सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 203, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 203

प्रथमस्तवके ] अपूर्व्वस्य चेतनधर्मत्वाक्षेपः । १६६
तेषामसत्त्वात् । तथा च निरतिशयाश्चेतनाः साधारणानि भूतानीति न भुक्तिनि-
यम उपपद्यते ॥ १३ ॥
एतेन साङ्ख्यमतमपास्तम् ।
एवं हि तत्, अकारणमकार्य्यः कूटस्थचैतन्यस्वरूपः पुरुषः ।
बोधनी ।
बुद्ध्याद्यभावेन बुद्ध्यादिभिः शरीरनियमः, तेन नियतेषु शरीरादिषु बुद्ध्यादयोऽस्य भवन्ति,
तैश्च तन्नियम इति इतरेतराश्रयप्रसङ्गादात्मसमवेतमपूर्व्वमेव नियामकमाङ्गीकर्त्तव्यं, तदनङ्गीकारे
नियमानुपपत्तिमुपसंहरति-तथा च इति । चेतनानामतिशयो नाङ्गीकृतः सातिशयान्यपि भूतानि
साधारणानि न शरीरादेः पूर्व्वं बुद्ध्यादयः सन्ति । तस्मान्न शक्तिनियम उपपद्यते । अत्र प्रयोगः-
भोक्तुः स्वगुणोत्पादिताः शरीरादयः, कार्य्यत्वे सति तद्भोगसाधनत्वात्, स्रगादिवत् । न च
बुद्ध्यादिभिः सिद्धसाध्यता शरीराद्युत्पत्तेः प्राक् तदभावादिति ॥ १३ ॥
एतेन-इति । भोक्तृसमवेतमेवापूर्वं भोगाङ्गिष्यच्छति नान्यसमवेतमिति प्रतिपादनेनेत्यर्थः ।
कथं निरस्तमिति दर्शयितुं तन्मतमेव तावदुपन्स्यस्यति-एवं हि तत्-इति । तन्मते हि
पुरुषो न किञ्चित् करोति न केन चित् क्रियते । यथाहुः-
‘न प्रकृतिर्न विकृतिः पुरुषः’ (सां० का० ३) इति । कूटस्थचैतन्यस्वरूप इति । कूटस्थम्=
अपरिणामि चैतन्यमेव स्वरूपं यस्य स तथोक्तः तदप्याहुः ‘तद्विपरीतस्तथा च पुमान्’ (सां०का० ११)
इति । अत्र चकारोऽप्यर्थः । व्यक्ताव्यक्ताभ्यामनेकत्वाकार्य्यत्वे साधर्म्येऽपि निर्गुणत्वचैतन्यादिभिस्ता-
प्रकाशः ।
संस्काराजन्यत्वेन पक्षविशेषणाद्वेति भावः ॥ १३ ॥
ननु चेतने न भोगो नाप्यदृष्टम् । तस्य कूटस्थत्वात्, किन्तु बुद्धाविति चेतनधर्मस्य निया-
मकत्वमयुक्तमिति सांख्यमतं दूषयति ।
एतेनेति ! चेतनेऽपूर्वानाधाने साधारणविग्रहवत्त्वप्रसङ्गेनेत्यर्थः । शिष्यहितैषितया
तन्मतं प्रपञ्चयति-
एवं हीति । अकारणमित्यनेन प्रकृतेर्भेदः । अकार्य्य इत्यनेन चरमपरिणतिघटादेर्भेदः ।
ननु बुद्ध्याद्यकारणत्वे तस्य तत्र मानाभाव इत्यत आह । कूटस्थेति । अकारणत्वादेव कूटस्थो-
ऽनित्यधर्मोनाश्रयः, कार्यत्वाभावान्न स्वरूपतो नाशः । अकारणत्वाच्च कार्यकारणयोस्तादात्म्यात्
तदात्मतयापि न नाशः । अत एवापूर्व्वं न तस्य गुणः । चैतन्यस्वरूपत्वमपि धर्मधर्मिणोस्तादात्म्यात्
कूटस्थत्वेन चैतन्येन निरूप्यत इति न तत्र मानाभाव इत्यर्थः । बुद्धिगतचैतन्याभिमानान्यथा-
प्रकाशिका ।
तथापि भोगजनकस्यैव शरीरजनकत्वमित्यभिप्राायेणेदम् । यद्यपि धर्मिकल्पनादिति न्यायेन भोगज-
नकत्वं तस्यैव कल्पयितुमर्हम् । तथापि संस्कारस्य स्मृतिमात्रजनकत्वमिति न भोगजनकत्वमि-
त्याशयः ॥ १३ ॥
कूटस्थत्वादिति । जन्यधर्म्मानाश्नयत्वादित्यर्थः । साधारणेति । यद्यपि बुद्धि-
निष्ठापूर्वाधाने भोगसमानाधिकरणमेवादृष्टं नियामकमिति न साधारणविग्रहवत्त्वम् ।
तथापि बुद्धेर्नित्यत्वेऽमोक्षः, अनित्यत्वे तदुत्पत्तेः प्राङ् नियमाकाभावात् साधारण-
विग्रहवत्त्वप्रसङ्ग इत्यर्थः । अकारणत्वाच्चेति । कार्यकारणयोस्तादात्म्यात्तदात्म-
तया नाश इत्यपि न, अकारणत्वादित्यन्वयः । अत एव = अकारणत्वादेव ।
मकरन्दः ।
नात इति न्यायेन भोगजनकत्वमपि तस्यैव कल्पनाहं, तथापि मानान्तरादप्यदृष्टसिद्धयवष्टम्भेने-
दमुक्तमित्येके । संस्कारान्यत्वं गुणविशेषणमित्यन्ये ॥ १३ ॥
साधारणानि भूतानि । कार्यकारणभावभङ्गरूपदोषेण जन्यतामात्रेणापि नियमाभावेन
भूतसाधारण्यम् ॥ १३ ॥
२२ न्या० कु०