न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 172, कुल 608 में से
संदर्भ में पढ़ें१३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्या-
यथा चाभिचारसंस्कारो यं देहमुद्दिश्य प्रयुक्तस्तदपेक्ष एव तत्संबद्धस्यैव दुःख-
मुपजनयति, नान्यस्य । न वा तदनपेक्षः । एवमभिमन्त्रणादिसंस्कारा अपि भव-
न्तो न मनागपि नोपयुज्यन्ते । कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेत चेत्, प्रो-
क्षणादिफलसम्बन्धादेव ।
बोधनी ।
न विधिरेव प्रमाणमिति । अत्रोभयसिद्धं निरूपयति - यथा हि-इति । श्येनेष्वेकद्वित्रिकायभि-
चारकर्मजनितसंस्कारो हि कर्तृगतसमवेतत्वेन भ्रातृव्यदेहानाधारोऽपि उद्देश्यदेहापेक्षस्तत्सम्बद्धस्य
तस्यैवात्मनो मरणादिदुःखं जनयति नान्यस्य, नापि तस्यैव भवान्तरीयसम्बद्धस्येति । दार्ष्टान्तिके-
ऽतिदिशति-एवम्-इति । एवं भवन्तः=उद्देश्यसहकारिणो भवन्त इत्यर्थः । कथं तर्हि-इति ।
व्रीहीनिति द्वितीया तावत् कर्मत्वमवगम्यते, तच्च प्रोक्षणादिक्रियाजन्यफलभागित्वमन्तरेण नोप-
पद्यत इति । प्रोक्षणादि-इति । प्रोक्षणक्रियायास्तावज्जलसंयोगः फलं, तत्फलं च संस्कारः,
प्रकाशः ।
संस्कारस्य नासां दृष्टिकमित्याह । यथा चेति । ननु, व्रीहीन् प्रोक्षतीति द्वितीयाश्रुतेः क्रियाजन्ये-
ष्टफलभागित्वं व्रीहीणां प्रतीयते । न चापूर्वस्य व्रीहिवृत्तित्वं, साक्षात्सम्बन्धस्योत्सर्गिकत्वादित्याहं ।
कथमिति । प्रोक्षणक्रियाजन्यजलसंयोगेन धात्वर्थावच्छेदकफलेन साक्षात्सम्बन्धाद् व्रीहेः कर्मत्व-
मित्याह । प्रोक्षणादीति । न च जलसंयोगस्य कृत्स्नव्रीहिष्वभावः, कपिञ्जलन्यायेन व्रीहित्रय-
जलसंयोगेनैव बहुवचनोपपत्तेः । कालान्तरे कृत्स्नोपादानस्य च कृत्स्नोद्देश्यतामात्रप्रयुक्तत्वात् ।
अन्यथा शक्त्याधानपक्षेऽपि तुल्यत्वात् । न च विध्यपेक्षितफलभागित्वं द्वितीयाऽर्थः, तदव्युत्पत्तेः
ग्रामं गच्छतीत्यादौ तदभावात् , संयोगस्यापि विध्यपेक्षितत्वाच्च । अन्यथा तदनुपयोगापत्तेः । न
प्रकाशिका ।
श्यतया सङ्गतिरपास्ता । पूर्वोक्तन्यायेन । व्यक्तिवचनन्यायेन । अन्यथा शक्त्याधानेति ।
सकलव्रीहिजन्यसंयोगाभावेन शक्त्याधानानुपपत्तेरित्यर्थः । उक्तं हि द्वितीयामात्रार्थो वा वैदिक-
द्वितीयार्थो वा । आद्ये दोषमाह ग्राममिति । अन्त्ये दोषमाह । संयोगस्यापीति । विधिविष-
यक्रियाजन्यफलस्यैव विध्यपेक्षितपदार्थत्वादिति भावः । संयोगस्येति प्रतीतौ विशेषणत्वमेव,
अन्यथा त्यजिगम्योः पर्यायता स्यात् , संयोगस्य प्रोक्षणसाध्यत्वान्वये च संयोगोपलक्षितकर्मणः
साधनत्वेनान्वय इति प्रकाशार्थः, इष्टसाधनताविधिपक्षे क्रियोपलक्षणस्यापीष्टस्य प्रतीतिविशेषण-
तावदविरोधात्, चिन्तामणौ तु त्यजेः स्पन्दमात्रं शक्यं गमेः स्पन्दविशेष इति वस्तुतो लेखनाद्
भिन्नयोः स्पन्दत्वगमनत्वयोः फलानवच्छिन्नयोरेवोभयत्र शक्यतावच्छेदकत्वमिति न पर्यायता-
मकरन्दः ।
विध्यपेक्षितेति । जलसंयोगश्चावघातविरोधितया न तथेति भावः । संयोगस्यापीति ।
टिप्पणी ।
तथा च बर्हिःशब्दस्य यथाश्रुतार्थकत्वे तस्य विनियुक्तस्य विनियोगादर्शनादसङ्गत्यापत्तेः॥ अन्यथा
शक्त्याधानेति । अन्यथा कृत्स्नोद्देश्यत्वस्याप्रयोजकत्वे सकलव्रीहिषु जलसंयोगाभावेन शक्त्या-
धानानुपपत्तेः कृत्स्नानुपपत्तिरिति । फलभागित्वं द्वितीयार्थ इति । यजेतेत्यादौ यागजन्यस्व-
संस्कार्यकर्मेति । अत्र संस्कार्यपदोपादानं दोषसंघटनाय तथा हि प्रोक्षणजन्येष्टफलवत्त्व-
स्यैव तादृशकर्मतात्वेन संस्कारस्य तत्रास्वीकारानुपपत्तिः ।
स्यादेतत् यदि क्रियाजन्येष्टफलशालित्वं कर्मत्वं तदेव न । धात्वर्थतावच्छेदकफलवत्त्वस्यैव
तत्त्वात् तस्य संयोगादिरूपस्य सत्त्वान्न कर्मत्वहानिरित्याह । प्रोक्षणेति ।