सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 149, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 149

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११५
प्रकाशः ।
बन्धकोत्तम्भकसद्भावे तदुभयाभावे वाऽविशिष्टत्वात् ।
ननु उत्तम्भकप्रयोगे मणेरभावो न प्रागभावप्रध्वंसात्मा । तयोः प्रतियोगिसमानकालत्वात् ।
न चोत्तम्भकाभावप्रध्वंसप्रयुक्तेनोत्तम्भकाभाववत्त्वेन मणेर्ध्वंस एवेति वाच्यम् । क्षणभङ्गापत्ते-
रुक्तत्वात् । ध्वंसस्यानन्तत्वेनोत्तम्भकापनयेऽपि दाहप्रसङ्गाच्च । नाप्यत्यन्ताभावः । कादाचित्क-
त्वात् । न च विशेषणाद्यभावप्रत्यासत्तिकादाचित्कत्वात् कादाचित्कप्रतीतिकार्यानुदयाविति वाच्यम् ।
प्रत्यासत्तितावच्छेदकानुगतधर्माभावात् । विशिष्टविरोधित्वस्य च निरस्तत्वात् । मण्यादेः स्वाव-
यववृत्तितया करादौ तदत्यन्ताभावस्य सदातनत्वात् । मणिसमवधानेऽपि दाहापत्तेश्च । मैवम् ।
क्लृप्तसंसर्गाभावत्रयवैधर्म्येऽप्यबाधिप्रतीतेस्तुरीयस्यैव तस्य सिद्धेः । क्लृप्तविशेषबाधतः सामा-
न्यबाधे क्लृप्तानादिसंसर्गाभाववैधर्म्याद् ध्वंसस्याप्यसिद्ध्यापत्तेः । अबाधितसामान्यबुद्धेर्विशेषा-
प्रकाशिका ।
व्यासज्यवृत्तितया तदवच्छिन्नाभावः प्रत्येकाभावेऽप्यस्तीति । प्रध्वंसप्रयुक्त इति । तद्व्यापक
इत्यर्थो न तुतज्जनित इति समानकालत्वादित्यवधेयम् । क्षणभङ्गेति । इदमापाततो वस्तुतो निमि-
तेतरकारणनाशस्य द्रव्यनाशकत्वात् प्रकृते च तदभावान्न मणिनाश इति तात्पर्यम् । प्रत्या-
सत्तिश्चेति । तत्स्वीकारे वा तदेव कारणतावच्छेदकं (१) प्रतीतिविषयतावच्छेदकं चेति किम-
तिरिक्तविशिष्टाभावेनेति भावः ।
मकरन्दः ।
हितस्वरूपद्वयात्मकत्वे उक्तदोषतादवस्थ्यमिति चिन्त्यम् ।
नन्विति । यद्यपि सम्बन्धाभावस्य सिद्धान्तितत्वान्मण्याभावमादाय शङ्का न युक्ता, तथापि
विशेषणावच्छिन्नविशेष्याभाव एव विशिष्टाभाव इति तात्पर्यविषयीभूत मते निर्भरतया तदभिप्रायेण
शङ्केयमिति बोध्यम् । प्रत्यासत्तिश्चेति । भावे वा विशेषणाभावादेव तेन रूपेण हेतुत्वम-
स्त्विति भावः । तन्मताभिप्रायेणैव सिद्धान्तमाह । क्लृप्तेति । प्रकृते स्वरूपसंबन्धतया मणेरेव
तत्संबन्धरूपत्वात्तदादाय शङ्कादिकमित्यप्याहुः । क्लृप्तैर्नवोपपत्तावक्लृप्तरूपकल्पने गौरवादित्य-
टिप्पणी ।
स्वरूपसम्बन्धत्वादिति । तादृशयोग्यत्वालङ्गितस्वरूपस्येत्यर्थः । योग्यत्वस्य निरूपयि-
तुमशक्यत्वाद् व्यासज्यवृत्तिविशिष्टप्रत्ययविषयत्वं सम्बन्धत्वं तयोः स्वीकृत्य तदवच्छिन्नप्रतियो-
गिताकोऽयमभावः । वैशिष्ट्यावच्छिन्नविशेष्यनिष्ठप्रतियोगिताकोऽयमभावः स्वीक्रियत इत्यत्र ता-
त्पर्य्यम् । तेन मण्यभावविकल्पविषयकस्य ननूत्तेजकेत्याद्युत्तरग्रन्थस्य नासङ्गतिः । सम्बन्धाभावे
तस्योत्थानासम्भवात् । अत एव तदुभयसम्बन्धस्य भूतलादावभावेन दण्डिपुरुषसत्त्वेऽपि दण्डी-
पुरुषो नास्तीति प्रत्ययप्रसङ्ग इति शङ्का सुसमाहिता । अन्यथावच्छेदकत्वसम्बन्धावच्छिन्नप्रति-
योगिताकोऽभावो वाच्यः । कालिकेन कार्यावच्छेदकदेशावच्छिन्नकार्यहेतुत्वं वा तस्य वाच्यम् ।
अवच्छेदकत्वस्यैव तन्नियामकत्वन्न, अवच्छेदकत्वञ्चेह गृहे भूतले वा दण्डपुरुषयोः सम्बन्धो न
सर्वत्रेत्यनुभवसिद्ध इत्येव समाधेयं स्यादिति ॥०॥ नचोत्तम्भकाभावप्रध्वंसप्रयुक्तेनेति ।
उत्पत्तिविनाशशालितुरीयाभावाभिप्रायेण प्रागभावाभिप्रायेण वा ॥०॥ न च विशेषणाद्यभावप्रत्या-
सत्तीति । विशेषणाभावरूपविशिष्टात्यन्ताभावरूपा प्रत्यासत्तीत्यर्थः । कादाचित्कत्वात् ।
कादाचित्कत्वप्रतीतीतिविशिष्टात्यन्ताभावकादाचित्केत्यर्थः । प्रत्यासत्तितावच्छेदकानुगत-
( १ ) तत्तत्प्रतीतिविषयप्रतियोगितावच्छेदकमित्यर्थः ।