। अनित्यध-
र्माश्रयस्ततः कार्यधर्मात्मतया नश्यति। ततो घटादिवदचेतनेत्यर्थः। तत इति। प्रकृतेर्महत्तत्त्व-
मन्तःकरणं बुद्ध्याख्यम्। "प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात्पञ्चतन्मात्राणी"ति सांख्याः।
ननु किमर्थं महदादिसर्गो मन्तव्यो नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्वित्यत आह। न ही-
ति। चितिः=पुरुषचैतन्यम्। विषयबन्धनम्=विषयावच्छेदः। चैतन्यविषयावच्छेदस्येष्टानिष्टोप-
लब्धिरूपस्य हेतुसापेक्षत्वे हेतोरिन्द्रियादेरङ्गीकारापत्तिः। निरपेक्षतायां सर्वदा तस्य भावादनर्मोक्षः
पुंसः स्यादित्यर्थः। तर्हि प्रकृतिरेव साक्षाद्विषयबन्धनस्वभावाऽस्त्वित्यत आह। नापीति। प्रकृ-
तेः साक्षाद्विषयप्रकाशकस्वभावत्वे तस्याः सदातनत्वे पुनरप्यनिर्मोक्षः पुंसः स्यादित्यर्थः। ननु वि-
प्रकाशिका।
पुरुषाद्भेदकमिति। भेदकान्तरमित्यर्थः। अनित्यधर्मेति। तिरोभाव एव
तन्मतेऽनित्यत्वम्। कार्यधर्मेति। कार्यकारणयोस्तादात्म्यादिति भावः। कार्यत्वं चावि-
र्भावमात्रं तन्मत इति। सांख्या इति। चतुर्विधं जगत् केवलप्रकृत्यात्मकं, केवल-
विकृत्यात्मकं, प्रकृतिविकृत्युभयात्मकम्, अनुभयात्मकं चेति। तत्राद्यं मूलप्रकृतिरित्यु-
च्यते, सा च सत्त्वरजस्तमसां साम्यावस्था, सत्त्वं सुखं, रजो दुःखं, तमो मोहः, सर्वं कार्यं सुख-
दुःखमोहात्मकं तज्जनकत्वात् भोक्तृभेदेन कालभेदेन च तथात्वात्, एवं तत्कारणं प्रकृतिरपि तथा,
मकरन्दः।
भेदकमिति। भेदकान्तरमित्यर्थः। अनित्येति। यद्यपि सर्वानित्यतावादिनस्तस्य नानित्यं,
न वा कार्यम्। तथाप्याविर्भावतिरोभावौ उत्पादविनाशाविति भावः। कार्यधर्मेति। कार्य-
विषयबन्धनेति। इष्टानिष्टोपलब्धिरित्यर्थः।